| |
|

This overlay will guide you through the buttons:

सूत उवाच ।। ।।
इत्याकर्ण्य वचस्तस्य विधेरमितधीमतः ॥ पप्रच्छ नारदः प्रीत्या विस्मितस्तं द्विजोत्तमः ॥ १ ॥
इति आकर्ण्य वचः तस्य विधेः अमित-धीमतः ॥ पप्रच्छ नारदः प्रीत्या विस्मितः तम् द्विजोत्तमः ॥ १ ॥
iti ākarṇya vacaḥ tasya vidheḥ amita-dhīmataḥ .. papraccha nāradaḥ prītyā vismitaḥ tam dvijottamaḥ .. 1 ..
।। नारद उवाच ।। ।।
शिवं विहाय दक्षस्य सुरैर्यज्ञं हरिर्गतः ॥ हेतुना केन तद् ब्रूहि यत्रावज्ञाऽ भवत्ततः ॥ २॥
शिवम् विहाय दक्षस्य सुरैः यज्ञम् हरिः गतः ॥ हेतुना केन तत् ब्रूहि यत्र अवज्ञा भवत् ततस् ॥ २॥
śivam vihāya dakṣasya suraiḥ yajñam hariḥ gataḥ .. hetunā kena tat brūhi yatra avajñā bhavat tatas .. 2..
जानाति किं स शंभुं नो हरिः प्रलयविक्रमम् ॥ रणं कथं च कृतवान् तद्गणैरबुधो यथा ॥ ३ ॥
जानाति किम् स शंभुम् नो हरिः प्रलय-विक्रमम् ॥ रणम् कथम् च कृतवान् तद्-गणैः अबुधः यथा ॥ ३ ॥
jānāti kim sa śaṃbhum no hariḥ pralaya-vikramam .. raṇam katham ca kṛtavān tad-gaṇaiḥ abudhaḥ yathā .. 3 ..
एष मे संशयो भूयांस्तं छिंधि करुणानिधे ॥ चरितं ब्रूहि शंभोस्तु चित्तोत्साहकरं प्रभो ॥ ४ ॥
एष मे संशयः भूयान् तम् छिंधि करुणा-निधे ॥ चरितम् ब्रूहि शंभोः तु चित्त-उत्साह-करम् प्रभो ॥ ४ ॥
eṣa me saṃśayaḥ bhūyān tam chiṃdhi karuṇā-nidhe .. caritam brūhi śaṃbhoḥ tu citta-utsāha-karam prabho .. 4 ..
ब्रह्मोवाच ।।
द्विजवर्य शृणु प्रीत्या चरितं शशिमौलिनः ॥ यत्पृच्छते कुर्वतश्च सर्वसंशयहारकम् ॥ ५ ॥
द्विज-वर्य शृणु प्रीत्या चरितम् शशिमौलिनः ॥ यत् पृच्छते कुर्वतः च सर्व-संशय-हारकम् ॥ ५ ॥
dvija-varya śṛṇu prītyā caritam śaśimaulinaḥ .. yat pṛcchate kurvataḥ ca sarva-saṃśaya-hārakam .. 5 ..
दधीचस्य मुनेः शापाद्भ्रष्टज्ञानो हरिः पुरा ॥ सामरो दक्षयज्ञं वै गतः क्षुवसहायकृत् ॥ ६ ॥
दधीचस्य मुनेः शापात् भ्रष्ट-ज्ञानः हरिः पुरा ॥ स अमरः दक्ष-यज्ञम् वै गतः क्षुव-सहाय-कृत् ॥ ६ ॥
dadhīcasya muneḥ śāpāt bhraṣṭa-jñānaḥ hariḥ purā .. sa amaraḥ dakṣa-yajñam vai gataḥ kṣuva-sahāya-kṛt .. 6 ..
।। नारद उवाच ।।
किमर्थं शप्तवान्विष्णुं दधीचो मुनिसत्तमः ॥ कोपाकारः कृतस्तस्य हरिणा तत्सहायिना ॥ ७ ॥
किमर्थम् शप्तवान् विष्णुम् दधीचः मुनि-सत्तमः ॥ कोप-आकारः कृतः तस्य हरिणा तद्-सहायिना ॥ ७ ॥
kimartham śaptavān viṣṇum dadhīcaḥ muni-sattamaḥ .. kopa-ākāraḥ kṛtaḥ tasya hariṇā tad-sahāyinā .. 7 ..
ब्रह्मोवाच ।।
समुत्पन्नो महातेजा राजा क्षुव इति स्मृतः॥ अभून्मित्रं दधीचस्य मुनीन्द्रस्य महाप्रभोः ॥ ८ ॥
समुत्पन्नः महा-तेजाः राजा क्षुवः इति स्मृतः॥ अभूत् मित्रम् दधीचस्य मुनि-इन्द्रस्य महा-प्रभोः ॥ ८ ॥
samutpannaḥ mahā-tejāḥ rājā kṣuvaḥ iti smṛtaḥ.. abhūt mitram dadhīcasya muni-indrasya mahā-prabhoḥ .. 8 ..
चिरात्तपःप्रसंगाद्वै वादः क्षुवदधीचयोः॥ महानर्थकरः ख्यातस्त्रिलोकेष्वभवत्पुरा॥ ९॥
चिरात् तपः-प्रसंगात् वै वादः क्षुव-दधीचयोः॥ महान् अर्थ-करः ख्यातः त्रि-लोकेषु अभवत् पुरा॥ ९॥
cirāt tapaḥ-prasaṃgāt vai vādaḥ kṣuva-dadhīcayoḥ.. mahān artha-karaḥ khyātaḥ tri-lokeṣu abhavat purā.. 9..
तत्र त्रिवर्णतः श्रेष्ठो विप्र एव न संशयः ॥ इति प्राह दधीचो हि शिवभक्तस्तु वेदवित् ॥ 2.2.38.१०॥
तत्र त्रि-वर्णतः श्रेष्ठः विप्रः एव न संशयः ॥ इति प्राह दधीचः हि शिव-भक्तः तु वेद-विद् ॥ २।२।३८।१०॥
tatra tri-varṇataḥ śreṣṭhaḥ vipraḥ eva na saṃśayaḥ .. iti prāha dadhīcaḥ hi śiva-bhaktaḥ tu veda-vid .. 2.2.38.10..
तच्छ्रुत्वा वचनं तस्य दधीचस्य महामुने॥ क्षुवः प्राहेति नृपतिः श्रीमदेन विमोहितः ॥ ११॥
तत् श्रुत्वा वचनम् तस्य दधीचस्य महा-मुने॥ क्षुवः प्राह इति नृपतिः श्री-मदेन विमोहितः ॥ ११॥
tat śrutvā vacanam tasya dadhīcasya mahā-mune.. kṣuvaḥ prāha iti nṛpatiḥ śrī-madena vimohitaḥ .. 11..
क्षुव उवाच ।।
अष्टानां लोकपालानां वपुर्धारयते नृपः ॥ तस्मान्नृपो वरिष्ठो हि वर्णाश्रमपतिः प्रभुः ॥ १२॥
अष्टानाम् लोकपालानाम् वपुः धारयते नृपः ॥ तस्मात् नृपः वरिष्ठः हि वर्ण-आश्रम-पतिः प्रभुः ॥ १२॥
aṣṭānām lokapālānām vapuḥ dhārayate nṛpaḥ .. tasmāt nṛpaḥ variṣṭhaḥ hi varṇa-āśrama-patiḥ prabhuḥ .. 12..
सर्वदेवमयो- राजा श्रुति प्राहेति तत्परा॥ महती देवता या सा सोहमेव ततो मुने ॥ १३॥
सर्व-देव-मयः राजा श्रुति प्राह इति तद्-परा॥ महती देवता या सा सा अहम् एव ततस् मुने ॥ १३॥
sarva-deva-mayaḥ rājā śruti prāha iti tad-parā.. mahatī devatā yā sā sā aham eva tatas mune .. 13..
तस्माद्विप्राद्वरो राजा च्यवनेय विचार्यताम्॥ नावमंतव्य एवातः पूज्योऽहं सर्वथा त्वया ॥ १४ ॥
तस्मात् विप्रात् वरः राजा च्यवनेय विचार्यताम्॥ न अवमंतव्यः एव अतस् पूज्यः अहम् सर्वथा त्वया ॥ १४ ॥
tasmāt viprāt varaḥ rājā cyavaneya vicāryatām.. na avamaṃtavyaḥ eva atas pūjyaḥ aham sarvathā tvayā .. 14 ..
ब्रह्मोवाच ।।
श्रुत्वा तथा मतं तस्य क्षुवस्य मुनिसत्तमः ॥ श्रुतिस्मृतिविरुद्धं तं चुकोपातीव भार्गवः॥ १५॥
श्रुत्वा तथा मतम् तस्य क्षुवस्य मुनि-सत्तमः ॥ श्रुति-स्मृति-विरुद्धम् तम् चुकोप अतीव भार्गवः॥ १५॥
śrutvā tathā matam tasya kṣuvasya muni-sattamaḥ .. śruti-smṛti-viruddham tam cukopa atīva bhārgavaḥ.. 15..
अथ क्रुद्धो महातेजा गौरवाच्चात्मनो मुने ॥ अताडयत्क्षुवं मूर्ध्नि दधीचो वाममुष्टितः ॥ १६॥
अथ क्रुद्धः महा-तेजाः गौरवात् च आत्मनः मुने ॥ अताडयत् क्षुवम् मूर्ध्नि दधीचः वाम-मुष्टितः ॥ १६॥
atha kruddhaḥ mahā-tejāḥ gauravāt ca ātmanaḥ mune .. atāḍayat kṣuvam mūrdhni dadhīcaḥ vāma-muṣṭitaḥ .. 16..
वज्रेण तं च चिच्छेद दधीचं ताडितः क्षुवः॥ जगर्जातीव संक्रुद्धो ब्रह्मांडाधिपतिः कुधीः ॥ १७॥
वज्रेण तम् च चिच्छेद दधीचम् ताडितः क्षुवः॥ जगर्ज अतीव संक्रुद्धः ब्रह्मांड-अधिपतिः कुधीः ॥ १७॥
vajreṇa tam ca ciccheda dadhīcam tāḍitaḥ kṣuvaḥ.. jagarja atīva saṃkruddhaḥ brahmāṃḍa-adhipatiḥ kudhīḥ .. 17..
पपात भूमौ निहतो तेन वज्रेण भार्गवः॥ शुक्रं सस्मार क्षुवकृद्भार्गवस्य कुलंधरः॥ १८॥
पपात भूमौ निहतः तेन वज्रेण भार्गवः॥ शुक्रम् सस्मार क्षुव-कृत् भार्गवस्य कुलंधरः॥ १८॥
papāta bhūmau nihataḥ tena vajreṇa bhārgavaḥ.. śukram sasmāra kṣuva-kṛt bhārgavasya kulaṃdharaḥ.. 18..
शुक्रोथ संधयामास ताडितं च क्षुवेन तु॥ योगी दधीचस्य तदा देहमागत्य सद्रुतम्॥ १९॥
शुक्रो उथ संधयामास ताडितम् च क्षुवेन तु॥ योगी दधीचस्य तदा देहम् आगत्य स द्रुतम्॥ १९॥
śukro utha saṃdhayāmāsa tāḍitam ca kṣuvena tu.. yogī dadhīcasya tadā deham āgatya sa drutam.. 19..
संधाय पूर्ववद्देहं दधीचस्याह भार्गवः ॥ शिवभक्ताग्रणीर्भृत्यं जयविद्याप्रवर्तकः ॥ 2.2.38.२० ॥
संधाय पूर्ववत् देहम् दधीचस्य आह भार्गवः ॥ शिव-भक्त-अग्रणीः भृत्यम् जयविद्या-प्रवर्तकः ॥ २।२।३८।२० ॥
saṃdhāya pūrvavat deham dadhīcasya āha bhārgavaḥ .. śiva-bhakta-agraṇīḥ bhṛtyam jayavidyā-pravartakaḥ .. 2.2.38.20 ..
शुक्र उवाच ।।
दधीच तात संपूज्य शिवं सर्वेश्वरं प्रभुम् ॥ महामृत्युंजयं मंत्रं श्रौतमग्र्यं वदामि ते ॥ २१ ॥
दधीच तात संपूज्य शिवम् सर्वेश्वरम् प्रभुम् ॥ महा-मृत्युंजयम् मंत्रम् श्रौतम् अग्र्यम् वदामि ते ॥ २१ ॥
dadhīca tāta saṃpūjya śivam sarveśvaram prabhum .. mahā-mṛtyuṃjayam maṃtram śrautam agryam vadāmi te .. 21 ..
त्र्यम्बकं यजामहे त्रैलोक्यं पितरं प्रभुम् ॥ त्रिमंडलस्य पितरं त्रिगुणस्य महेश्वरम् ॥ २२॥
त्र्यम्बकम् यजामहे त्रैलोक्यम् पितरम् प्रभुम् ॥ त्रि-मंडलस्य पितरम् त्रिगुणस्य महेश्वरम् ॥ २२॥
tryambakam yajāmahe trailokyam pitaram prabhum .. tri-maṃḍalasya pitaram triguṇasya maheśvaram .. 22..
त्रितत्त्वस्य त्रिवह्नेश्च त्रिधाभूतस्य सर्वतः ॥ त्रिदिवस्य त्रिबाहोश्च त्रिधाभूतस्य सर्वतः॥ ॥ २३॥
त्रि-तत्त्वस्य त्रि-वह्नेः च त्रिधा भूतस्य सर्वतस् ॥ त्रिदिवस्य त्रि-बाहोः च त्रिधा भूतस्य सर्वतस्॥ ॥ २३॥
tri-tattvasya tri-vahneḥ ca tridhā bhūtasya sarvatas .. tridivasya tri-bāhoḥ ca tridhā bhūtasya sarvatas.. .. 23..
त्रिदेवस्य महादेवस्सुगंधि पुष्टिवर्द्धनम्॥ सर्वभूतेषु सर्वत्र त्रिगुणेषु कृतौ यथा॥ २४॥
त्रिदेवस्य महादेवः सुगंधि पुष्टि-वर्द्धनम्॥ सर्व-भूतेषु सर्वत्र त्रिगुणेषु कृतौ यथा॥ २४॥
tridevasya mahādevaḥ sugaṃdhi puṣṭi-varddhanam.. sarva-bhūteṣu sarvatra triguṇeṣu kṛtau yathā.. 24..
इन्द्रियेषु तथान्येषु देवेषु च गणेषु च॥ पुष्पे सुगंधिवत्सूरस्सुगंधिममरेश्वरः ॥ २५ ॥
इन्द्रियेषु तथा अन्येषु देवेषु च गणेषु च॥ पुष्पे सुगंधि-वत् सूरः सुगंधिम् अमर-ईश्वरः ॥ २५ ॥
indriyeṣu tathā anyeṣu deveṣu ca gaṇeṣu ca.. puṣpe sugaṃdhi-vat sūraḥ sugaṃdhim amara-īśvaraḥ .. 25 ..
पुष्टिश्च प्रकृतेर्यस्मात्पुरुषाद्वै द्विजोत्तम ॥ महदादिविशेषांतविकल्पश्चापि सुव्रत॥ ॥ २६॥
पुष्टिः च प्रकृतेः यस्मात् पुरुषात् वै द्विजोत्तम ॥ महत्-आदि-विशेष-अंत-विकल्पः च अपि सुव्रत॥ ॥ २६॥
puṣṭiḥ ca prakṛteḥ yasmāt puruṣāt vai dvijottama .. mahat-ādi-viśeṣa-aṃta-vikalpaḥ ca api suvrata.. .. 26..
विष्णोः पितामहस्यापि मुनीनां च महामुने ॥ इन्द्रियस्य च देवानां तस्माद्वै पुष्टिवर्द्धनः ॥ २७॥
विष्णोः पितामहस्य अपि मुनीनाम् च महा-मुने ॥ इन्द्रियस्य च देवानाम् तस्मात् वै पुष्टि-वर्द्धनः ॥ २७॥
viṣṇoḥ pitāmahasya api munīnām ca mahā-mune .. indriyasya ca devānām tasmāt vai puṣṭi-varddhanaḥ .. 27..
तं देवममृतं रुद्रं कर्मणा तपसापि वा ॥ स्वाध्यायेन च योगेन ध्यानेन च प्रजापते ॥ २८॥
तम् देवम् अमृतम् रुद्रम् कर्मणा तपसा अपि वा ॥ स्वाध्यायेन च योगेन ध्यानेन च प्रजापते ॥ २८॥
tam devam amṛtam rudram karmaṇā tapasā api vā .. svādhyāyena ca yogena dhyānena ca prajāpate .. 28..
सत्येनान्येन सूक्ष्माग्रान्मृत्युपाशाद्भवः स्वयम् ॥ वंधमोक्षकरो यस्मादुर्वारुकमिव प्रभुः ॥ २९ ॥
सत्येन अन्येन सूक्ष्म-अग्रात् मृत्यु-पाशात् भवः स्वयम् ॥ वंध-मोक्ष-करः यस्मात् उर्वारुकम् इव प्रभुः ॥ २९ ॥
satyena anyena sūkṣma-agrāt mṛtyu-pāśāt bhavaḥ svayam .. vaṃdha-mokṣa-karaḥ yasmāt urvārukam iva prabhuḥ .. 29 ..
मृतसंजीवनीमन्त्रो मम सर्वोत्तमः स्मृतः ॥ एवं जपपरः प्रीत्या नियमेन शिवं स्मरन्॥ 2.2.38.३०॥
मृतसंजीवनी-मन्त्रः मम सर्व-उत्तमः स्मृतः ॥ एवम् जप-परः प्रीत्या नियमेन शिवम् स्मरन्॥ २।२।३८।३०॥
mṛtasaṃjīvanī-mantraḥ mama sarva-uttamaḥ smṛtaḥ .. evam japa-paraḥ prītyā niyamena śivam smaran.. 2.2.38.30..
जप्त्वा हुत्वाभिमंत्र्यैव जलं पिब दिवानिशम्॥ शिवस्य सन्निधौ ध्यात्वा नास्ति मृत्युभयं क्वचित् ॥ ३१॥
जप्त्वा जलम् पिब दिवानिशम्॥ शिवस्य सन्निधौ ध्यात्वा ना अस्ति मृत्यु-भयम् क्वचिद् ॥ ३१॥
japtvā jalam piba divāniśam.. śivasya sannidhau dhyātvā nā asti mṛtyu-bhayam kvacid .. 31..
कृत्वा न्यासादिकं सर्वं संपूज्य विधिवच्छिवम्॥ संविधायेदं निर्व्यग्रश्शंकरं भक्तवत्सलम् ॥ ३२॥
कृत्वा न्यास-आदिकम् सर्वम् संपूज्य विधिवत् शिवम्॥ संविधाय इदम् निर्व्यग्रः शंकरम् भक्त-वत्सलम् ॥ ३२॥
kṛtvā nyāsa-ādikam sarvam saṃpūjya vidhivat śivam.. saṃvidhāya idam nirvyagraḥ śaṃkaram bhakta-vatsalam .. 32..
ध्यानमस्य प्रवक्ष्यामि यथा ध्यात्वा जपन्मनुम् ॥ सिद्ध मन्त्रो भवेद्धीमान् यावच्छंभुप्रभावतः ॥ ३३॥
ध्यानम् अस्य प्रवक्ष्यामि यथा ध्यात्वा जपन् मनुम् ॥ सिद्ध मन्त्रः भवेत् धीमान् यावत् शंभु-प्रभावतः ॥ ३३॥
dhyānam asya pravakṣyāmi yathā dhyātvā japan manum .. siddha mantraḥ bhavet dhīmān yāvat śaṃbhu-prabhāvataḥ .. 33..
हस्तांभोजयुगस्थकुंभयुगलादुद्धृत्यतोयं शिरस्सिंचंतं करयोर्युगेन दधतं स्वांकेभकुंभौ करौ ॥ अक्षस्रङ्मृगहस्तमंबुजगतं मूर्द्धस्थचन्द्रस्रवत्पीयूषार्द्रतनुं भजे सगिरिजं त्र्यक्षं च मृत्युंजयम् ॥ ३४ ॥
हस्त-अंभोज-युग-स्थ-कुंभ-युगलात् उद्धृत्य तोयम् शिरः सिंचंतम् करयोः युगेन दधतम् स्व-अंक-इभ-कुंभौ करौ ॥ अक्ष-स्रज्-मृग-हस्तम् अंबुज-गतम् मूर्द्ध-स्थ-चन्द्र-स्रवत्-पीयूष-आर्द्र-तनुम् भजे स गिरिजम् त्र्यक्षम् च मृत्युंजयम् ॥ ३४ ॥
hasta-aṃbhoja-yuga-stha-kuṃbha-yugalāt uddhṛtya toyam śiraḥ siṃcaṃtam karayoḥ yugena dadhatam sva-aṃka-ibha-kuṃbhau karau .. akṣa-sraj-mṛga-hastam aṃbuja-gatam mūrddha-stha-candra-sravat-pīyūṣa-ārdra-tanum bhaje sa girijam tryakṣam ca mṛtyuṃjayam .. 34 ..
ब्रह्मोवाच ।।
उपदिश्येति शुक्रः स्वं दधीचिं मुनिसत्तमम् ॥ स्वस्थानमगमत्तात संस्मरञ् शंकरं प्रभुम् ॥ ३५॥
उपदिश्य इति शुक्रः स्वम् दधीचिम् मुनि-सत्तमम् ॥ स्व-स्थानम् अगमत् तात संस्मरन् शंकरम् प्रभुम् ॥ ३५॥
upadiśya iti śukraḥ svam dadhīcim muni-sattamam .. sva-sthānam agamat tāta saṃsmaran śaṃkaram prabhum .. 35..
तस्य तद्वचनं श्रुत्वा दधीचो हि महामुनिः ॥ वनं जगाम तपसे महाप्रीत्या शिवं स्मरन् ॥ ३६॥
तस्य तत् वचनम् श्रुत्वा दधीचः हि महा-मुनिः ॥ वनम् जगाम तपसे महा-प्रीत्या शिवम् स्मरन् ॥ ३६॥
tasya tat vacanam śrutvā dadhīcaḥ hi mahā-muniḥ .. vanam jagāma tapase mahā-prītyā śivam smaran .. 36..
तत्र गत्वा विधानेन महामृत्युंजयाभिधम् ॥ तं मनुं प्रजपन् प्रीत्या तपस्तेपे शिवं स्मरन् ॥ ३७ ॥
तत्र गत्वा विधानेन महा-मृत्युंजय-अभिधम् ॥ तम् मनुम् प्रजपन् प्रीत्या तपः तेपे शिवम् स्मरन् ॥ ३७ ॥
tatra gatvā vidhānena mahā-mṛtyuṃjaya-abhidham .. tam manum prajapan prītyā tapaḥ tepe śivam smaran .. 37 ..
तन्मनुं सुचिरं जप्त्वा तपसाराध्य शंकरम् ॥ शिवं संतोषयामास महामृत्युंजयं हि सः ॥ ३८॥
तद्-मनुम् सु चिरम् जप्त्वा तपसा आराध्य शंकरम् ॥ शिवम् संतोषयामास महा-मृत्युंजयम् हि सः ॥ ३८॥
tad-manum su ciram japtvā tapasā ārādhya śaṃkaram .. śivam saṃtoṣayāmāsa mahā-mṛtyuṃjayam hi saḥ .. 38..
अथ शंभुः प्रसन्नात्मा तज्जपाद्भक्तवत्सलः॥ आविर्बभूव पुरतस्तस्य प्रीत्या महामुने॥ ३९॥
अथ शंभुः प्रसन्न-आत्मा तद्-जपात् भक्त-वत्सलः॥ आविर्बभूव पुरतस् तस्य प्रीत्या महा-मुने॥ ३९॥
atha śaṃbhuḥ prasanna-ātmā tad-japāt bhakta-vatsalaḥ.. āvirbabhūva puratas tasya prītyā mahā-mune.. 39..
तं दृष्ट्वा स्वप्रभुं शंभुं स मुमोद मुनीश्वरः॥ प्रणम्य विधिवद्भक्त्या तुष्टाव सुकृतांजलिः ॥ 2.2.38.४०॥
तम् दृष्ट्वा स्व-प्रभुम् शंभुम् स मुमोद मुनि-ईश्वरः॥ प्रणम्य विधिवत् भक्त्या तुष्टाव सु कृत-अंजलिः ॥ २।२।३८।४०॥
tam dṛṣṭvā sva-prabhum śaṃbhum sa mumoda muni-īśvaraḥ.. praṇamya vidhivat bhaktyā tuṣṭāva su kṛta-aṃjaliḥ .. 2.2.38.40..
अथ प्रीत्या शिवस्तात प्रसन्नश्च्यावनिं मुने ॥ वरं ब्रूहीति स प्राह सुप्रसन्नेन चेतसा ॥ ४१ ॥
अथ प्रीत्या शिवः तात प्रसन्नः च्यावनिम् मुने ॥ वरम् ब्रूहि इति स प्राह सु प्रसन्नेन चेतसा ॥ ४१ ॥
atha prītyā śivaḥ tāta prasannaḥ cyāvanim mune .. varam brūhi iti sa prāha su prasannena cetasā .. 41 ..
तच्छुत्वा शंभुवचनं दधीचो भक्तसत्तमः ॥ सांजलिर्नतकः प्राह शंकरं भक्तवत्सलम् ॥ ४२ ॥
तत् शुत्वा शंभु-वचनम् दधीचः भक्त-सत्तमः ॥ स अंजलिः नतकः प्राह शंकरम् भक्त-वत्सलम् ॥ ४२ ॥
tat śutvā śaṃbhu-vacanam dadhīcaḥ bhakta-sattamaḥ .. sa aṃjaliḥ natakaḥ prāha śaṃkaram bhakta-vatsalam .. 42 ..
दधीच उवाच।। ।।
देवदेव महादेव मह्यं देहि वरत्रयम् ॥ वज्रास्थित्वादवध्यत्वमदीनत्वं हि सर्वतः ॥ ४३ ॥
देवदेव महादेव मह्यम् देहि वर-त्रयम् ॥ वज्र-अस्थि-त्वात् अवध्य-त्वम् अदीन-त्वम् हि सर्वतस् ॥ ४३ ॥
devadeva mahādeva mahyam dehi vara-trayam .. vajra-asthi-tvāt avadhya-tvam adīna-tvam hi sarvatas .. 43 ..
ब्रह्मोवाच ।।
तदुक्तवचनं श्रुत्वा प्रसन्नः परमेश्वरः ॥ वरत्रयं ददौ तस्मै दधीचाय तथास्त्विति ॥ ४४ ॥
तद्-उक्त-वचनम् श्रुत्वा प्रसन्नः परमेश्वरः ॥ वर-त्रयम् ददौ तस्मै दधीचाय तथा अस्तु इति ॥ ४४ ॥
tad-ukta-vacanam śrutvā prasannaḥ parameśvaraḥ .. vara-trayam dadau tasmai dadhīcāya tathā astu iti .. 44 ..
वरत्रयं शिवात्प्राप्य सानंदश्च महामुनिः ॥ क्षुवस्थानं जगामाशु वेदमार्गे प्रतिष्ठितः ॥ ४५॥
वर-त्रयम् शिवात् प्राप्य स आनंदः च महा-मुनिः ॥ क्षुव-स्थानम् जगाम आशु वेदमार्गे प्रतिष्ठितः ॥ ४५॥
vara-trayam śivāt prāpya sa ānaṃdaḥ ca mahā-muniḥ .. kṣuva-sthānam jagāma āśu vedamārge pratiṣṭhitaḥ .. 45..
ब्रह्मोवाच ।।
प्राप्यावध्यत्वमुग्रात्स वज्रास्थित्वमदीनताम् ॥ अताडयच्च राजेन्द्रं पादमूलेन मूर्द्धनि ॥ ४६ ॥
प्राप्य अवध्य-त्वम् उग्रात् स वज्र-अस्थि-त्वम् अदीन-ताम् ॥ अताडयत् च राज-इन्द्रम् पाद-मूलेन मूर्द्धनि ॥ ४६ ॥
prāpya avadhya-tvam ugrāt sa vajra-asthi-tvam adīna-tām .. atāḍayat ca rāja-indram pāda-mūlena mūrddhani .. 46 ..
क्षुवो दधीचं वज्रेण जघानोरस्यथो नृपः ॥ क्रोधं कृत्वा विशेषेण विष्णुगौरवगर्वितः ॥ ४७॥
क्षुवः दधीचम् वज्रेण जघान उरसि अथ नृपः ॥ क्रोधम् कृत्वा विशेषेण विष्णु-गौरव-गर्वितः ॥ ४७॥
kṣuvaḥ dadhīcam vajreṇa jaghāna urasi atha nṛpaḥ .. krodham kṛtvā viśeṣeṇa viṣṇu-gaurava-garvitaḥ .. 47..
नाभून्नाशाय तद्वज्रं दधीचस्य महात्मनः॥ प्रभावात्परमेशस्य धातृपुत्रो विसिस्मिये॥ ४८॥
न अभूत् नाशाय तत् वज्रम् दधीचस्य महात्मनः॥ प्रभावात् परमेशस्य धातृ-पुत्रः विसिस्मिये॥ ४८॥
na abhūt nāśāya tat vajram dadhīcasya mahātmanaḥ.. prabhāvāt parameśasya dhātṛ-putraḥ visismiye.. 48..
दृष्ट्वाप्यवध्यत्वमदीनतां च वज्रस्य चात्यंतपरप्रभावम्॥ क्षुवो दधीचस्य मुनीश्वरस्य विसिस्मिये चेतसि धातृपुत्रः ॥ ४९ ॥
दृष्ट्वा अपि अवध्य-त्वम् अदीन-ताम् च वज्रस्य च अत्यंत-पर-प्रभावम्॥ क्षुवः दधीचस्य मुनि-ईश्वरस्य विसिस्मिये चेतसि धातृ-पुत्रः ॥ ४९ ॥
dṛṣṭvā api avadhya-tvam adīna-tām ca vajrasya ca atyaṃta-para-prabhāvam.. kṣuvaḥ dadhīcasya muni-īśvarasya visismiye cetasi dhātṛ-putraḥ .. 49 ..
आराधयामास हरिं मुकुन्दमिन्द्रानुजं काननमाशु गत्वा ॥ प्रपन्नपालश्च पराजितो हि दधीचमृत्युंजयसेवकेन ॥ 2.2.38.५०॥
आराधयामास हरिम् मुकुन्दम् इन्द्रानुजम् काननम् आशु गत्वा ॥ प्रपन्नपालः च पराजितः हि दधीच-मृत्युंजय-सेवकेन ॥ २।२।३८।५०॥
ārādhayāmāsa harim mukundam indrānujam kānanam āśu gatvā .. prapannapālaḥ ca parājitaḥ hi dadhīca-mṛtyuṃjaya-sevakena .. 2.2.38.50..
पूजया तस्य सन्तुष्टो भगवान् मधुसूदनः ॥ प्रददौ दर्शनं तस्मै दिव्यं वै गरुडध्वजः ॥ ५१ ॥
पूजया तस्य सन्तुष्टः भगवान् मधुसूदनः ॥ प्रददौ दर्शनम् तस्मै दिव्यम् वै गरुडध्वजः ॥ ५१ ॥
pūjayā tasya santuṣṭaḥ bhagavān madhusūdanaḥ .. pradadau darśanam tasmai divyam vai garuḍadhvajaḥ .. 51 ..
दिव्येन दर्शनेनैव दृष्ट्वा देवं जनार्दनम् ॥ तुष्टाव वाग्भिरिष्टाभिः प्रणम्य गरुडध्वजम् ॥ ५२॥
दिव्येन दर्शनेन एव दृष्ट्वा देवम् जनार्दनम् ॥ तुष्टाव वाग्भिः इष्टाभिः प्रणम्य गरुडध्वजम् ॥ ५२॥
divyena darśanena eva dṛṣṭvā devam janārdanam .. tuṣṭāva vāgbhiḥ iṣṭābhiḥ praṇamya garuḍadhvajam .. 52..
सम्पूज्य चैवं त्रिदशेश्वराद्यैः स्तुतं देवमजेयमीशम् ॥ विज्ञापयामास निरीक्ष्य भक्त्या जनार्दनाय प्रणिपत्य मूर्ध्ना ॥ ५३ ॥
सम्पूज्य च एवम् त्रिदश-ईश्वर-आद्यैः स्तुतम् देवम् अजेयम् ईशम् ॥ विज्ञापयामास निरीक्ष्य भक्त्या जनार्दनाय प्रणिपत्य मूर्ध्ना ॥ ५३ ॥
sampūjya ca evam tridaśa-īśvara-ādyaiḥ stutam devam ajeyam īśam .. vijñāpayāmāsa nirīkṣya bhaktyā janārdanāya praṇipatya mūrdhnā .. 53 ..
राजोवाच।। ।।
भगवन् ब्राह्मणः कश्चिद्दधीच इति विश्रुतः ॥ धर्मवेत्ता विनीतात्मा सखा मम पुराभवत् ॥ ५४ ॥
भगवन् ब्राह्मणः कश्चिद् दधीचः इति विश्रुतः ॥ धर्म-वेत्ता विनीत-आत्मा सखा मम पुरा भवत् ॥ ५४ ॥
bhagavan brāhmaṇaḥ kaścid dadhīcaḥ iti viśrutaḥ .. dharma-vettā vinīta-ātmā sakhā mama purā bhavat .. 54 ..
अवध्यस्सर्वदा सर्वैश्शंकरस्य प्रभावतः ॥ तमाराध्य महादेवं मृत्युंजयमनामयम् ॥ ५५ ॥
अवध्यः सर्वदा सर्वैः शंकरस्य प्रभावतः ॥ तम् आराध्य महादेवम् मृत्युंजयम् अनामयम् ॥ ५५ ॥
avadhyaḥ sarvadā sarvaiḥ śaṃkarasya prabhāvataḥ .. tam ārādhya mahādevam mṛtyuṃjayam anāmayam .. 55 ..
सावज्ञं वामपादेन मम मूर्ध्नि सदस्यपि ॥ ताडयामास वेगेन स दधीचो महातपाः ॥ ५६ ॥
स अवज्ञम् वाम-पादेन मम मूर्ध्नि सदसि अपि ॥ ताडयामास वेगेन स दधीचः महा-तपाः ॥ ५६ ॥
sa avajñam vāma-pādena mama mūrdhni sadasi api .. tāḍayāmāsa vegena sa dadhīcaḥ mahā-tapāḥ .. 56 ..
उवाच तं च गर्वेण न बिभेमीति सर्वतः ॥ मृत्युंजयाप्त सुवरो गर्वितो ह्यतुलं हरिः ॥ ५७ ॥
उवाच तम् च गर्वेण न बिभेमि इति सर्वतस् ॥ सुवरः गर्वितः हि अतुलम् हरिः ॥ ५७ ॥
uvāca tam ca garveṇa na bibhemi iti sarvatas .. suvaraḥ garvitaḥ hi atulam hariḥ .. 57 ..
ब्रह्मोवाच ।।
अथ ज्ञात्वा दधीचस्य ह्यवध्यत्वं महात्मनः ॥ सस्मारास्य महेशस्य प्रभावमतुलं हरिः ॥ ५८ ॥
अथ ज्ञात्वा दधीचस्य हि अवध्य-त्वम् महात्मनः ॥ सस्मार अस्य महेशस्य प्रभावम् अतुलम् हरिः ॥ ५८ ॥
atha jñātvā dadhīcasya hi avadhya-tvam mahātmanaḥ .. sasmāra asya maheśasya prabhāvam atulam hariḥ .. 58 ..
एवं स्मृत्वा हरिः प्राह क्षुवं विधिसुतं द्रुतम् ॥ विप्राणां नास्ति राजेन्द्र भयमण्वपि कुत्रचित् ॥ ५९ ॥
एवम् स्मृत्वा हरिः प्राह क्षुवम् विधि-सुतम् द्रुतम् ॥ विप्राणाम् ना अस्ति राज-इन्द्र भयम् अणु अपि कुत्रचिद् ॥ ५९ ॥
evam smṛtvā hariḥ prāha kṣuvam vidhi-sutam drutam .. viprāṇām nā asti rāja-indra bhayam aṇu api kutracid .. 59 ..
विशेषाद्रुद्रभक्तानां भयं नास्ति च भूपते ॥ दुःखं करोति विप्रस्य शापार्थं ससुरस्य मे ॥ 2.2.38.६०॥
विशेषात् रुद्र-भक्तानाम् भयम् ना अस्ति च भूपते ॥ दुःखम् करोति विप्रस्य शाप-अर्थम् स सुरस्य मे ॥ २।२।३८।६०॥
viśeṣāt rudra-bhaktānām bhayam nā asti ca bhūpate .. duḥkham karoti viprasya śāpa-artham sa surasya me .. 2.2.38.60..
भविता तस्य शापेन दक्षयज्ञे सुरेश्वरात् ॥ विनाशो मम राजेन्द्र पुनरुत्थानमेव च ॥ ६१ ॥
भविता तस्य शापेन दक्ष-यज्ञे सुरेश्वरात् ॥ विनाशः मम राज-इन्द्र पुनर् उत्थानम् एव च ॥ ६१ ॥
bhavitā tasya śāpena dakṣa-yajñe sureśvarāt .. vināśaḥ mama rāja-indra punar utthānam eva ca .. 61 ..
तस्मात्समेत्य राजेन्द्र सर्वयज्ञो न भूयते ॥ करोमि यत्नं राजेन्द्र दधीचविजयाय ते ॥ ६२ ॥
तस्मात् समेत्य राज-इन्द्र सर्व-यज्ञः न भूयते ॥ करोमि यत्नम् राज-इन्द्र दधीच-विजयाय ते ॥ ६२ ॥
tasmāt sametya rāja-indra sarva-yajñaḥ na bhūyate .. karomi yatnam rāja-indra dadhīca-vijayāya te .. 62 ..
श्रुत्वा वाक्यं क्षुवः प्राह तथास्त्विति हरेर्नृपः ॥ तस्थौ तत्रैव तत्प्रीत्या तत्कामोत्सुकमानसः ॥ ६३ ॥
श्रुत्वा वाक्यम् क्षुवः प्राह तथा अस्तु इति हरेः नृपः ॥ तस्थौ तत्र एव तद्-प्रीत्या तद्-काम-उत्सुक-मानसः ॥ ६३ ॥
śrutvā vākyam kṣuvaḥ prāha tathā astu iti hareḥ nṛpaḥ .. tasthau tatra eva tad-prītyā tad-kāma-utsuka-mānasaḥ .. 63 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीयसतीखंडे क्षुवदधीचवादवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीय-सती-खण्डे क्षुवदधीचवादवर्णनम् नाम अष्टत्रिंशः अध्यायः ॥ ३८ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīya-satī-khaṇḍe kṣuvadadhīcavādavarṇanam nāma aṣṭatriṃśaḥ adhyāyaḥ .. 38 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In