| |
|

This overlay will guide you through the buttons:

दक्ष उवाच ।।
देवदेव हरे विष्णो दीनबंधो कृपानिधे ॥ मम रक्षा विधातव्या भवता साध्वरस्य च ॥ १ ॥
देवदेव हरे विष्णो दीन-बंधो कृपा-निधे ॥ मम रक्षा विधातव्या भवता साध्वरस्य च ॥ १ ॥
devadeva hare viṣṇo dīna-baṃdho kṛpā-nidhe .. mama rakṣā vidhātavyā bhavatā sādhvarasya ca .. 1 ..
रक्षकस्त्वं मखस्यैव मखकर्मा मखात्मकः ॥ कृपा विधेया यज्ञस्य भंगो भवतु न प्रभो॥ २॥
रक्षकः त्वम् मखस्य एव मख-कर्मा मख-आत्मकः ॥ कृपा विधेया यज्ञस्य भंगः भवतु न प्रभो॥ २॥
rakṣakaḥ tvam makhasya eva makha-karmā makha-ātmakaḥ .. kṛpā vidheyā yajñasya bhaṃgaḥ bhavatu na prabho.. 2..
।। ब्रह्मोवाच ।।
इत्थं बहुविधां दक्षः कृत्वा विज्ञप्तिमादरात् ॥ पपात पादयोस्तस्य भयव्याकुलमानसः ॥ ३॥
इत्थम् बहुविधाम् दक्षः कृत्वा विज्ञप्तिम् आदरात् ॥ पपात पादयोः तस्य भय-व्याकुल-मानसः ॥ ३॥
ittham bahuvidhām dakṣaḥ kṛtvā vijñaptim ādarāt .. papāta pādayoḥ tasya bhaya-vyākula-mānasaḥ .. 3..
उत्थाप्य तं ततो विष्णुर्दक्षं विक्लिन्नमानसम् ॥ श्रुत्वा च तस्य तद्वाक्यं कुमतेरस्मरच्छिवम् ॥ ४ ॥
उत्थाप्य तम् ततस् विष्णुः दक्षम् विक्लिन्न-मानसम् ॥ श्रुत्वा च तस्य तत् वाक्यम् कुमतेः अस्मरत् शिवम् ॥ ४ ॥
utthāpya tam tatas viṣṇuḥ dakṣam viklinna-mānasam .. śrutvā ca tasya tat vākyam kumateḥ asmarat śivam .. 4 ..
स्मृत्वा शिवं महेशानं स्वप्रभुं परमेश्वरम् ॥ अवदच्छिवतत्त्वज्ञो दक्षं सबोधयन्हरिः ॥ ५ ॥
स्मृत्वा शिवम् महेशानम् स्व-प्रभुम् परमेश्वरम् ॥ अवदत् शिव-तत्त्व-ज्ञः दक्षम् स बोधयन् हरिः ॥ ५ ॥
smṛtvā śivam maheśānam sva-prabhum parameśvaram .. avadat śiva-tattva-jñaḥ dakṣam sa bodhayan hariḥ .. 5 ..
हरिरुवाच ।।
शृणु दक्ष प्रवक्ष्यामि तत्त्वतः शृणु मे वचः ॥ सर्वथा ते हितकरं महामंत्रसुखप्रदम् ॥ ६ ॥
शृणु दक्ष प्रवक्ष्यामि तत्त्वतः शृणु मे वचः ॥ सर्वथा ते हित-करम् महा-मंत्र-सुख-प्रदम् ॥ ६ ॥
śṛṇu dakṣa pravakṣyāmi tattvataḥ śṛṇu me vacaḥ .. sarvathā te hita-karam mahā-maṃtra-sukha-pradam .. 6 ..
अवज्ञा हि कृता दक्ष त्वया तत्त्वमजानता ॥ सकलाधीश्वरस्यैव शंकरस्य परात्मनः ॥ ७॥
अवज्ञा हि कृता दक्ष त्वया तत्त्वम् अ जानता ॥ सकल-अधीश्वरस्य एव शंकरस्य परात्मनः ॥ ७॥
avajñā hi kṛtā dakṣa tvayā tattvam a jānatā .. sakala-adhīśvarasya eva śaṃkarasya parātmanaḥ .. 7..
ईश्वरावज्ञया सर्वं कार्यं भवति सर्वथा ॥ विफलं केवलं नैव विपत्तिश्च पदेपदे ॥ ८ ॥
ईश्वर-अवज्ञया सर्वम् कार्यम् भवति सर्वथा ॥ विफलम् केवलम् ना एव विपत्तिः च पदे पदे ॥ ८ ॥
īśvara-avajñayā sarvam kāryam bhavati sarvathā .. viphalam kevalam nā eva vipattiḥ ca pade pade .. 8 ..
अपूज्या यत्र पूज्यंते पूजनीयो न पूज्यते ॥ त्रीणि तत्र भविष्यंति दारिद्र्यं मरणं भयम् ॥ ९ ॥
अपूज्याः यत्र पूज्यंते पूजनीयः न पूज्यते ॥ त्रीणि तत्र भविष्यन्ति दारिद्र्यम् मरणम् भयम् ॥ ९ ॥
apūjyāḥ yatra pūjyaṃte pūjanīyaḥ na pūjyate .. trīṇi tatra bhaviṣyanti dāridryam maraṇam bhayam .. 9 ..
तस्मात्सर्वप्रयत्नेन माननीयो वृषध्वजः ॥ अमानितान्महेशाच्च महद्भयमुपस्थितम् ॥ 2.2.35.१० ॥
तस्मात् सर्व-प्रयत्नेन माननीयः वृषध्वजः ॥ अ मानितात् महेशात् च महत् भयम् उपस्थितम् ॥ २।२।३५।१० ॥
tasmāt sarva-prayatnena mānanīyaḥ vṛṣadhvajaḥ .. a mānitāt maheśāt ca mahat bhayam upasthitam .. 2.2.35.10 ..
अद्यापि न वयं सर्वे प्रभवः प्रभवामहे ॥ भवतो दुर्नयेनैव मया सत्यमुदीर्य्यते ॥ ११ ॥
अद्य अपि न वयम् सर्वे प्रभवः प्रभवामहे ॥ भवतः दुर्नयेन एव मया सत्यम् उदीर्य्यते ॥ ११ ॥
adya api na vayam sarve prabhavaḥ prabhavāmahe .. bhavataḥ durnayena eva mayā satyam udīryyate .. 11 ..
ब्रह्मोवाच ।।
विष्णोस्तद्वचनं श्रुत्वा दक्षश्चिंतापरोऽभवत् ॥ विवर्णवदनो भूत्वा तूष्णीमासीद्भुवि स्थितः ॥ १२॥
विष्णोः तत् वचनम् श्रुत्वा दक्षः चिंता-परः अभवत् ॥ विवर्ण-वदनः भूत्वा तूष्णीम् आसीत् भुवि स्थितः ॥ १२॥
viṣṇoḥ tat vacanam śrutvā dakṣaḥ ciṃtā-paraḥ abhavat .. vivarṇa-vadanaḥ bhūtvā tūṣṇīm āsīt bhuvi sthitaḥ .. 12..
एतस्मिन्नंतरे वीरभद्रः सैन्यसमन्वितः ॥ अगच्छदध्वरं रुद्रप्रेरितो गणनायकः ॥ १३॥
एतस्मिन् अंतरे वीरभद्रः सैन्य-समन्वितः ॥ अगच्छत् अध्वरम् रुद्र-प्रेरितः गणनायकः ॥ १३॥
etasmin aṃtare vīrabhadraḥ sainya-samanvitaḥ .. agacchat adhvaram rudra-preritaḥ gaṇanāyakaḥ .. 13..
पृष्ठे केचित्समायाता गगने केचिदागताः॥ दिशश्च विदिशः सर्वे समावृत्य तथापरे॥ ॥ १४॥
पृष्ठे केचिद् समायाताः गगने केचिद् आगताः॥ दिशः च विदिशः सर्वे समावृत्य तथा अपरे॥ ॥ १४॥
pṛṣṭhe kecid samāyātāḥ gagane kecid āgatāḥ.. diśaḥ ca vidiśaḥ sarve samāvṛtya tathā apare.. .. 14..
शर्वाज्ञया गणाः शूरा निर्भया रुद्रविक्रमाः ॥ असंख्याः सिंहनादान्वै कुर्वंतो वीरसत्तमाः ॥ १५॥
शर्व-आज्ञया गणाः शूराः निर्भयाः रुद्र-विक्रमाः ॥ असंख्याः सिंहनादान् वै कुर्वंतः वीर-सत्तमाः ॥ १५॥
śarva-ājñayā gaṇāḥ śūrāḥ nirbhayāḥ rudra-vikramāḥ .. asaṃkhyāḥ siṃhanādān vai kurvaṃtaḥ vīra-sattamāḥ .. 15..
तेन नादेन महता नादितं भुवनत्रयम् ॥ रजसा चावृतं व्योम तमसा चावृता दिशः ॥ १६॥
तेन नादेन महता नादितम् भुवनत्रयम् ॥ रजसा च आवृतम् व्योम तमसा च आवृताः दिशः ॥ १६॥
tena nādena mahatā nāditam bhuvanatrayam .. rajasā ca āvṛtam vyoma tamasā ca āvṛtāḥ diśaḥ .. 16..
सप्तद्वीपान्विता पृथ्वी चचालाति भयाकुला ॥ सशैलकानना तत्र चुक्षुभुस्सकलाब्धयः ॥ १७॥
सप्त-द्वीप-अन्विता पृथ्वी चचाल अति भय-आकुला ॥ स शैल-कानना तत्र चुक्षुभुः सकल-अब्धयः ॥ १७॥
sapta-dvīpa-anvitā pṛthvī cacāla ati bhaya-ākulā .. sa śaila-kānanā tatra cukṣubhuḥ sakala-abdhayaḥ .. 17..
एवंभूतं च तत्सैन्यं लोकक्षयकरं महत् ॥ दृष्ट्वा च विस्मितास्सर्वे बभूवुरमरादयः ॥ १८ ॥
एवंभूतम् च तत् सैन्यम् लोक-क्षय-करम् महत् ॥ दृष्ट्वा च विस्मिताः सर्वे बभूवुः अमर-आदयः ॥ १८ ॥
evaṃbhūtam ca tat sainyam loka-kṣaya-karam mahat .. dṛṣṭvā ca vismitāḥ sarve babhūvuḥ amara-ādayaḥ .. 18 ..
सैन्योद्योगमथालोक्य दक्षश्चासृङ्मुखाकुलः ॥ दंडवत्पतितो विष्णुं सकलत्रोऽभ्यभाषत॥ १९॥
सैन्य-उद्योगम् अथ आलोक्य दक्षः च असृज्-मुख-आकुलः ॥ दंड-वत् पतितः विष्णुम् स कलत्रः अभ्यभाषत॥ १९॥
sainya-udyogam atha ālokya dakṣaḥ ca asṛj-mukha-ākulaḥ .. daṃḍa-vat patitaḥ viṣṇum sa kalatraḥ abhyabhāṣata.. 19..
दक्ष उवाच ।।
भवद्बलेनैव मया यज्ञः प्रारंभितो महान् ॥ सत्कर्मसिद्धये विष्णो प्रमाणं त्वं महाप्रभो ॥ 2.2.35.२० ॥
भवत्-बलेन एव मया यज्ञः प्रारंभितः महान् ॥ सत्-कर्म-सिद्धये विष्णो प्रमाणम् त्वम् महा-प्रभो ॥ २।२।३५।२० ॥
bhavat-balena eva mayā yajñaḥ prāraṃbhitaḥ mahān .. sat-karma-siddhaye viṣṇo pramāṇam tvam mahā-prabho .. 2.2.35.20 ..
विष्णो त्वं कर्मणां साक्षी यज्ञानां प्रतिपालकः ॥ धर्मस्य वेदगर्भस्य ब्रह्मणस्त्वं महाप्रभो ॥ २१॥
विष्णो त्वम् कर्मणाम् साक्षी यज्ञानाम् प्रतिपालकः ॥ धर्मस्य वेद-गर्भस्य ब्रह्मणः त्वम् महा-प्रभो ॥ २१॥
viṣṇo tvam karmaṇām sākṣī yajñānām pratipālakaḥ .. dharmasya veda-garbhasya brahmaṇaḥ tvam mahā-prabho .. 21..
तस्माद्रक्षा विधातव्या यज्ञस्यास्य मम प्रभो ॥ त्वदन्यः यस्समर्थोस्ति यतस्त्वं सकलप्रभुः ॥ २२॥ ।
तस्मात् रक्षा विधातव्या यज्ञस्य अस्य मम प्रभो ॥ त्वत् अन्यः यः समर्थः अस्ति यतस् त्वम् सकल-प्रभुः ॥ २२॥ ।
tasmāt rakṣā vidhātavyā yajñasya asya mama prabho .. tvat anyaḥ yaḥ samarthaḥ asti yatas tvam sakala-prabhuḥ .. 22.. .
ब्रह्मोवाच ।।
दक्षस्य वचनं श्रुत्वा विष्णुर्दीनतरं तदा ॥ अवोचद्बोधयंस्तं वै शिवतत्त्वपराङ्मुखम् ॥ २३॥
दक्षस्य वचनम् श्रुत्वा विष्णुः दीनतरम् तदा ॥ अवोचत् बोधयन् तम् वै शिवतत्त्व-पराङ्मुखम् ॥ २३॥
dakṣasya vacanam śrutvā viṣṇuḥ dīnataram tadā .. avocat bodhayan tam vai śivatattva-parāṅmukham .. 23..
विष्णुरुवाच ।।
मया रक्षा विधातव्या तव यज्ञस्य दक्ष वै ॥ ख्यातो मम पणः सत्यो धर्मस्य परिपालनम् ॥ २४॥
मया रक्षा विधातव्या तव यज्ञस्य दक्ष वै ॥ ख्यातः मम पणः सत्यः धर्मस्य परिपालनम् ॥ २४॥
mayā rakṣā vidhātavyā tava yajñasya dakṣa vai .. khyātaḥ mama paṇaḥ satyaḥ dharmasya paripālanam .. 24..
तत्सत्यं तु त्वयोक्तं हि किं तत्तस्य व्यतिक्रमः ॥ शृणु त्वं वच्म्यहं दक्ष क्रूरबुद्धिं त्यजाऽधुना ॥ २५॥
तत् सत्यम् तु त्वया उक्तम् हि किम् तत् तस्य व्यतिक्रमः ॥ शृणु त्वम् वच्मि अहम् दक्ष क्रूर-बुद्धिम् त्यज अधुना ॥ २५॥
tat satyam tu tvayā uktam hi kim tat tasya vyatikramaḥ .. śṛṇu tvam vacmi aham dakṣa krūra-buddhim tyaja adhunā .. 25..
नैमिषे निमिषक्षेत्रे यज्जातं वृत्तमद्भुतम् ॥ तत्किं न स्मर्यते दक्ष विस्मृतं किं कुबुद्धिना ॥ २६॥
नैमिषे निमिष-क्षेत्रे यत् जातम् वृत्तम् अद्भुतम् ॥ तत् किम् न स्मर्यते दक्ष विस्मृतम् किम् कुबुद्धिना ॥ २६॥
naimiṣe nimiṣa-kṣetre yat jātam vṛttam adbhutam .. tat kim na smaryate dakṣa vismṛtam kim kubuddhinā .. 26..
रुद्रकोपाच्च को ह्यत्र समर्थो रक्षणे तव ॥ न यस्याभिमतं दक्ष यस्त्वां रक्षति दुर्मतिः॥ २७॥
रुद्र-कोपात् च कः हि अत्र समर्थः रक्षणे तव ॥ न यस्य अभिमतम् दक्ष यः त्वाम् रक्षति दुर्मतिः॥ २७॥
rudra-kopāt ca kaḥ hi atra samarthaḥ rakṣaṇe tava .. na yasya abhimatam dakṣa yaḥ tvām rakṣati durmatiḥ.. 27..
किं कर्म किमकर्मेति तत्र पश्यसि दुर्मते ॥ समर्थं केवलं कर्म न भविष्यति सर्वदा ॥ २८ ॥
किम् कर्म किम् अकर्म इति तत्र पश्यसि दुर्मते ॥ समर्थम् केवलम् कर्म न भविष्यति सर्वदा ॥ २८ ॥
kim karma kim akarma iti tatra paśyasi durmate .. samartham kevalam karma na bhaviṣyati sarvadā .. 28 ..
स्वकर्मविद्धि तद्येन समर्थत्वेन जायते ॥ न त्वन्यः कर्मणो दाता शं भवेदीश्वरं विना ॥ २९॥
स्व-कर्म-विद् हि तत् येन समर्थ-त्वेन जायते ॥ न तु अन्यः कर्मणः दाता शम् भवेत् ईश्वरम् विना ॥ २९॥
sva-karma-vid hi tat yena samartha-tvena jāyate .. na tu anyaḥ karmaṇaḥ dātā śam bhavet īśvaram vinā .. 29..
ईश्वरस्य च यो भक्त्या शांतस्तद्गतमानसः ॥ कर्मणो हि फलं तस्य प्रयच्छति तदा शिवः ॥ 2.2.35.३० ॥
ईश्वरस्य च यः भक्त्या शांतः तद्-गत-मानसः ॥ कर्मणः हि फलम् तस्य प्रयच्छति तदा शिवः ॥ २।२।३५।३० ॥
īśvarasya ca yaḥ bhaktyā śāṃtaḥ tad-gata-mānasaḥ .. karmaṇaḥ hi phalam tasya prayacchati tadā śivaḥ .. 2.2.35.30 ..
केवलं ज्ञानमाश्रित्य निरीश्वरपरा नराः ॥ निरयं ते च गच्छंति कल्पकोटिशतानि च ॥ ३१ ॥
केवलम् ज्ञानम् आश्रित्य निरीश्वर-पराः नराः ॥ निरयम् ते च गच्छन्ति कल्प-कोटि-शतानि च ॥ ३१ ॥
kevalam jñānam āśritya nirīśvara-parāḥ narāḥ .. nirayam te ca gacchanti kalpa-koṭi-śatāni ca .. 31 ..
पुनः कर्ममयैः पाशैर्वद्धा जन्मनि जन्मनि ॥ निरयेषु प्रपच्यंते केवलं कर्मरूपिणः ॥ ३२ ॥
पुनर् कर्म-मयैः पाशैः वद्धाः जन्मनि जन्मनि ॥ निरयेषु प्रपच्यंते केवलम् कर्म-रूपिणः ॥ ३२ ॥
punar karma-mayaiḥ pāśaiḥ vaddhāḥ janmani janmani .. nirayeṣu prapacyaṃte kevalam karma-rūpiṇaḥ .. 32 ..
अयं रुद्रगणाधीशो वीरभद्रोऽरि मर्दनः ॥ रुद्रकोपाग्निसंभूतः समायातोध्वरांगणे ॥ ३३॥
अयम् रुद्र-गण-अधीशः वीरभद्रः अरि मर्दनः ॥ रुद्र-कोप-अग्नि-संभूतः समायात-अध्वर-अंगणे ॥ ३३॥
ayam rudra-gaṇa-adhīśaḥ vīrabhadraḥ ari mardanaḥ .. rudra-kopa-agni-saṃbhūtaḥ samāyāta-adhvara-aṃgaṇe .. 33..
अयमस्मद्विनाशार्थमागतोस्ति न संशयः ॥ अशक्यमस्य नास्त्येव किमप्यस्तु तु वस्तुतः ॥ ३४ ॥
अयम् अस्मद्-विनाश-अर्थम् आगतः अस्ति न संशयः ॥ अशक्यम् अस्य न अस्ति एव किम् अपि अस्तु तु वस्तुतस् ॥ ३४ ॥
ayam asmad-vināśa-artham āgataḥ asti na saṃśayaḥ .. aśakyam asya na asti eva kim api astu tu vastutas .. 34 ..
प्रज्वाल्यास्मानयं सर्वान् ध्रुवमेव महाप्रभुः ॥ ततः प्रशांतहृदयो भविष्यति न संशयः ॥ ३५ ॥
प्रज्वाल्य अस्मान् अयम् सर्वान् ध्रुवम् एव महा-प्रभुः ॥ ततस् प्रशांत-हृदयः भविष्यति न संशयः ॥ ३५ ॥
prajvālya asmān ayam sarvān dhruvam eva mahā-prabhuḥ .. tatas praśāṃta-hṛdayaḥ bhaviṣyati na saṃśayaḥ .. 35 ..
श्रीमहादेवशपथं समुल्लंघ्य भ्रमान्मया ॥ यतः स्थितं ततः प्राप्यं मया दुःखं त्वया सह ॥ ३६ ॥
श्री-महादेव-शपथम् समुल्लंघ्य भ्रमात् मया ॥ यतस् स्थितम् ततस् प्राप्यम् मया दुःखम् त्वया सह ॥ ३६ ॥
śrī-mahādeva-śapatham samullaṃghya bhramāt mayā .. yatas sthitam tatas prāpyam mayā duḥkham tvayā saha .. 36 ..
शक्तिर्मम तु नास्त्येव दक्षाद्यैतन्निवारणे ॥ शपथोल्लंघनादेव शिवद्रोही यतोस्म्यहम् ॥ ३७ ॥
शक्तिः मम तु ना अस्ति एव दक्ष-आद्य-एतद्-निवारणे ॥ शपथ-उल्लंघनात् एव शिव-द्रोही यतस् अस्मि अहम् ॥ ३७ ॥
śaktiḥ mama tu nā asti eva dakṣa-ādya-etad-nivāraṇe .. śapatha-ullaṃghanāt eva śiva-drohī yatas asmi aham .. 37 ..
कालत्रयेपि न यतो महेशद्रोहिणां सुखम् ॥ ततोऽवश्यं मया प्राप्तं दुःखमद्य त्वया सह ॥ ३८ ॥
काल-त्रये अपि न यतस् महेश-द्रोहिणाम् सुखम् ॥ ततस् अवश्यम् मया प्राप्तम् दुःखम् अद्य त्वया सह ॥ ३८ ॥
kāla-traye api na yatas maheśa-drohiṇām sukham .. tatas avaśyam mayā prāptam duḥkham adya tvayā saha .. 38 ..
सुदर्शनाभिधं चक्रमेतस्मिन्न लगिष्यति ॥ शैवचक्रमिदं यस्मादशैवलयकारणम्॥ ३९॥
सुदर्शन-अभिधम् चक्रम् एतस्मिन् न लगिष्यति ॥ शैव-चक्रम् इदम् यस्मात् अशैव-लय-कारणम्॥ ३९॥
sudarśana-abhidham cakram etasmin na lagiṣyati .. śaiva-cakram idam yasmāt aśaiva-laya-kāraṇam.. 39..
विनापि वीरभद्रेण नामैतच्चक्रमैश्वरम् ॥ हत्वा गमिष्यत्यधुना सत्वरं हरसन्निधौ ॥ 2.2.35.४० ॥
विना अपि वीरभद्रेण नाम एतत् चक्रम् ऐश्वरम् ॥ हत्वा गमिष्यति अधुना स त्वरम् हर-सन्निधौ ॥ २।२।३५।४० ॥
vinā api vīrabhadreṇa nāma etat cakram aiśvaram .. hatvā gamiṣyati adhunā sa tvaram hara-sannidhau .. 2.2.35.40 ..
शैवं शपथमुल्लंघ्य स्थितं मां चक्रमीदृशम् ॥ असंहत्यैव सहसा कृपयैव स्थिरं परम् ॥ ४१॥
शैवम् शपथम् उल्लंघ्य स्थितम् माम् चक्रम् ईदृशम् ॥ अ संहत्य एव सहसा कृपया एव स्थिरम् परम् ॥ ४१॥
śaivam śapatham ullaṃghya sthitam mām cakram īdṛśam .. a saṃhatya eva sahasā kṛpayā eva sthiram param .. 41..
अतः परमिदं चक्रमपि न स्थास्यति ध्रुवम्गमिष्यत्यधुना शीघ्रं ज्वालामालासमाकुलम् ॥ ४२॥
अतस् परम् इदम् चक्रम् अपि न स्थास्यति ध्रुवम् गमिष्यति अधुना शीघ्रम् ज्वाला-माला-समाकुलम् ॥ ४२॥
atas param idam cakram api na sthāsyati dhruvam gamiṣyati adhunā śīghram jvālā-mālā-samākulam .. 42..
वीरभद्रः पूजितोपि शीघ्रमस्माभिरादरात् ॥ महाक्रोधसमाक्रांतो नास्मान्संरक्षयिष्यति ॥ ४३ ॥
वीरभद्रः पूजितः अपि शीघ्रम् अस्माभिः आदरात् ॥ महा-क्रोध-समाक्रांतः न अस्मान् संरक्षयिष्यति ॥ ४३ ॥
vīrabhadraḥ pūjitaḥ api śīghram asmābhiḥ ādarāt .. mahā-krodha-samākrāṃtaḥ na asmān saṃrakṣayiṣyati .. 43 ..
अकांडप्रलयोऽस्माकमागतोद्य हि हा हहा ॥ हा हा बत तवेदानीं नाशोस्माकमुपस्थितः ॥ ४४॥
अकांड-प्रलयः अस्माकम् आगतः उद्य हि हा हहा ॥ हा हा बत तव इदानीम् नाशः उस्माकम् उपस्थितः ॥ ४४॥
akāṃḍa-pralayaḥ asmākam āgataḥ udya hi hā hahā .. hā hā bata tava idānīm nāśaḥ usmākam upasthitaḥ .. 44..
शरण्योऽस्माकमधुना नास्त्येव हि जगत्त्रये ॥ शंकरद्रोहिणो लोके कश्शरण्यो भविष्यति ॥ ४५॥
शरण्यः अस्माकम् अधुना ना अस्ति एव हि जगत्त्रये ॥ शंकर-द्रोहिणः लोके कः शरण्यः भविष्यति ॥ ४५॥
śaraṇyaḥ asmākam adhunā nā asti eva hi jagattraye .. śaṃkara-drohiṇaḥ loke kaḥ śaraṇyaḥ bhaviṣyati .. 45..
तनुनाशेपि संप्राप्यास्तैश्चापि यमयातनाः ॥ तानैव शक्यते सोढुं बहुदुःखप्रदायिनीः ॥ ४६ ॥
तनु-नाशे पि संप्राप्याः तैः च अपि यम-यातनाः ॥ तान् एव शक्यते सोढुम् बहु-दुःख-प्रदायिनीः ॥ ४६ ॥
tanu-nāśe pi saṃprāpyāḥ taiḥ ca api yama-yātanāḥ .. tān eva śakyate soḍhum bahu-duḥkha-pradāyinīḥ .. 46 ..
शिवद्रोहिणमालोक्य दष्टदंतो यमः स्वयम् ॥ तप्ततैलकटाहेषु पातयत्येव नान्यथा ॥ ४७ ॥
शिव-द्रोहिणम् आलोक्य दष्ट-दन्तः यमः स्वयम् ॥ तप्त-तैल-कटाहेषु पातयति एव न अन्यथा ॥ ४७ ॥
śiva-drohiṇam ālokya daṣṭa-dantaḥ yamaḥ svayam .. tapta-taila-kaṭāheṣu pātayati eva na anyathā .. 47 ..
गन्तुमेवाहमुद्युक्तं सर्वथा शपथोत्तरम् ॥ तथापि न गतश्शीघ्रं दुष्टसंसर्गपापतः ॥ ४८॥
गन्तुम् एव अहम् उद्युक्तम् सर्वथा शपथ-उत्तरम् ॥ तथा अपि न गतः शीघ्रम् दुष्ट-संसर्ग-पापतः ॥ ४८॥
gantum eva aham udyuktam sarvathā śapatha-uttaram .. tathā api na gataḥ śīghram duṣṭa-saṃsarga-pāpataḥ .. 48..
यदद्य क्रियतेस्माभिः पलायनमितस्तदा ॥ शार्वो ना कर्षकश्शस्त्रैरस्मानाकर्षयिष्यति ॥ ४९॥
यत् अद्य क्रियते स्माभिः पलायनम् इतस् तदा ॥ शार्वः ना कर्षकः शस्त्रैः अस्मान् आकर्षयिष्यति ॥ ४९॥
yat adya kriyate smābhiḥ palāyanam itas tadā .. śārvaḥ nā karṣakaḥ śastraiḥ asmān ākarṣayiṣyati .. 49..
स्वर्गे वा भुवि पाताले यत्र कुत्रापि वा यतः ॥ श्रीवीरभद्रशस्त्राणां गमनं न हि दुर्ल भम् ॥ 2.2.35.५० ॥
स्वर्गे वा भुवि पाताले यत्र कुत्र अपि वा यतस् ॥ श्री-वीरभद्र-शस्त्राणाम् गमनम् न हि दुर्लभम् ॥ २।२।३५।५० ॥
svarge vā bhuvi pātāle yatra kutra api vā yatas .. śrī-vīrabhadra-śastrāṇām gamanam na hi durlabham .. 2.2.35.50 ..
यावतश्च गणास्संति श्रीरुद्रस्य त्रिशूलिनः ॥ तावतामपि सर्वेषां शक्तिरेतादृशी धुवम् ॥ ५१ ॥
यावतः च गणाः संति श्री-रुद्रस्य त्रिशूलिनः ॥ तावताम् अपि सर्वेषाम् शक्तिः एतादृशी धुवम् ॥ ५१ ॥
yāvataḥ ca gaṇāḥ saṃti śrī-rudrasya triśūlinaḥ .. tāvatām api sarveṣām śaktiḥ etādṛśī dhuvam .. 51 ..
श्रीकालभैरवः काश्यां नखाग्रेणैव लीलया ॥ पुरा शिरश्च चिच्छेद पंचमं ब्रह्मणो ध्रुवम् ॥ ५२॥
श्री-कालभैरवः काश्याम् नख-अग्रेण एव लीलया ॥ पुरा शिरः च चिच्छेद पंचमम् ब्रह्मणः ध्रुवम् ॥ ५२॥
śrī-kālabhairavaḥ kāśyām nakha-agreṇa eva līlayā .. purā śiraḥ ca ciccheda paṃcamam brahmaṇaḥ dhruvam .. 52..
एतदुक्त्वा स्थितो विष्णुरतित्रस्तमुखाम्बुजः ॥ वीरभद्रोपि संप्राप तदैवाऽध्वरमंडपम् ॥ ५३ ॥
एतत् उक्त्वा स्थितः विष्णुः अतित्रस्त-मुख-अम्बुजः ॥ वीरभद्रः उपि संप्राप तदा एव अध्वर-मंडपम् ॥ ५३ ॥
etat uktvā sthitaḥ viṣṇuḥ atitrasta-mukha-ambujaḥ .. vīrabhadraḥ upi saṃprāpa tadā eva adhvara-maṃḍapam .. 53 ..
एवं ब्रुवति गोविन्द आगतं सैन्यसागरम् ॥ वीरभद्रेण सहितं ददृशुश्च सुरादया ॥ ५४ ॥
एवम् ब्रुवति गोविन्दे आगतम् सैन्य-सागरम् ॥ वीरभद्रेण सहितम् ददृशुः च सुरादया ॥ ५४ ॥
evam bruvati govinde āgatam sainya-sāgaram .. vīrabhadreṇa sahitam dadṛśuḥ ca surādayā .. 54 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सत्युपाख्याने विष्णुवाक्यवर्णनं नाम पंचत्रिंशोऽध्यायः ॥ ३५ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनम् नाम पंचत्रिंशः अध्यायः ॥ ३५ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satīkhaṇḍe satyupākhyāne viṣṇuvākyavarṇanam nāma paṃcatriṃśaḥ adhyāyaḥ .. 35 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In