| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
दाक्षायणी गता तत्र तत्र यज्ञो महाप्रभः ॥ सुरासुरमुनीन्द्रादिकुतूहलसमन्वितः ॥ १ ॥
दाक्षायणी गता तत्र तत्र यज्ञः महा-प्रभः ॥ सुर-असुर-मुनि-इन्द्र-आदि-कुतूहल-समन्वितः ॥ १ ॥
dākṣāyaṇī gatā tatra tatra yajñaḥ mahā-prabhaḥ .. sura-asura-muni-indra-ādi-kutūhala-samanvitaḥ .. 1 ..
स्वपितुर्भवनं तत्र नानाश्चर्यसमन्वितम् ॥ ददर्श सुप्रभं चारु सुरर्षिगण संयुतम् ॥ २ ॥
स्व-पितुः भवनम् तत्र नाना आश्चर्य-समन्वितम् ॥ ददर्श सु प्रभम् चारु सुर-ऋषि-गण संयुतम् ॥ २ ॥
sva-pituḥ bhavanam tatra nānā āścarya-samanvitam .. dadarśa su prabham cāru sura-ṛṣi-gaṇa saṃyutam .. 2 ..
द्वारि स्थिता तदा देवी ह्यवरुह्य निजासनात् ॥ नन्दिनोऽभ्यंतरं शीघ्रमेकैवागच्छदध्वरम् ॥ ३ ॥
द्वारि स्थिता तदा देवी हि अवरुह्य निज-आसनात् ॥ नन्दिनः अभ्यंतरम् शीघ्रम् एका एवा अगच्छत् अध्वरम् ॥ ३ ॥
dvāri sthitā tadā devī hi avaruhya nija-āsanāt .. nandinaḥ abhyaṃtaram śīghram ekā evā agacchat adhvaram .. 3 ..
आगतां च सतीं दृष्ट्वाऽसिक्नी माता यशस्विनी ॥ अकरोदादरं तस्या भगिन्यश्च यथोचितम् ॥ ४ ॥
आगताम् च सतीम् दृष्ट्वा असिक्नी माता यशस्विनी ॥ अकरोत् आदरम् तस्याः भगिन्यः च यथोचितम् ॥ ४ ॥
āgatām ca satīm dṛṣṭvā asiknī mātā yaśasvinī .. akarot ādaram tasyāḥ bhaginyaḥ ca yathocitam .. 4 ..
नाकरोदादरं दक्षो दृष्ट्वा तामपि किंचन ॥ नान्योपि तद्भयात्तत्र शिवमायाविमोहितः ॥ ५ ॥
न अकरोत् आदरम् दक्षः दृष्ट्वा ताम् अपि किंचन ॥ न अन्यः अपि तद्-भयात् तत्र शिव-माया-विमोहितः ॥ ५ ॥
na akarot ādaram dakṣaḥ dṛṣṭvā tām api kiṃcana .. na anyaḥ api tad-bhayāt tatra śiva-māyā-vimohitaḥ .. 5 ..
अथ सा मातरं देवी पितरं च सती मुने ॥ अनमद्विस्मितात्यंतं सर्वलोक पराभवात् ॥ ६ ॥
अथ सा मातरम् देवी पितरम् च सती मुने ॥ अनमत् विस्मित-अत्यन्तम् सर्व-लोक पराभवात् ॥ ६ ॥
atha sā mātaram devī pitaram ca satī mune .. anamat vismita-atyantam sarva-loka parābhavāt .. 6 ..
भागानपश्यद्देवानां हर्यादीनां तदध्वरे ॥ न शंभुभागमकरोत् क्रोधं दुर्विषहं सती ॥ ७ ॥
भागान् अपश्यत् देवानाम् हरि-आदीनाम् तद्-अध्वरे ॥ न शंभु-भागम् अकरोत् क्रोधम् दुर्विषहम् सती ॥ ७ ॥
bhāgān apaśyat devānām hari-ādīnām tad-adhvare .. na śaṃbhu-bhāgam akarot krodham durviṣaham satī .. 7 ..
सत्युवाच ।।
तदा दक्षं दहन्तीव रुषा पूर्णा सती भृशम् ॥ क्रूरदृष्ट्या विलोक्यैव सर्वानप्यपमानिता ॥ ८ ॥
तदा दक्षम् दहन्ती इव रुषा पूर्णा सती भृशम् ॥ क्रूर-दृष्ट्या विलोक्य एव सर्वान् अपि अपमानिता ॥ ८ ॥
tadā dakṣam dahantī iva ruṣā pūrṇā satī bhṛśam .. krūra-dṛṣṭyā vilokya eva sarvān api apamānitā .. 8 ..
सत्युवाच ।।
अनाहूतस्त्वया कस्माच्छंभुः परमशोभनः ॥ येन पूतमिदं विश्वं समग्रं सचराचरम् ॥ ९ ॥
अनाहूतः त्वया कस्मात् शंभुः परम-शोभनः ॥ येन पूतम् इदम् विश्वम् समग्रम् सचराचरम् ॥ ९ ॥
anāhūtaḥ tvayā kasmāt śaṃbhuḥ parama-śobhanaḥ .. yena pūtam idam viśvam samagram sacarācaram .. 9 ..
यज्ञो यज्ञविदां श्रेष्ठो यज्ञांगो यज्ञदक्षिणः ॥ यज्ञकर्ता च यश्शंभुस्तं विना च कथं मखः ॥ 2.2.29.१० ॥
यज्ञः यज्ञ-विदाम् श्रेष्ठः यज्ञ-अंगः यज्ञ-दक्षिणः ॥ यज्ञ-कर्ता च यः शंभुः तम् विना च कथम् मखः ॥ २।२।२९।१० ॥
yajñaḥ yajña-vidām śreṣṭhaḥ yajña-aṃgaḥ yajña-dakṣiṇaḥ .. yajña-kartā ca yaḥ śaṃbhuḥ tam vinā ca katham makhaḥ .. 2.2.29.10 ..
यस्य स्मरणमात्रेण सर्वं पूतं भवत्यहो ॥ विना तेन कृतं सर्वमपवित्रं भविष्यति ॥ ११॥
यस्य स्मरण-मात्रेण सर्वम् पूतम् भवति अहो ॥ विना तेन कृतम् सर्वम् अपवित्रम् भविष्यति ॥ ११॥
yasya smaraṇa-mātreṇa sarvam pūtam bhavati aho .. vinā tena kṛtam sarvam apavitram bhaviṣyati .. 11..
द्रव्यमंत्रादिकं सर्वं हव्यं कव्यं च यन्मयम् ॥ शंभुना हि विना तेन कथं यज्ञः प्रवर्तितः ॥ १२॥
द्रव्य-मंत्र-आदिकम् सर्वम् हव्यम् कव्यम् च यद्-मयम् ॥ शंभुना हि विना तेन कथम् यज्ञः प्रवर्तितः ॥ १२॥
dravya-maṃtra-ādikam sarvam havyam kavyam ca yad-mayam .. śaṃbhunā hi vinā tena katham yajñaḥ pravartitaḥ .. 12..
किं शिवं सुरसामान्यं मत्याकार्षीरनादरम् ॥ भ्रष्टबुद्धिर्भवानद्य जातोसि जनकाधम ॥ १३ ॥
किम् शिवम् सुर-सामान्यम् मत्या अकार्षीः अनादरम् ॥ भ्रष्ट-बुद्धिः भवान् अद्य जातः असि जनक-अधम ॥ १३ ॥
kim śivam sura-sāmānyam matyā akārṣīḥ anādaram .. bhraṣṭa-buddhiḥ bhavān adya jātaḥ asi janaka-adhama .. 13 ..
विष्णुब्रह्मादयो देवा यं संसेव्य महेश्वरम् ॥ प्राप्ताः स्वपदवीं सर्वे तं न जानासि रे हरम् ॥ १४ ॥
विष्णु-ब्रह्म-आदयः देवाः यम् संसेव्य महेश्वरम् ॥ प्राप्ताः स्व-पदवीम् सर्वे तम् न जानासि रे हरम् ॥ १४ ॥
viṣṇu-brahma-ādayaḥ devāḥ yam saṃsevya maheśvaram .. prāptāḥ sva-padavīm sarve tam na jānāsi re haram .. 14 ..
एते कथं समायाता विष्णुब्रह्मादयस्सुराः ॥ तव यज्ञे विना शंभुं स्वप्रभुं मुनयस्तथा ॥ १५ ॥
एते कथम् समायाताः विष्णु-ब्रह्म-आदयः सुराः ॥ तव यज्ञे विना शंभुम् स्व-प्रभुम् मुनयः तथा ॥ १५ ॥
ete katham samāyātāḥ viṣṇu-brahma-ādayaḥ surāḥ .. tava yajñe vinā śaṃbhum sva-prabhum munayaḥ tathā .. 15 ..
ब्रह्मोवाच ।।
इत्युक्त्वा परमेशानी विष्ण्वादीन्सकलान् प्रति ॥ पृथक्पृथगवोचत्सा भर्त्सयंती भवात्मिका ॥ १६ ॥
इति उक्त्वा परमेशानी विष्णु-आदीन् सकलान् प्रति ॥ पृथक् पृथक् अवोचत् सा भर्त्सयंती भव-आत्मिका ॥ १६ ॥
iti uktvā parameśānī viṣṇu-ādīn sakalān prati .. pṛthak pṛthak avocat sā bhartsayaṃtī bhava-ātmikā .. 16 ..
सत्युवाच ।।
हे विष्णो त्वं महादेवं किं न जानासि तत्त्वतः ॥ सगुणं निर्गुणं चापि श्रुतयो यं वदंति ह ॥ १७ ॥
हे विष्णो त्वम् महादेवम् किम् न जानासि तत्त्वतः ॥ स गुणम् निर्गुणम् च अपि श्रुतयः यम् वदंति ह ॥ १७ ॥
he viṣṇo tvam mahādevam kim na jānāsi tattvataḥ .. sa guṇam nirguṇam ca api śrutayaḥ yam vadaṃti ha .. 17 ..
यद्यपि त्वां करं दत्त्वा बहुवारं महेश्वरः ॥ अशिक्षयत्पुरा शाल्वप्रमुखाकृतिभिर्हरे॥ १८॥
यदि अपि त्वाम् करम् दत्त्वा बहु-वारम् महेश्वरः ॥ अशिक्षयत् पुरा शाल्व-प्रमुख-आकृतिभिः हरे॥ १८॥
yadi api tvām karam dattvā bahu-vāram maheśvaraḥ .. aśikṣayat purā śālva-pramukha-ākṛtibhiḥ hare.. 18..
तदपि ज्ञानमायातं न ते चेतसि दुर्मते ॥ भागार्थी दक्षयज्ञेस्मिन् शिवं स्वस्वामिनं विना ॥ १९॥
तत् अपि ज्ञानम् आयातम् न ते चेतसि दुर्मते ॥ भाग-अर्थी दक्ष-यज्ञे इस्मिन् शिवम् स्व-स्वामिनम् विना ॥ १९॥
tat api jñānam āyātam na te cetasi durmate .. bhāga-arthī dakṣa-yajñe ismin śivam sva-svāminam vinā .. 19..
पुरा पंचमुखो भूत्वा गर्वितोऽसि सदाशिवम् ॥ कृतश्चतुर्मुखस्तेन विस्मृतोसि तदद्भुतम् ॥ 2.2.29.२० ॥
पुरा पंचमुखः भूत्वा गर्वितः असि सदाशिवम् ॥ कृतः चतुर्मुखः तेन विस्मृतः उसि तत् अद्भुतम् ॥ २।२।२९।२० ॥
purā paṃcamukhaḥ bhūtvā garvitaḥ asi sadāśivam .. kṛtaḥ caturmukhaḥ tena vismṛtaḥ usi tat adbhutam .. 2.2.29.20 ..
इन्द्र त्वं किं न जानासि महादेवस्य विक्रमम् ॥ भस्मी कृतः पविस्ते हि हरेण क्रूरकर्मणा ॥ २१ ॥
इन्द्र त्वम् किम् न जानासि महादेवस्य विक्रमम् ॥ भस्मी कृतः पविः ते हि हरेण क्रूर-कर्मणा ॥ २१ ॥
indra tvam kim na jānāsi mahādevasya vikramam .. bhasmī kṛtaḥ paviḥ te hi hareṇa krūra-karmaṇā .. 21 ..
हे सुराः किन्न जानीथ महादेवस्य विक्रमम् ॥ अत्रे वसिष्ठ मुनयो युष्माभिः किं कृतं त्विह ॥ २२ ॥
हे सुराः किन् न जानीथ महादेवस्य विक्रमम् ॥ अत्रे वसिष्ठ मुनयः युष्माभिः किम् कृतम् तु इह ॥ २२ ॥
he surāḥ kin na jānītha mahādevasya vikramam .. atre vasiṣṭha munayaḥ yuṣmābhiḥ kim kṛtam tu iha .. 22 ..
भिक्षाटनं च कृतवान् पुरा दारुवने विभुः ॥ शप्तो यद्भिक्षुको रुद्रो भवद्भिर्मुनिभिस्तदा ॥ २३ ॥
भिक्षाटनम् च कृतवान् पुरा दारु-वने विभुः ॥ शप्तः यत् भिक्षुकः रुद्रः भवद्भिः मुनिभिः तदा ॥ २३ ॥
bhikṣāṭanam ca kṛtavān purā dāru-vane vibhuḥ .. śaptaḥ yat bhikṣukaḥ rudraḥ bhavadbhiḥ munibhiḥ tadā .. 23 ..
शप्तेनापि च रुद्रेण यत्कृतं विस्मृतं कथम् ॥ तल्लिंगेनाखिलं दग्धं भुवनं सचराचरम् ॥ २४ ॥
शप्तेन अपि च रुद्रेण यत् कृतम् विस्मृतम् कथम् ॥ तद्-लिंगेन अखिलम् दग्धम् भुवनम् सचराचरम् ॥ २४ ॥
śaptena api ca rudreṇa yat kṛtam vismṛtam katham .. tad-liṃgena akhilam dagdham bhuvanam sacarācaram .. 24 ..
सर्वे मूढाश्च संजाता विष्णुब्रह्मादयस्सुराः ॥ मुनयोऽन्ये विना शंभुमागता यदिहाध्वरे ॥ २५ ॥
सर्वे मूढाः च संजाताः विष्णु-ब्रह्म-आदयः सुराः ॥ मुनयः अन्ये विना शंभुम् आगताः यत् इह अध्वरे ॥ २५ ॥
sarve mūḍhāḥ ca saṃjātāḥ viṣṇu-brahma-ādayaḥ surāḥ .. munayaḥ anye vinā śaṃbhum āgatāḥ yat iha adhvare .. 25 ..
सर्वे वेदाश्च संभूताः सांगाश्शास्त्राणि वाग्यतः ॥ योसौ वेदांतगश्शम्भुः कैश्चिज्ज्ञातुं न पार्यते ॥ २६ ॥
सर्वे वेदाः च संभूताः स अंगाः शास्त्राणि वाग्यतः ॥ यः असौ वेदांत-गः शम्भुः कैश्चिद् ज्ञातुम् न पार्यते ॥ २६ ॥
sarve vedāḥ ca saṃbhūtāḥ sa aṃgāḥ śāstrāṇi vāgyataḥ .. yaḥ asau vedāṃta-gaḥ śambhuḥ kaiścid jñātum na pāryate .. 26 ..
ब्रह्मोवाच ।।
इत्यनेकविधा वाणीरगदज्जगदम्बिका ॥ कोपान्विता सती तत्र हृदयेन विदूयता ॥ २७ ॥
इति अनेकविधा वाणीः अगदत् जगदम्बिका ॥ कोप-अन्विता सती तत्र हृदयेन विदूयता ॥ २७ ॥
iti anekavidhā vāṇīḥ agadat jagadambikā .. kopa-anvitā satī tatra hṛdayena vidūyatā .. 27 ..
विष्ण्वादयोखिला देवा मुनयो ये च तद्वचः ॥ मौनीभूतास्तदाकर्ण्य भयव्याकुलमानसाः ॥ २८ ॥
विष्णु-आदयः उखिलाः देवाः मुनयः ये च तद्-वचः ॥ मौनीभूताः तत् आकर्ण्य भय-व्याकुल-मानसाः ॥ २८ ॥
viṣṇu-ādayaḥ ukhilāḥ devāḥ munayaḥ ye ca tad-vacaḥ .. maunībhūtāḥ tat ākarṇya bhaya-vyākula-mānasāḥ .. 28 ..
अथ दक्षस्समाकर्ण्य स्वपुत्र्यास्तादृशं वचः॥ विलोक्य क्रूरदृष्ट्या तां सतीं कुद्धोऽब्रवीद्वचः ॥ २९॥
अथ दक्षः समाकर्ण्य स्व-पुत्र्याः तादृशम् वचः॥ विलोक्य क्रूर-दृष्ट्या ताम् सतीम् कुद्धः अब्रवीत् वचः ॥ २९॥
atha dakṣaḥ samākarṇya sva-putryāḥ tādṛśam vacaḥ.. vilokya krūra-dṛṣṭyā tām satīm kuddhaḥ abravīt vacaḥ .. 29..
दक्ष उवाच ।।
तव किं बहुनोक्तेन कार्यं नास्तीह सांप्रतम् ॥ गच्छ वा तिष्ठ वा भद्रे कस्मात्त्वं हि समागता ॥ 2.2.29.३०॥
तव किम् बहुना उक्तेन कार्यम् ना अस्ति इह सांप्रतम् ॥ गच्छ वा तिष्ठ वा भद्रे कस्मात् त्वम् हि समागता ॥ २।२।२९।३०॥
tava kim bahunā uktena kāryam nā asti iha sāṃpratam .. gaccha vā tiṣṭha vā bhadre kasmāt tvam hi samāgatā .. 2.2.29.30..
अमंगलस्तु ते भर्ता शिवोसौ गम्यते बुधैः ॥ अकुलीको वेदबाह्यो भूतप्रेतपिशाचराट् ॥ ३१॥
अमंगलः तु ते भर्ता शिवः असौ गम्यते बुधैः ॥ ॥ ३१॥
amaṃgalaḥ tu te bhartā śivaḥ asau gamyate budhaiḥ .. .. 31..
तस्मान्नाह्वारितो रुद्रो यज्ञार्थं सुकुवेषभृत् ॥ देवर्षिसंसदि मया ज्ञात्वा पुत्रि विपश्चिता ॥ ३२॥
तस्मात् न आह्वारितः रुद्रः यज्ञ-अर्थम् सु कु वेष-भृत् ॥ देव-ऋषि-संसदि मया ज्ञात्वा पुत्रि विपश्चिता ॥ ३२॥
tasmāt na āhvāritaḥ rudraḥ yajña-artham su ku veṣa-bhṛt .. deva-ṛṣi-saṃsadi mayā jñātvā putri vipaścitā .. 32..
विधिना प्रेरितेन त्वं दत्ता मंदेन पापिना॥ रुद्रायाविदितार्थाय चोद्धताय दुरात्मने ॥ ३३॥
विधिना प्रेरितेन त्वम् दत्ता मंदेन पापिना॥ रुद्राय अ विदित-अर्थाय च उद्धताय दुरात्मने ॥ ३३॥
vidhinā preritena tvam dattā maṃdena pāpinā.. rudrāya a vidita-arthāya ca uddhatāya durātmane .. 33..
तस्मात्कोपं परित्यज्य स्वस्था भव शुचिस्मिते ॥ यद्यागतासि यज्ञेस्मिन् दायं गृह्णीष्व चात्मना॥ ३४॥
तस्मात् कोपम् परित्यज्य स्वस्था भव शुचि-स्मिते ॥ यदि आगता असि यज्ञे स्मिन् दायम् गृह्णीष्व च आत्मना॥ ३४॥
tasmāt kopam parityajya svasthā bhava śuci-smite .. yadi āgatā asi yajñe smin dāyam gṛhṇīṣva ca ātmanā.. 34..
ब्रह्मोवाच।।
दक्षेणोक्तेति सा पुत्री सती त्रैलोक्यपू जिता ॥ निंदायुक्तं स्वपितरं दृष्ट्वासीद्रुषिता भृशम् ॥ ३५ ॥
दक्षेण उक्ता इति सा पुत्री सती जिता ॥ निंदा-युक्तम् स्व-पितरम् दृष्ट्वा आसीत् रुषिता भृशम् ॥ ३५ ॥
dakṣeṇa uktā iti sā putrī satī jitā .. niṃdā-yuktam sva-pitaram dṛṣṭvā āsīt ruṣitā bhṛśam .. 35 ..
अर्चितयत्तदा सेति कथं यास्यामि शंकरम् ॥ शंकरं द्रष्टुकामाहं पृष्टा वक्ष्ये किमुत्तरम् ॥ ३६ ॥
अर्चितयत् तदा सा इति कथम् यास्यामि शंकरम् ॥ शंकरम् द्रष्टु-कामा अहम् पृष्टा वक्ष्ये किम् उत्तरम् ॥ ३६ ॥
arcitayat tadā sā iti katham yāsyāmi śaṃkaram .. śaṃkaram draṣṭu-kāmā aham pṛṣṭā vakṣye kim uttaram .. 36 ..
अथ प्रोवाच पितरं दक्षं तं दुष्टमानसम् ॥ निश्श्वसंती रुषाविष्टा सा सती त्रिजगत्प्रसूः ॥ ३७ ॥
अथ प्रोवाच पितरम् दक्षम् तम् दुष्ट-मानसम् ॥ निश्श्वसंती रुषा आविष्टा सा सती त्रिजगत्प्रसूः ॥ ३७ ॥
atha provāca pitaram dakṣam tam duṣṭa-mānasam .. niśśvasaṃtī ruṣā āviṣṭā sā satī trijagatprasūḥ .. 37 ..
सत्युवाच ।।
यो निंदति महादेवं निंद्यमानं शृणोति वा ॥ तावुभौ नरकं यातौ यावच्चन्द्रदिवाकरौ ॥ ३८ ॥
यः निंदति महादेवम् निंद्यमानम् शृणोति वा ॥ तौ उभौ नरकम् यातौ यावत् चन्द्र-दिवाकरौ ॥ ३८ ॥
yaḥ niṃdati mahādevam niṃdyamānam śṛṇoti vā .. tau ubhau narakam yātau yāvat candra-divākarau .. 38 ..
तस्मात्त्यक्ष्याम्यहं देवं प्रवेक्ष्यामि हुताशनम् ॥ किं जीवितेन मे तात शृण्वंत्यानादरं प्रभोः ॥ ३९ ॥
तस्मात् त्यक्ष्यामि अहम् देवम् प्रवेक्ष्यामि हुताशनम् ॥ किम् जीवितेन मे तात शृण्वंति आनादरम् प्रभोः ॥ ३९ ॥
tasmāt tyakṣyāmi aham devam pravekṣyāmi hutāśanam .. kim jīvitena me tāta śṛṇvaṃti ānādaram prabhoḥ .. 39 ..
यदि शक्तस्स्वयं शंभोर्निंदकस्य विशेषतः ॥ छिंद्यात् प्रसह्य रसनां तदा शुद्ध्येन्न संशयः ॥ 2.2.29.४०॥
यदि शक्तः स्वयम् शंभोः निंदकस्य विशेषतः ॥ छिन्द्यात् प्रसह्य रसनाम् तदा संशयः ॥ २।२।२९।४०॥
yadi śaktaḥ svayam śaṃbhoḥ niṃdakasya viśeṣataḥ .. chindyāt prasahya rasanām tadā saṃśayaḥ .. 2.2.29.40..
यद्यशक्तो जनस्तत्र निरयात्सुपिधाय वै ॥ कर्णौ धीमान् ततश्शुद्ध्येद्वदंतीदं बुधान्वरान् ॥ ४१॥
यदि अशक्तः जनः तत्र निरयात् सु पिधाय वै ॥ कर्णौ धीमान् ततस् शुद्ध्या इद् वदन्ति इदम् बुधान् वरान् ॥ ४१॥
yadi aśaktaḥ janaḥ tatra nirayāt su pidhāya vai .. karṇau dhīmān tatas śuddhyā id vadanti idam budhān varān .. 41..
ब्रह्मोवाच ।।
इत्थमुक्त्वा धर्मनीतिं पश्चात्तापमवाप सा ॥ अस्मरच्छांकरं वाक्यं दूयमानेन चेतसा ॥ ४२॥
इत्थम् उक्त्वा धर्म-नीतिम् पश्चात्तापम् अवाप सा ॥ अस्मरत् शांकरम् वाक्यम् दूयमानेन चेतसा ॥ ४२॥
ittham uktvā dharma-nītim paścāttāpam avāpa sā .. asmarat śāṃkaram vākyam dūyamānena cetasā .. 42..
ततस्संकुद्ध्य सा दक्षं निश्शंकं प्राह तानपि ॥ सर्वान्विष्ण्वादिकान्देवान्मुनीनपि सती ध्रुवम् ॥ ४३॥
ततस् संकुद्ध्य सा दक्षम् निश्शंकम् प्राह तान् अपि ॥ सर्वान् विष्णु-आदिकान् देवान् मुनीन् अपि सती ध्रुवम् ॥ ४३॥
tatas saṃkuddhya sā dakṣam niśśaṃkam prāha tān api .. sarvān viṣṇu-ādikān devān munīn api satī dhruvam .. 43..
सत्युवाच ।।
तात त्वं निंदकश्शंभोः पश्चात्तापं गमिष्यसि ॥ इह भुक्त्वा महादुःखमंते यास्यसि यातनाम् ॥ ४४ ॥
तात त्वम् निंदकः शंभोः पश्चात्तापम् गमिष्यसि ॥ इह भुक्त्वा महा-दुःखम् अन्ते यास्यसि यातनाम् ॥ ४४ ॥
tāta tvam niṃdakaḥ śaṃbhoḥ paścāttāpam gamiṣyasi .. iha bhuktvā mahā-duḥkham ante yāsyasi yātanām .. 44 ..
यस्य लोकेऽप्रियो नास्ति प्रियश्चैव परात्मनः ॥ तस्मिन्नवैरे शर्वेस्मिन् त्वां विना कः प्रतीपकः ॥ ४५ ॥
यस्य लोके अप्रियः ना अस्ति प्रियः च एव परात्मनः ॥ तस्मिन् अ वैरे शर्वे इस्मिन् त्वाम् विना कः प्रतीपकः ॥ ४५ ॥
yasya loke apriyaḥ nā asti priyaḥ ca eva parātmanaḥ .. tasmin a vaire śarve ismin tvām vinā kaḥ pratīpakaḥ .. 45 ..
महद्विनिंदा नाश्चर्यं सर्वदाऽसत्सु सेर्ष्यकम् ॥ महदंघ्रिरजो ध्वस्ततमस्सु सैव शोभना ॥ ४६ ॥
महत् विनिंदा न आश्चर्यम् सर्वदा असत्सु स ईर्ष्यकम् ॥ महत् अंघ्रि-रजः ध्वस्त-तमःसु सा एव शोभना ॥ ४६ ॥
mahat viniṃdā na āścaryam sarvadā asatsu sa īrṣyakam .. mahat aṃghri-rajaḥ dhvasta-tamaḥsu sā eva śobhanā .. 46 ..
शिवेति द्व्यक्षरं यस्य नृणां नाम गिरेरितम् ॥ सकृत्प्रसंगात्सकलमघमाशु विहंति तत् ॥ ४७ ॥
शिव-इति द्वि-अक्षरम् यस्य नृणाम् नाम गिरा ईरितम् ॥ सकृत् प्रसंगात् सकलम् अघम् आशु विहंति तत् ॥ ४७ ॥
śiva-iti dvi-akṣaram yasya nṛṇām nāma girā īritam .. sakṛt prasaṃgāt sakalam agham āśu vihaṃti tat .. 47 ..
पवित्रकीर्तितमलं भवान् द्वेष्टि शिवेतरः ॥ अलंघ्यशासनं शंभुमहो सर्वेश्वरं खलः ॥ ४८ ॥
पवित्र-कीर्तित-मलम् भवान् द्वेष्टि शिव-इतरः ॥ अ लंघ्य-शासनम् शंभुम् अहो सर्व-ईश्वरम् खलः ॥ ४८ ॥
pavitra-kīrtita-malam bhavān dveṣṭi śiva-itaraḥ .. a laṃghya-śāsanam śaṃbhum aho sarva-īśvaram khalaḥ .. 48 ..
यत्पादपद्मं महतां मनोऽलिसुनिषेवितम् ॥ सर्वार्थदं ब्रह्मरसैः सर्वार्थिभिरथादरात् ॥ ४९॥
यद्-पाद-पद्मम् महताम् मनः-अलि-सु निषेवितम् ॥ सर्व-अर्थ-दम् ब्रह्म-रसैः सर्व-अर्थिभिः अथ आदरात् ॥ ४९॥
yad-pāda-padmam mahatām manaḥ-ali-su niṣevitam .. sarva-artha-dam brahma-rasaiḥ sarva-arthibhiḥ atha ādarāt .. 49..
यद्वर्षत्यर्थिनश्शीघ्रं लोकस्य शिवआदरात् ॥ भवान् द्रुह्यति मूर्खत्वात्तस्मै चाशेषबंधवे ॥ 2.2.29.५०॥
यत् वर्षति अर्थिनः शीघ्रम् लोकस्य शिव-आदरात् ॥ भवान् द्रुह्यति मूर्ख-त्वात् तस्मै च अशेष-बंधवे ॥ २।२।२९।५०॥
yat varṣati arthinaḥ śīghram lokasya śiva-ādarāt .. bhavān druhyati mūrkha-tvāt tasmai ca aśeṣa-baṃdhave .. 2.2.29.50..
किंवा शिवाख्यमशिवं त्वदन्ये न विदुर्बुधाः ॥ ब्रह्मादयस्तं मुनयस्सनकाद्यास्तथापरे ॥ ५१ ॥
किंवा शिव-आख्यम् अशिवम् त्वद्-अन्ये न विदुः बुधाः ॥ ब्रह्म-आदयः तम् मुनयः सनक-आद्याः तथा अपरे ॥ ५१ ॥
kiṃvā śiva-ākhyam aśivam tvad-anye na viduḥ budhāḥ .. brahma-ādayaḥ tam munayaḥ sanaka-ādyāḥ tathā apare .. 51 ..
अवकीर्य जटाभूतैश्श्मशाने स कपालधृक् ॥ तन्माल्यभस्म वा ज्ञात्वा प्रीत्यावसदुदारधीः ॥ ५२ ॥
अवकीर्य जटा-भूतैः श्मशाने स कपालधृक् ॥ तत् माल्य-भस्म वा ज्ञात्वा प्रीत्या अवसत्-उदार-धीः ॥ ५२ ॥
avakīrya jaṭā-bhūtaiḥ śmaśāne sa kapāladhṛk .. tat mālya-bhasma vā jñātvā prītyā avasat-udāra-dhīḥ .. 52 ..
ये मूर्द्धभिर्दधति तच्चरणोत्सृष्टमाराद् ॥ निर्माल्यं मुनयो देवास्स शिवः परमेश्वरः ॥ ५३॥
ये मूर्द्धभिः दधति तद्-चरण-उत्सृष्टम् आरात् ॥ निर्माल्यम् मुनयः देवाः स शिवः परमेश्वरः ॥ ५३॥
ye mūrddhabhiḥ dadhati tad-caraṇa-utsṛṣṭam ārāt .. nirmālyam munayaḥ devāḥ sa śivaḥ parameśvaraḥ .. 53..
प्रवृत्तं च निवृत्तं च द्विविधं कर्मचोदि तम् ॥ वेदे विविच्य वृत्तं च तद्विचार्यं मनीषिभिः ॥ ५४॥
प्रवृत्तम् च निवृत्तम् च द्विविधम् कर्म-चोदि तम् ॥ वेदे विविच्य वृत्तम् च तत् विचार्यम् मनीषिभिः ॥ ५४॥
pravṛttam ca nivṛttam ca dvividham karma-codi tam .. vede vivicya vṛttam ca tat vicāryam manīṣibhiḥ .. 54..
विरोधियौगपद्यैककर्तृके च तथा द्वयम् ॥ परब्रह्मणि शंभो तु कर्मर्च्छंति न किंचन ॥ ५५ ॥
विरोधि-यौगपद्य-एक-कर्तृके च तथा द्वयम् ॥ पर-ब्रह्मणि शंभो तु न किंचन ॥ ५५ ॥
virodhi-yaugapadya-eka-kartṛke ca tathā dvayam .. para-brahmaṇi śaṃbho tu na kiṃcana .. 55 ..
मा वः पदव्यस्स्म पितर्या अस्मदास्थितास्सदा ॥ यज्ञशालासु वो धूम्रवर्त्मभुक्तोज्झिताः परम् ॥ ५६॥
मा वः पदव्यः स्म पितर्याः अस्मत् आस्थिताः सदा ॥ यज्ञ-शालासु वः धूम्रवर्त्म-भुक्त-उज्झिताः परम् ॥ ५६॥
mā vaḥ padavyaḥ sma pitaryāḥ asmat āsthitāḥ sadā .. yajña-śālāsu vaḥ dhūmravartma-bhukta-ujjhitāḥ param .. 56..
नोऽव्यक्तलिंगस्सततमवधूतसुसेवितः॥ अभिमानमतो न त्वं कुरु तात कुबुद्धिधृक् ॥ ५७॥
नः अव्यक्त-लिंगः सततम् अवधूत-सु सेवितः॥ अभिमानम् अतस् न त्वम् कुरु तात कु बुद्धि-धृक् ॥ ५७॥
naḥ avyakta-liṃgaḥ satatam avadhūta-su sevitaḥ.. abhimānam atas na tvam kuru tāta ku buddhi-dhṛk .. 57..
किंबहूक्तेन वचसा दुष्टस्त्वं सर्वथा कुधीः।त्वदुद्भवेन देहेन न मे किंचित्प्रयोजनम्॥ ५८॥
किंबहु-उक्तेन वचसा दुष्टः त्वम् सर्वथा कुधीः।त्वद्-उद्भवेन देहेन न मे किंचिद् प्रयोजनम्॥ ५८॥
kiṃbahu-uktena vacasā duṣṭaḥ tvam sarvathā kudhīḥ.tvad-udbhavena dehena na me kiṃcid prayojanam.. 58..
तज्जन्म धिग्यो महतां सर्वथावद्यकृत्खलः ॥ परित्याज्यो विशेषेण तत्संबंधो विपश्चिता ॥ ५९॥
तद्-जन्म धिक् यः महताम् सर्वथा अवद्य-कृत्-खलः ॥ परित्याज्यः विशेषेण तद्-संबंधः विपश्चिता ॥ ५९॥
tad-janma dhik yaḥ mahatām sarvathā avadya-kṛt-khalaḥ .. parityājyaḥ viśeṣeṇa tad-saṃbaṃdhaḥ vipaścitā .. 59..
गोत्रं त्वदीयं भगवान् यदाह वृषभध्वजः ॥ दाक्षायणीति सहसाहं भवामि सुदुर्मनाः ॥ 2.2.29.६०॥
गोत्रम् त्वदीयम् भगवान् यत् आह वृषभध्वजः ॥ दाक्षायणि इति सहसा अहम् भवामि सु दुर्मनाः ॥ २।२।२९।६०॥
gotram tvadīyam bhagavān yat āha vṛṣabhadhvajaḥ .. dākṣāyaṇi iti sahasā aham bhavāmi su durmanāḥ .. 2.2.29.60..
तस्मात्त्वदंगजं देहं कुणपं गर्हितं सदा ॥ व्युत्सृज्य नूनमधुना भविष्यामि सुखावहा॥ ६१॥
तस्मात् त्वद्-अंग-जम् देहम् कुणपम् गर्हितम् सदा ॥ व्युत्सृज्य नूनम् अधुना भविष्यामि सुख-आवहा॥ ६१॥
tasmāt tvad-aṃga-jam deham kuṇapam garhitam sadā .. vyutsṛjya nūnam adhunā bhaviṣyāmi sukha-āvahā.. 61..
हे सुरा मुनयस्सर्वे यूयं शृणुत मद्वचः ॥ सर्वथानुचितं कर्म युष्माकं दुष्टचेतसाम् ॥ ६२ ॥
हे सुराः मुनयः सर्वे यूयम् शृणुत मद्-वचः ॥ सर्वथा अनुचितम् कर्म युष्माकम् दुष्ट-चेतसाम् ॥ ६२ ॥
he surāḥ munayaḥ sarve yūyam śṛṇuta mad-vacaḥ .. sarvathā anucitam karma yuṣmākam duṣṭa-cetasām .. 62 ..
सर्वे यूयं विमूढा हि शिवनिंदाः कलिप्रियाः ॥ प्राप्स्यंति दण्डं नियतमखिलं च हराद्ध्रुवम् ॥ ६३ ॥
सर्वे यूयम् विमूढाः हि शिव-निंदाः कलि-प्रियाः ॥ प्राप्स्यंति दण्डम् नियतम् अखिलम् च हरात् ध्रुवम् ॥ ६३ ॥
sarve yūyam vimūḍhāḥ hi śiva-niṃdāḥ kali-priyāḥ .. prāpsyaṃti daṇḍam niyatam akhilam ca harāt dhruvam .. 63 ..
ब्रह्मोवाच ।।
दक्षमुक्त्वाध्वरे तांश्च व्यरमत्सा सती तदा ॥ अनूद्य चेतसा शम्भुमस्मरत्प्राणवल्लभम्॥ ६४॥
दक्षम् उक्त्वा अध्वरे तान् च व्यरमत् सा सती तदा ॥ अनूद्य चेतसा शम्भुम् अस्मरत् प्राण-वल्लभम्॥ ६४॥
dakṣam uktvā adhvare tān ca vyaramat sā satī tadā .. anūdya cetasā śambhum asmarat prāṇa-vallabham.. 64..
इतिश्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीवाक्यवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सतीखण्डे सतीवाक्यवर्णनम् नाम एकोनत्रिंशः अध्यायः ॥ २९ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satīkhaṇḍe satīvākyavarṇanam nāma ekonatriṃśaḥ adhyāyaḥ .. 29 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In