| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
मौनीभूता यदा सासीत्सती शंकरवल्लभा ॥ चरित्रं किमभूत्तत्र विधे तद्वद चादरात् ॥ १ ॥
मौनीभूता यदा सा आसीत् सती शंकर-वल्लभा ॥ चरित्रम् किम् अभूत् तत्र विधे तत् वद च आदरात् ॥ १ ॥
maunībhūtā yadā sā āsīt satī śaṃkara-vallabhā .. caritram kim abhūt tatra vidhe tat vada ca ādarāt .. 1 ..
ब्रह्मोवाच ।।
मौनीभूता सती देवी स्मृत्वा स्वपतिमादरात ॥ क्षितावुदीच्यां सहसा निषसाद प्रशांतधीः ॥ २ ॥
मौनीभूता सती देवी स्मृत्वा स्व-पतिम् आदरात ॥ क्षितौ उदीच्याम् सहसा निषसाद प्रशांत-धीः ॥ २ ॥
maunībhūtā satī devī smṛtvā sva-patim ādarāta .. kṣitau udīcyām sahasā niṣasāda praśāṃta-dhīḥ .. 2 ..
जलमाचम्य विधिवत् संवृता वाससा शुचिः ॥ दृङ्निमील्य पतिं स्मृत्वा योगमार्गं समाविशत् ॥ ३॥
जलम् आचम्य विधिवत् संवृता वाससा शुचिः ॥ दृश् निमील्य पतिम् स्मृत्वा योग-मार्गम् समाविशत् ॥ ३॥
jalam ācamya vidhivat saṃvṛtā vāsasā śuciḥ .. dṛś nimīlya patim smṛtvā yoga-mārgam samāviśat .. 3..
कृत्वासमानावनिलौ प्राणापानौ सितानना॥ उत्थाप्योदानमथ च यत्नात्सा नाभिचक्रतः॥ ४॥
कृत्वा असमानौ अनिलौ प्राण-अपानौ सित-आनना॥ उत्थाप्य उदानम् अथ च यत्नात् सा नाभि-चक्रतः॥ ४॥
kṛtvā asamānau anilau prāṇa-apānau sita-ānanā.. utthāpya udānam atha ca yatnāt sā nābhi-cakrataḥ.. 4..
हृदि स्थाप्योरसि धिया स्थितं कंठाद्भ्रुवोस्सती ॥ अनिंदितानयन्मध्यं शंकरप्राणवल्लभा ॥ ५ ॥
हृदि स्थाप्य उरसि धिया स्थितम् कंठात् भ्रुवोः सती ॥ अनिंदिता अनयत् मध्यम् शंकर-प्राण-वल्लभा ॥ ५ ॥
hṛdi sthāpya urasi dhiyā sthitam kaṃṭhāt bhruvoḥ satī .. aniṃditā anayat madhyam śaṃkara-prāṇa-vallabhā .. 5 ..
एवं स्वदेहं सहसा दक्षकोपाज्जिहासती ॥ दग्धे गात्रे वायुशुचिर्धारणं योगमार्गतः ॥ ६ ॥
एवम् स्व-देहम् सहसा दक्ष-कोपात् जिहासती ॥ दग्धे गात्रे वायु-शुचिः धारणम् योग-मार्गतः ॥ ६ ॥
evam sva-deham sahasā dakṣa-kopāt jihāsatī .. dagdhe gātre vāyu-śuciḥ dhāraṇam yoga-mārgataḥ .. 6 ..
ततस्स्वभर्तुश्चरणं चिंतयंती न चापरम् ॥ अपश्यत्सा सती तत्र योगमार्गनिविष्टधीः ॥ ७ ॥
ततस् स्व-भर्तुः चरणम् चिंतयंती न च अपरम् ॥ अपश्यत् सा सती तत्र योग-मार्ग-निविष्ट-धीः ॥ ७ ॥
tatas sva-bhartuḥ caraṇam ciṃtayaṃtī na ca aparam .. apaśyat sā satī tatra yoga-mārga-niviṣṭa-dhīḥ .. 7 ..
हतकल्मषतद्देहः प्रापतच्च तदग्निना ॥ भस्मसादभवत्सद्यो मुनिश्रेष्ठ तदिच्छया ॥ ८ ॥ ।
हत-कल्मष-तद्-देहः प्रापतत् च तद्-अग्निना ॥ भस्मसात् अभवत् सद्यस् मुनि-श्रेष्ठ तद्-इच्छया ॥ ८ ॥ ।
hata-kalmaṣa-tad-dehaḥ prāpatat ca tad-agninā .. bhasmasāt abhavat sadyas muni-śreṣṭha tad-icchayā .. 8 .. .
तत्पश्यतां च खे भूमौ वादोऽभूत्सुमहांस्तदा ॥ हाहेति सोद्भुतश्चित्रस्सुरादीनां भयावहः ॥ ९॥
तत् पश्यताम् च खे भूमौ वादः अभूत् सु महान् तदा ॥ हाहा इति स उद्भुतः चित्रः सुर-आदीनाम् भय-आवहः ॥ ९॥
tat paśyatām ca khe bhūmau vādaḥ abhūt su mahān tadā .. hāhā iti sa udbhutaḥ citraḥ sura-ādīnām bhaya-āvahaḥ .. 9..
हं प्रिया परा शंभोर्देवी दैवतमस्य हि ॥ अहादसून् सती केन सुदुष्टेन प्रकोपिता ॥ 2.2.30.१०॥
हं प्रिया परा शंभोः देवी दैवतम् अस्य हि ॥ सती केन सु दुष्टेन प्रकोपिता ॥ २।२।३०।१०॥
haṃ priyā parā śaṃbhoḥ devī daivatam asya hi .. satī kena su duṣṭena prakopitā .. 2.2.30.10..
अहो त्वनात्म्यं सुमहदस्य दक्षस्य पश्यत ॥ चराचरं प्रजा यस्य यत्पुत्रस्य प्रजापतेः ॥ ११ ॥
अहो तु अनात्म्यम् सु महत् अस्य दक्षस्य पश्यत ॥ चराचरम् प्रजाः यस्य यद्-पुत्रस्य प्रजापतेः ॥ ११ ॥
aho tu anātmyam su mahat asya dakṣasya paśyata .. carācaram prajāḥ yasya yad-putrasya prajāpateḥ .. 11 ..
अहोद्य द्विमनाऽभूत्सा सती देवी मनस्विनी ॥ वृषध्वजप्रियाऽभीक्ष्णं मानयोग्या सतां सदा ॥ १२ ॥
अहो उद्य द्विमनाः अभूत् सा सती देवी मनस्विनी ॥ वृषध्वज-प्रिया अभीक्ष्णम् मान-योग्या सताम् सदा ॥ १२ ॥
aho udya dvimanāḥ abhūt sā satī devī manasvinī .. vṛṣadhvaja-priyā abhīkṣṇam māna-yogyā satām sadā .. 12 ..
सोयं दुर्मर्षहृदयो ब्रह्मधृक् स प्रजापतिः ॥ महतीमपकीर्तिं हि प्राप्स्यति त्वखिले भवे ॥ १३॥
स अयम् दुर्मर्ष-हृदयः स प्रजापतिः ॥ महतीम् अपकीर्तिम् हि प्राप्स्यति तु अखिले भवे ॥ १३॥
sa ayam durmarṣa-hṛdayaḥ sa prajāpatiḥ .. mahatīm apakīrtim hi prāpsyati tu akhile bhave .. 13..
यत्स्वांगजां सुतां शंभुद्विट् न्यषे धत्समुद्यताम् ॥ महानरकभोगी स मृतये नोऽपराधतः ॥ १४ ॥
यत् स्व-अंगजाम् सुताम् शंभु-द्विष् न्यषे धत् समुद्यताम् ॥ महा-नरक-भोगी स मृतये नः अपराधतः ॥ १४ ॥
yat sva-aṃgajām sutām śaṃbhu-dviṣ nyaṣe dhat samudyatām .. mahā-naraka-bhogī sa mṛtaye naḥ aparādhataḥ .. 14 ..
वदत्येवं जने सत्या दृष्ट्वाऽसुत्यागमद्भुतम् ॥ द्रुतं तत्पार्षदाः क्रोधादुदतिष्ठन्नुदायुधाः ॥ १५॥
वदति एवम् जने सत्याः दृष्ट्वा असु-त्यागम् अद्भुतम् ॥ द्रुतम् तद्-पार्षदाः क्रोधात् उदतिष्ठन् उदायुधाः ॥ १५॥
vadati evam jane satyāḥ dṛṣṭvā asu-tyāgam adbhutam .. drutam tad-pārṣadāḥ krodhāt udatiṣṭhan udāyudhāḥ .. 15..
द्वारि स्थिता गणास्सर्वे रसायुतमिता रुषा ॥ शंकरस्य प्रभोस्ते वाऽकुध्यन्नतिमहाबलाः॥ १६॥
द्वारि स्थिताः गणाः सर्वे रस-अयुत-मिताः रुषा ॥ शंकरस्य प्रभोः ते वा अकुध्यन् अति महा-बलाः॥ १६॥
dvāri sthitāḥ gaṇāḥ sarve rasa-ayuta-mitāḥ ruṣā .. śaṃkarasya prabhoḥ te vā akudhyan ati mahā-balāḥ.. 16..
हाहाकारमकुर्वंस्ते धिक्धिक् न इति वादिनः ॥ उच्चैस्सर्वेऽसकृद्वीरःश्शंकरस्य गणाधिपाः ॥ १७ ॥
हाहाकारम् अकुर्वन् ते धिक् धिक् नः इति वादिनः ॥ उच्चैस् सर्वे असकृत् वीरः शंकरस्य गणाधिपाः ॥ १७ ॥
hāhākāram akurvan te dhik dhik naḥ iti vādinaḥ .. uccais sarve asakṛt vīraḥ śaṃkarasya gaṇādhipāḥ .. 17 ..
हाहाकारेण महता व्याप्त मासीद्दिगन्तरम् ॥ सर्वे प्रापन् भयं देवा मुनयोन्येपि ते स्थिताः ॥ १८ ॥
हाहाकारेण महता व्याप्त मा आसीत् दिश्-अन्तरम् ॥ सर्वे प्रापन् भयम् देवाः मुनयः न्ये अपि ते स्थिताः ॥ १८ ॥
hāhākāreṇa mahatā vyāpta mā āsīt diś-antaram .. sarve prāpan bhayam devāḥ munayaḥ nye api te sthitāḥ .. 18 ..
गणास्संमंत्र्य ते सर्वेऽभूवन् क्रुद्धा उदायुधाः ॥ कुर्वन्तः प्रलयं वाद्यशस्त्रैर्व्याप्तं दिगंतरम् ॥ १९ ॥
गणाः संमंत्र्य ते सर्वे अभूवन् क्रुद्धाः उदायुधाः ॥ कुर्वन्तः प्रलयम् वाद्य-शस्त्रैः व्याप्तम् दिगंतरम् ॥ १९ ॥
gaṇāḥ saṃmaṃtrya te sarve abhūvan kruddhāḥ udāyudhāḥ .. kurvantaḥ pralayam vādya-śastraiḥ vyāptam digaṃtaram .. 19 ..
शस्त्रैरघ्नन्निजांगानि केचित्तत्र शुचाकुलाः ॥ शिरोमुखानि देवर्षे सुतीक्ष्णैः प्राणनाशिभिः ॥ 2.2.30.२० ॥
शस्त्रैः अघ्नत् निज-अंगानि केचिद् तत्र शुचा आकुलाः ॥ शिरः-मुखानि देव-ऋषे सु तीक्ष्णैः प्राण-नाशिभिः ॥ २।२।३०।२० ॥
śastraiḥ aghnat nija-aṃgāni kecid tatra śucā ākulāḥ .. śiraḥ-mukhāni deva-ṛṣe su tīkṣṇaiḥ prāṇa-nāśibhiḥ .. 2.2.30.20 ..
इत्थं ते विलयं प्राप्ता दाक्षायण्या समं तदा ॥ गणायुते द्वे च तदा तदद्भुतमिवाभवत् ॥ ॥ २१ ॥
इत्थम् ते विलयम् प्राप्ताः दाक्षायण्या समम् तदा ॥ गण-अयुते द्वे च तदा तत् अद्भुतम् इव अभवत् ॥ ॥ २१ ॥
ittham te vilayam prāptāḥ dākṣāyaṇyā samam tadā .. gaṇa-ayute dve ca tadā tat adbhutam iva abhavat .. .. 21 ..
गणा नाशाऽवशिष्टा ये शंकरस्य महात्मनः ॥ दक्षं तं क्रोधितं हन्तुं मुदा तिष्ठन्नुदायुधाः ॥ २२ ॥
गणाः नाशा-अवशिष्टाः ये शंकरस्य महात्मनः ॥ दक्षम् तम् क्रोधितम् हन्तुम् मुदा तिष्ठन् उदायुधाः ॥ २२ ॥
gaṇāḥ nāśā-avaśiṣṭāḥ ye śaṃkarasya mahātmanaḥ .. dakṣam tam krodhitam hantum mudā tiṣṭhan udāyudhāḥ .. 22 ..
तेषामापततां वेगं निशम्य भगवान् भृगुः ॥ यज्ञघ्नघ्नेन यजुषा दक्षिणाग्नौ जुहोन्मुने ॥ २३ ॥
तेषाम् आपतताम् वेगम् निशम्य भगवान् भृगुः ॥ यज्ञ-घ्न-घ्नेन यजुषा दक्षिणाग्नौ जुहोत् मुने ॥ २३ ॥
teṣām āpatatām vegam niśamya bhagavān bhṛguḥ .. yajña-ghna-ghnena yajuṣā dakṣiṇāgnau juhot mune .. 23 ..
हूयमाने च भृगुणा समुत्पेतुर्महासुराः ॥ ऋभवो नाम प्रबलवीरास्तत्र सहस्रशः ॥ २४ ॥
हूयमाने च भृगुणा समुत्पेतुः महा-असुराः ॥ ऋभवः नाम प्रबल-वीराः तत्र सहस्रशस् ॥ २४ ॥
hūyamāne ca bhṛguṇā samutpetuḥ mahā-asurāḥ .. ṛbhavaḥ nāma prabala-vīrāḥ tatra sahasraśas .. 24 ..
तैरलातायुधैस्तत्र प्रमथानां मुनीश्वर ॥ अभूद्युद्धं सुविकटं शृण्वतां रोमहर्षणम्॥ २५ ॥
तैः अलात-आयुधैः तत्र प्रमथानाम् मुनि-ईश्वर ॥ अभूत् युद्धम् सु विकटम् शृण्वताम् रोमहर्षणम्॥ २५ ॥
taiḥ alāta-āyudhaiḥ tatra pramathānām muni-īśvara .. abhūt yuddham su vikaṭam śṛṇvatām romaharṣaṇam.. 25 ..
ऋभुभिस्तैर्महावीरैर्हन्यमानास्समन्ततः ॥ अयत्नयानाः प्रमथा उशद्भिर्ब्रह्मतेजसा ॥ २६॥
ऋभुभिः तैः महा-वीरैः हन्यमानाः समन्ततः ॥ अ यत्न-यानाः प्रमथाः उशद्भिः ब्रह्म-तेजसा ॥ २६॥
ṛbhubhiḥ taiḥ mahā-vīraiḥ hanyamānāḥ samantataḥ .. a yatna-yānāḥ pramathāḥ uśadbhiḥ brahma-tejasā .. 26..
एवं शिवगणास्ते वै हता विद्राविता द्रुतम् ॥ शिवेच्छया महाशक्त्या तदद्भुतमिवाऽभवत् ॥ २७॥
एवम् शिव-गणाः ते वै हताः विद्राविताः द्रुतम् ॥ शिव-इच्छया महा-शक्त्या तत् अद्भुतम् इव अभवत् ॥ २७॥
evam śiva-gaṇāḥ te vai hatāḥ vidrāvitāḥ drutam .. śiva-icchayā mahā-śaktyā tat adbhutam iva abhavat .. 27..
तद्दृष्ट्वा ऋषयो देवाश्शक्राद्यास्समरुद्गणाः ॥ विश्वेश्विनौ लोकपालास्तूष्णीं भूतास्तदाऽभवन् ॥ २८॥
तत् दृष्ट्वा ऋषयः देवाः शक्र-आद्याः स मरुत्-गणाः ॥ विश्व-ईश्विनौ लोकपालाः तूष्णीम् भूताः तदा अभवन् ॥ २८॥
tat dṛṣṭvā ṛṣayaḥ devāḥ śakra-ādyāḥ sa marut-gaṇāḥ .. viśva-īśvinau lokapālāḥ tūṣṇīm bhūtāḥ tadā abhavan .. 28..
केचिद्विष्णुं प्रभुं तत्र प्रार्थयन्तस्समन्ततः ॥ उद्विग्ना मन्त्रयंतश्च विप्राभावं मुहुर्मुहुः॥ २९॥
केचिद् विष्णुम् प्रभुम् तत्र प्रार्थयन्तः समन्ततः ॥ उद्विग्नाः मन्त्रयंतः च विप्र-अभावम् मुहुर् मुहुर्॥ २९॥
kecid viṣṇum prabhum tatra prārthayantaḥ samantataḥ .. udvignāḥ mantrayaṃtaḥ ca vipra-abhāvam muhur muhur.. 29..
सुविचार्योदर्कफलं महोद्विग्नास्सुबुद्धयः ॥ सुरविष्ण्वादयोभूवन् तन्नाशाद्रावणान्मुहुः ॥ 2.2.30.३०॥
सु विचार्य उदर्क-फलम् महा-उद्विग्नाः सु बुद्धयः ॥ सुर-विष्णु-आदयः भूवन् तद्-नाशात् रावणात् मुहुर् ॥ २।२।३०।३०॥
su vicārya udarka-phalam mahā-udvignāḥ su buddhayaḥ .. sura-viṣṇu-ādayaḥ bhūvan tad-nāśāt rāvaṇāt muhur .. 2.2.30.30..
एवंभूतस्तदा यज्ञो विघ्नो जातो दुरात्मनः ॥ ब्रह्मबंधोश्च दक्षस्य शंकरद्रोहिणो मुने ॥ ३१ ॥
एवंभूतः तदा यज्ञः विघ्नः जातः दुरात्मनः ॥ ब्रह्मबंधोः च दक्षस्य शंकर-द्रोहिणः मुने ॥ ३१ ॥
evaṃbhūtaḥ tadā yajñaḥ vighnaḥ jātaḥ durātmanaḥ .. brahmabaṃdhoḥ ca dakṣasya śaṃkara-drohiṇaḥ mune .. 31 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In