| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
वीरभद्रोथ युद्धे वै विष्णुना स महाबलः ॥ संस्मृत्य शंकरं चित्ते सर्वापद्विनिवारणम् ॥ ॥ १॥
वीरभद्रा उथ युद्धे वै विष्णुना स महा-बलः ॥ संस्मृत्य शंकरम् चित्ते सर्व-आपद्-विनिवारणम् ॥ ॥ १॥
vīrabhadrā utha yuddhe vai viṣṇunā sa mahā-balaḥ .. saṃsmṛtya śaṃkaram citte sarva-āpad-vinivāraṇam .. .. 1..
आरुह्य स्यंदनं दिव्यं सर्ववैरिविमर्दनः ॥ गृहीत्वा परमास्त्राणि सिंहनादं जगर्ज ह ॥ २॥
आरुह्य स्यंदनम् दिव्यम् सर्व-वैरि-विमर्दनः ॥ गृहीत्वा परम-अस्त्राणि सिंहनादम् जगर्ज ह ॥ २॥
āruhya syaṃdanam divyam sarva-vairi-vimardanaḥ .. gṛhītvā parama-astrāṇi siṃhanādam jagarja ha .. 2..
विष्णुश्चापि महाघोषं पांचजन्या भिधन्निजम् ॥ दध्मौ बली महाशंखं स्वकीयान् हर्षयन्निव ॥ ३॥
विष्णुः च अपि महा-घोषम् पांचजन्या निजम् ॥ दध्मौ बली महा-शंखम् स्वकीयान् हर्षयन् इव ॥ ३॥
viṣṇuḥ ca api mahā-ghoṣam pāṃcajanyā nijam .. dadhmau balī mahā-śaṃkham svakīyān harṣayan iva .. 3..
तच्छ्रुत्वा शंखनिर्ह्रादं देवा ये च पलायिताः ॥ रणं हित्वा गताः पूर्वं ते द्रुतं पुनराययुः ॥ ४ ॥
तत् श्रुत्वा शंख-निर्ह्रादम् देवाः ये च पलायिताः ॥ रणम् हित्वा गताः पूर्वम् ते द्रुतम् पुनर् आययुः ॥ ४ ॥
tat śrutvā śaṃkha-nirhrādam devāḥ ye ca palāyitāḥ .. raṇam hitvā gatāḥ pūrvam te drutam punar āyayuḥ .. 4 ..
वीरभद्र गणैस्तेषां लोकपालास्सवासवाः ॥ युद्धञ्चक्रुस्तथा सिंहनादं कृत्वा बलान्विताः ॥ ५ ॥
वीरभद्र गणैः तेषाम् लोकपालाः स वासवाः ॥ युद्धञ्चक्रुः तथा सिंहनादम् कृत्वा बल-अन्विताः ॥ ५ ॥
vīrabhadra gaṇaiḥ teṣām lokapālāḥ sa vāsavāḥ .. yuddhañcakruḥ tathā siṃhanādam kṛtvā bala-anvitāḥ .. 5 ..
गणानां लोकपालानां द्वन्द्वयुद्धं भयावहम् ॥ अभवत्तत्र तुमुलं गर्जतां सिंहनादतः ॥ ६॥
गणानाम् लोकपालानाम् द्वन्द्व-युद्धम् भय-आवहम् ॥ अभवत् तत्र तुमुलम् गर्जताम् सिंहनादतः ॥ ६॥
gaṇānām lokapālānām dvandva-yuddham bhaya-āvaham .. abhavat tatra tumulam garjatām siṃhanādataḥ .. 6..
नन्दिना युयुधे शक्रोऽनलो वै वैष्णवास्तथा॥ कुबेरोपि हि कूष्माण्डपतिश्च युयुधे बली ॥ ७ ॥
नन्दिना युयुधे शक्रः अनलः वै वैष्णवाः तथा॥ कुबेरः उपि हि कूष्माण्डपतिः च युयुधे बली ॥ ७ ॥
nandinā yuyudhe śakraḥ analaḥ vai vaiṣṇavāḥ tathā.. kuberaḥ upi hi kūṣmāṇḍapatiḥ ca yuyudhe balī .. 7 ..
तदेन्द्रेण हतो नन्दी वज्रेण शतपर्वणा ॥ ८ ॥ नन्दिना च हतश्शक्रस्त्रिशूलेन स्तनांतरे ॥ ९॥
तदा इन्द्रेण हतः नन्दी वज्रेण शतपर्वणा ॥ ८ ॥ नन्दिना च हतः शक्रः त्रिशूलेन स्तनांतरे ॥ ९॥
tadā indreṇa hataḥ nandī vajreṇa śataparvaṇā .. 8 .. nandinā ca hataḥ śakraḥ triśūlena stanāṃtare .. 9..
बलिनौ द्वावपि प्रीत्या युयुधाते परस्परम् ॥ नानाघातांश्च कुर्वंतौ नन्दिशक्रौ जिगीषया ॥ 2.2.37.१० ॥
बलिनौ द्वौ अपि प्रीत्या युयुधाते परस्परम् ॥ नाना घातान् च कुर्वंतौ नन्दि-शक्रौ जिगीषया ॥ २।२।३७।१० ॥
balinau dvau api prītyā yuyudhāte parasparam .. nānā ghātān ca kurvaṃtau nandi-śakrau jigīṣayā .. 2.2.37.10 ..
शक्त्या जघान चाश्मानं शुचिः परमकोपनः ॥ सोपि शूलेन तं वेगाच्छितधारेण पावकम् ॥ ११ ॥
शक्त्या जघान च अश्मानम् शुचिः परम-कोपनः ॥ सः उपि शूलेन तम् वेग-आच्छित-धारेण पावकम् ॥ ११ ॥
śaktyā jaghāna ca aśmānam śuciḥ parama-kopanaḥ .. saḥ upi śūlena tam vega-ācchita-dhāreṇa pāvakam .. 11 ..
यमेन सह संग्रामं महालोको गणाग्रणीः ॥ चकार तुमुलं वीरो महादेवं स्मरन्मुदा ॥ १२ ॥
यमेन सह संग्रामम् महा-लोकः गणाग्रणीः ॥ चकार तुमुलम् वीरः महादेवम् स्मरन् मुदा ॥ १२ ॥
yamena saha saṃgrāmam mahā-lokaḥ gaṇāgraṇīḥ .. cakāra tumulam vīraḥ mahādevam smaran mudā .. 12 ..
नैर्ऋतेन समागम्य चंडश्च बलवत्तरः ॥ युयुधे परमास्त्रैश्च नैर्ऋतिं निबिडं वयन् ॥ १३ ॥
नैरृतेन समागम्य चंडः च बलवत्तरः ॥ युयुधे परम-अस्त्रैः च नैरृतिम् निबिडम् वयन् ॥ १३ ॥
nairṛtena samāgamya caṃḍaḥ ca balavattaraḥ .. yuyudhe parama-astraiḥ ca nairṛtim nibiḍam vayan .. 13 ..
वरुणेन समं वीरो मुंडश्चैव महाबलः ॥ युयुधे परया शक्त्या त्रिलोकीं विस्मयन्निव ॥ १४ ॥
वरुणेन समम् वीरः मुंडः च एव महा-बलः ॥ युयुधे परया शक्त्या त्रिलोकीम् विस्मयन् इव ॥ १४ ॥
varuṇena samam vīraḥ muṃḍaḥ ca eva mahā-balaḥ .. yuyudhe parayā śaktyā trilokīm vismayan iva .. 14 ..
वायुना च हतो भृंगी स्वास्त्रेण परमोजसा ॥ भृंगिणा च हतो वायुस्त्रिशूलेन प्रतापिना ॥ १५ ॥
वायुना च हतः भृंगी स्व-अस्त्रेण परम-ओजसा ॥ भृंगिणा च हतः वायुः त्रिशूलेन प्रतापिना ॥ १५ ॥
vāyunā ca hataḥ bhṛṃgī sva-astreṇa parama-ojasā .. bhṛṃgiṇā ca hataḥ vāyuḥ triśūlena pratāpinā .. 15 ..
कुबेरेणैव संगम्य कूष्मांडपतिरादरात् ॥ युयुधे बलवान् वीरो ध्यात्वा हृदि महेश्वरम् ॥ १६॥
कुबेरेण एव संगम्य कूष्मांड-पतिः आदरात् ॥ युयुधे बलवान् वीरः ध्यात्वा हृदि महेश्वरम् ॥ १६॥
kubereṇa eva saṃgamya kūṣmāṃḍa-patiḥ ādarāt .. yuyudhe balavān vīraḥ dhyātvā hṛdi maheśvaram .. 16..
योगिनीचक्रसंयुक्तो भैरवीनायको महान् ॥ विदीर्य्य देवानखिलान्पपौ शोणितमद्भुतम् ॥ १७ ॥
योगिनी-चक्र-संयुक्तः भैरवी-नायकः महान् ॥ विदीर्य्य देवान् अखिलान् पपौ शोणितम् अद्भुतम् ॥ १७ ॥
yoginī-cakra-saṃyuktaḥ bhairavī-nāyakaḥ mahān .. vidīryya devān akhilān papau śoṇitam adbhutam .. 17 ..
क्षेत्रपालास्तथा तत्र बुभुक्षुः सुरपुंगवान् ॥ काली चापि विदार्यैव तान्पपौ रुधिरं बहु ॥ १८ ॥
क्षेत्रपालाः तथा तत्र बुभुक्षुः सुर-पुंगवान् ॥ काली च अपि विदार्य एव तान् पपौ रुधिरम् बहु ॥ १८ ॥
kṣetrapālāḥ tathā tatra bubhukṣuḥ sura-puṃgavān .. kālī ca api vidārya eva tān papau rudhiram bahu .. 18 ..
अथ विष्णुर्महातेजा युयुधे तैश्च शत्रुहा ॥ चक्रं चिक्षेप वेगेन दहन्निव दिशो दश ॥ १९ ॥
अथ विष्णुः महा-तेजाः युयुधे तैः च शत्रु-हा ॥ चक्रम् चिक्षेप वेगेन दहन् इव दिशः दश ॥ १९ ॥
atha viṣṇuḥ mahā-tejāḥ yuyudhe taiḥ ca śatru-hā .. cakram cikṣepa vegena dahan iva diśaḥ daśa .. 19 ..
क्षेत्रपालस्समायांतं चक्रमालोक्य वेगतः ॥ तत्रागत्यागतो वीरश्चाग्रसत्सहसा बली ॥ 2.2.37.२०॥
क्षेत्रपालः समायान्तम् चक्रम् आलोक्य वेगतः ॥ तत्र आगत्य आगतः वीरः च अग्रसत् सहसा बली ॥ २।२।३७।२०॥
kṣetrapālaḥ samāyāntam cakram ālokya vegataḥ .. tatra āgatya āgataḥ vīraḥ ca agrasat sahasā balī .. 2.2.37.20..
चक्रं ग्रसितमालोक्य विष्णुः परपुरंजयः ॥ मुखं तस्य परामृज्य तमुद्गालितवानरिम्॥ । ॥ २१॥
चक्रम् ग्रसितम् आलोक्य विष्णुः पर-पुरंजयः ॥ मुखम् तस्य परामृज्य तम् उद्गालित-वानरिम्॥ । ॥ २१॥
cakram grasitam ālokya viṣṇuḥ para-puraṃjayaḥ .. mukham tasya parāmṛjya tam udgālita-vānarim.. . .. 21..
स्वचक्रमादाय महानुभावश्चुकोप चातीव भवैकभर्त्ता ॥ महाबली तैर्युयुधे प्रवीरैस्सक्रुद्धनानायुधधारकोस्त्रैः ॥ २२ ॥
स्व-चक्रम् आदाय महा-अनुभावः चुकोप च अतीव भव-एक-भर्त्ता ॥ महा-बली तैः युयुधे प्रवीरैः स क्रुद्ध-नाना आयुध-धारक-उस्त्रैः ॥ २२ ॥
sva-cakram ādāya mahā-anubhāvaḥ cukopa ca atīva bhava-eka-bharttā .. mahā-balī taiḥ yuyudhe pravīraiḥ sa kruddha-nānā āyudha-dhāraka-ustraiḥ .. 22 ..
चक्रे महारणं विष्णुस्तैस्सार्द्धं युयुधे मुदा ॥ नानायुधानि संक्षिप्य तुमुलं भीमविक्रमम् ॥ २३ ॥
चक्रे महा-रणम् विष्णुः तैः सार्द्धम् युयुधे मुदा ॥ नाना आयुधानि संक्षिप्य तुमुलम् भीम-विक्रमम् ॥ २३ ॥
cakre mahā-raṇam viṣṇuḥ taiḥ sārddham yuyudhe mudā .. nānā āyudhāni saṃkṣipya tumulam bhīma-vikramam .. 23 ..
अथ ते भैरवाद्याश्च युयुधुस्तेन भूरिशः ॥ नानास्त्राणि विमुंचंतस्संकुद्धाः परमोजसा ॥ २४ ॥
अथ ते भैरव-आद्याः च युयुधुः तेन भूरिशस् ॥ नाना अस्त्राणि विमुंचंतः संकुद्धाः परम-ओजसा ॥ २४ ॥
atha te bhairava-ādyāḥ ca yuyudhuḥ tena bhūriśas .. nānā astrāṇi vimuṃcaṃtaḥ saṃkuddhāḥ parama-ojasā .. 24 ..
इत्थं तेषां रणं दृष्ट्वा हरिणातुलतेजसा ॥ विनिवृत्य समागम्य तान्स्वयं युयुधे बली ॥ २५ ॥
इत्थम् तेषाम् रणम् दृष्ट्वा हरिणा अतुल-तेजसा ॥ विनिवृत्य समागम्य तान् स्वयम् युयुधे बली ॥ २५ ॥
ittham teṣām raṇam dṛṣṭvā hariṇā atula-tejasā .. vinivṛtya samāgamya tān svayam yuyudhe balī .. 25 ..
अथ विष्णुर्महातेजाश्चक्रमुद्यम्य मूर्च्छितः ॥ युयुधे भगवांस्तेन वीरभद्रेण माधवः ॥ २६ ॥
अथ विष्णुः महा-तेजाः चक्रम् उद्यम्य मूर्च्छितः ॥ युयुधे भगवान् तेन वीरभद्रेण माधवः ॥ २६ ॥
atha viṣṇuḥ mahā-tejāḥ cakram udyamya mūrcchitaḥ .. yuyudhe bhagavān tena vīrabhadreṇa mādhavaḥ .. 26 ..
तयोः समभवद्युद्धं सुघोरं रोमहर्षणम् ॥ महावीराधिपत्योस्तु नानास्त्रधरयोर्मुने ॥ २७॥
तयोः समभवत् युद्धम् सु घोरम् रोम-हर्षणम् ॥ महावीर-अधिपत्योः तु नाना अस्त्र-धरयोः मुने ॥ २७॥
tayoḥ samabhavat yuddham su ghoram roma-harṣaṇam .. mahāvīra-adhipatyoḥ tu nānā astra-dharayoḥ mune .. 27..
विष्णोर्योगबलात्तस्य देवदेव सुदारुणाः॥ शङ्खचक्रगदाहस्ता असंख्याताश्च जज्ञिरे ॥ २८ ॥
विष्णोः योग-बलात् तस्य देवदेव सु दारुणाः॥ शङ्ख-चक्र-गदा-हस्ताः असंख्याताः च जज्ञिरे ॥ २८ ॥
viṣṇoḥ yoga-balāt tasya devadeva su dāruṇāḥ.. śaṅkha-cakra-gadā-hastāḥ asaṃkhyātāḥ ca jajñire .. 28 ..
ते चापि युयुधुस्तेन वीरभद्रेण भाषता ॥ विष्णुवत् बलवंतो हि नानायुधधरा गणाः ॥ २९॥
ते च अपि युयुधुः तेन वीरभद्रेण भाषता ॥ विष्णु-वत् बलवन्तः हि नाना आयुध-धराः गणाः ॥ २९॥
te ca api yuyudhuḥ tena vīrabhadreṇa bhāṣatā .. viṣṇu-vat balavantaḥ hi nānā āyudha-dharāḥ gaṇāḥ .. 29..
तान्सर्वानपि वीरोसौ नारायणसमप्रभान् ॥ भस्मीचकार शूलेन हत्वा स्मृत्वा शिवं प्रभुम् ॥ 2.2.37.३०॥
तान् सर्वान् अपि वीरः उसौ नारायण-सम-प्रभान् ॥ भस्मीचकार शूलेन हत्वा स्मृत्वा शिवम् प्रभुम् ॥ २।२।३७।३०॥
tān sarvān api vīraḥ usau nārāyaṇa-sama-prabhān .. bhasmīcakāra śūlena hatvā smṛtvā śivam prabhum .. 2.2.37.30..
ततश्चोरसि तं विष्णुं लीलयैव रणाजिरे ॥ जघान वीरभद्रो हि त्रिशूलेन महाबली ॥ ३१ ॥
ततस् च उरसि तम् विष्णुम् लीलया एव रण-अजिरे ॥ जघान वीरभद्रः हि त्रिशूलेन महा-बली ॥ ३१ ॥
tatas ca urasi tam viṣṇum līlayā eva raṇa-ajire .. jaghāna vīrabhadraḥ hi triśūlena mahā-balī .. 31 ..
तेन घातेन सहसा विहतः पुरुषोत्तमः ॥ पपात च तदा भूमौ विसंज्ञोभून्मुने हरिः ॥ ३२ ॥
तेन घातेन सहसा विहतः पुरुषोत्तमः ॥ पपात च तदा भूमौ विसंज्ञः भूत् मुने हरिः ॥ ३२ ॥
tena ghātena sahasā vihataḥ puruṣottamaḥ .. papāta ca tadā bhūmau visaṃjñaḥ bhūt mune hariḥ .. 32 ..
ततो यज्ञोद्भुतं तेजः प्रलयानलसन्निभम् ॥ त्रैलोक्यदाहकं तीव्रं वीराणामपि भीकरम् ॥ ३३ ॥
ततस् यज्ञ-उद्भुतम् तेजः प्रलय-अनल-सन्निभम् ॥ त्रैलोक्य-दाहकम् तीव्रम् वीराणाम् अपि भीकरम् ॥ ३३ ॥
tatas yajña-udbhutam tejaḥ pralaya-anala-sannibham .. trailokya-dāhakam tīvram vīrāṇām api bhīkaram .. 33 ..
क्रोधरक्तेक्षणः श्रीमान् पुनरुत्थाय स प्रभुः ॥ प्रहर्तुं चक्रमुद्यम्य ह्यतिष्ठत्पुरुषर्षभः ॥ ३४ ॥
क्रोध-रक्त-ईक्षणः श्रीमान् पुनर् उत्थाय स प्रभुः ॥ प्रहर्तुम् चक्रम् उद्यम्य हि अतिष्ठत् पुरुष-ऋषभः ॥ ३४ ॥
krodha-rakta-īkṣaṇaḥ śrīmān punar utthāya sa prabhuḥ .. prahartum cakram udyamya hi atiṣṭhat puruṣa-ṛṣabhaḥ .. 34 ..
तस्य चक्रं महारौद्रं काला दित्यसमप्रभम् ॥ व्यष्टंभयददीनात्मा वीरभद्रश्शिवः प्रभुः ॥ ३५ ॥
तस्य चक्रम् महा-रौद्रम् कालाः दित्य-सम-प्रभम् ॥ व्यष्टंभयत् अदीन-आत्मा वीरभद्रः शिवः प्रभुः ॥ ३५ ॥
tasya cakram mahā-raudram kālāḥ ditya-sama-prabham .. vyaṣṭaṃbhayat adīna-ātmā vīrabhadraḥ śivaḥ prabhuḥ .. 35 ..
मुने शंभोः प्रभावात्तु मायेशस्य महाप्रभोः ॥ न चचाल हरेश्चक्रं करस्थं स्तंभितं ध्रुवम् ॥ ३६ ॥
मुने शंभोः प्रभावात् तु माया-ईशस्य महा-प्रभोः ॥ न चचाल हरेः चक्रम् कर-स्थम् स्तंभितम् ध्रुवम् ॥ ३६ ॥
mune śaṃbhoḥ prabhāvāt tu māyā-īśasya mahā-prabhoḥ .. na cacāla hareḥ cakram kara-stham staṃbhitam dhruvam .. 36 ..
अथ विष्णुर्गणेशेन वीरभद्रेण भाषता ॥ अतिष्ठत्स्तंभितस्तेन शृंगवानिव निश्चलः ॥ ३७ ॥
अथ विष्णुः गणेशेन वीरभद्रेण भाषता ॥ अतिष्ठत् स्तंभितः तेन शृंगवान् इव निश्चलः ॥ ३७ ॥
atha viṣṇuḥ gaṇeśena vīrabhadreṇa bhāṣatā .. atiṣṭhat staṃbhitaḥ tena śṛṃgavān iva niścalaḥ .. 37 ..
ततो विष्णुः स्तंभितो हि वीरभद्रेण नारद ॥ यज्वोपमंत्रणमना नीरस्तंभनकारकम् ॥ ३८॥
ततस् विष्णुः स्तंभितः हि वीरभद्रेण नारद ॥ यज्वा उपमंत्रण-मनाः नीर-स्तंभन-कारकम् ॥ ३८॥
tatas viṣṇuḥ staṃbhitaḥ hi vīrabhadreṇa nārada .. yajvā upamaṃtraṇa-manāḥ nīra-staṃbhana-kārakam .. 38..
ततस्स्तंभननिर्मुक्तः शार्ङ्गधन्वा रमेश्वरः ॥ शार्ङ्गं जग्राह स क्रुद्धः स्वधनुस्सशरं मुने ॥ ३९ ॥
ततस् स्तंभन-निर्मुक्तः शार्ङ्गधन्वा रमेश्वरः ॥ शार्ङ्गम् जग्राह स क्रुद्धः स्व-धनुः स शरम् मुने ॥ ३९ ॥
tatas staṃbhana-nirmuktaḥ śārṅgadhanvā rameśvaraḥ .. śārṅgam jagrāha sa kruddhaḥ sva-dhanuḥ sa śaram mune .. 39 ..
त्रिभिश्च धर्षितो बाणैस्तेन शार्ङ्गं धनुर्हरेः ॥ वीरभद्रेण तत्तात त्रिधाभूत्तत्क्षणान्मुने ॥ 2.2.37.४० ॥
त्रिभिः च धर्षितः बाणैः तेन शार्ङ्गम् धनुः हरेः ॥ वीरभद्रेण तत् तात त्रिधा अभूत् तद्-क्षणात् मुने ॥ २।२।३७।४० ॥
tribhiḥ ca dharṣitaḥ bāṇaiḥ tena śārṅgam dhanuḥ hareḥ .. vīrabhadreṇa tat tāta tridhā abhūt tad-kṣaṇāt mune .. 2.2.37.40 ..
अथ विष्णुर्मया वाण्या बोधितस्तं महागणम् ॥ असह्यवर्चसं ज्ञात्वा ह्यंतर्धातुं मनो दधे॥ ॥ ४१ ॥
अथ विष्णुः मया वाण्या बोधितः तम् महा-गणम् ॥ असह्य-वर्चसम् ज्ञात्वा हि अंतर्धातुम् मनः दधे॥ ॥ ४१ ॥
atha viṣṇuḥ mayā vāṇyā bodhitaḥ tam mahā-gaṇam .. asahya-varcasam jñātvā hi aṃtardhātum manaḥ dadhe.. .. 41 ..
ज्ञात्वा च तत्सर्वमिदं भविष्यं सतीकृतं दुष्प्रसहं परेषाम् ॥ गताः स्वलोकं स्वगणान्वितास्तु स्मृत्वा शिवं सर्वपतिं स्वतंत्रम् ॥ ४२ ॥
ज्ञात्वा च तत् सर्वम् इदम् भविष्यम् सतीकृतम् दुष्प्रसहम् परेषाम् ॥ गताः स्व-लोकम् स्व-गण-अन्विताः तु स्मृत्वा शिवम् सर्व-पतिम् स्वतंत्रम् ॥ ४२ ॥
jñātvā ca tat sarvam idam bhaviṣyam satīkṛtam duṣprasaham pareṣām .. gatāḥ sva-lokam sva-gaṇa-anvitāḥ tu smṛtvā śivam sarva-patim svataṃtram .. 42 ..
सत्यलोकगतश्चाहं पुत्र शोकेन पीडितः ॥ अचिंतयं सुदुःखार्तो मया किं कार्यमद्य वै ॥ ४३॥
सत्य-लोक-गतः च अहम् पुत्र शोकेन पीडितः ॥ अचिंतयम् सु दुःख-आर्तः मया किम् कार्यम् अद्य वै ॥ ४३॥
satya-loka-gataḥ ca aham putra śokena pīḍitaḥ .. aciṃtayam su duḥkha-ārtaḥ mayā kim kāryam adya vai .. 43..
विष्णौ मयि गते चैव देवाश्च मुनिभिस्सह ॥ विनिर्जिता गणैस्सर्वे ये ते यज्ञोपजीविनः ॥ ४४ ॥
विष्णौ मयि गते च एव देवाः च मुनिभिः सह ॥ विनिर्जिताः गणैः सर्वे ये ते यज्ञ-उपजीविनः ॥ ४४ ॥
viṣṇau mayi gate ca eva devāḥ ca munibhiḥ saha .. vinirjitāḥ gaṇaiḥ sarve ye te yajña-upajīvinaḥ .. 44 ..
समुपद्रवमालक्ष्य विध्वस्तं च महामखम् ॥ मृगस्वरूपो यज्ञो हि महाभीतोऽपि दुद्रुवे॥ ४५॥
समुपद्रवम् आलक्ष्य विध्वस्तम् च महा-मखम् ॥ मृग-स्व-रूपः यज्ञः हि महा-भीतः अपि दुद्रुवे॥ ४५॥
samupadravam ālakṣya vidhvastam ca mahā-makham .. mṛga-sva-rūpaḥ yajñaḥ hi mahā-bhītaḥ api dudruve.. 45..
तं तदा मृगरूपेण धावंतं गगनं प्रति॥ वीरभद्रस्समादाय विशिरस्कमथाकरोत्॥ ४६॥
तम् तदा मृग-रूपेण धावन्तम् गगनम् प्रति॥ वीरभद्रः समादाय विशिरस्कम् अथ अकरोत्॥ ४६॥
tam tadā mṛga-rūpeṇa dhāvantam gaganam prati.. vīrabhadraḥ samādāya viśiraskam atha akarot.. 46..
ततः प्रजापतिं धर्मं कश्यपं च प्रगृह्य सः ॥ अरिष्टनेमिनं वीरो बहुपत्रमुनीश्वरम् ॥ ४७॥
ततस् प्रजापतिम् धर्मम् कश्यपम् च प्रगृह्य सः ॥ अरिष्टनेमिनम् वीरः बहुपत्र-मुनि-ईश्वरम् ॥ ४७॥
tatas prajāpatim dharmam kaśyapam ca pragṛhya saḥ .. ariṣṭaneminam vīraḥ bahupatra-muni-īśvaram .. 47..
मुनिमांगिरसं चैव कृशाश्वं च महागणः ॥ जघान मूर्ध्नि पादेन दत्तं च मुनिपुंगवम् ॥ ४८ ॥
मुनिम् आंगिरसम् च एव कृशाश्वम् च महा-गणः ॥ जघान मूर्ध्नि पादेन दत्तम् च मुनि-पुंगवम् ॥ ४८ ॥
munim āṃgirasam ca eva kṛśāśvam ca mahā-gaṇaḥ .. jaghāna mūrdhni pādena dattam ca muni-puṃgavam .. 48 ..
सरस्वत्याश्च नासाग्रं देवमास्तु तथैव च ॥ चिच्छेद करजाग्रेण वीर भद्रः प्रतापवान् ॥ ४९ ॥
सरस्वत्याः च नासा-अग्रम् देवमास्तु तथा एव च ॥ चिच्छेद करज-अग्रेण वीर भद्रः प्रतापवान् ॥ ४९ ॥
sarasvatyāḥ ca nāsā-agram devamāstu tathā eva ca .. ciccheda karaja-agreṇa vīra bhadraḥ pratāpavān .. 49 ..
ततोन्यानपि देवादीन् विदार्य पृथिवीतले ॥ पातयामास सोयं वै क्रोधाक्रांतातिलोचनः ॥ 2.2.37.५० ॥
ततोन्यान् अपि देव-आदीन् विदार्य पृथिवी-तले ॥ पातयामास सः उयम् वै क्रोध-आक्रांत-अति लोचनः ॥ २।२।३७।५० ॥
tatonyān api deva-ādīn vidārya pṛthivī-tale .. pātayāmāsa saḥ uyam vai krodha-ākrāṃta-ati locanaḥ .. 2.2.37.50 ..
वीरभद्रो विदार्य्यापि देवान्मुख्यान्मुनीनपि ॥ नाभूच्छांतो द्रुतक्रोधः फणिराडिव मंडितः ॥ ५१॥
वीरभद्रः विदार्य्य अपि देवान् मुख्यान् मुनीन् अपि ॥ न अभूत् शांतः द्रुत-क्रोधः फणि-राज् इव मंडितः ॥ ५१॥
vīrabhadraḥ vidāryya api devān mukhyān munīn api .. na abhūt śāṃtaḥ druta-krodhaḥ phaṇi-rāj iva maṃḍitaḥ .. 51..
वीरभद्रोद्धृतारातिः केसरीव वनद्विपान् ॥ दिशो विलोकयामास कः कुत्रास्तीत्यनुक्षणम् ॥ ५२॥
वीरभद्र-उद्धृत-अरातिः केसरी इव वन-द्विपान् ॥ दिशः विलोकयामास कः कुत्र अस्ति इति अनुक्षणम् ॥ ५२॥
vīrabhadra-uddhṛta-arātiḥ kesarī iva vana-dvipān .. diśaḥ vilokayāmāsa kaḥ kutra asti iti anukṣaṇam .. 52..
व्यपोथयद्भृगुं यावन्मणिभद्रः प्रतापवान् ॥ पदाक्रम्योरसि तदाऽकार्षीत्तच्छ्मश्रुलुंचनम् ॥ ५३॥
व्यपोथयत् भृगुम् यावत् मणिभद्रः प्रतापवान् ॥ पद-आक्रम्य उरसि तदा अकार्षीत् तत् श्मश्रु-लुंचनम् ॥ ५३॥
vyapothayat bhṛgum yāvat maṇibhadraḥ pratāpavān .. pada-ākramya urasi tadā akārṣīt tat śmaśru-luṃcanam .. 53..
चंडश्चोत्पाटयामास पूष्णो दंतान् प्रवेगतः ॥ शप्यमाने हरे पूर्वं योऽहसद्दर्शयन्दतः ॥ ५४॥
चंडः च उत्पाटयामास पूष्णः दंतान् प्रवेगतः ॥ शप्यमाने हरे पूर्वम् यः अहसत् दर्शयन् दतः ॥ ५४॥
caṃḍaḥ ca utpāṭayāmāsa pūṣṇaḥ daṃtān pravegataḥ .. śapyamāne hare pūrvam yaḥ ahasat darśayan dataḥ .. 54..
नन्दी भगस्य नेत्रे हि पातितस्य रुषा भुवि ॥ उज्जहार स दक्षोक्ष्णा यश्शपंतमसूसुचत् ॥ ५५ ॥
नन्दी भगस्य नेत्रे हि पातितस्य रुषा भुवि ॥ उज्जहार स दक्षा उक्ष्णा यः शपंतम् असूसुचत् ॥ ५५ ॥
nandī bhagasya netre hi pātitasya ruṣā bhuvi .. ujjahāra sa dakṣā ukṣṇā yaḥ śapaṃtam asūsucat .. 55 ..
विडंबिता स्वधा तत्र सा स्वाहा दक्षिणा तथा॥ मंत्रास्तंत्रास्तथा चान्ये तत्रस्था गणनायकैः॥ ५६॥
विडंबिता स्वधा तत्र सा स्वाहा दक्षिणा तथा॥ मंत्राः तंत्राः तथा च अन्ये तत्रस्थाः गणनायकैः॥ ५६॥
viḍaṃbitā svadhā tatra sā svāhā dakṣiṇā tathā.. maṃtrāḥ taṃtrāḥ tathā ca anye tatrasthāḥ gaṇanāyakaiḥ.. 56..
ववृषुस्ते पुरीषाणि वितानाऽग्नौ रुषा गणाः॥ अनिर्वाच्यं तदा चक्रुर्गणा वीरास्तमध्वरम् ॥ ५७॥
ववृषुः ते पुरीषाणि विताना अग्नौ रुषा गणाः॥ अनिर्वाच्यम् तदा चक्रुः गणाः वीराः तम् अध्वरम् ॥ ५७॥
vavṛṣuḥ te purīṣāṇi vitānā agnau ruṣā gaṇāḥ.. anirvācyam tadā cakruḥ gaṇāḥ vīrāḥ tam adhvaram .. 57..
अंतर्वेद्यंतरगतं निलीनं तद्भयाद्बलात् ॥ आनिनाय समाज्ञाय वीरभद्रेः स्वभूश्चुतम्५८॥
अन्तर्वेदि-अंतर-गतम् निलीनम् तद्-भयात् बलात् ॥ आनिनाय समाज्ञाय वीरभद्रेः स्वभूः-चुतम्॥
antarvedi-aṃtara-gatam nilīnam tad-bhayāt balāt .. ānināya samājñāya vīrabhadreḥ svabhūḥ-cutam..
कपोलेऽस्य गृहीत्वा तु खड्गेनोपहृतं शिरः ॥ अभेद्यमभवत्तस्य तच्च योगप्रभावतः ॥ ५९ ॥
कपोले अस्य गृहीत्वा तु खड्गेन उपहृतम् शिरः ॥ अभेद्यम् अभवत् तस्य तत् च योग-प्रभावतः ॥ ५९ ॥
kapole asya gṛhītvā tu khaḍgena upahṛtam śiraḥ .. abhedyam abhavat tasya tat ca yoga-prabhāvataḥ .. 59 ..
अभेद्यं तच्छिरो मत्वा शस्त्रास्त्रैश्च तु सर्वशः ॥ करेण त्रोटयामास पद्भ्यामाक्रम्य चोरसि ॥ 2.2.37.६० ॥
अभेद्यम् तत् शिरः मत्वा शस्त्र-अस्त्रैः च तु सर्वशस् ॥ करेण त्रोटयामास पद्भ्याम् आक्रम्य च उरसि ॥ २।२।३७।६० ॥
abhedyam tat śiraḥ matvā śastra-astraiḥ ca tu sarvaśas .. kareṇa troṭayāmāsa padbhyām ākramya ca urasi .. 2.2.37.60 ..
तच्छिरस्तस्य दुष्टस्य दक्षस्य हरवैरिणः ॥ अग्निकुंडे प्रचिक्षेप वीरभद्रो गणाग्रणीः ॥ ६१ ॥
तत् शिरः तस्य दुष्टस्य दक्षस्य हर-वैरिणः ॥ अग्निकुंडे प्रचिक्षेप वीरभद्रः गणाग्रणीः ॥ ६१ ॥
tat śiraḥ tasya duṣṭasya dakṣasya hara-vairiṇaḥ .. agnikuṃḍe pracikṣepa vīrabhadraḥ gaṇāgraṇīḥ .. 61 ..
रेजे तदा वीरभद्रस्त्रिशूलं भ्रामयन्करे ॥ क्रुद्धा रणाक्षसंवर्ताः प्रज्वाल्य पर्वतोपमाः (?) ॥ ॥ ६२ ॥
रेजे तदा वीरभद्रः त्रिशूलम् भ्रामयन् करे ॥ क्रुद्धाः रण-अक्ष-संवर्ताः प्रज्वाल्य पर्वत-उपमाः (?) ॥ ॥ ६२ ॥
reje tadā vīrabhadraḥ triśūlam bhrāmayan kare .. kruddhāḥ raṇa-akṣa-saṃvartāḥ prajvālya parvata-upamāḥ (?) .. .. 62 ..
अनायासेन हत्वैतान् वीरभद्रस्ततोऽग्निना ॥ ज्वालयामास सक्रोधो दीप्ताग्निश्शलभानिव ॥ ६३ ॥
अनायासेन हत्वा एतान् वीरभद्रः ततस् अग्निना ॥ ज्वालयामास स क्रोधः दीप्त-अग्निः शलभान् इव ॥ ६३ ॥
anāyāsena hatvā etān vīrabhadraḥ tatas agninā .. jvālayāmāsa sa krodhaḥ dīpta-agniḥ śalabhān iva .. 63 ..
वीरभद्रस्ततो दग्धान्दृष्ट्वा दक्षपुरोगमान् ॥ अट्टाट्टहासमकरोत्पूरयंश्च जगत्त्रयम् ॥ ६४॥
वीरभद्रः ततस् दग्धान् दृष्ट्वा दक्ष-पुरोगमान् ॥ अट्ट-अट्टहासम् अकरोत् पूरयन् च जगत्त्रयम् ॥ ६४॥
vīrabhadraḥ tatas dagdhān dṛṣṭvā dakṣa-purogamān .. aṭṭa-aṭṭahāsam akarot pūrayan ca jagattrayam .. 64..
वीरश्रिया वृतस्तत्र ततो नन्दनसंभवा ॥ पुष्पवृष्टिरभूद्दिव्या वीरभद्रे गणान्विते ॥ ६५ ॥
वीर-श्रिया वृतः तत्र ततस् नन्दन-संभवा ॥ पुष्प-वृष्टिः अभूत् दिव्या वीरभद्रे गण-अन्विते ॥ ६५ ॥
vīra-śriyā vṛtaḥ tatra tatas nandana-saṃbhavā .. puṣpa-vṛṣṭiḥ abhūt divyā vīrabhadre gaṇa-anvite .. 65 ..
ववुर्गंधवहाश्शीतास्सुगन्धास्सुखदाः शनैः ॥ देवदुंदुभयो नेदुस्सममेव ततः परम् ॥ ६६ ॥
ववुः गंध-वहाः शीताः सुगन्धाः सुख-दाः शनैस् ॥ देव-दुंदुभयः नेदुः समम् एव ततस् परम् ॥ ६६ ॥
vavuḥ gaṃdha-vahāḥ śītāḥ sugandhāḥ sukha-dāḥ śanais .. deva-duṃdubhayaḥ neduḥ samam eva tatas param .. 66 ..
कैलासं स ययौ वीरः कृतकार्य्यस्ततः परम् ॥ विनाशितदृढध्वांतो भानुमानिव सत्वरम् ॥ ६७॥
कैलासम् स ययौ वीरः कृत-कार्य्यः ततस् परम् ॥ विनाशित-दृढ-ध्वांतः भानुमान् इव स त्वरम् ॥ ६७॥
kailāsam sa yayau vīraḥ kṛta-kāryyaḥ tatas param .. vināśita-dṛḍha-dhvāṃtaḥ bhānumān iva sa tvaram .. 67..
कृतकार्यं वीरभद्रं दृष्ट्वा संतुष्टमा नसः ॥ शंभुर्वीरगणाध्यक्षं चकार परमेश्वरः॥ ६८॥
कृत-कार्यम् वीरभद्रम् दृष्ट्वा संतुष्ट-मा नसः ॥ शंभुः वीर-गण-अध्यक्षम् चकार परमेश्वरः॥ ६८॥
kṛta-kāryam vīrabhadram dṛṣṭvā saṃtuṣṭa-mā nasaḥ .. śaṃbhuḥ vīra-gaṇa-adhyakṣam cakāra parameśvaraḥ.. 68..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां द्वितीये सतीखंडे यज्ञविध्वं सवर्णनो नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
इति श्री-शिवमहापुराणे द्वितीयायाम् रुद्रसहितायाम् द्वितीये सतीखण्डे यज्ञविध्वम् सवर्णनः नाम सप्तत्रिंशः अध्यायः ॥ ३७ ॥
iti śrī-śivamahāpurāṇe dvitīyāyām rudrasahitāyām dvitīye satīkhaṇḍe yajñavidhvam savarṇanaḥ nāma saptatriṃśaḥ adhyāyaḥ .. 37 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In