| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
इन्द्रोऽपि प्रहसन् विष्णुमात्मवादरतं तदा ॥ वज्रपाणिस्सुरैस्सार्द्धं योद्धुकामोऽभवत्तदा ॥ १ ॥
इन्द्रः अपि प्रहसन् विष्णुम् आत्म-वाद-रतम् तदा ॥ वज्रपाणिः सुरैः सार्द्धम् योद्धु-कामः अभवत् तदा ॥ १ ॥
indraḥ api prahasan viṣṇum ātma-vāda-ratam tadā .. vajrapāṇiḥ suraiḥ sārddham yoddhu-kāmaḥ abhavat tadā .. 1 ..
तदेन्द्रो गजमारूढो बस्तारूढोऽनलस्तथा ॥ यमो महिषमारूढो निर्ऋतिः प्रेतमेव च ॥ २ ॥
तदा इन्द्रः गजम् आरूढः बस्त-आरूढः अनलः तथा ॥ यमः महिषम् आरूढः निरृतिः प्रेतम् एव च ॥ २ ॥
tadā indraḥ gajam ārūḍhaḥ basta-ārūḍhaḥ analaḥ tathā .. yamaḥ mahiṣam ārūḍhaḥ nirṛtiḥ pretam eva ca .. 2 ..
पाशी च मकरारूढो मृगारूढो स्सदागतिः ॥ कुबेरः पुष्पकारूढस्संनद्धोभूदतंद्रितः ॥ ३ ॥
पाशी च मकर-आरूढः मृग-आरूढः स्सदागतिः ॥ कुबेरः पुष्पक-आरूढः संनद्धः भूत् अतंद्रितः ॥ ३ ॥
pāśī ca makara-ārūḍhaḥ mṛga-ārūḍhaḥ ssadāgatiḥ .. kuberaḥ puṣpaka-ārūḍhaḥ saṃnaddhaḥ bhūt ataṃdritaḥ .. 3 ..
तथान्ये सुरसंघाश्च यक्षचारणगुह्यकाः ॥ आरुह्य वाहनान्येव स्वानि स्वानि प्रतापिनः ॥ ४॥
तथा अन्ये सुर-संघाः च यक्ष-चारण-गुह्यकाः ॥ आरुह्य वाहनानि एव स्वानि स्वानि प्रतापिनः ॥ ४॥
tathā anye sura-saṃghāḥ ca yakṣa-cāraṇa-guhyakāḥ .. āruhya vāhanāni eva svāni svāni pratāpinaḥ .. 4..
तेषामुद्योगमालोक्य दक्षश्चासृङ्मुखस्तथा ॥ तदंतिकं समागत्य सकलत्रोऽभ्यभाषत ॥ ५ ॥
तेषाम् उद्योगम् आलोक्य दक्षः च असृङ्मुखः तथा ॥ तद्-अंतिकम् समागत्य स कलत्रः अभ्यभाषत ॥ ५ ॥
teṣām udyogam ālokya dakṣaḥ ca asṛṅmukhaḥ tathā .. tad-aṃtikam samāgatya sa kalatraḥ abhyabhāṣata .. 5 ..
दक्षउवाच ।।
युष्मद्बलेनैव मया यज्ञः प्रारंभितो महान् ॥ सत्कर्मसिद्धये यूयं प्रमाणास्स्युर्महाप्रभाः ॥ ६ ॥
युष्मद्-बलेन एव मया यज्ञः प्रारंभितः महान् ॥ सत्-कर्म-सिद्धये यूयम् प्रमाणाः स्युः महा-प्रभाः ॥ ६ ॥
yuṣmad-balena eva mayā yajñaḥ prāraṃbhitaḥ mahān .. sat-karma-siddhaye yūyam pramāṇāḥ syuḥ mahā-prabhāḥ .. 6 ..
ब्रह्मोवाच ।।
तच्छ्रुत्वा दक्षवचनं सर्वे देवास्सवासवाः ॥ निर्ययुस्त्वरितं तत्र युद्धं कर्तुं समुद्यताः॥ ७॥
तत् श्रुत्वा दक्ष-वचनम् सर्वे देवाः स वासवाः ॥ निर्ययुः त्वरितम् तत्र युद्धम् कर्तुम् समुद्यताः॥ ७॥
tat śrutvā dakṣa-vacanam sarve devāḥ sa vāsavāḥ .. niryayuḥ tvaritam tatra yuddham kartum samudyatāḥ.. 7..
अथ देवगणाः सर्वे युयुधुस्ते बलान्विताः॥ शक्रादयो लोकपाला मोहिताः शिवमायया॥ ८॥
अथ देव-गणाः सर्वे युयुधुः ते बल-अन्विताः॥ शक्र-आदयः लोकपालाः मोहिताः शिव-मायया॥ ८॥
atha deva-gaṇāḥ sarve yuyudhuḥ te bala-anvitāḥ.. śakra-ādayaḥ lokapālāḥ mohitāḥ śiva-māyayā.. 8..
देवानां च गणानां च तदासीत्समरो महान् ॥ तीक्ष्णतोमरनाराचैर्युयुधुस्ते परस्परम् ॥ ९॥
देवानाम् च गणानाम् च तदा आसीत् समरः महान् ॥ तीक्ष्ण-तोमर-नाराचैः युयुधुः ते परस्परम् ॥ ९॥
devānām ca gaṇānām ca tadā āsīt samaraḥ mahān .. tīkṣṇa-tomara-nārācaiḥ yuyudhuḥ te parasparam .. 9..
नेदुश्शंखाश्च भेर्य्यश्च तस्मिन् रणमहोत्सवे ॥ महादुंदुभयो नेदुः पटहा डिंडिमादयः ॥ 2.2.36.१०॥
नेदुः शंखाः च भेर्यः च तस्मिन् रण-महा-उत्सवे ॥ महा-दुंदुभयः नेदुः पटहाः डिंडिम-आदयः ॥ २।२।३६।१०॥
neduḥ śaṃkhāḥ ca bheryaḥ ca tasmin raṇa-mahā-utsave .. mahā-duṃdubhayaḥ neduḥ paṭahāḥ ḍiṃḍima-ādayaḥ .. 2.2.36.10..
तेन शब्देन महता श्लाघ्मानास्तदा सुराः ॥ लोकपालैश्च सहिता जघ्नुस्ताञ्छिवकिंकरान् ॥ ११ ॥
तेन शब्देन महता श्लाघ्मानाः तदा सुराः ॥ लोकपालैः च सहिताः जघ्नुः तान् शिव-किंकरान् ॥ ११ ॥
tena śabdena mahatā ślāghmānāḥ tadā surāḥ .. lokapālaiḥ ca sahitāḥ jaghnuḥ tān śiva-kiṃkarān .. 11 ..
इन्द्राद्यैर्लोकपालैश्च गणाश्शंभो पराङ्मुखाः ॥ कृत्ताश्च मुनिशार्दूल भृगोर्मंत्रबलेन च ॥ १२॥
इन्द्र-आद्यैः लोकपालैः च गणाः शंभो पराङ्मुखाः ॥ कृत्ताः च मुनि-शार्दूल भृगोः मंत्र-बलेन च ॥ १२॥
indra-ādyaiḥ lokapālaiḥ ca gaṇāḥ śaṃbho parāṅmukhāḥ .. kṛttāḥ ca muni-śārdūla bhṛgoḥ maṃtra-balena ca .. 12..
उच्चाटनं कृतं तेषां भृगुणा यज्वना तदा ॥ यजनार्थं च देवानां तुष्ट्यर्थं दीक्षितस्य च ॥ १३ ॥
उच्चाटनम् कृतम् तेषाम् भृगुणा यज्वना तदा ॥ यजन-अर्थम् च देवानाम् तुष्टि-अर्थम् दीक्षितस्य च ॥ १३ ॥
uccāṭanam kṛtam teṣām bhṛguṇā yajvanā tadā .. yajana-artham ca devānām tuṣṭi-artham dīkṣitasya ca .. 13 ..
पराजितान्स्वकान्दृष्ट्वा वीरभद्रो रुषान्वितः ॥ भूतप्रेतपिशाचांश्च कृत्वा तानेव पृष्ठतः ॥ १४ ॥
पराजितान् स्वकान् दृष्ट्वा वीरभद्रः रुषा अन्वितः ॥ भूत-प्रेत-पिशाचान् च कृत्वा तान् एव पृष्ठतस् ॥ १४ ॥
parājitān svakān dṛṣṭvā vīrabhadraḥ ruṣā anvitaḥ .. bhūta-preta-piśācān ca kṛtvā tān eva pṛṣṭhatas .. 14 ..
वृषभस्थान् पुरस्कृत्य स्वयं चैव महाबलः ॥ महात्रिशूलमादाय पातयामास निर्जरान् ॥ १५॥
वृषभ-स्थान् पुरस्कृत्य स्वयम् च एव महा-बलः ॥ महा-त्रिशूलम् आदाय पातयामास निर्जरान् ॥ १५॥
vṛṣabha-sthān puraskṛtya svayam ca eva mahā-balaḥ .. mahā-triśūlam ādāya pātayāmāsa nirjarān .. 15..
देवान्यक्षान् साध्यगणान् गुह्यकान् चारणानपि ॥ शूलघातैश्च सर्वे गणा वेगात् प्रजघ्निरे॥ १६॥
देवान् यक्षान् साध्य-गणान् गुह्यकान् चारणान् अपि ॥ शूल-घातैः च सर्वे गणाः वेगात् प्रजघ्निरे॥ १६॥
devān yakṣān sādhya-gaṇān guhyakān cāraṇān api .. śūla-ghātaiḥ ca sarve gaṇāḥ vegāt prajaghnire.. 16..
केचिद्द्विधा कृताः खड्गैर्मुद्गरैश्च विपोथिताः॥ अन्यैश्शस्त्रैरपि सुरा गणैर्भिन्नास्तदाऽभवन्॥ १७॥
केचिद् द्विधा कृताः खड्गैः मुद्गरैः च विपोथिताः॥ अन्यैः शस्त्रैः अपि सुराः गणैः भिन्नाः तदा अभवन्॥ १७॥
kecid dvidhā kṛtāḥ khaḍgaiḥ mudgaraiḥ ca vipothitāḥ.. anyaiḥ śastraiḥ api surāḥ gaṇaiḥ bhinnāḥ tadā abhavan.. 17..
एवं पराजितास्सर्वे पलायनपरायणाः॥ परस्परं परित्यज्य गता देवास्त्रिविष्टपम्॥ १८॥
एवम् पराजिताः सर्वे पलायन-परायणाः॥ परस्परम् परित्यज्य गताः देवाः त्रिविष्टपम्॥ १८॥
evam parājitāḥ sarve palāyana-parāyaṇāḥ.. parasparam parityajya gatāḥ devāḥ triviṣṭapam.. 18..
केवलं लोकपालास्ते शक्राद्यास्तस्थुरुत्सुकाः ॥ संग्रामे दारुणे तस्मिन् धृत्वा धैर्यं महाबलाः ॥ १९ ॥
केवलम् लोकपालाः ते शक्र-आद्याः तस्थुः उत्सुकाः ॥ संग्रामे दारुणे तस्मिन् धृत्वा धैर्यम् महा-बलाः ॥ १९ ॥
kevalam lokapālāḥ te śakra-ādyāḥ tasthuḥ utsukāḥ .. saṃgrāme dāruṇe tasmin dhṛtvā dhairyam mahā-balāḥ .. 19 ..
सर्वे मिलित्वा शक्राद्या देवास्तत्र रणाजिरे ॥ बृहस्पतिं च पप्रच्छुर्विनयावनतास्तदा ॥ 2.2.36.२० ॥
सर्वे मिलित्वा शक्र-आद्याः देवाः तत्र रण-अजिरे ॥ बृहस्पतिम् च पप्रच्छुः विनय-अवनताः तदा ॥ २।२।३६।२० ॥
sarve militvā śakra-ādyāḥ devāḥ tatra raṇa-ajire .. bṛhaspatim ca papracchuḥ vinaya-avanatāḥ tadā .. 2.2.36.20 ..
लोकपाला ऊचुः ।।
गुरो बृहस्पते तात महाप्राज्ञ दयानिधे ॥ शीघ्रं वद पृच्छतो नः कुतोऽ स्माकं जयो भवेत् ॥ २१॥
गुरो बृहस्पते तात महा-प्राज्ञ दया-निधे ॥ शीघ्रम् वद पृच्छतः नः कुतस् स्माकम् जयः भवेत् ॥ २१॥
guro bṛhaspate tāta mahā-prājña dayā-nidhe .. śīghram vada pṛcchataḥ naḥ kutas smākam jayaḥ bhavet .. 21..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तेषां स्मृत्वा शंभुं प्रयत्नवान् ॥ बृहस्पतिरुवाचेदं महेन्द्रं ज्ञानदुर्बलम् ॥ २२ ॥
इति आकर्ण्य वचः तेषाम् स्मृत्वा शंभुम् प्रयत्नवान् ॥ बृहस्पतिः उवाच इदम् महा-इन्द्रम् ज्ञान-दुर्बलम् ॥ २२ ॥
iti ākarṇya vacaḥ teṣām smṛtvā śaṃbhum prayatnavān .. bṛhaspatiḥ uvāca idam mahā-indram jñāna-durbalam .. 22 ..
बृहस्पतिरुवाच ।।
यदुक्तं विष्णुना पूर्वं तत्सर्वं जातमद्य वै ॥ तदेव विवृणोमीन्द्र सावधानतया शृणु ॥ २३ ॥
यत् उक्तम् विष्णुना पूर्वम् तत् सर्वम् जातम् अद्य वै ॥ तत् एव विवृणोमि इन्द्र सावधान-तया शृणु ॥ २३ ॥
yat uktam viṣṇunā pūrvam tat sarvam jātam adya vai .. tat eva vivṛṇomi indra sāvadhāna-tayā śṛṇu .. 23 ..
अस्ति यक्षेश्वरः कश्चित् फलदः सर्वकर्मणाम् ॥ कर्तारं भजते सोपि न स्वकर्त्तुः प्रभुर्हि सः ॥ २४ ॥
अस्ति यक्षेश्वरः कश्चिद् फल-दः सर्व-कर्मणाम् ॥ कर्तारम् भजते सः उपि न स्व-कर्त्तुः प्रभुः हि सः ॥ २४ ॥
asti yakṣeśvaraḥ kaścid phala-daḥ sarva-karmaṇām .. kartāram bhajate saḥ upi na sva-karttuḥ prabhuḥ hi saḥ .. 24 ..
अमंत्रौषधयस्सर्वे नाभिचारा न लौकिकाः ॥ न कर्माणि न वेदाश्च न मीमांसाद्वयं तथा ॥ २५ ॥
अमंत्र-ओषधयः सर्वे न अभिचाराः न लौकिकाः ॥ न कर्माणि न वेदाः च न मीमांसा-द्वयम् तथा ॥ २५ ॥
amaṃtra-oṣadhayaḥ sarve na abhicārāḥ na laukikāḥ .. na karmāṇi na vedāḥ ca na mīmāṃsā-dvayam tathā .. 25 ..
अन्यान्यपि च शास्त्राणि नानावेदयुतानि च ॥ ज्ञातुं नेशं संभवंति वदंत्येवं पुरातनाः ॥ २६ ॥
अन्यानि अपि च शास्त्राणि नाना वेद-युतानि च ॥ ज्ञातुम् न ईशम् संभवन्ति वदंति एवम् पुरातनाः ॥ २६ ॥
anyāni api ca śāstrāṇi nānā veda-yutāni ca .. jñātum na īśam saṃbhavanti vadaṃti evam purātanāḥ .. 26 ..
न स्वज्ञेयो महेशानस्सर्ववेदायुतेन सः ॥ भक्तेरनन्यशरणैर्नान्यथेति महाश्रुतिः ॥ २७ ॥
न स्व-ज्ञेयः महेशानः सर्व-वेद-अयुतेन सः ॥ भक्तेः अनन्य-शरणैः न अन्यथा इति महा-श्रुतिः ॥ २७ ॥
na sva-jñeyaḥ maheśānaḥ sarva-veda-ayutena saḥ .. bhakteḥ ananya-śaraṇaiḥ na anyathā iti mahā-śrutiḥ .. 27 ..
शांत्या च परया दृष्ट्या सर्वथा निर्विकारया ॥ तदनुग्रहतो नूनं ज्ञातव्यो हि सदाशिवः ॥ २८॥
शांत्या च परया दृष्ट्या सर्वथा निर्विकारया ॥ तद्-अनुग्रहतः नूनम् ज्ञातव्यः हि सदाशिवः ॥ २८॥
śāṃtyā ca parayā dṛṣṭyā sarvathā nirvikārayā .. tad-anugrahataḥ nūnam jñātavyaḥ hi sadāśivaḥ .. 28..
परं तु संवदिष्यामि कार्याकार्य विवक्षितौ ॥ सिध्यंशं च सुरेशान तं शृणु त्वं हिताय वै ॥ २९ ॥
परम् तु संवदिष्यामि कार्य-अकार्य विवक्षितौ ॥ सिधि-अंशम् च सुरेशान तम् शृणु त्वम् हिताय वै ॥ २९ ॥
param tu saṃvadiṣyāmi kārya-akārya vivakṣitau .. sidhi-aṃśam ca sureśāna tam śṛṇu tvam hitāya vai .. 29 ..
त्वमिंद्र बालिशो भूत्वा लोकपालैः सदाद्य वै ॥ आगतो दक्ष यज्ञं हि किं करिष्यसि विक्रमम् ॥ 2.2.36.३० ॥
त्वम् इंद्र बालिशः भूत्वा लोकपालैः सदा अद्य वै ॥ आगतः दक्ष यज्ञम् हि किम् करिष्यसि विक्रमम् ॥ २।२।३६।३० ॥
tvam iṃdra bāliśaḥ bhūtvā lokapālaiḥ sadā adya vai .. āgataḥ dakṣa yajñam hi kim kariṣyasi vikramam .. 2.2.36.30 ..
एते रुद्रसहायाश्च गणाः परमकोपनाः ॥ आगता यज्ञविघ्नार्थं तं करिष्यंत्यसंशयम ॥ ३१ ॥
एते रुद्र-सहायाः च गणाः परम-कोपनाः ॥ आगताः यज्ञ-विघ्न-अर्थम् तम् करिष्यंति असंशयम् ॥ ३१ ॥
ete rudra-sahāyāḥ ca gaṇāḥ parama-kopanāḥ .. āgatāḥ yajña-vighna-artham tam kariṣyaṃti asaṃśayam .. 31 ..
सर्वथा न ह्युपायोत्र केषांचिदपि तत्त्वतः ॥ यज्ञविघ्नविनाशार्थ सत्यं सत्यं ब्रवीम्यहम् ॥ ३२॥
सर्वथा न हि उपायः उत्र केषांचिद् अपि तत्त्वतः ॥ यज्ञ-विघ्न-विनाश-अर्थ सत्यम् सत्यम् ब्रवीमि अहम् ॥ ३२॥
sarvathā na hi upāyaḥ utra keṣāṃcid api tattvataḥ .. yajña-vighna-vināśa-artha satyam satyam bravīmi aham .. 32..
ब्रह्मोवाच ।।
एवं बृहस्पतेर्वाक्यं श्रुत्वा ते हि दिवौकसः ॥ चिंतामापेदिरे सर्वे लोकपालास्सवासवाः ॥ ३३ ॥
एवम् बृहस्पतेः वाक्यम् श्रुत्वा ते हि दिवौकसः ॥ चिंताम् आपेदिरे सर्वे लोकपालाः स वासवाः ॥ ३३ ॥
evam bṛhaspateḥ vākyam śrutvā te hi divaukasaḥ .. ciṃtām āpedire sarve lokapālāḥ sa vāsavāḥ .. 33 ..
ततोब्रवीद्वीरभद्रो महावीरगणैर्वृतः ॥ इन्द्रादीन् लोकपालांस्तान् स्मृत्वा मनसि शंकरम् ॥ ३४ ॥
ततस् ब्रवीत् वीरभद्रः महा-वीर-गणैः वृतः ॥ इन्द्र-आदीन् लोकपालान् तान् स्मृत्वा मनसि शंकरम् ॥ ३४ ॥
tatas bravīt vīrabhadraḥ mahā-vīra-gaṇaiḥ vṛtaḥ .. indra-ādīn lokapālān tān smṛtvā manasi śaṃkaram .. 34 ..
वीरभद्र उवाच ।।
सर्वे यूयं बालिशत्वादवदानार्थमागताः ॥ ।अवदानं प्रयच्छामि आगच्छत ममांतिकम् ॥ ३५॥
सर्वे यूयम् बालिश-त्वात् अवदान-अर्थम् आगताः ॥ ।अवदानम् प्रयच्छामि आगच्छत मम अंतिकम् ॥ ३५॥
sarve yūyam bāliśa-tvāt avadāna-artham āgatāḥ .. .avadānam prayacchāmi āgacchata mama aṃtikam .. 35..
हे शक्र हे शुचे भानो हे शशिन् हे धनाधिप॥ हे पाशपाणे हे वायो निर्ऋते यम शेष हे ॥ ३६ ॥
हे शक्र हे शुचे भानो हे शशिन् हे धनाधिप॥ हे पाश-पाणे हे वायो निरृते यम शेष हे ॥ ३६ ॥
he śakra he śuce bhāno he śaśin he dhanādhipa.. he pāśa-pāṇe he vāyo nirṛte yama śeṣa he .. 36 ..
हे सुरासुरसंघाहीहैत यूयं हे विचक्षणाः ॥ अवदानानि दास्यामि आतृप्त्याद्यासतां वराः ॥ ३७ ॥
हे सुर-असुर-संघाः अहि इह एत यूयम् हे विचक्षणाः ॥ अवदानानि दास्यामि आतृप्त्या अद्य आसताम् वराः ॥ ३७ ॥
he sura-asura-saṃghāḥ ahi iha eta yūyam he vicakṣaṇāḥ .. avadānāni dāsyāmi ātṛptyā adya āsatām varāḥ .. 37 ..
।। ब्रह्मोवाच ।।
एवमुक्त्वा सितैर्बाणैर्जघानाथ रुषान्वितः ॥ निखिलांस्तान् सुरान् सद्यो वीरभद्रो गणाग्रणीः ॥ तैर्बाणैर्निहतास्सर्वे वासवाद्याः सुरेश्वराः ॥ ३८ ॥
एवम् उक्त्वा सितैः बाणैः जघान अथ रुषा अन्वितः ॥ निखिलान् तान् सुरान् सद्यस् वीरभद्रः गणाग्रणीः ॥ तैः बाणैः निहताः सर्वे वासव-आद्याः सुरेश्वराः ॥ ३८ ॥
evam uktvā sitaiḥ bāṇaiḥ jaghāna atha ruṣā anvitaḥ .. nikhilān tān surān sadyas vīrabhadraḥ gaṇāgraṇīḥ .. taiḥ bāṇaiḥ nihatāḥ sarve vāsava-ādyāḥ sureśvarāḥ .. 38 ..
पलायनपरा भूत्वा जग्मुस्ते च दिशो दश ॥ गतेषु लोकपालेषु विद्रुतेषु सुरेषु च ॥ यज्ञवाटोपकंठं हि वीरभद्रोगमद्गणैः ॥ ३९ ॥
पलायन-पराः भूत्वा जग्मुः ते च दिशः दश ॥ गतेषु लोकपालेषु विद्रुतेषु सुरेषु च ॥ यज्ञ-वाट-उपकंठम् हि वीरभद्र-उगमत्-गणैः ॥ ३९ ॥
palāyana-parāḥ bhūtvā jagmuḥ te ca diśaḥ daśa .. gateṣu lokapāleṣu vidruteṣu sureṣu ca .. yajña-vāṭa-upakaṃṭham hi vīrabhadra-ugamat-gaṇaiḥ .. 39 ..
तदा ते ऋषयस्सर्वे सुभीता हि रमेश्वरम् ॥ विज्ञप्तुकामास्सहसा शीघ्रमूचुर्नता भृशम् ॥ 2.2.36.४० ॥
तदा ते ऋषयः सर्वे सु भीताः हि रमेश्वरम् ॥ विज्ञप्तु-कामाः सहसा शीघ्रम् ऊचुः नताः भृशम् ॥ २।२।३६।४० ॥
tadā te ṛṣayaḥ sarve su bhītāḥ hi rameśvaram .. vijñaptu-kāmāḥ sahasā śīghram ūcuḥ natāḥ bhṛśam .. 2.2.36.40 ..
ऋषय ऊचुः ।।
देवदेव रमानाथ सर्वेश्वर महाप्रभो ॥ रक्ष यज्ञं हि दक्षस्य यज्ञोसि त्वं न संशयः ॥ ४१ ॥ ।
देवदेव रमानाथ सर्वेश्वर महा-प्रभो ॥ रक्ष यज्ञम् हि दक्षस्य यज्ञः असि त्वम् न संशयः ॥ ४१ ॥ ।
devadeva ramānātha sarveśvara mahā-prabho .. rakṣa yajñam hi dakṣasya yajñaḥ asi tvam na saṃśayaḥ .. 41 .. .
यज्ञकर्मा यज्ञरूपो यज्ञांगो यज्ञरक्षकः ॥ रक्ष यज्ञमतो रक्ष त्वत्तोन्यो न हि रक्षकः ॥ ४२ ॥
॥ रक्ष यज्ञम् अतस् रक्ष त्वत्तः अन्यः न हि रक्षकः ॥ ४२ ॥
.. rakṣa yajñam atas rakṣa tvattaḥ anyaḥ na hi rakṣakaḥ .. 42 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तेषामृषीणां वचनं हरिः ॥ योद्धुकामो भयाद्विष्णुर्वीरभद्रेण तेन वै ॥ ४३ ॥
इति आकर्ण्य वचः तेषाम् ऋषीणाम् वचनम् हरिः ॥ योद्धु-कामः भयात् विष्णुः वीरभद्रेण तेन वै ॥ ४३ ॥
iti ākarṇya vacaḥ teṣām ṛṣīṇām vacanam hariḥ .. yoddhu-kāmaḥ bhayāt viṣṇuḥ vīrabhadreṇa tena vai .. 43 ..
चतुर्भुजस्सुसनद्धो चक्रायुधधरः करैः ॥ महाबलोमरगणैर्यज्ञवाटात्स निर्ययौ ॥ ४४॥
चक्र-आयुध-धरः करैः ॥ महा-बलः उमर-गणैः यज्ञ-वाटात् स निर्ययौ ॥ ४४॥
cakra-āyudha-dharaḥ karaiḥ .. mahā-balaḥ umara-gaṇaiḥ yajña-vāṭāt sa niryayau .. 44..
वीरभद्रः शूलपाणिर्नानागणसमन्वितः ॥ ददर्श विष्णुं संनद्धं योद्धुकामं महाप्रभुम्॥ ॥ ४५ ॥
वीरभद्रः शूलपाणिः नाना गण-समन्वितः ॥ ददर्श विष्णुम् संनद्धम् योद्धु-कामम् महा-प्रभुम्॥ ॥ ४५ ॥
vīrabhadraḥ śūlapāṇiḥ nānā gaṇa-samanvitaḥ .. dadarśa viṣṇum saṃnaddham yoddhu-kāmam mahā-prabhum.. .. 45 ..
तं दृष्ट्वा वीरभद्रोभूद्भ्रुकुटीकुटिलाननः ॥ कृतांत इव पापिष्ठं मृगेन्द्र इव वारणम् ॥ ४६॥
तम् दृष्ट्वा ॥ कृतांतः इव पापिष्ठम् मृगेन्द्रः इव वारणम् ॥ ४६॥
tam dṛṣṭvā .. kṛtāṃtaḥ iva pāpiṣṭham mṛgendraḥ iva vāraṇam .. 46..
तथाविधं हरिं दृष्ट्वा वीरभद्रो रिमर्दनः ॥ अवदत्त्वरितः क्रुद्धो गणैर्वीरैस्समावृतः ॥ ४७ ॥
तथाविधम् हरिम् दृष्ट्वा वीरभद्रः रिमर्दनः ॥ अवदत् त्वरितः क्रुद्धः गणैः वीरैः समावृतः ॥ ४७ ॥
tathāvidham harim dṛṣṭvā vīrabhadraḥ rimardanaḥ .. avadat tvaritaḥ kruddhaḥ gaṇaiḥ vīraiḥ samāvṛtaḥ .. 47 ..
वीरभद्र उवाच ।।
रेरे हरे महादेव शपथोल्लंघनं त्वया ॥ कथमद्य कृतं चित्ते गर्वः किमभवत्तव ॥ ४८ ॥
रे रे हरे महादेव शपथ-उल्लंघनम् त्वया ॥ कथम् अद्य कृतम् चित्ते गर्वः किम् अभवत् तव ॥ ४८ ॥
re re hare mahādeva śapatha-ullaṃghanam tvayā .. katham adya kṛtam citte garvaḥ kim abhavat tava .. 48 ..
तव श्रीरुद्रशपथोल्लंघने शक्तिरस्ति किम् ॥ को वा त्वमसिको वा ते रक्ष कोस्ति जगत्त्रये। ॥ ४९ ॥
तव श्री-रुद्र-शपथ-उल्लंघने शक्तिः अस्ति किम् ॥ कः वा त्वम् असि कः वा ते रक्ष कः अस्ति जगत्त्रये। ॥ ४९ ॥
tava śrī-rudra-śapatha-ullaṃghane śaktiḥ asti kim .. kaḥ vā tvam asi kaḥ vā te rakṣa kaḥ asti jagattraye. .. 49 ..
अत्र त्वमागतः कस्माद्वयं तन्नैव विद्महे ॥ दक्षस्य यज्ञपातात्त्वं कथं जातोसि तद्वद ॥ 2.2.36.५० ॥
अत्र त्वम् आगतः कस्मात् वयम् तत् न एव विद्महे ॥ दक्षस्य यज्ञ-पातात् त्वम् कथम् जातः असि तत् वद ॥ २।२।३६।५० ॥
atra tvam āgataḥ kasmāt vayam tat na eva vidmahe .. dakṣasya yajña-pātāt tvam katham jātaḥ asi tat vada .. 2.2.36.50 ..
दाक्षायण्याकृतं यच्च तन्न दृष्टं किमु त्वया ॥ प्रोक्तं यच्च दधीचेन श्रुतं तन्न किमु त्वया ॥ ५१॥
दाक्षायण्या अकृतम् यत् च तत् न दृष्टम् किमु त्वया ॥ प्रोक्तम् यत् च दधीचेन श्रुतम् तत् न किमु त्वया ॥ ५१॥
dākṣāyaṇyā akṛtam yat ca tat na dṛṣṭam kimu tvayā .. proktam yat ca dadhīcena śrutam tat na kimu tvayā .. 51..
त्वञ्चापि दक्षयज्ञेस्मिन्नवदानार्थमागतः ॥ अवदानं प्रयच्छामि तव चापि महाभुज ॥ ५२ ॥
त्वम् च अपि दक्ष-यज्ञे स्मिन् अवदान-अर्थम् आगतः ॥ अवदानम् प्रयच्छामि तव च अपि महा-भुज ॥ ५२ ॥
tvam ca api dakṣa-yajñe smin avadāna-artham āgataḥ .. avadānam prayacchāmi tava ca api mahā-bhuja .. 52 ..
वक्षो विदारयिष्यामि त्रिशूलेन हरे तव ॥ कस्तवास्ति समायातो रक्षकोद्य ममांतिकम् ॥ ५३ ॥
वक्षः विदारयिष्यामि त्रिशूलेन हरे तव ॥ कः तव अस्ति समायातः रक्षक-उद्य मम अंतिकम् ॥ ५३ ॥
vakṣaḥ vidārayiṣyāmi triśūlena hare tava .. kaḥ tava asti samāyātaḥ rakṣaka-udya mama aṃtikam .. 53 ..
पातयिष्यामि भूपृष्ठे ज्वालयिष्यामि वह्निना ॥ दग्धं भवंतमधुना पेषयिष्यामि सत्वरम् ॥ ५४॥
पातयिष्यामि भू-पृष्ठे ज्वालयिष्यामि वह्निना ॥ दग्धम् भवन्तम् अधुना पेषयिष्यामि स त्वरम् ॥ ५४॥
pātayiṣyāmi bhū-pṛṣṭhe jvālayiṣyāmi vahninā .. dagdham bhavantam adhunā peṣayiṣyāmi sa tvaram .. 54..
रेरे हरे दुराचार महेश विमुखाधम ॥ श्रीमहारुद्रमाहात्म्यं किन्न जानासि पावनम् ॥ ५५ ॥
रे रे हरे दुराचार महेश विमुख-अधम ॥ श्री-महारुद्र-माहात्म्यम् किन् न जानासि पावनम् ॥ ५५ ॥
re re hare durācāra maheśa vimukha-adhama .. śrī-mahārudra-māhātmyam kin na jānāsi pāvanam .. 55 ..
तथापि त्वं महाबाहो योद्धुकामोग्रतः स्थितः ॥ नेष्यामि पुनरावृत्तिं यदि तिष्ठेस्त्वमात्मना ॥ ५६॥
तथा अपि त्वम् महा-बाहो योद्धु-काम-उग्रतः स्थितः ॥ नेष्यामि पुनरावृत्तिम् यदि तिष्ठेः त्वम् आत्मना ॥ ५६॥
tathā api tvam mahā-bāho yoddhu-kāma-ugrataḥ sthitaḥ .. neṣyāmi punarāvṛttim yadi tiṣṭheḥ tvam ātmanā .. 56..
ब्रह्मोवाच ।। ।।
तस्य तद्वचनं श्रुत्वा वीरभद्रस्य बुद्धिमान् ॥ उवाच विहसन् प्रीत्या विष्णुस्त्र सुरेश्वरः ॥ ५७॥
तस्य तत् वचनम् श्रुत्वा वीरभद्रस्य बुद्धिमान् ॥ उवाच विहसन् प्रीत्या सुरेश्वरः ॥ ५७॥
tasya tat vacanam śrutvā vīrabhadrasya buddhimān .. uvāca vihasan prītyā sureśvaraḥ .. 57..
विष्णुरुवाच ।।
शृणु त्वं वीरभद्राद्य प्रवक्ष्यामि त्वदग्रतः ॥ न रुद्रविमुखं मां त्वं वद शंकरसेवकम् ॥ ५८॥
शृणु त्वम् वीरभद्र अद्य प्रवक्ष्यामि त्वद्-अग्रतस् ॥ न रुद्र-विमुखम् माम् त्वम् वद शंकर-सेवकम् ॥ ५८॥
śṛṇu tvam vīrabhadra adya pravakṣyāmi tvad-agratas .. na rudra-vimukham mām tvam vada śaṃkara-sevakam .. 58..
अनेन प्रार्थितः पूर्वं यज्ञार्थं च पुनः पुनः ॥ दक्षेणाविदितार्थेन कर्मनिष्ठेन मौढ्यतः ॥ ५९ ॥
अनेन प्रार्थितः पूर्वम् यज्ञ-अर्थम् च पुनर् पुनर् ॥ दक्षेण अ विदित-अर्थेन कर्म-निष्ठेन मौढ्यतः ॥ ५९ ॥
anena prārthitaḥ pūrvam yajña-artham ca punar punar .. dakṣeṇa a vidita-arthena karma-niṣṭhena mauḍhyataḥ .. 59 ..
अहं भक्तपराधीनस्तथा सोपि महेश्वरः ॥ दक्षो भक्तो हि मे तात तस्मादत्रागतो मखे ॥ 2.2.36.६० ॥
अहम् भक्त-पर-अधीनः तथा सः अपि महेश्वरः ॥ दक्षः भक्तः हि मे तात तस्मात् अत्र आगतः मखे ॥ २।२।३६।६० ॥
aham bhakta-para-adhīnaḥ tathā saḥ api maheśvaraḥ .. dakṣaḥ bhaktaḥ hi me tāta tasmāt atra āgataḥ makhe .. 2.2.36.60 ..
शृणु प्रतिज्ञां मे वीर रुद्रकोपसमुद्भव ॥ रुद्रतेजस्स्वरूपो हि सुप्रतापालयंप्रभो ॥ ६१ ॥
शृणु प्रतिज्ञाम् मे वीर रुद्र-कोप-समुद्भव ॥ रुद्र-तेजः-स्वरूपः हि सुप्रताप-आलयंप्रभो ॥ ६१ ॥
śṛṇu pratijñām me vīra rudra-kopa-samudbhava .. rudra-tejaḥ-svarūpaḥ hi supratāpa-ālayaṃprabho .. 61 ..
अहं निवारयामि त्वां त्वं च मां विनिवारय ॥ तद्भविष्यति यद्भावि करिष्येऽहं पराक्रमम् ॥ ६२ ॥
अहम् निवारयामि त्वाम् त्वम् च माम् विनिवारय ॥ तत् भविष्यति यत् भावि करिष्ये अहम् पराक्रमम् ॥ ६२ ॥
aham nivārayāmi tvām tvam ca mām vinivāraya .. tat bhaviṣyati yat bhāvi kariṣye aham parākramam .. 62 ..
ब्रह्मोवाच ।।
इत्युक्तवति गोविन्दे प्रहस्य स महाभुजः ॥ अवदत्सुप्रसन्नोस्मि त्वां ज्ञात्वास्मत्प्रभोः प्रियम् ॥ ६३ ॥
इति उक्तवति गोविन्दे प्रहस्य स महा-भुजः ॥ अवदत् सु प्रसन्नः अस्मि त्वाम् ज्ञात्वा अस्मद्-प्रभोः प्रियम् ॥ ६३ ॥
iti uktavati govinde prahasya sa mahā-bhujaḥ .. avadat su prasannaḥ asmi tvām jñātvā asmad-prabhoḥ priyam .. 63 ..
ततो विहस्य सुप्रीतो वीरभद्रो गणाग्रणीः ॥ प्रश्रयावनतोवादीद्विष्णुं देवं हि तत्त्वतः ॥ ६४ ॥
ततस् विहस्य सु प्रीतः वीरभद्रः गणाग्रणीः ॥ प्रश्रय-अवनतः उवादीत् विष्णुम् देवम् हि तत्त्वतः ॥ ६४ ॥
tatas vihasya su prītaḥ vīrabhadraḥ gaṇāgraṇīḥ .. praśraya-avanataḥ uvādīt viṣṇum devam hi tattvataḥ .. 64 ..
वीरभद्र उवाच ।।
तव भावपरीक्षार्थमित्युक्तं मे महाप्रभो ॥ इदानीं तत्त्वतो वच्मि शृणु त्वं सावधानतः ॥ ६५ ॥
तव भाव-परीक्षा-अर्थम् इति उक्तम् मे महा-प्रभो ॥ इदानीम् तत्त्वतः वच्मि शृणु त्वम् सावधानतः ॥ ६५ ॥
tava bhāva-parīkṣā-artham iti uktam me mahā-prabho .. idānīm tattvataḥ vacmi śṛṇu tvam sāvadhānataḥ .. 65 ..
यथा शिवस्तथा त्वं हि यथा त्वं च तथा शिवः ॥ इति वेदा वर्णयंति शिवशासनतो हरे ॥ ६६ ॥
यथा शिवः तथा त्वम् हि यथा त्वम् च तथा शिवः ॥ इति वेदाः वर्णयंति शिव-शासनतः हरे ॥ ६६ ॥
yathā śivaḥ tathā tvam hi yathā tvam ca tathā śivaḥ .. iti vedāḥ varṇayaṃti śiva-śāsanataḥ hare .. 66 ..
शिवाज्ञया वयं सर्वे सेवकाः शंकरस्य वै ॥ तथापि च रमानाथ प्रवादोचितमादरात् ॥ ६७ ॥
शिव-आज्ञया वयम् सर्वे सेवकाः शंकरस्य वै ॥ तथा अपि च रमानाथ प्रवाद-उचितम् आदरात् ॥ ६७ ॥
śiva-ājñayā vayam sarve sevakāḥ śaṃkarasya vai .. tathā api ca ramānātha pravāda-ucitam ādarāt .. 67 ..
ब्रह्मोवाच ।।
तच्छ्रुत्वा वचनं तस्य वीरभद्रस्य सोऽच्युतः ॥ प्रहस्य चेदं प्रोवाच वीरभद्रमिदं वचः ॥ ६८ ॥
तत् श्रुत्वा वचनम् तस्य वीरभद्रस्य सः अच्युतः ॥ प्रहस्य च इदम् प्रोवाच वीरभद्रम् इदम् वचः ॥ ६८ ॥
tat śrutvā vacanam tasya vīrabhadrasya saḥ acyutaḥ .. prahasya ca idam provāca vīrabhadram idam vacaḥ .. 68 ..
विष्णुरुवाच ।।
युद्धं कुरु महावीर मया सार्द्धमशंकितः ॥ तवास्त्रैः पूर्यमाणोहं गमिष्यामि स्वमाश्रमम् ॥ ६९ ॥
युद्धम् कुरु महा-वीर मया सार्द्धम् अशंकितः ॥ तव अस्त्रैः पूर्यमाणः उहम् गमिष्यामि स्वम् आश्रमम् ॥ ६९ ॥
yuddham kuru mahā-vīra mayā sārddham aśaṃkitaḥ .. tava astraiḥ pūryamāṇaḥ uham gamiṣyāmi svam āśramam .. 69 ..
ब्रह्मोवाच ।।
इत्युक्त्वा हि विरम्यासौ सन्नद्धोभूद्रणाय च ॥ स्वगणैर्वीरभद्रोपि सन्नद्धोथ महाबलः ॥ 2.2.36.७० ॥
इति उक्त्वा हि विरम्य असौ च ॥ स्व-गणैः वीरभद्रः अपि सन्नद्धः उथ महा-बलः ॥ २।२।३६।७० ॥
iti uktvā hi viramya asau ca .. sva-gaṇaiḥ vīrabhadraḥ api sannaddhaḥ utha mahā-balaḥ .. 2.2.36.70 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे विष्णुवीरभद्रसम्वादो नाम षट्त्रिंशोऽध्यायः ॥ ३६॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सतीखण्डे विष्णुवीरभद्रसम्वादः नाम षट्त्रिंशः अध्यायः ॥ ३६॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satīkhaṇḍe viṣṇuvīrabhadrasamvādaḥ nāma ṣaṭtriṃśaḥ adhyāyaḥ .. 36..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In