| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
इत्युक्तं श्रीमहेशस्य श्रुत्वा वचनमादरात्॥ वीरभद्रोतिसंतुष्टः प्रणनाम महेश्वरम॥ १॥
इति उक्तम् श्री-महेशस्य श्रुत्वा वचनम् आदरात्॥ प्रणनाम महेश्वरम्॥ १॥
iti uktam śrī-maheśasya śrutvā vacanam ādarāt.. praṇanāma maheśvaram.. 1..
शासनं शिरसा धृत्वा देवदेवस्य शूलिनः।प्रचचाल ततः शीघ्रं वीरभद्रो मखं प्रति॥ २॥
शासनम् शिरसा धृत्वा देवदेवस्य शूलिनः।प्रचचाल ततस् शीघ्रम् वीरभद्रः मखम् प्रति॥ २॥
śāsanam śirasā dhṛtvā devadevasya śūlinaḥ.pracacāla tatas śīghram vīrabhadraḥ makham prati.. 2..
शिवोथ प्रेषयामास शोभार्थं कोटिशो गणान्॥ तेन सार्द्धं महावीरान्मलयानलसन्निभान्॥ ॥ ३॥
शिवा उथ प्रेषयामास शोभा-अर्थम् कोटिशस् गणान्॥ तेन सार्द्धम् महा-वीरान् मलय-अनल-सन्निभान्॥ ॥ ३॥
śivā utha preṣayāmāsa śobhā-artham koṭiśas gaṇān.. tena sārddham mahā-vīrān malaya-anala-sannibhān.. .. 3..
अथ ते वीरभद्रस्य पुरतः प्रबला गणाः॥ पश्चादपि ययुर्वीराः कुतूहलकरा गणाः॥ ४॥
अथ ते वीरभद्रस्य पुरतस् प्रबलाः गणाः॥ पश्चात् अपि ययुः वीराः कुतूहल-कराः गणाः॥ ४॥
atha te vīrabhadrasya puratas prabalāḥ gaṇāḥ.. paścāt api yayuḥ vīrāḥ kutūhala-karāḥ gaṇāḥ.. 4..
वीरभद्रसमेता येगणाश्शतसहस्रशः ॥ पार्षदाः कालकालस्य सर्वे रुद्रस्वरूपिणः ॥ ५।]
वीरभद्र-समेताः ये गणाः शत-सहस्रशस् ॥ पार्षदाः काल-कालस्य सर्वे रुद्र-स्वरूपिणः ॥ ५।]
vīrabhadra-sametāḥ ye gaṇāḥ śata-sahasraśas .. pārṣadāḥ kāla-kālasya sarve rudra-svarūpiṇaḥ .. 5.]
गणैस्समेतः किलतैर्महात्मा स वीरभद्रो हरवेषभूषणः ॥ सहस्रबाहुर्भुजगाधिपाढ्यो ययौ रथस्थः प्रबलोतिभीकरः ॥ ६॥
गणैः समेतः किल तैः महात्मा स वीरभद्रः हर-वेष-भूषणः ॥ सहस्र-बाहुः भुजग-अधिप-आढ्यः ययौ रथ-स्थः प्रबल-उति-भीकरः ॥ ६॥
gaṇaiḥ sametaḥ kila taiḥ mahātmā sa vīrabhadraḥ hara-veṣa-bhūṣaṇaḥ .. sahasra-bāhuḥ bhujaga-adhipa-āḍhyaḥ yayau ratha-sthaḥ prabala-uti-bhīkaraḥ .. 6..
नल्वानं च सहस्रे द्वे प्रमाणं स्यंदनस्य हि ॥ अयुतेनैव सिंहानां वाहनानां प्रयत्नतः ॥ ७॥
नल्वानम् च सहस्रे द्वे प्रमाणम् स्यंदनस्य हि ॥ अयुतेन एव सिंहानाम् वाहनानाम् प्रयत्नतः ॥ ७॥
nalvānam ca sahasre dve pramāṇam syaṃdanasya hi .. ayutena eva siṃhānām vāhanānām prayatnataḥ .. 7..
तथैव प्रबलाः सिंहा बहवः पार्श्वरक्षकाः ॥ शार्दूला मकरा मत्स्या गजास्तत्र सहस्रशः ॥ ८॥
तथा एव प्रबलाः सिंहाः बहवः पार्श्वरक्षकाः ॥ शार्दूलाः मकराः मत्स्याः गजाः तत्र सहस्रशस् ॥ ८॥
tathā eva prabalāḥ siṃhāḥ bahavaḥ pārśvarakṣakāḥ .. śārdūlāḥ makarāḥ matsyāḥ gajāḥ tatra sahasraśas .. 8..
वीरभद्रे प्रचलिते दक्षनाशाय सत्वरम् ॥ कल्पवृक्षसमुत्सृष्टा पुष्पवृष्टिरभूत्तदा ॥ ९ ॥
वीरभद्रे प्रचलिते दक्ष-नाशाय स त्वरम् ॥ कल्पवृक्ष-समुत्सृष्टा पुष्प-वृष्टिः अभूत् तदा ॥ ९ ॥
vīrabhadre pracalite dakṣa-nāśāya sa tvaram .. kalpavṛkṣa-samutsṛṣṭā puṣpa-vṛṣṭiḥ abhūt tadā .. 9 ..
तुष्टुवुश्च गणा वीर शिपिविष्टे प्रचेष्टितम् ॥ चक्रुः कुतूहलं सर्वे तस्मिंश्च गमनोत्सवैः ॥ 2.2.33.१०॥
तुष्टुवुः च गणाः वीर शिपिविष्टे प्रचेष्टितम् ॥ चक्रुः कुतूहलम् सर्वे तस्मिन् च गमन-उत्सवैः ॥ २।२।३३।१०॥
tuṣṭuvuḥ ca gaṇāḥ vīra śipiviṣṭe praceṣṭitam .. cakruḥ kutūhalam sarve tasmin ca gamana-utsavaiḥ .. 2.2.33.10..
काली कात्यायिनीशानी चामुंडा मुंडमर्दिनी ॥ भद्रकाली तथा भद्रा त्वरिता वैष्णवी तथा ॥ ११ ॥
॥ भद्रकाली तथा भद्रा त्वरिता वैष्णवी तथा ॥ ११ ॥
.. bhadrakālī tathā bhadrā tvaritā vaiṣṇavī tathā .. 11 ..
एताभिर्नवदुर्गाभिर्महाकाली समन्विता ।ययौ दक्षविनाशाय सर्वभूतगणैस्सह ॥ १२॥
एताभिः नव-दुर्गाभिः महाकाली समन्विता ।ययौ दक्ष-विनाशाय सर्व-भूत-गणैः सह ॥ १२॥
etābhiḥ nava-durgābhiḥ mahākālī samanvitā .yayau dakṣa-vināśāya sarva-bhūta-gaṇaiḥ saha .. 12..
डाकिनी शाकिनी चैव भूतप्रमथगुह्यकाः ॥ कूष्मांडाः पर्पटा श्चैव चटका ब्रह्मराक्षसाः ॥ १३ ॥
डाकिनी शाकिनी च एव भूत-प्रमथ-गुह्यकाः ॥ कूष्मांडाः पर्पटाः च एव चटकाः ब्रह्मराक्षसाः ॥ १३ ॥
ḍākinī śākinī ca eva bhūta-pramatha-guhyakāḥ .. kūṣmāṃḍāḥ parpaṭāḥ ca eva caṭakāḥ brahmarākṣasāḥ .. 13 ..
भैरवाः क्षेत्रपालाश्च दक्षयज्ञविनाशकाः ॥ निर्ययुस्त्वरितं वीराश्शिवाज्ञाप्रतिपालकाः ॥ १४ ॥
भैरवाः क्षेत्रपालाः च दक्ष-यज्ञ-विनाशकाः ॥ निर्ययुः त्वरितम् वीराः शिव-आज्ञा-प्रतिपालकाः ॥ १४ ॥
bhairavāḥ kṣetrapālāḥ ca dakṣa-yajña-vināśakāḥ .. niryayuḥ tvaritam vīrāḥ śiva-ājñā-pratipālakāḥ .. 14 ..
तथैव योगिनीचक्रं चतुःषष्टिगणान्वितम् ॥ निर्ययौ सहसा क्रुद्धं दक्षयज्ञं विनाशितुम् ॥ १५॥
तथा एव योगिनीचक्रम् चतुःषष्टि-गण-अन्वितम् ॥ निर्ययौ सहसा क्रुद्धम् दक्ष-यज्ञम् विनाशितुम् ॥ १५॥
tathā eva yoginīcakram catuḥṣaṣṭi-gaṇa-anvitam .. niryayau sahasā kruddham dakṣa-yajñam vināśitum .. 15..
तेषां गणानां सर्वेषां संख्यानं शृणु नारद ॥ महाबलवतां संघोमुख्यानां धैर्यशालिनाम् ॥ १६॥
तेषाम् गणानाम् सर्वेषाम् संख्यानम् शृणु नारद ॥ महा-बलवताम् संघः मुख्यानाम् धैर्य-शालिनाम् ॥ १६॥
teṣām gaṇānām sarveṣām saṃkhyānam śṛṇu nārada .. mahā-balavatām saṃghaḥ mukhyānām dhairya-śālinām .. 16..
अभ्ययाच्छंकुकर्णश्च दशकोट्या गणेश्वरः॥ दशभिः केकराक्षश्च विकृतो ष्टाभिरेव ॥ १७॥
अभ्ययात् शंकुकर्णः च दश-कोट्या गणेश्वरः॥ दशभिः केकराक्षः च विकृतः ष्टाभिः एव ॥ १७॥
abhyayāt śaṃkukarṇaḥ ca daśa-koṭyā gaṇeśvaraḥ.. daśabhiḥ kekarākṣaḥ ca vikṛtaḥ ṣṭābhiḥ eva .. 17..
चतुःषष्ट्या विशाखश्च नवभिः पारियात्रिकः ॥ षड्भिस्सर्वाङ्गको वीरस्तथैव विकृताननः ॥ १८ ॥
चतुःषष्ट्या विशाखः च नवभिः पारियात्रिकः ॥ षड्भिः सर्व-अङ्गकः वीरः तथा एव विकृत-आननः ॥ १८ ॥
catuḥṣaṣṭyā viśākhaḥ ca navabhiḥ pāriyātrikaḥ .. ṣaḍbhiḥ sarva-aṅgakaḥ vīraḥ tathā eva vikṛta-ānanaḥ .. 18 ..
ज्वालकेशो द्वादशभिः कोटिभिर्गणपुंगवः ॥ सप्तभिः समदज्जीमान् दुद्रभोष्टाभिरेव च ॥ १९॥
ज्वालकेशः द्वादशभिः कोटिभिः गण-पुंगवः ॥ सप्तभिः दुद्रभ-उष्टाभिः एव च ॥ १९॥
jvālakeśaḥ dvādaśabhiḥ koṭibhiḥ gaṇa-puṃgavaḥ .. saptabhiḥ dudrabha-uṣṭābhiḥ eva ca .. 19..
पंचभिश्च कपालीशः षड्भिस्संदारको गणः ॥ कोटिकोटिभिरेवेह कोटिकुण्डस्तथैव च ॥ 2.2.33.२० ॥
पंचभिः च कपाली ईशः षड्भिः संदारकः गणः ॥ कोटि-कोटिभिः एवा इह कोटिकुण्डः तथा एव च ॥ २।२।३३।२० ॥
paṃcabhiḥ ca kapālī īśaḥ ṣaḍbhiḥ saṃdārakaḥ gaṇaḥ .. koṭi-koṭibhiḥ evā iha koṭikuṇḍaḥ tathā eva ca .. 2.2.33.20 ..
विष्टंभोऽष्टाभिर्वीरैः कोटिभिर्गणसप्तमः ॥ सहस्रकोटिभिस्तात संनादः पिप्पलस्तथा ॥ २१ ॥
विष्टंभः अष्टाभिः वीरैः कोटिभिः गण-सप्तमः ॥ सहस्र-कोटिभिः तात संनादः पिप्पलः तथा ॥ २१ ॥
viṣṭaṃbhaḥ aṣṭābhiḥ vīraiḥ koṭibhiḥ gaṇa-saptamaḥ .. sahasra-koṭibhiḥ tāta saṃnādaḥ pippalaḥ tathā .. 21 ..
आवेशनस्तथाष्टाभिरष्टाभिश्चंद्रतापनः ॥ महावेशः सहस्रेण कोटिना गणपो वृतः ॥ २२ ॥
आवेशनः तथा अष्टाभिः अष्टाभिः चंद्रतापनः ॥ महावेशः सहस्रेण कोटिना गणपः वृतः ॥ २२ ॥
āveśanaḥ tathā aṣṭābhiḥ aṣṭābhiḥ caṃdratāpanaḥ .. mahāveśaḥ sahasreṇa koṭinā gaṇapaḥ vṛtaḥ .. 22 ..
कुण्डी द्वादशकोटीभिस्तथा पर्वतको मुने ॥ विनाशितुं दक्षयज्ञं निर्ययौ गणसत्तम ॥ २३ ॥
कुण्डी द्वादश-कोटीभिः तथा पर्वतकः मुने ॥ विनाशितुम् दक्ष-यज्ञम् निर्ययौ गण-सत्तम ॥ २३ ॥
kuṇḍī dvādaśa-koṭībhiḥ tathā parvatakaḥ mune .. vināśitum dakṣa-yajñam niryayau gaṇa-sattama .. 23 ..
कालश्च कालकश्चैव महाकालस्तथैव च ॥ कोटीनां शतकेनैव दक्षयज्ञं ययौ प्रति ॥ २४ ॥
कालः च कालकः च एव महाकालः तथा एव च ॥ कोटीनाम् शतकेन एव दक्ष-यज्ञम् ययौ प्रति ॥ २४ ॥
kālaḥ ca kālakaḥ ca eva mahākālaḥ tathā eva ca .. koṭīnām śatakena eva dakṣa-yajñam yayau prati .. 24 ..
अग्निकृच्छतकोट्या च कोट्याग्निमुख एव च ॥ आदित्यमूर्द्धा कोट्या च तथा चैव घनावहः ॥ २५ ॥
अग्नि-कृत् शत-कोट्या च कोट्या अग्निमुखः एव च ॥ आदित्यमूर्द्धा कोट्या च तथा च एव घनावहः ॥ २५ ॥
agni-kṛt śata-koṭyā ca koṭyā agnimukhaḥ eva ca .. ādityamūrddhā koṭyā ca tathā ca eva ghanāvahaḥ .. 25 ..
सन्नाहश्शतकोट्या च कोट्या च कुमुदो गणः ॥ अमोघः कोकिलश्चैव कोटिकोट्या गणाधिपः ॥ २६ ॥
सन्नाहः शत-कोट्या च कोट्या च कुमुदः गणः ॥ अमोघः कोकिलः च एव कोटि-कोट्या गणाधिपः ॥ २६ ॥
sannāhaḥ śata-koṭyā ca koṭyā ca kumudaḥ gaṇaḥ .. amoghaḥ kokilaḥ ca eva koṭi-koṭyā gaṇādhipaḥ .. 26 ..
काष्ठागूढश्चतुःषष्ट्या सुकेशी वृषभस्तथा ॥ सुमन्त्रको गणाधीशस्तथा तात सुनिर्ययौ ॥ २७ ॥
काष्ठागूढः चतुःषष्ट्या सुकेशी वृषभः तथा ॥ सुमन्त्रकः गणाधीशः तथा तात सुनिर्ययौ ॥ २७ ॥
kāṣṭhāgūḍhaḥ catuḥṣaṣṭyā sukeśī vṛṣabhaḥ tathā .. sumantrakaḥ gaṇādhīśaḥ tathā tāta suniryayau .. 27 ..
काकपादोदरः षष्टिकोटिभिर्गणसत्तमः ॥ तथा सन्तानकः षष्टिकोटिभिर्गणपुंगवः ॥ २८ ॥
काकपाद-उदरः षष्टि-कोटिभिः गण-सत्तमः ॥ तथा सन्तानकः षष्टि-कोटिभिः गण-पुंगवः ॥ २८ ॥
kākapāda-udaraḥ ṣaṣṭi-koṭibhiḥ gaṇa-sattamaḥ .. tathā santānakaḥ ṣaṣṭi-koṭibhiḥ gaṇa-puṃgavaḥ .. 28 ..
महाबलश्च नवभिः कोटिभिः पुंगवस्तथा ॥ २९ ॥
महा-बलः च नवभिः कोटिभिः पुंगवः तथा ॥ २९ ॥
mahā-balaḥ ca navabhiḥ koṭibhiḥ puṃgavaḥ tathā .. 29 ..
मधुपिंगस्तथा तात गणाधीशो हि निर्ययौ ॥ नीलो नवत्या कोटीनां पूर्णभद्रस्तथैव च ॥ 2.2.33.३० ॥
मधुपिंगः तथा तात गणाधीशः हि निर्ययौ ॥ नीलः नवत्या कोटीनाम् पूर्णभद्रः तथा एव च ॥ २।२।३३।३० ॥
madhupiṃgaḥ tathā tāta gaṇādhīśaḥ hi niryayau .. nīlaḥ navatyā koṭīnām pūrṇabhadraḥ tathā eva ca .. 2.2.33.30 ..
निर्ययौ शतकोटीभिश्चतुर्वक्त्रो गणाधिपः ॥ काष्ठागूढेश्चतुष्षष्ट्या सुकेशो वृषभस्तथा ॥ ३१ ॥
निर्ययौ शत-कोटीभिः चतुर्वक्त्रः गणाधिपः ॥ काष्ठा-गूढेः चतुष्षष्ट्या सुकेशः वृषभः तथा ॥ ३१ ॥
niryayau śata-koṭībhiḥ caturvaktraḥ gaṇādhipaḥ .. kāṣṭhā-gūḍheḥ catuṣṣaṣṭyā sukeśaḥ vṛṣabhaḥ tathā .. 31 ..
विरूपाक्षश्च कोटीनां चतुःषष्ट्या गणेश्वरः ॥ तालकेतुः षडास्यश्च पंचास्यश्च गणाधिपः ॥ ३२॥
विरूपाक्षः च कोटीनाम् चतुःषष्ट्या गणेश्वरः ॥ तालकेतुः षष्-आस्यः च पंच-आस्यः च गणाधिपः ॥ ३२॥
virūpākṣaḥ ca koṭīnām catuḥṣaṣṭyā gaṇeśvaraḥ .. tālaketuḥ ṣaṣ-āsyaḥ ca paṃca-āsyaḥ ca gaṇādhipaḥ .. 32..
संवर्तकस्तथा चैव कुलीशश्च स्वयं प्रभुः ॥ लोकांतकश्च दीप्तात्मा तथा दैत्यान्तको मुने ॥ ३३ ॥
संवर्तकः तथा च एव कुलीशः च स्वयम् प्रभुः ॥ लोक-अन्तकः च दीप्त-आत्मा तथा दैत्यान्तकः मुने ॥ ३३ ॥
saṃvartakaḥ tathā ca eva kulīśaḥ ca svayam prabhuḥ .. loka-antakaḥ ca dīpta-ātmā tathā daityāntakaḥ mune .. 33 ..
गणो भृंगीरिटिः श्रीमान् देवदेवप्रियस्तथा ॥ अशनिर्भालकश्चैव चतुःषष्ट्या सह्स्रकः ॥ ३४ ॥
गणः भृंगीरिटिः श्रीमान् देवदेव-प्रियः तथा ॥ अशनिः भालकः च एव चतुःषष्ट्या सह्स्रकः ॥ ३४ ॥
gaṇaḥ bhṛṃgīriṭiḥ śrīmān devadeva-priyaḥ tathā .. aśaniḥ bhālakaḥ ca eva catuḥṣaṣṭyā sahsrakaḥ .. 34 ..
कोटिकोटिसहस्राणां शतैर्विंश तिभिर्वृतः ॥ वीरेशो ह्यभ्ययाद्वीरः वीरभद्र शिवाज्ञया ॥ ३५ ॥
कोटि-कोटि-सहस्राणाम् शतैः विंश-तिभिः वृतः ॥ वीर-ईशः हि अभ्ययात् वीरः वीरभद्र शिव-आज्ञया ॥ ३५ ॥
koṭi-koṭi-sahasrāṇām śataiḥ viṃśa-tibhiḥ vṛtaḥ .. vīra-īśaḥ hi abhyayāt vīraḥ vīrabhadra śiva-ājñayā .. 35 ..
भूतकोटिसहस्रैस्तु प्रययौ कोटिभिस्त्रिभिः ॥ रोमजैः श्वगणै श्चैव तथा वीरो ययौ द्रुतम् ॥ ३६ ॥
भूत-कोटि-सहस्रैः तु प्रययौ कोटिभिः त्रिभिः ॥ रोम-जैः श्व-गणैः च एव तथा वीरः ययौ द्रुतम् ॥ ३६ ॥
bhūta-koṭi-sahasraiḥ tu prayayau koṭibhiḥ tribhiḥ .. roma-jaiḥ śva-gaṇaiḥ ca eva tathā vīraḥ yayau drutam .. 36 ..
तदा भेरीमहानादः शंखाश्च विविधस्वनाः ॥ जटाहरोमुखाश्चैव शृंगाणि विविधानि च ॥ ३७ ॥
तदा भेरी-महा-नादः शंखाः च विविध-स्वनाः ॥ शृंगाणि विविधानि च ॥ ३७ ॥
tadā bherī-mahā-nādaḥ śaṃkhāḥ ca vividha-svanāḥ .. śṛṃgāṇi vividhāni ca .. 37 ..
ते तानि विततान्येव बंधनानि सुखानि च ॥ वादित्राणि विनेदुश्च विविधानि महोत्सवे ॥ ३८ ॥
ते तानि विततानि एव बंधनानि सुखानि च ॥ वादित्राणि विनेदुः च विविधानि महा-उत्सवे ॥ ३८ ॥
te tāni vitatāni eva baṃdhanāni sukhāni ca .. vāditrāṇi vineduḥ ca vividhāni mahā-utsave .. 38 ..
वीरभद्रस्य यात्रायां सबलस्य महामुने ॥ शकुनान्यभवंस्तत्र भूरीणि सुखदानि च ॥ ३९ ॥
वीरभद्रस्य यात्रायाम् सबलस्य महा-मुने ॥ शकुनानि अभवन् तत्र भूरीणि सुख-दानि च ॥ ३९ ॥
vīrabhadrasya yātrāyām sabalasya mahā-mune .. śakunāni abhavan tatra bhūrīṇi sukha-dāni ca .. 39 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे वीरभद्रयात्रावर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सतीखण्डे वीरभद्रयात्रावर्णनम् नाम त्रयस्त्रिंशः अध्यायः ॥ ३३ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satīkhaṇḍe vīrabhadrayātrāvarṇanam nāma trayastriṃśaḥ adhyāyaḥ .. 33 ..
ब्रह्मोवाच ।।
एवं प्रचलिते चास्मिन् वीरभद्रे गणान्विते ॥ दुष्टचिह्नानि दक्षेण दृष्टानि विबुधैरपि ॥ १ ॥
एवम् प्रचलिते च अस्मिन् वीरभद्रे गण-अन्विते ॥ दुष्ट-चिह्नानि दक्षेण दृष्टानि विबुधैः अपि ॥ १ ॥
evam pracalite ca asmin vīrabhadre gaṇa-anvite .. duṣṭa-cihnāni dakṣeṇa dṛṣṭāni vibudhaiḥ api .. 1 ..
उत्पाता विविधाश्चासन् वीरभद्रे गणान्विते ॥ त्रिविधा अपि देवर्षे यज्ञविध्वंससूचकाः ॥ २॥
उत्पाताः विविधाः च आसन् वीरभद्रे गण-अन्विते ॥ त्रिविधाः अपि देव-ऋषे यज्ञ-विध्वंस-सूचकाः ॥ २॥
utpātāḥ vividhāḥ ca āsan vīrabhadre gaṇa-anvite .. trividhāḥ api deva-ṛṣe yajña-vidhvaṃsa-sūcakāḥ .. 2..
दक्षवामाक्षिबाहूरुविस्पंदस्समजायत ॥ नानाकष्टप्रदस्तात सर्वथाऽशुभसूचकः ॥ ३॥
दक्ष-वाम-अक्षि-बाहु-ऊरु-विस्पंदः समजायत ॥ नाना कष्ट-प्रदः तात सर्वथा अशुभ-सूचकः ॥ ३॥
dakṣa-vāma-akṣi-bāhu-ūru-vispaṃdaḥ samajāyata .. nānā kaṣṭa-pradaḥ tāta sarvathā aśubha-sūcakaḥ .. 3..
भूकंपस्समभूत्तत्र दक्षयागस्थले तदा ॥ दक्षोपश्यच्च मध्याह्ने नक्षत्राण्यद्भुतानि च ॥ ४॥
भू-कंपः समभूत् तत्र दक्ष-याग-स्थले तदा ॥ दक्ष उपश्यत् च मध्याह्ने नक्षत्राणि अद्भुतानि च ॥ ४॥
bhū-kaṃpaḥ samabhūt tatra dakṣa-yāga-sthale tadā .. dakṣa upaśyat ca madhyāhne nakṣatrāṇi adbhutāni ca .. 4..
दिशश्चासन्सुमलिनाः कर्बुरोभूद्दिवाकरः ॥ परिवेषसहस्रेण संक्रांतश्च भयंकरः ॥ ५॥
दिशः च आसन् सु मलिनाः कर्बुरः भूत् दिवाकरः ॥ परिवेष-सहस्रेण संक्रांतः च भयंकरः ॥ ५॥
diśaḥ ca āsan su malināḥ karburaḥ bhūt divākaraḥ .. pariveṣa-sahasreṇa saṃkrāṃtaḥ ca bhayaṃkaraḥ .. 5..
नक्षत्राणि पतंति स्म विद्युदग्निप्रभाणि च ॥ नक्षत्राणामभूद्वक्रा गतिश्चाधोमुखी तदा ॥ ६॥
नक्षत्राणि पतंति स्म विद्युत्-अग्नि-प्रभाणि च ॥ नक्षत्राणाम् अभूत् वक्रा गतिः च अधोमुखी तदा ॥ ६॥
nakṣatrāṇi pataṃti sma vidyut-agni-prabhāṇi ca .. nakṣatrāṇām abhūt vakrā gatiḥ ca adhomukhī tadā .. 6..
गृध्रा दक्ष शिरः स्पृष्ट्वा समुद्भूताः सहस्रशः॥ आसीद्गृध्रपक्षच्छायैस्सच्छायो यागमंडपः॥ ७॥
गृध्रा दक्ष-शिरः-स्पृष्ट्वा समुद्भूताः सहस्रशस्॥ आसीत् गृध्र-पक्ष-छायैः स छायः याग-मंडपः॥ ७॥
gṛdhrā dakṣa-śiraḥ-spṛṣṭvā samudbhūtāḥ sahasraśas.. āsīt gṛdhra-pakṣa-chāyaiḥ sa chāyaḥ yāga-maṃḍapaḥ.. 7..
ववाशिरे यागभूमौ क्रोष्टारो नेत्रकस्तदा॥ उल्कावृष्टिरभूत्तत्र श्वेतवृश्चिकसंभवा ॥ ८॥
ववाशिरे याग-भूमौ क्रोष्टारः नेत्रकः तदा॥ उल्का-वृष्टिः अभूत् तत्र श्वेत-वृश्चिक-संभवा ॥ ८॥
vavāśire yāga-bhūmau kroṣṭāraḥ netrakaḥ tadā.. ulkā-vṛṣṭiḥ abhūt tatra śveta-vṛścika-saṃbhavā .. 8..
खरा वाता ववुस्तत्र पांशुवृष्टिसमन्विताः॥ शलभाश्च समुद्भूता विवर्तानिलकंपिताः ॥ ९॥
खराः वाताः ववुः तत्र पांशु-वृष्टि-समन्विताः॥ शलभाः च समुद्भूताः विवर्त-अनिल-कंपिताः ॥ ९॥
kharāḥ vātāḥ vavuḥ tatra pāṃśu-vṛṣṭi-samanvitāḥ.. śalabhāḥ ca samudbhūtāḥ vivarta-anila-kaṃpitāḥ .. 9..
रीतैश्च पवनै रूर्द्ध्वं स दक्षाध्वरमंडपः॥ दैवान्वितेन दक्षेण यः कृतो नूतनोद्भुतः॥ 2.2.34.१०॥
रीतैः च पवनैः रूर्द्ध्वम् स दक्ष-अध्वर-मंडपः॥ दैव-अन्वितेन दक्षेण यः कृतः नूतन-उद्भुतः॥ २।२।३४।१०॥
rītaiḥ ca pavanaiḥ rūrddhvam sa dakṣa-adhvara-maṃḍapaḥ.. daiva-anvitena dakṣeṇa yaḥ kṛtaḥ nūtana-udbhutaḥ.. 2.2.34.10..
वेमुर्दक्षादयस्सर्वे तदा शोणितमद्भुतम्॥ वेमुश्च मांसखण्डानि सशल्यानि मुहुर्मुहुः ॥ ११ ॥
वेमुः दक्ष-आदयः सर्वे तदा शोणितम् अद्भुतम्॥ वेमुः च मांस-खण्डानि स शल्यानि मुहुर् मुहुर् ॥ ११ ॥
vemuḥ dakṣa-ādayaḥ sarve tadā śoṇitam adbhutam.. vemuḥ ca māṃsa-khaṇḍāni sa śalyāni muhur muhur .. 11 ..
सकंपाश्च बभूवुस्ते दीपा वातहता इव ॥ दुःखिताश्चाभवन्सर्वे शस्त्रधाराहता इव ॥ १२ ॥
स कंपाः च बभूवुः ते दीपाः वात-हताः इव ॥ दुःखिताः च अभवन् सर्वे शस्त्र-धारा-हताः इव ॥ १२ ॥
sa kaṃpāḥ ca babhūvuḥ te dīpāḥ vāta-hatāḥ iva .. duḥkhitāḥ ca abhavan sarve śastra-dhārā-hatāḥ iva .. 12 ..
तदा निनादजातानि बाष्पवर्षाणि तत्क्षणे ॥ प्रातस्तुषारवर्षीणि पद्मानीव वनांतरे ॥ १३ ॥
तदा निनाद-जातानि बाष्प-वर्षाणि तद्-क्षणे ॥ प्रातर् तुषार-वर्षीणि पद्मानि इव वन-अंतरे ॥ १३ ॥
tadā nināda-jātāni bāṣpa-varṣāṇi tad-kṣaṇe .. prātar tuṣāra-varṣīṇi padmāni iva vana-aṃtare .. 13 ..
दक्षाद्यक्षीणि जातानि ह्यकस्माद्विशदान्यपि ॥ निशायां कमलाश्चैव कुमुदानीव संगवे ॥ १४॥
दक्ष-आदि-अक्षीणि जातानि हि अकस्मात् विशदानि अपि ॥ निशायाम् कमलाः च एव कुमुदानि इव संगवे ॥ १४॥
dakṣa-ādi-akṣīṇi jātāni hi akasmāt viśadāni api .. niśāyām kamalāḥ ca eva kumudāni iva saṃgave .. 14..
असृग्ववर्ष देवश्च तिमिरेणावृता दिशः ॥ दिग्दाहोभूद्विशेषेण त्रासयन् सकलाञ्जनान्॥ ॥ १५ ॥
असृज् ववर्ष देवः च तिमिरेण आवृताः दिशः ॥ दिग्दाहः भूत् विशेषेण त्रासयन् सकल-अञ्जनान्॥ ॥ १५ ॥
asṛj vavarṣa devaḥ ca timireṇa āvṛtāḥ diśaḥ .. digdāhaḥ bhūt viśeṣeṇa trāsayan sakala-añjanān.. .. 15 ..
एवं विधान्यरिष्टानि ददृशुर्विबुधादयः ॥ भयमापेदिरेऽत्यंतं मुने विष्ण्वादिकास्तदा ॥ १६॥
एवंविधानि अरिष्टानि ददृशुः विबुध-आदयः ॥ भयम् आपेदिरे अत्यन्तम् मुने विष्णु-आदिकाः तदा ॥ १६॥
evaṃvidhāni ariṣṭāni dadṛśuḥ vibudha-ādayaḥ .. bhayam āpedire atyantam mune viṣṇu-ādikāḥ tadā .. 16..
भुवि ते मूर्छिताः पेतुर्हा हताः स्म इतीरयन् ॥ तरवस्तीरसंजाता नदीवेगहता इव ॥ १७ ॥
भुवि ते मूर्छिताः पेतुः हा हताः स्मः इति ईरयन् ॥ तरवः तीर-संजाताः नदी-वेग-हताः इव ॥ १७ ॥
bhuvi te mūrchitāḥ petuḥ hā hatāḥ smaḥ iti īrayan .. taravaḥ tīra-saṃjātāḥ nadī-vega-hatāḥ iva .. 17 ..
पतित्वा ते स्थिता भूमौ क्रूराः सर्पा हता इव ॥ कंदुका इव ते भूयः पतिताः पुनरुत्थिताः ॥ १८ ॥
पतित्वा ते स्थिताः भूमौ क्रूराः सर्पाः हताः इव ॥ कंदुकाः इव ते भूयस् पतिताः पुनर् उत्थिताः ॥ १८ ॥
patitvā te sthitāḥ bhūmau krūrāḥ sarpāḥ hatāḥ iva .. kaṃdukāḥ iva te bhūyas patitāḥ punar utthitāḥ .. 18 ..
ततस्ते तापसंतप्ता रुरुदुः कुररी इव ॥ रोदनध्वनिसंक्रातोरुक्तिप्रत्युक्तिका इव ॥ १९॥
ततस् ते ताप-संतप्ताः रुरुदुः कुररी इव ॥ रोदन-ध्वनि-संक्रातः उरुक्ति-प्रत्युक्तिकाः इव ॥ १९॥
tatas te tāpa-saṃtaptāḥ ruruduḥ kurarī iva .. rodana-dhvani-saṃkrātaḥ urukti-pratyuktikāḥ iva .. 19..
सवैकुंठास्ततस्सर्वे तदा कुंठितशक्तयः ॥ स्वस्वोपकंठमाकंठं लुलुठुः कमठा इव ॥ 2.2.34.२० ॥
स वैकुंठाः ततस् सर्वे तदा कुंठित-शक्तयः ॥ स्व-स्व-उपकंठम् आकंठम् लुलुठुः कमठाः इव ॥ २।२।३४।२० ॥
sa vaikuṃṭhāḥ tatas sarve tadā kuṃṭhita-śaktayaḥ .. sva-sva-upakaṃṭham ākaṃṭham luluṭhuḥ kamaṭhāḥ iva .. 2.2.34.20 ..
एतस्मिन्नंतरे तत्र संजाता चाशरीरवाक् ॥ श्रावयत्यखिलान् देवान्दक्षं चैव विशेषतः ॥ २१ ॥
एतस्मिन् अंतरे तत्र संजाता च अशरीर-वाच् ॥ श्रावयति अखिलान् देवान् दक्षम् च एव विशेषतः ॥ २१ ॥
etasmin aṃtare tatra saṃjātā ca aśarīra-vāc .. śrāvayati akhilān devān dakṣam ca eva viśeṣataḥ .. 21 ..
आकाशवाण्युवाच ।।
धिक् जन्म तव दक्षाद्य महामूढोसि पापधीः ॥ भविष्यति महद्दुःखमनिवार्यं हरोद्भवम् ॥ २२ ॥
धिक् जन्म तव दक्ष अद्य महा-मूढः असि पाप-धीः ॥ भविष्यति महत् दुःखम् अनिवार्यम् हर-उद्भवम् ॥ २२ ॥
dhik janma tava dakṣa adya mahā-mūḍhaḥ asi pāpa-dhīḥ .. bhaviṣyati mahat duḥkham anivāryam hara-udbhavam .. 22 ..
हाहापि नोत्र ये मूढास्तव देवादयस्थिताः ॥ तेषामपि महादुःखं भविष्यति न संशयः ॥ २३ ॥
हाहा अपि न उत्र ये मूढाः तव देव-आदय-स्थिताः ॥ तेषाम् अपि महा-दुःखम् भविष्यति न संशयः ॥ २३ ॥
hāhā api na utra ye mūḍhāḥ tava deva-ādaya-sthitāḥ .. teṣām api mahā-duḥkham bhaviṣyati na saṃśayaḥ .. 23 ..
ब्रह्मोवाच ॥ तच्छ्रुत्वाकाशवचनं दृष्ट्वारिष्टानि तानि च ॥ दक्षः प्रापद्भयं चाति परे देवादयोपि ह ॥ २४॥
ब्रह्मा उवाच ॥ तत् श्रुत्वा आकाश-वचनम् दृष्ट्वा अरिष्टानि तानि च ॥ दक्षः प्रापत् भयम् च अति परे देव-आदयः अपि ह ॥ २४॥
brahmā uvāca .. tat śrutvā ākāśa-vacanam dṛṣṭvā ariṣṭāni tāni ca .. dakṣaḥ prāpat bhayam ca ati pare deva-ādayaḥ api ha .. 24..
वेपमानस्तदा दक्षो विकलश्चाति चेतसि ॥ अगच्छच्छरणं विष्णोः स्वप्रभोरिंदिरापतेः ॥ २५ ॥
वेपमानः तदा दक्षः विकलः च अति चेतसि ॥ अगच्छत् शरणम् विष्णोः स्व-प्रभोः इंदिरापतेः ॥ २५ ॥
vepamānaḥ tadā dakṣaḥ vikalaḥ ca ati cetasi .. agacchat śaraṇam viṣṇoḥ sva-prabhoḥ iṃdirāpateḥ .. 25 ..
सुप्रणम्य भयाविष्टः संस्तूय च विचेतनः ॥ अवोचद्देवदेवं तं विष्णुं स्वजनवत्सलम् ॥ २६ ॥
सु प्रणम्य भय-आविष्टः संस्तूय च विचेतनः ॥ अवोचत् देवदेवम् तम् विष्णुम् स्व-जन-वत्सलम् ॥ २६ ॥
su praṇamya bhaya-āviṣṭaḥ saṃstūya ca vicetanaḥ .. avocat devadevam tam viṣṇum sva-jana-vatsalam .. 26 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सती खंडे दुश्शकुनदर्शनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सती खण्डे दुश्शकुनदर्शनम् नाम चतुस्त्रिंशः अध्यायः ॥ ३४ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satī khaṇḍe duśśakunadarśanam nāma catustriṃśaḥ adhyāyaḥ .. 34 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In