| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
एतस्मिन्नन्तरे तत्र नभोवाणी मुनीश्वर ॥ अवोचच्छृण्वतां दक्षसुरादीनां यथार्थतः ॥ १ ॥
एतस्मिन् अन्तरे तत्र नभः-वाणी मुनि-ईश्वर ॥ अवोचत् शृण्वताम् दक्ष-सुर-आदीनाम् यथार्थतः ॥ १ ॥
etasmin antare tatra nabhaḥ-vāṇī muni-īśvara .. avocat śṛṇvatām dakṣa-sura-ādīnām yathārthataḥ .. 1 ..
व्योमवाण्युवाच ।।
रे रे दक्ष दुराचार दंभाचारपरायण ॥ किं कृतं ते महामूढ कर्म चानर्थकारकम् ॥ २॥
रे रे दक्ष दुराचार दंभ-आचार-परायण ॥ किम् कृतम् ते महा-मूढ कर्म च अनर्थ-कारकम् ॥ २॥
re re dakṣa durācāra daṃbha-ācāra-parāyaṇa .. kim kṛtam te mahā-mūḍha karma ca anartha-kārakam .. 2..
न कृतं शैवराजस्य दधीचेर्वचनस्य हि ॥ प्रमाणं तत्कृते मूढ सर्वानंदकरं शुभम् ॥ ३ ॥
न कृतम् शैव-राजस्य दधीचेः वचनस्य हि ॥ प्रमाणम् तद्-कृते मूढ सर्व-आनंद-करम् शुभम् ॥ ३ ॥
na kṛtam śaiva-rājasya dadhīceḥ vacanasya hi .. pramāṇam tad-kṛte mūḍha sarva-ānaṃda-karam śubham .. 3 ..
निर्गतस्ते मखाद्विप्रः शापं दत्त्वा सुदुस्सहम् ॥ ततोपि बुद्धं किंचिन्नो त्वया मूढेन चेतसि ॥ ४॥
निर्गतः ते मखात् विप्रः शापम् दत्त्वा सु दुस्सहम् ॥ ततस् अपि बुद्धम् किंचिद् नो त्वया मूढेन चेतसि ॥ ४॥
nirgataḥ te makhāt vipraḥ śāpam dattvā su dussaham .. tatas api buddham kiṃcid no tvayā mūḍhena cetasi .. 4..
ततः कृतः कथं नो वै स्वपुत्र्यास्त्वादरः परः ॥ समागतायास्सत्याश्च मंगलाया गृहं स्वतः ॥ ५॥
ततस् कृतः कथम् नः वै स्व-पुत्र्याः तु आदरः परः ॥ समागतायाः सत्याः च मंगलायाः गृहम् स्वतः ॥ ५॥
tatas kṛtaḥ katham naḥ vai sva-putryāḥ tu ādaraḥ paraḥ .. samāgatāyāḥ satyāḥ ca maṃgalāyāḥ gṛham svataḥ .. 5..
सतीभवौ नार्चितौ हि किमिदं ज्ञानदुर्बल ॥ ब्रह्मपुत्र इति वृथा गर्वितोसि विमोहितः॥ ॥ ६ ॥
सती-भवौ न अर्चितौ हि किम् इदम् ज्ञान-दुर्बल ॥ ब्रह्म-पुत्रः इति वृथा गर्वितः असि विमोहितः॥ ॥ ६ ॥
satī-bhavau na arcitau hi kim idam jñāna-durbala .. brahma-putraḥ iti vṛthā garvitaḥ asi vimohitaḥ.. .. 6 ..
सा सत्येव सदाराध्या सर्वा पापफलप्रदा ॥ त्रिलोकमाता कल्याणी शंकरार्द्धांगभागिनी ॥ ७ ॥
सा सती एव सत्-आराध्या सर्वा पाप-फल-प्रदा ॥ त्रिलोक-माता कल्याणी शंकर-अर्द्ध-अंग-भागिनी ॥ ७ ॥
sā satī eva sat-ārādhyā sarvā pāpa-phala-pradā .. triloka-mātā kalyāṇī śaṃkara-arddha-aṃga-bhāginī .. 7 ..
सा सत्येवार्चिता नित्यं सर्वसौभाग्यदायिनी ॥ माहेश्वरी स्वभक्तानां सर्वमंगलदायिनी ॥ ८॥
सा सत्या इव अर्चिता नित्यम् सर्व-सौभाग्य-दायिनी ॥ ॥ ८॥
sā satyā iva arcitā nityam sarva-saubhāgya-dāyinī .. .. 8..
सा सत्येवार्चिता नित्यं संसारभयनाशिनी॥ मनोभीष्टप्रदा दैवी सर्वोपद्रवहारिणी ॥ ९ ॥
सा सत्या इव अर्चिता नित्यम् संसार-भय-नाशिनी॥ मनः-भीष्ट-प्रदा दैवी सर्व-उपद्रव-हारिणी ॥ ९ ॥
sā satyā iva arcitā nityam saṃsāra-bhaya-nāśinī.. manaḥ-bhīṣṭa-pradā daivī sarva-upadrava-hāriṇī .. 9 ..
सा सत्येवार्चिता नित्यं कीर्तिसंपत्प्रदायिनी ॥ परमा परमेशानी भुक्तिमुक्तिप्रदायिनी ॥ 2.2.31.१० ॥
सा सत्या इव अर्चिता नित्यम् कीर्ति-संपद्-प्रदायिनी ॥ परमा परमेशानी भुक्ति-मुक्ति-प्रदायिनी ॥ २।२।३१।१० ॥
sā satyā iva arcitā nityam kīrti-saṃpad-pradāyinī .. paramā parameśānī bhukti-mukti-pradāyinī .. 2.2.31.10 ..
सा सत्येव जगद्धात्री जगद्रक्षणकारिणी ॥ अनादिशक्तिः कल्पान्ते जगत्संहारकारिणी ॥ ११ ॥
सा सती एव जगद्धात्री जगत्-रक्षण-कारिणी ॥ ॥ ११ ॥
sā satī eva jagaddhātrī jagat-rakṣaṇa-kāriṇī .. .. 11 ..
सा सत्येव जगन्माता विष्णु माताविलासिनी ॥ ब्रह्मेन्द्रचन्द्रवह्न्यर्कदेवादिजननी स्मृता ॥ १२॥
सा सत्या इव जगन्माता विष्णु माता-विलासिनी ॥ ब्रह्म-इन्द्र-चन्द्र-वह्नि-अर्क-देव-आदि-जननी स्मृता ॥ १२॥
sā satyā iva jaganmātā viṣṇu mātā-vilāsinī .. brahma-indra-candra-vahni-arka-deva-ādi-jananī smṛtā .. 12..
सा सत्येव तपोधर्मदातादिफलदायिनी ॥ शंभुशक्तिर्महादेवी दुष्टहंत्री परात्परा ॥ १३॥
सा सत्या एव तपः-धर्म-दाता आदि-फल-दायिनी ॥ शंभुशक्तिः महादेवी दुष्ट-हंत्री परात्परा ॥ १३॥
sā satyā eva tapaḥ-dharma-dātā ādi-phala-dāyinī .. śaṃbhuśaktiḥ mahādevī duṣṭa-haṃtrī parātparā .. 13..
ईदृग्विधा सती देवी यस्य पत्नी सदा प्रिया ॥ तस्यै भागो न दत्तस्ते मूढेन कुविचारिणा ॥ १४॥
ईदृग्विधा सती देवी यस्य पत्नी सदा प्रिया ॥ तस्यै भागः न दत्तः ते मूढेन कुविचारिणा ॥ १४॥
īdṛgvidhā satī devī yasya patnī sadā priyā .. tasyai bhāgaḥ na dattaḥ te mūḍhena kuvicāriṇā .. 14..
शंभुर्हि परमेशानस्सर्वस्वामी परात्परः॥ विष्णुब्रह्मादिसंसेव्यः सर्वकल्याणकारकः ॥ १५।
शंभुः हि परमेशानः सर्व-स्वामी परात्परः॥ सर्व ॥ १५।
śaṃbhuḥ hi parameśānaḥ sarva-svāmī parātparaḥ.. sarva .. 15.
तप्यते हि तपः सिद्धैरेतद्दर्शनकांक्षिभिः ॥ युज्यते योगिभिर्योगैरेतद्दर्शनकांक्षिभिः ॥ १६॥
तप्यते हि तपः सिद्धैः एतद्-दर्शन-कांक्षिभिः ॥ युज्यते योगिभिः योगैः एतद्-दर्शन-कांक्षिभिः ॥ १६॥
tapyate hi tapaḥ siddhaiḥ etad-darśana-kāṃkṣibhiḥ .. yujyate yogibhiḥ yogaiḥ etad-darśana-kāṃkṣibhiḥ .. 16..
अनंतधनधान्यानां यागादीनां तथैव च ॥ दर्शनं शंकरस्यैव महत्फलमुदाहृतम् ॥ १७॥
अनंत-धन-धान्यानाम् याग-आदीनाम् तथा एव च ॥ दर्शनम् शंकरस्य एव महत् फलम् उदाहृतम् ॥ १७॥
anaṃta-dhana-dhānyānām yāga-ādīnām tathā eva ca .. darśanam śaṃkarasya eva mahat phalam udāhṛtam .. 17..
शिव एव जगद्धाता सर्वविद्यापतिः प्रभुः ॥ आदिविद्यावरस्वामी सर्वमंगलमंगलः ॥ १८ ॥
शिवः एव जगद्धाता सर्व-विद्या-पतिः प्रभुः ॥ ॥ १८ ॥
śivaḥ eva jagaddhātā sarva-vidyā-patiḥ prabhuḥ .. .. 18 ..
तच्छक्तेर्न कृतो यस्मात्सत्करोद्य त्वया खल ॥ अतएवाऽध्वरस्यास्य विनाशो हि भविष्यति ॥ १९॥
तद्-शक्तेः न कृतः यस्मात् सत्कर-उद्य त्वया खल ॥ अतएव अ अध्वरस्य अस्य विनाशः हि भविष्यति ॥ १९॥
tad-śakteḥ na kṛtaḥ yasmāt satkara-udya tvayā khala .. ataeva a adhvarasya asya vināśaḥ hi bhaviṣyati .. 19..
अमंगलं भवत्येव पूजार्हाणामपूजया ॥ पूज्यमाना च नासौ हि यतः पूज्यतमा शिवा ॥ 2.2.31.२०॥
अमंगलम् भवति एव पूजा-अर्हाणाम् अपूजया ॥ पूज्यमाना च ना असौ हि यतस् पूज्यतमा शिवा ॥ २।२।३१।२०॥
amaṃgalam bhavati eva pūjā-arhāṇām apūjayā .. pūjyamānā ca nā asau hi yatas pūjyatamā śivā .. 2.2.31.20..
सहस्रेणापि शिरसां शेषो यत्पादजं रजः ॥ वहत्यहरहः प्रीत्या तस्य शक्तिः शिवा सती ॥ २१ ॥
सहस्रेण अपि शिरसाम् शेषः यत् पाद-जम् रजः ॥ वहति अहरहर् प्रीत्या तस्य शक्तिः शिवा सती ॥ २१ ॥
sahasreṇa api śirasām śeṣaḥ yat pāda-jam rajaḥ .. vahati aharahar prītyā tasya śaktiḥ śivā satī .. 21 ..
यत्पादपद्ममनिशं ध्यात्वा संपूज्य सादरम् ॥ विष्णुविष्णुत्वमापन्नस्तस्य शंभोः प्रिया सती ॥ २२॥
यद्-पाद-पद्मम् अनिशम् ध्यात्वा संपूज्य सादरम् ॥ विष्णु-विष्णु-त्वम् आपन्नः तस्य शंभोः प्रिया सती ॥ २२॥
yad-pāda-padmam aniśam dhyātvā saṃpūjya sādaram .. viṣṇu-viṣṇu-tvam āpannaḥ tasya śaṃbhoḥ priyā satī .. 22..
यत्पादपद्ममनिशं ध्यात्वा संपूज्य सादरम् ॥ ब्रह्मा ब्रह्मत्वमापन्नस्तस्य शंभोः प्रिया सती ॥ २३ ॥
यद्-पाद-पद्मम् अनिशम् ध्यात्वा संपूज्य सादरम् ॥ ब्रह्मा ब्रह्मत्वम् आपन्नः तस्य शंभोः प्रिया सती ॥ २३ ॥
yad-pāda-padmam aniśam dhyātvā saṃpūjya sādaram .. brahmā brahmatvam āpannaḥ tasya śaṃbhoḥ priyā satī .. 23 ..
यत्पादपद्ममनिशं ध्यात्वा संपूज्य सादरम् ॥ इन्द्रादयो लोकपालाः प्रापुस्स्वं स्वं परं पदम् ॥ २४ ॥
यद्-पाद-पद्मम् अनिशम् ध्यात्वा संपूज्य सादरम् ॥ इन्द्र-आदयः लोकपालाः प्रापुः स्वम् स्वम् परम् पदम् ॥ २४ ॥
yad-pāda-padmam aniśam dhyātvā saṃpūjya sādaram .. indra-ādayaḥ lokapālāḥ prāpuḥ svam svam param padam .. 24 ..
जगत्पिता शिवश्शक्तिर्जगन्माता च सा सती ॥ सत्कृतौ न त्वया मूढ कथं श्रेयो भविष्यति ॥ २५ ॥
जगत्-पिता शिवः शक्तिः जगन्माता च सा सती ॥ सत्कृतौ न त्वया मूढ कथम् श्रेयः भविष्यति ॥ २५ ॥
jagat-pitā śivaḥ śaktiḥ jaganmātā ca sā satī .. satkṛtau na tvayā mūḍha katham śreyaḥ bhaviṣyati .. 25 ..
दौर्भाग्यं त्वयि संक्रांतं संक्रांतास्त्वयि चापदः ॥ यौ चानाराधितौ भक्त्या भवानीशंकरौ च तौ ॥ २६ ॥
दौर्भाग्यम् त्वयि संक्रांतम् संक्रांताः त्वयि च आपदः ॥ यौ च अन् आराधितौ भक्त्या भवानी-शंकरौ च तौ ॥ २६ ॥
daurbhāgyam tvayi saṃkrāṃtam saṃkrāṃtāḥ tvayi ca āpadaḥ .. yau ca an ārādhitau bhaktyā bhavānī-śaṃkarau ca tau .. 26 ..
अनभ्यर्च्य शिवं शंभुं कल्याणं प्राप्नुयामिति ॥ किमस्ति गर्वो दुर्वारस्स गर्वोद्य विनश्यति ॥ २७ ॥
अन् अभ्यर्च्य शिवम् शंभुम् कल्याणम् प्राप्नुयाम् इति ॥ किम् अस्ति गर्वः दुर्वारः स गर्व-उद्य विनश्यति ॥ २७ ॥
an abhyarcya śivam śaṃbhum kalyāṇam prāpnuyām iti .. kim asti garvaḥ durvāraḥ sa garva-udya vinaśyati .. 27 ..
सर्वेशविमुखो भूत्वा देवेष्वेतेषु कस्तव ॥ करिष्यति सहायं तं न ते पश्यामि सर्वथा ॥ २८ ॥
सर्व-ईश-विमुखः भूत्वा देवेषु एतेषु कः तव ॥ करिष्यति सहायम् तम् न ते पश्यामि सर्वथा ॥ २८ ॥
sarva-īśa-vimukhaḥ bhūtvā deveṣu eteṣu kaḥ tava .. kariṣyati sahāyam tam na te paśyāmi sarvathā .. 28 ..
यदि देवाः करिष्यंति साहाय्यमधुना तव ॥ तदा नाशं समाप्स्यंति शलभा इव वह्निना ॥ २९ ॥
यदि देवाः करिष्यन्ति साहाय्यम् अधुना तव ॥ तदा नाशम् समाप्स्यंति शलभाः इव वह्निना ॥ २९ ॥
yadi devāḥ kariṣyanti sāhāyyam adhunā tava .. tadā nāśam samāpsyaṃti śalabhāḥ iva vahninā .. 29 ..
ज्वलत्वद्य मुखं ते वै यज्ञध्वंसो भवत्वति ॥ सहायास्तव यावंतस्ते ज्वलंत्वद्य सत्वरम् ॥ 2.2.31.३० ॥
ज्वलतु अद्य मुखम् ते वै यज्ञ-ध्वंसः भवतु अति ॥ सहायाः तव यावंतः ते ज्वलंतु अद्य सत्वरम् ॥ २।२।३१।३० ॥
jvalatu adya mukham te vai yajña-dhvaṃsaḥ bhavatu ati .. sahāyāḥ tava yāvaṃtaḥ te jvalaṃtu adya satvaram .. 2.2.31.30 ..
अमराणां च सर्वेषां शपथोऽमंगलाय ते ॥ करिष्यंत्यद्य साहाय्यं यदेतस्य दुरात्मनः ॥ ३१ ॥
अमराणाम् च सर्वेषाम् शपथः अमंगलाय ते ॥ करिष्यंति अद्य साहाय्यम् यत् एतस्य दुरात्मनः ॥ ३१ ॥
amarāṇām ca sarveṣām śapathaḥ amaṃgalāya te .. kariṣyaṃti adya sāhāyyam yat etasya durātmanaḥ .. 31 ..
निर्गच्छंत्वमरास्स्वोकमेतदध्वरमंडपात् ॥ अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा ॥ ३२ ॥
निर्गच्छन्तु अमराः स्वोकम् एतत् अध्वर-मंडपात् ॥ अन्यथा भवतः नाशः भविष्यति अद्य सर्वथा ॥ ३२ ॥
nirgacchantu amarāḥ svokam etat adhvara-maṃḍapāt .. anyathā bhavataḥ nāśaḥ bhaviṣyati adya sarvathā .. 32 ..
निर्गच्छंत्वपरे सर्वे मुनिनागादयो मखात् ॥ अन्यथा भवतां नाशो भविष्यत्यद्य सर्वथा॥ ३३॥
निर्गच्छन्तु अपरे सर्वे मुनि-नाग-आदयः मखात् ॥ अन्यथा भवताम् नाशः भविष्यति अद्य सर्वथा॥ ३३॥
nirgacchantu apare sarve muni-nāga-ādayaḥ makhāt .. anyathā bhavatām nāśaḥ bhaviṣyati adya sarvathā.. 33..
निर्गच्छ त्वं हरे शीघ्रमेतदध्वरमंडपात् ॥ अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा ॥ ३४ ॥
निर्गच्छ त्वम् हरे शीघ्रम् एतत् अध्वर-मंडपात् ॥ अन्यथा भवतः नाशः भविष्यति अद्य सर्वथा ॥ ३४ ॥
nirgaccha tvam hare śīghram etat adhvara-maṃḍapāt .. anyathā bhavataḥ nāśaḥ bhaviṣyati adya sarvathā .. 34 ..
निर्गच्छ त्वं विधे शीघ्रमेतदध्वरमंडपात् ॥ अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा ॥ ३५॥
निर्गच्छ त्वम् विधे शीघ्रम् एतत् अध्वर-मंडपात् ॥ अन्यथा भवतः नाशः भविष्यति अद्य सर्वथा ॥ ३५॥
nirgaccha tvam vidhe śīghram etat adhvara-maṃḍapāt .. anyathā bhavataḥ nāśaḥ bhaviṣyati adya sarvathā .. 35..
ब्रह्मोवाच ।।
इत्युक्त्वाध्वरशालायामखिलायां सुसंस्थितान् ॥ व्यरमत्सा नभोवाणी सर्वकल्याणकारिणी ॥ ३६॥
इति उक्त्वा अध्वर-शालायाम् अखिलायाम् सु संस्थितान् ॥ व्यरमत् सा नभः-वाणी सर्व-कल्याण-कारिणी ॥ ३६॥
iti uktvā adhvara-śālāyām akhilāyām su saṃsthitān .. vyaramat sā nabhaḥ-vāṇī sarva-kalyāṇa-kāriṇī .. 36..
तच्छ्रुत्वा व्योमवचनं सर्वे हर्यादयस्सुराः ॥ अकार्षुर्विस्मयं तात मुनयश्च तथा परे ॥ ३७ ॥
तत् श्रुत्वा व्योम-वचनम् सर्वे हरि-आदयः सुराः ॥ अकार्षुः विस्मयम् तात मुनयः च तथा परे ॥ ३७ ॥
tat śrutvā vyoma-vacanam sarve hari-ādayaḥ surāḥ .. akārṣuḥ vismayam tāta munayaḥ ca tathā pare .. 37 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सत्युपाख्याने नभोवाणीवर्णनं नामैकत्रिंशोऽध्यायः ॥ ५१ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सतीखण्डे सत्युपाख्याने नभोवाणीवर्णनम् नाम एकत्रिंशः अध्यायः ॥ ५१ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satīkhaṇḍe satyupākhyāne nabhovāṇīvarṇanam nāma ekatriṃśaḥ adhyāyaḥ .. 51 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In