| |
|

This overlay will guide you through the buttons:

श्रुत्वा व्योमगिरं दक्षः किमकार्षीत्तदाऽबुधः ॥ अन्ये च कृतवंतः किं ततश्च किमभूद्वद ॥ १ ॥
श्रुत्वा व्योम-गिरम् दक्षः किम् अकार्षीत् तदा अबुधः ॥ अन्ये च कृतवंतः किम् ततस् च किम् अभूत् वद ॥ १ ॥
śrutvā vyoma-giram dakṣaḥ kim akārṣīt tadā abudhaḥ .. anye ca kṛtavaṃtaḥ kim tatas ca kim abhūt vada .. 1 ..
नारद उवाच ।।
पराजिताः शिवगणा भृगुमंत्रबलेन वै ॥ किमकार्षुः कुत्र गतास्तत्त्वं वद महामते ॥ २
पराजिताः शिव-गणाः भृगु-मंत्र-बलेन वै ॥ किम् अकार्षुः कुत्र गताः तत्त्वम् वद महामते ॥ २
parājitāḥ śiva-gaṇāḥ bhṛgu-maṃtra-balena vai .. kim akārṣuḥ kutra gatāḥ tattvam vada mahāmate .. 2
ब्रह्मोवाच ।।
श्रुत्वा व्योमगिरं सर्वे विस्मिताश्च सुरादयः ॥ नावोचत्किंचिदपि ते तिष्ठन्तस्तु विमोहिताः ॥ ३॥
श्रुत्वा व्योम-गिरम् सर्वे विस्मिताः च सुर-आदयः ॥ न अवोचत् किंचिद् अपि ते तिष्ठन्तः तु विमोहिताः ॥ ३॥
śrutvā vyoma-giram sarve vismitāḥ ca sura-ādayaḥ .. na avocat kiṃcid api te tiṣṭhantaḥ tu vimohitāḥ .. 3..
पलायमाना ये वीरा भृगुमंत्रबलेन ते ॥ अवशिष्टा श्शिवगणाश्शिवं शरणमाययुः ॥ ४॥
पलायमानाः ये वीराः भृगु-मंत्र-बलेन ते ॥ अवशिष्टाः श्शिव-गणाः शिवम् शरणम् आययुः ॥ ४॥
palāyamānāḥ ye vīrāḥ bhṛgu-maṃtra-balena te .. avaśiṣṭāḥ śśiva-gaṇāḥ śivam śaraṇam āyayuḥ .. 4..
सर्वं निवेदयामासू रुद्रायामिततेजसे ॥ चरित्रं च तथाभूतं सुप्रणम्यादराच्च ते ॥ ५ ॥
सर्वम् निवेदयामासुः रुद्राय अमित-तेजसे ॥ चरित्रम् च तथाभूतम् सु प्रणम्य आदरात् च ते ॥ ५ ॥
sarvam nivedayāmāsuḥ rudrāya amita-tejase .. caritram ca tathābhūtam su praṇamya ādarāt ca te .. 5 ..
गणा ऊचुः ।।
देवदेव महादेव पाहि नश्शरणागतान्॥ संशृण्वादरतो नाथ सती वार्तां च विस्तरात् ॥ ६ ॥
देवदेव महादेव पाहि नः शरण-आगतान्॥ संशृणु आदरतः नाथ सती वार्ताम् च विस्तरात् ॥ ६ ॥
devadeva mahādeva pāhi naḥ śaraṇa-āgatān.. saṃśṛṇu ādarataḥ nātha satī vārtām ca vistarāt .. 6 ..
गर्वितेन महेशानदक्षेन सुदुरात्मना ॥ अवमानः कृतस्सत्याऽनादरो निर्जरैस्तथा ॥ ७ ॥
गर्वितेन महेशान-दक्षेन सु दुरात्मना ॥ अवमानः कृतः सत्या अनादरः निर्जरैः तथा ॥ ७ ॥
garvitena maheśāna-dakṣena su durātmanā .. avamānaḥ kṛtaḥ satyā anādaraḥ nirjaraiḥ tathā .. 7 ..
तुभ्यं भागमदात्रो स देवेभ्यश्च प्रदत्तवान् ॥ दुर्वचांस्यवदत्प्रोच्चैर्दुष्टो दक्षस्सुगर्वितः ॥ ८ ॥
तुभ्यम् स देवेभ्यः च प्रदत्तवान् ॥ दुर्वचांसि अवदत् प्रोच्चैस् दुष्टः दक्षः सु गर्वितः ॥ ८ ॥
tubhyam sa devebhyaḥ ca pradattavān .. durvacāṃsi avadat proccais duṣṭaḥ dakṣaḥ su garvitaḥ .. 8 ..
ततो दृष्ट्वा न ते भागं यज्ञेऽकुप्यत्सती प्रभो ॥ विनिंद्य बहुशस्तातमधाक्षीत्स्वतनुं तदा ॥ ९॥
ततस् दृष्ट्वा न ते भागम् यज्ञे अकुप्यत् सती प्रभो ॥ विनिंद्य बहुशस् तातम् अधाक्षीत् स्व-तनुम् तदा ॥ ९॥
tatas dṛṣṭvā na te bhāgam yajñe akupyat satī prabho .. viniṃdya bahuśas tātam adhākṣīt sva-tanum tadā .. 9..
गणास्त्वयुतसंख्याका मृतास्तत्र विलज्जया ॥ स्वांगान्याछिद्य शस्त्रैश्च क्रुध्याम ह्यपरे वयम् ॥ 2.2.32.१० ॥
गणाः तु अयुत-संख्याकाः मृताः तत्र विलज्जया ॥ स्व-अंगानि आछिद्य शस्त्रैः च क्रुध्याम हि अपरे वयम् ॥ २।२।३२।१० ॥
gaṇāḥ tu ayuta-saṃkhyākāḥ mṛtāḥ tatra vilajjayā .. sva-aṃgāni āchidya śastraiḥ ca krudhyāma hi apare vayam .. 2.2.32.10 ..
तद्यज्ञे ध्वंसितुं वेगात्सन्नद्धास्तु भयावहाः ॥ तिरस्कृता हि भृगुणा स्वप्रभावाद्विरोधिना ॥ ११ ॥
तद्-यज्ञे ध्वंसितुम् वेगात् सन्नद्धाः तु भय-आवहाः ॥ तिरस्कृताः हि भृगुणा स्व-प्रभावात् विरोधिना ॥ ११ ॥
tad-yajñe dhvaṃsitum vegāt sannaddhāḥ tu bhaya-āvahāḥ .. tiraskṛtāḥ hi bhṛguṇā sva-prabhāvāt virodhinā .. 11 ..
ते वयं शरणं प्राप्तास्तव विश्वंभर प्रभो ॥ निर्भयान् कुरु नस्तस्माद्दयमानभवाद्भयात् ॥ १२ ॥
ते वयम् शरणम् प्राप्ताः तव विश्वंभर प्रभो ॥ निर्भयान् कुरु नः तस्मात् दयमान-भवात् भयात् ॥ १२ ॥
te vayam śaraṇam prāptāḥ tava viśvaṃbhara prabho .. nirbhayān kuru naḥ tasmāt dayamāna-bhavāt bhayāt .. 12 ..
अपमानं विशेषेण तस्मिन् यज्ञे महाप्रभो ॥ दक्षाद्यास्तेऽखिला दुष्टा अकुर्वन् गर्विता अति ॥ १३ ॥
अपमानम् विशेषेण तस्मिन् यज्ञे महा-प्रभो ॥ दक्ष-आद्याः ते अखिलाः दुष्टाः अकुर्वन् गर्विताः अति ॥ १३ ॥
apamānam viśeṣeṇa tasmin yajñe mahā-prabho .. dakṣa-ādyāḥ te akhilāḥ duṣṭāḥ akurvan garvitāḥ ati .. 13 ..
इत्युक्तं निखिलं वृत्तं स्वेषां सत्याश्च नारद ॥ तेषां च मूढबुद्धीनां यथेच्छसि तथा कुरु ॥ १४ ॥
इति उक्तम् निखिलम् वृत्तम् स्वेषाम् सत्याः च नारद ॥ तेषाम् च मूढ-बुद्धीनाम् यथा इच्छसि तथा कुरु ॥ १४ ॥
iti uktam nikhilam vṛttam sveṣām satyāḥ ca nārada .. teṣām ca mūḍha-buddhīnām yathā icchasi tathā kuru .. 14 ..
ब्रह्मोवाच ।।
इत्याकर्ण्यवचस्तस्य स्वगणानां वचः प्रभुः ॥ सस्मार नारदं सर्वं ज्ञातुं तच्चरितं लघु ॥ १५ ॥
इति आकर्ण्य वचः तस्य स्व-गणानाम् वचः प्रभुः ॥ सस्मार नारदम् सर्वम् ज्ञातुम् तद्-चरितम् लघु ॥ १५ ॥
iti ākarṇya vacaḥ tasya sva-gaṇānām vacaḥ prabhuḥ .. sasmāra nāradam sarvam jñātum tad-caritam laghu .. 15 ..
आगतस्त्वं द्रुतं तत्र देवर्षे दिव्यदर्शन ॥ प्रणम्य शंकरं भक्त्या सांजलिस्तत्र तस्थिवान् ॥ १६ ॥
आगतः त्वम् द्रुतम् तत्र देवर्षे दिव्य-दर्शन ॥ प्रणम्य शंकरम् भक्त्या स अंजलिः तत्र तस्थिवान् ॥ १६ ॥
āgataḥ tvam drutam tatra devarṣe divya-darśana .. praṇamya śaṃkaram bhaktyā sa aṃjaliḥ tatra tasthivān .. 16 ..
त्वां प्रशस्याथ स स्वामी सत्या वार्त्तां च पृष्टवान् ॥ दक्षयज्ञगताया वै परं च चरितं तथा ॥ १७॥
त्वाम् प्रशस्य अथ स स्वामी सत्याः वार्त्ताम् च पृष्टवान् ॥ दक्ष-यज्ञ-गतायाः वै परम् च चरितम् तथा ॥ १७॥
tvām praśasya atha sa svāmī satyāḥ vārttām ca pṛṣṭavān .. dakṣa-yajña-gatāyāḥ vai param ca caritam tathā .. 17..
पृष्टेन शंभुना तात त्वयाश्वेव शिवात्मना॥ तत्सर्वं कथितं वृतं जातं दक्षाध्वरे हि यत् ॥ १८॥
पृष्टेन शंभुना तात त्वया आशु एव शिव-आत्मना॥ तत् सर्वम् कथितम् वृतम् जातम् दक्ष-अध्वरे हि यत् ॥ १८॥
pṛṣṭena śaṃbhunā tāta tvayā āśu eva śiva-ātmanā.. tat sarvam kathitam vṛtam jātam dakṣa-adhvare hi yat .. 18..
तदाकर्ण्येश्वरो वाक्यं मुने तत्त्वन्मुखोदितम् ॥ चुकोपातिद्रुतं रुद्रो महारौद्रपराक्रमः॥ १९॥
तत् आकर्ण्य ईश्वरः वाक्यम् मुने तत् त्वद्-मुख-उदितम् ॥ चुकोप अतिद्रुतम् रुद्रः महा-रौद्र-पराक्रमः॥ १९॥
tat ākarṇya īśvaraḥ vākyam mune tat tvad-mukha-uditam .. cukopa atidrutam rudraḥ mahā-raudra-parākramaḥ.. 19..
उत्पाट्यैकां जटां रुद्रो लोकसंहारकारकः ॥ आस्फालयामास रुषा पर्वतस्य तदोपरि ॥ 2.2.32.२० ॥
उत्पाट्य एकाम् जटाम् रुद्रः लोक-संहार-कारकः ॥ आस्फालयामास रुषा पर्वतस्य तदा उपरि ॥ २।२।३२।२० ॥
utpāṭya ekām jaṭām rudraḥ loka-saṃhāra-kārakaḥ .. āsphālayāmāsa ruṣā parvatasya tadā upari .. 2.2.32.20 ..
तोदनाच्च द्विधा भूता सा जटा च मुने प्रभोः ॥ संबभूव महारावो महाप्रलयभीषणः ॥ ॥ २१ ॥
तोदनात् च द्विधा भूता सा जटा च मुने प्रभोः ॥ संबभूव महा-रावः महा-प्रलय-भीषणः ॥ ॥ २१ ॥
todanāt ca dvidhā bhūtā sā jaṭā ca mune prabhoḥ .. saṃbabhūva mahā-rāvaḥ mahā-pralaya-bhīṣaṇaḥ .. .. 21 ..
तज्जटायास्समुद्भूतो वीरभद्रो महाबलः ॥ पूर्वभागेन देवर्षे महाभीमो गणाग्रणीः ॥ २२ ॥
तद्-जटायाः समुद्भूतः वीरभद्रः महा-बलः ॥ पूर्व-भागेन देव-ऋषे महा-भीमः गणाग्रणीः ॥ २२ ॥
tad-jaṭāyāḥ samudbhūtaḥ vīrabhadraḥ mahā-balaḥ .. pūrva-bhāgena deva-ṛṣe mahā-bhīmaḥ gaṇāgraṇīḥ .. 22 ..
स भूमिं विश्वतो वृत्त्वात्यतिष्ठद्दशांगुलम् ॥ प्रलयानलसंकाशः प्रोन्नतो दोस्सहस्रवान् ॥ २३॥
स भूमिम् विश्वतस् वृत्त्वा अत्यतिष्ठत् दश-अंगुलम् ॥ प्रलय-अनल-संकाशः प्रोन्नतः दोस्-सहस्रवान् ॥ २३॥
sa bhūmim viśvatas vṛttvā atyatiṣṭhat daśa-aṃgulam .. pralaya-anala-saṃkāśaḥ pronnataḥ dos-sahasravān .. 23..
कोपनिश्वासतस्तत्र महारुद्रस्य चेशितुः ॥ जातं ज्वराणां शतकं संनिपातास्त्रयोदश ॥ २४॥
कोप-निश्वासतः तत्र महारुद्रस्य च ईशितुः ॥ जातम् ज्वराणाम् शतकम् संनिपाताः त्रयोदश ॥ २४॥
kopa-niśvāsataḥ tatra mahārudrasya ca īśituḥ .. jātam jvarāṇām śatakam saṃnipātāḥ trayodaśa .. 24..
महाकाली समुत्पन्ना तज्जटापरभा गतः ॥ महाभयंकरा तात भूतकोटिभिरावृता ॥ २५॥
महाकाली समुत्पन्ना तद्-जटा-परभा गतः ॥ महा-भयंकरा तात भूत-कोटिभिः आवृता ॥ २५॥
mahākālī samutpannā tad-jaṭā-parabhā gataḥ .. mahā-bhayaṃkarā tāta bhūta-koṭibhiḥ āvṛtā .. 25..
सर्वे मूर्त्तिधराः क्रूराः स्वर लोकभयंकराः ॥ स्वतेजसा प्रज्वलंतो दहंत इव सर्वतः ॥ २६ ॥
सर्वे मूर्त्ति-धराः क्रूराः स्वर लोक-भयंकराः ॥ स्व-तेजसा प्रज्वलंतः दहंतः इव सर्वतस् ॥ २६ ॥
sarve mūrtti-dharāḥ krūrāḥ svara loka-bhayaṃkarāḥ .. sva-tejasā prajvalaṃtaḥ dahaṃtaḥ iva sarvatas .. 26 ..
अथ वीरो वीरभद्रः प्रणम्य परमेश्वरम्॥ कृतांजलिपुटः प्राह वाक्यं वाक्यविशारदः ॥ २७॥
अथ वीरः वीरभद्रः प्रणम्य परमेश्वरम्॥ कृत-अंजलि-पुटः प्राह वाक्यम् वाक्य-विशारदः ॥ २७॥
atha vīraḥ vīrabhadraḥ praṇamya parameśvaram.. kṛta-aṃjali-puṭaḥ prāha vākyam vākya-viśāradaḥ .. 27..
वीरभद्र उवाच ।।
महारुद्र महारौद्र सोमसूर्याग्निलोचन ॥ किं कर्तव्यं मया कार्यं शीघ्रमाज्ञापय प्रभो ॥ २८॥
महारुद्र महारौद्र सोम-सूर्य-अग्नि-लोचन ॥ किम् कर्तव्यम् मया कार्यम् शीघ्रम् आज्ञापय प्रभो ॥ २८॥
mahārudra mahāraudra soma-sūrya-agni-locana .. kim kartavyam mayā kāryam śīghram ājñāpaya prabho .. 28..
शोषणीयाः किमीशान क्षणार्द्धेनैव सिंधवः ॥ पेषणीयाः किमीशान क्षणार्द्धेनैव पर्वताः ॥ २९॥
शोषणीयाः किम् ईशान क्षण-अर्द्धेन एव सिंधवः ॥ पेषणीयाः किम् ईशान क्षण-अर्द्धेन एव पर्वताः ॥ २९॥
śoṣaṇīyāḥ kim īśāna kṣaṇa-arddhena eva siṃdhavaḥ .. peṣaṇīyāḥ kim īśāna kṣaṇa-arddhena eva parvatāḥ .. 29..
क्षणेन भस्मसात्कुर्यां ब्रह्मांडमुत किं हर ॥ क्षणेन भस्मसात्कुर्याम्सुरान्वा किं मुनीश्वरान् ॥ 2.2.32.३०॥
क्षणेन भस्मसात्कुर्याम् ब्रह्मांडम् उत किम् हर ॥ क्षणेन भस्मसात्कुर्याम् सुरान् वा किम् मुनि-ईश्वरान् ॥ २।२।३२।३०॥
kṣaṇena bhasmasātkuryām brahmāṃḍam uta kim hara .. kṣaṇena bhasmasātkuryām surān vā kim muni-īśvarān .. 2.2.32.30..
व्याश्वासः सर्वलोकानां किमु चार्यो हि शंकर ॥ कर्तव्य किमुतेशान सर्वप्राणिविहिंसनम् ॥ ३१॥
व्याश्वासः सर्व-लोकानाम् किमु चार्यः हि शंकर ॥ कर्तव्य किम् उत ईशान सर्व-प्राणि-विहिंसनम् ॥ ३१॥
vyāśvāsaḥ sarva-lokānām kimu cāryaḥ hi śaṃkara .. kartavya kim uta īśāna sarva-prāṇi-vihiṃsanam .. 31..
ममाशक्यं न कुत्रापि त्वत्प्रसादान्महेश्वर ॥ पराक्रमेण मत्तुल्यो न भूतो न भविष्यति ॥ ३२ ॥
मम अशक्यम् न कुत्र अपि त्वद्-प्रसादात् महेश्वर ॥ पराक्रमेण मद्-तुल्यः न भूतः न भविष्यति ॥ ३२ ॥
mama aśakyam na kutra api tvad-prasādāt maheśvara .. parākrameṇa mad-tulyaḥ na bhūtaḥ na bhaviṣyati .. 32 ..
यत्र यत्कार्यमुद्दिश्य प्रेषयिष्यसि मां प्रभो ॥ तत्कार्यं साधयाम्येव सत्वरं त्वत्प्रसादतः॥ ३३॥
यत्र यत् कार्यम् उद्दिश्य प्रेषयिष्यसि माम् प्रभो ॥ तत् कार्यम् साधयामि एव सत्वरम् त्वद्-प्रसादतः॥ ३३॥
yatra yat kāryam uddiśya preṣayiṣyasi mām prabho .. tat kāryam sādhayāmi eva satvaram tvad-prasādataḥ.. 33..
क्षुद्रास्तरंति लोकाब्धिं शासनाच्छंकरस्य ते ॥ हरातोहं न किं तर्तुं महापत्सागरं क्षमः ॥ ३४ ॥
क्षुद्राः तरन्ति लोक-अब्धिम् शासनात् शंकरस्य ते ॥ हरातः अहम् न किम् तर्तुम् महा-आपद्-सागरम् क्षमः ॥ ३४ ॥
kṣudrāḥ taranti loka-abdhim śāsanāt śaṃkarasya te .. harātaḥ aham na kim tartum mahā-āpad-sāgaram kṣamaḥ .. 34 ..
त्वत्प्रेषिततृणेनापि महत्कार्यं मयत्नतः ॥ क्षणेन शक्यते कर्तुं शंकरात्र न संशयः ॥ ३५॥
त्वद्-प्रेषित-तृणेन अपि महत् कार्यम् म-यत्नतः ॥ क्षणेन शक्यते कर्तुम् शंकर अत्र न संशयः ॥ ३५॥
tvad-preṣita-tṛṇena api mahat kāryam ma-yatnataḥ .. kṣaṇena śakyate kartum śaṃkara atra na saṃśayaḥ .. 35..
लीलामात्रेण ते शंभो कार्यं यद्यपि सिद्ध्यति ॥ तथाप्यहं प्रेषणीयो तवैवानुग्रहो ह्ययम् ॥ ३६ ॥
लीला-मात्रेण ते शंभो कार्यम् यदि अपि सिद्धि-अति ॥ तथा अपि अहम् तव एव अनुग्रहः हि अयम् ॥ ३६ ॥
līlā-mātreṇa te śaṃbho kāryam yadi api siddhi-ati .. tathā api aham tava eva anugrahaḥ hi ayam .. 36 ..
शक्तिरेतादृशी शंभो ममापि त्वदनुग्रहात् ॥ विना शक्तिर्न कस्यापि शंकर त्वदनुग्रहात् ॥ ३७ ॥
शक्तिः एतादृशी शंभो मम अपि त्वद्-अनुग्रहात् ॥ विना शक्तिः न कस्य अपि शंकर त्वद्-अनुग्रहात् ॥ ३७ ॥
śaktiḥ etādṛśī śaṃbho mama api tvad-anugrahāt .. vinā śaktiḥ na kasya api śaṃkara tvad-anugrahāt .. 37 ..
त्वदाज्ञया विना कोपि तृणादीनपि वस्तुतः ॥ नैव चालयितुं शक्तस्सत्यमेतन्न संशयः ॥ ३८ ॥
त्वद्-आज्ञया विना कः अपि तृण-आदीन् अपि वस्तुतस् ॥ ना एव चालयितुम् शक्तः सत्यम् एतत् न संशयः ॥ ३८ ॥
tvad-ājñayā vinā kaḥ api tṛṇa-ādīn api vastutas .. nā eva cālayitum śaktaḥ satyam etat na saṃśayaḥ .. 38 ..
शंभो नियम्यास्सर्वेपि देवाद्यास्ते महेश्वर ॥ तथैवाहं नियम्यस्ते नियंतुस्सर्वदेहिनाम् ॥ ३९ ॥
शंभो नियम्याः सर्वे अपि देव-आद्याः ते महेश्वर ॥ तथा एव अहम् नियम्यः ते नियंतुः सर्व-देहिनाम् ॥ ३९ ॥
śaṃbho niyamyāḥ sarve api deva-ādyāḥ te maheśvara .. tathā eva aham niyamyaḥ te niyaṃtuḥ sarva-dehinām .. 39 ..
प्रणतोस्मि महादेव भूयोपि प्रणतोस्म्यहम् ॥ प्रेषय स्वेष्ट सिद्ध्यर्थं मामद्य हर सत्वरम् ॥ 2.2.32.४० ॥
प्रणतः अस्मि महादेव भूयस् पि प्रणतः अस्मि अहम् ॥ प्रेषय स्व-इष्ट सिद्धि-अर्थम् माम् अद्य हर सत्वरम् ॥ २।२।३२।४० ॥
praṇataḥ asmi mahādeva bhūyas pi praṇataḥ asmi aham .. preṣaya sva-iṣṭa siddhi-artham mām adya hara satvaram .. 2.2.32.40 ..
स्पंदोपि जायते शंभो सख्यांगानां मुहुर्मुहुः ॥ भविष्यत्यद्य विजयो मामतः प्रेषय प्रभो ॥ ४१ ॥
स्पंदः उपि जायते शंभो सख्य-अंगानाम् मुहुर् मुहुर् ॥ भविष्यति अद्य विजयः माम् अतस् प्रेषय प्रभो ॥ ४१ ॥
spaṃdaḥ upi jāyate śaṃbho sakhya-aṃgānām muhur muhur .. bhaviṣyati adya vijayaḥ mām atas preṣaya prabho .. 41 ..
हर्षोत्साहविशेषोपि जायते मम कश्चन ॥ शंभो त्वत्पादकमले संसक्तश्च मनो मम ॥ ४२ ॥
हर्ष-उत्साह-विशेषः उपि जायते मम कश्चन ॥ शंभो त्वद्-पाद-कमले संसक्तः च मनः मम ॥ ४२ ॥
harṣa-utsāha-viśeṣaḥ upi jāyate mama kaścana .. śaṃbho tvad-pāda-kamale saṃsaktaḥ ca manaḥ mama .. 42 ..
भविष्यति प्रतिपदं शुभसंतानसंततिः ॥ ४३ ॥
भविष्यति प्रतिपदम् शुभ-संतान-संततिः ॥ ४३ ॥
bhaviṣyati pratipadam śubha-saṃtāna-saṃtatiḥ .. 43 ..
तस्यैव विजयो नित्यं तस्यैव शुभमन्वहम् ॥ यस्य शंभौ दृढा भक्तिस्त्वयि शोभनसंश्रये ॥ ४४॥
तस्य एव विजयः नित्यम् तस्य एव शुभम् अन्वहम् ॥ यस्य शंभौ दृढा भक्तिः त्वयि शोभन-संश्रये ॥ ४४॥
tasya eva vijayaḥ nityam tasya eva śubham anvaham .. yasya śaṃbhau dṛḍhā bhaktiḥ tvayi śobhana-saṃśraye .. 44..
ब्रह्मोवाच ।।
इत्युक्तं तद्वचः श्रुत्वा संतुष्टो मंगलापतिः ॥ वीरभद्र जयेति त्वं प्रोक्ताशीः प्राह तं पुनः ॥ ४५ ॥
इति उक्तम् तत् वचः श्रुत्वा संतुष्टः मंगलापतिः ॥ वीरभद्र जय इति त्वम् प्रोक्त-आशीः प्राह तम् पुनर् ॥ ४५ ॥
iti uktam tat vacaḥ śrutvā saṃtuṣṭaḥ maṃgalāpatiḥ .. vīrabhadra jaya iti tvam prokta-āśīḥ prāha tam punar .. 45 ..
महेश्वर उवाच ।।
शृणु मद्वचनं तात वीरभद्र सुचेतसा ॥ करणीयं प्रयत्नेन तद्द्रुतं मे प्रतोषकम् ॥ ४६ ॥
शृणु मद्-वचनम् तात वीरभद्र सु चेतसा ॥ करणीयम् प्रयत्नेन तत् द्रुतम् मे प्रतोषकम् ॥ ४६ ॥
śṛṇu mad-vacanam tāta vīrabhadra su cetasā .. karaṇīyam prayatnena tat drutam me pratoṣakam .. 46 ..
यागं कर्तुं समुद्युक्तो दक्षो विधिसुतः खलः ॥ मद्विरोधी विशेषेण महागर्वोऽबुधोऽधुना ॥ ४७ ॥
यागम् कर्तुम् समुद्युक्तः दक्षः विधि-सुतः खलः ॥ मद्-विरोधी विशेषेण महा-गर्वः अबुधः अधुना ॥ ४७ ॥
yāgam kartum samudyuktaḥ dakṣaḥ vidhi-sutaḥ khalaḥ .. mad-virodhī viśeṣeṇa mahā-garvaḥ abudhaḥ adhunā .. 47 ..
तन्मखं भस्मसात्कृत्वा सयागपरिवारकम् ॥ पुनरायाहि मत्स्थानं सत्वरं गणसत्तम ॥ ४८॥
तद्-मखम् भस्मसात्कृत्वा स याग-परिवारकम् ॥ पुनर् आयाहि मद्-स्थानम् स त्वरम् गण-सत्तम ॥ ४८॥
tad-makham bhasmasātkṛtvā sa yāga-parivārakam .. punar āyāhi mad-sthānam sa tvaram gaṇa-sattama .. 48..
सुरा भवंतु गंधर्वा यक्षा वान्ये च केचन ॥ तानप्यद्यैव सहसा भस्मसात्कुरु सत्वरम्॥ ४९॥
सुराः भवन्तु गंधर्वाः यक्षाः वा अन्ये च केचन ॥ तान् अपि अद्य एव सहसा भस्मसात्कुरु सत्वरम्॥ ४९॥
surāḥ bhavantu gaṃdharvāḥ yakṣāḥ vā anye ca kecana .. tān api adya eva sahasā bhasmasātkuru satvaram.. 49..
तत्रास्तु विष्णुर्ब्रह्मा वा शचीशो वा यमोपि वा ॥ अपि चाद्यैव तान्सर्वान्पातयस्व प्रयत्नतः ॥ 2.2.32.५० ॥
तत्र अस्तु विष्णुः ब्रह्मा वा शचीशः वा यमः अपि वा ॥ अपि च अद्य एव तान् सर्वान् पातयस्व प्रयत्नतः ॥ २।२।३२।५० ॥
tatra astu viṣṇuḥ brahmā vā śacīśaḥ vā yamaḥ api vā .. api ca adya eva tān sarvān pātayasva prayatnataḥ .. 2.2.32.50 ..
सुरा भवंतु गंधर्वा यक्षा वान्ये च केचन ॥ तानप्यद्यैव सहसा भस्मसात्कुरु सत्वरम् ॥ ५१ ॥
सुराः भवन्तु गंधर्वाः यक्षाः वा अन्ये च केचन ॥ तान् अपि अद्य एव सहसा भस्मसात्कुरु सत्वरम् ॥ ५१ ॥
surāḥ bhavantu gaṃdharvāḥ yakṣāḥ vā anye ca kecana .. tān api adya eva sahasā bhasmasātkuru satvaram .. 51 ..
दधीचिकृतमुल्लंघ्य शपथं मयि तत्र ये ॥ तिष्ठंति ते प्रयत्नेन ज्वालनीयास्त्वया ध्रुवम् ॥ ५२ ॥
दधीचि-कृतम् उल्लंघ्य शपथम् मयि तत्र ये ॥ तिष्ठन्ति ते प्रयत्नेन ज्वालनीयाः त्वया ध्रुवम् ॥ ५२ ॥
dadhīci-kṛtam ullaṃghya śapatham mayi tatra ye .. tiṣṭhanti te prayatnena jvālanīyāḥ tvayā dhruvam .. 52 ..
प्रमथाश्चागमिष्यंति यदि विष्ण्वादयो भ्रमात् ॥ नानाकर्षणमंत्रेण ज्वालयानीय सत्वरम् ॥ ५३ ॥
प्रमथाः च आगमिष्यन्ति यदि विष्णु-आदयः भ्रमात् ॥ नाना आकर्षण-मंत्रेण ज्वालया आनीय सत्वरम् ॥ ५३ ॥
pramathāḥ ca āgamiṣyanti yadi viṣṇu-ādayaḥ bhramāt .. nānā ākarṣaṇa-maṃtreṇa jvālayā ānīya satvaram .. 53 ..
ये तत्रोल्लंघ्य शपथं मदीयं गर्विताः स्थिताः ॥ ते हि मद्द्रोहिणोऽतस्तान् ज्वालयानलमालया ॥ ५४ ॥
ये तत्र उल्लंघ्य शपथम् मदीयम् गर्विताः स्थिताः ॥ ते हि मद्-द्रोहिणः अतस् तान् ज्वालय अनल-मालया ॥ ५४ ॥
ye tatra ullaṃghya śapatham madīyam garvitāḥ sthitāḥ .. te hi mad-drohiṇaḥ atas tān jvālaya anala-mālayā .. 54 ..
सपत्नीकान्ससारांश्च दक्षयागस्थलस्थितान् ॥ प्रज्वाल्य भस्मसात्कृत्वा पुनरायाहि सत्वरम् ॥ ५५॥
स पत्नीकान् स सारान् च दक्ष-याग-स्थल-स्थितान् ॥ प्रज्वाल्य भस्मसात्कृत्वा पुनर् आयाहि सत्वरम् ॥ ५५॥
sa patnīkān sa sārān ca dakṣa-yāga-sthala-sthitān .. prajvālya bhasmasātkṛtvā punar āyāhi satvaram .. 55..
तत्र त्वयि गते देवा विश्वाद्य अपि सादरम् ॥ स्तोष्यंति त्वां तदाप्याशु ज्वालया ज्वालयैव तान् ॥ ५६॥
तत्र त्वयि गते देवाः विश्व-अद्य अपि सादरम् ॥ स्तोष्यंति त्वाम् तदा अपि आशु ज्वालया ज्वालय एव तान् ॥ ५६॥
tatra tvayi gate devāḥ viśva-adya api sādaram .. stoṣyaṃti tvām tadā api āśu jvālayā jvālaya eva tān .. 56..
देवानपि कृतद्रोहान् ज्वालामालासमाकुलः ॥ ज्वालय ज्वलनैश्शीघ्रं माध्यायाध्यायपालकम् ॥ ५७॥
देवान् अपि कृत-द्रोहान् ज्वाला-माला-समाकुलः ॥ ज्वालय ज्वलनैः शीघ्रम् मा अध्याय-अध्याय-पालकम् ॥ ५७॥
devān api kṛta-drohān jvālā-mālā-samākulaḥ .. jvālaya jvalanaiḥ śīghram mā adhyāya-adhyāya-pālakam .. 57..
दक्षादीन्सकलांस्तत्र सपत्नीकान्सबांधवान् ॥ प्रज्वाल्य वीर दक्षं नु सलीलं सलिलं पिब ॥ ५८ ॥
दक्ष-आदीन् सकलान् तत्र स पत्नीकान् स बांधवान् ॥ प्रज्वाल्य वीर दक्षम् नु स लीलम् सलिलम् पिब ॥ ५८ ॥
dakṣa-ādīn sakalān tatra sa patnīkān sa bāṃdhavān .. prajvālya vīra dakṣam nu sa līlam salilam piba .. 58 ..
ब्रह्मोवाच ।।
इत्युक्तो रोषताम्राक्षो वेदमर्यादपालकः ॥ विरराम महावीरं कालारिस्सकलेश्वरः ॥ ५९॥
इति उक्तः रोष-ताम्र-अक्षः वेद-मर्याद-पालकः ॥ विरराम महा-वीरम् कालारिः सकल-ईश्वरः ॥ ५९॥
iti uktaḥ roṣa-tāmra-akṣaḥ veda-maryāda-pālakaḥ .. virarāma mahā-vīram kālāriḥ sakala-īśvaraḥ .. 59..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे वीरभद्रोत्पत्तिशिवोपदेशवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ३२॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सतीखण्डे वीरभद्रोत्पत्तिशिवोपदेशवर्णनम् नाम द्वात्रिंशः अध्यायः ॥ ३२॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satīkhaṇḍe vīrabhadrotpattiśivopadeśavarṇanam nāma dvātriṃśaḥ adhyāyaḥ .. 32..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In