| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
क्षुवस्य हितकृत्येन दधीचस्याश्रमं ययौ॥ विप्ररूपमथास्थाय भगवान् भक्तवत्सलः १॥
क्षुवस्य हित-कृत्येन दधीचस्य आश्रमम् ययौ॥ विप्र-रूपम् अथ आस्थाय भगवान् भक्त-वत्सलः॥
kṣuvasya hita-kṛtyena dadhīcasya āśramam yayau.. vipra-rūpam atha āsthāya bhagavān bhakta-vatsalaḥ..
दधीचं प्राह विप्रर्षिमभिवंद्य जगद्गुरुः॥ क्षुवकार्य्यार्थमुद्युक्तश्शैवेन्द्रं छलमाश्रितः ॥ २॥
दधीचम् प्राह विप्रर्षिम् अभिवंद्य जगद्गुरुः॥ क्षुव-कार्य्य-अर्थम् उद्युक्तः शैव-इन्द्रम् छलम् आश्रितः ॥ २॥
dadhīcam prāha viprarṣim abhivaṃdya jagadguruḥ.. kṣuva-kāryya-artham udyuktaḥ śaiva-indram chalam āśritaḥ .. 2..
विष्णुरुवाच ।।
भो भो दधीच विप्रर्षे भवार्चनरताव्यय ॥ वरमेकं वृणे त्वत्तस्तद्भवान् दातुमर्हति ॥ ३ ॥
भो भो दधीच विप्रर्षे भव-अर्चन-रत अव्यय ॥ वरम् एकम् वृणे त्वत्तः तत् भवान् दातुम् अर्हति ॥ ३ ॥
bho bho dadhīca viprarṣe bhava-arcana-rata avyaya .. varam ekam vṛṇe tvattaḥ tat bhavān dātum arhati .. 3 ..
ब्रह्मोवाच ।।
याचितो देवदेवेन दधीचश्शैवसत्तमः ॥ क्षुवकार्यार्थिना शीघ्रं जगाद वचनं हरिम् ॥ ४ ॥
याचितः देवदेवेन दधीचः शैव-सत्तमः ॥ क्षुव-कार्य-अर्थिना शीघ्रम् जगाद वचनम् हरिम् ॥ ४ ॥
yācitaḥ devadevena dadhīcaḥ śaiva-sattamaḥ .. kṣuva-kārya-arthinā śīghram jagāda vacanam harim .. 4 ..
दधीच उवाच ।।
ज्ञातं तवेप्सितं विप्र क्षुवकार्यार्थमागतः ॥ भगवान् विप्ररूपेण मायी त्वमसि वै हरिः॥ ५॥
ज्ञातम् तव ईप्सितम् विप्र क्षुव-कार्य-अर्थम् आगतः ॥ भगवान् विप्र-रूपेण मायी त्वम् असि वै हरिः॥ ५॥
jñātam tava īpsitam vipra kṣuva-kārya-artham āgataḥ .. bhagavān vipra-rūpeṇa māyī tvam asi vai hariḥ.. 5..
भूतं भविष्यं देवेश वर्तमानं जनार्दन ॥ ज्ञानं प्रसादाद्रुद्रस्य सदा त्रैकालिकं मम ॥ ६॥
भूतम् भविष्यम् देवेश वर्तमानम् जनार्दन ॥ ज्ञानम् प्रसादात् रुद्रस्य सदा त्रैकालिकम् मम ॥ ६॥
bhūtam bhaviṣyam deveśa vartamānam janārdana .. jñānam prasādāt rudrasya sadā traikālikam mama .. 6..
त्वां जानेहं हरिं विष्णुं द्विजत्वं त्यज सुव्रत ॥ आराधितोऽसि भूपेन क्षुवेण खलबुद्धिना ॥ ७ ॥
त्वाम् जान इहम् हरिम् विष्णुम् द्विज-त्वम् त्यज सुव्रत ॥ आराधितः असि भूपेन क्षुवेण खल-बुद्धिना ॥ ७ ॥
tvām jāna iham harim viṣṇum dvija-tvam tyaja suvrata .. ārādhitaḥ asi bhūpena kṣuveṇa khala-buddhinā .. 7 ..
जाने तवैव भगवन् भक्तवत्सलतां हरे ॥ छलं त्यज स्वरूपं हि स्वीकुरु स्मर शंकरम् ॥ ८॥
जाने तव एव भगवन् भक्त-वत्सल-ताम् हरे ॥ छलम् त्यज स्व-रूपम् हि स्वीकुरु स्मर शंकरम् ॥ ८॥
jāne tava eva bhagavan bhakta-vatsala-tām hare .. chalam tyaja sva-rūpam hi svīkuru smara śaṃkaram .. 8..
अस्ति चेत्कस्यचिद्भीतिर्भवार्चनरतस्य मे ॥ वक्तुमर्हसि यत्नेन सत्यधारणपूर्वकम् ॥ ९ ॥
अस्ति चेद् कस्यचिद् भीतिः भव-अर्चन-रतस्य मे ॥ वक्तुम् अर्हसि यत्नेन सत्य-धारण-पूर्वकम् ॥ ९ ॥
asti ced kasyacid bhītiḥ bhava-arcana-ratasya me .. vaktum arhasi yatnena satya-dhāraṇa-pūrvakam .. 9 ..
वदामि न मृषा क्वापि शिवस्मरणसक्तधीः ॥ न बिभेमि जगत्यस्मिन्देवदैत्यादिकादपि ॥ 2.2.39.१० ॥
वदामि न मृषा क्वापि शिव-स्मरण-सक्त-धीः ॥ न बिभेमि जगति अस्मिन् देव-दैत्य-आदिकात् अपि ॥ २।२।३९।१० ॥
vadāmi na mṛṣā kvāpi śiva-smaraṇa-sakta-dhīḥ .. na bibhemi jagati asmin deva-daitya-ādikāt api .. 2.2.39.10 ..
विष्णुरुवाच ।। ।।
भयं दधीच सर्वत्र नष्टं च तव सुव्रत ॥ भवार्चनरतो यस्माद्भवान्सर्वज्ञ एव च ॥ ११ ॥
भयम् दधीच सर्वत्र नष्टम् च तव सुव्रत ॥ भव-अर्चन-रतः यस्मात् भवान् सर्वज्ञः एव च ॥ ११ ॥
bhayam dadhīca sarvatra naṣṭam ca tava suvrata .. bhava-arcana-rataḥ yasmāt bhavān sarvajñaḥ eva ca .. 11 ..
बिभेमीति सकृद्वक्तुमर्हसि त्वं नमस्तव ॥ नियोगान्मम राजेन्द्र क्षुवात् प्रतिसहस्य च ॥ १२॥
बिभेमि इति सकृत् वक्तुम् अर्हसि त्वम् नमः तव ॥ नियोगात् मम राज-इन्द्र क्षुवात् प्रतिसहस्य च ॥ १२॥
bibhemi iti sakṛt vaktum arhasi tvam namaḥ tava .. niyogāt mama rāja-indra kṣuvāt pratisahasya ca .. 12..
ब्रह्मोवाच ।।
एवं श्रुत्वापि तद्वाक्यं विष्णोस्स तु महामुनिः ॥ विहस्य निर्भयः प्राह दधीचश्शैवसत्तमः ॥ १३ ॥
एवम् श्रुत्वा अपि तत् वाक्यम् विष्णोः स तु महा-मुनिः ॥ विहस्य निर्भयः प्राह दधीचः शैव-सत्तमः ॥ १३ ॥
evam śrutvā api tat vākyam viṣṇoḥ sa tu mahā-muniḥ .. vihasya nirbhayaḥ prāha dadhīcaḥ śaiva-sattamaḥ .. 13 ..
दधीच उवाच ।।।
न बिभेमि सदा क्वापि कुतश्चिदपि किंचन ॥ प्रभावाद्देवदेवस्य शंभोस्साक्षात्पिनाकिनः ॥ १४ ॥
न बिभेमि सदा क्वापि कुतश्चिद् अपि किंचन ॥ प्रभावात् देवदेवस्य शंभोः साक्षात् पिनाकिनः ॥ १४ ॥
na bibhemi sadā kvāpi kutaścid api kiṃcana .. prabhāvāt devadevasya śaṃbhoḥ sākṣāt pinākinaḥ .. 14 ..
ब्रह्मोवाच ।।
ततस्तस्य मुनेः श्रुत्वा वचनं कुपितो हरिः ॥ चक्रमुद्यम्य संतस्थौ दिधक्षुमुनिसत्तमम् ॥ १५ ॥
ततस् तस्य मुनेः श्रुत्वा वचनम् कुपितः हरिः ॥ चक्रम् उद्यम्य संतस्थौ दिधक्षु-मुनि-सत्तमम् ॥ १५ ॥
tatas tasya muneḥ śrutvā vacanam kupitaḥ hariḥ .. cakram udyamya saṃtasthau didhakṣu-muni-sattamam .. 15 ..
अभवत्कुंठितं तत्र विप्रे चक्रं सुदारुणम् ॥ प्रभावाच्च तदीशस्य नृपतेस्संनिधावपि ॥ १६॥
अभवत् कुंठितम् तत्र विप्रे चक्रम् सु दारुणम् ॥ प्रभावात् च तद्-ईशस्य नृपतेः संनिधौ अपि ॥ १६॥
abhavat kuṃṭhitam tatra vipre cakram su dāruṇam .. prabhāvāt ca tad-īśasya nṛpateḥ saṃnidhau api .. 16..
दृष्ट्वा तं कुंठितास्यं तच्चक्रं विष्णुं जगाद ह ॥ दधीचस्सस्मितं साक्षात्सदसद्व्यक्ति कारणम् ॥ १७ ॥
दृष्ट्वा तम् कुंठित-आस्यम् तत् चक्रम् विष्णुम् जगाद ह ॥ दधीचः स स्मितम् साक्षात् सत्-असत्-व्यक्ति कारणम् ॥ १७ ॥
dṛṣṭvā tam kuṃṭhita-āsyam tat cakram viṣṇum jagāda ha .. dadhīcaḥ sa smitam sākṣāt sat-asat-vyakti kāraṇam .. 17 ..
दधीच उवाच ।। ।।
भगवन् भवता लब्धं पुरातीव सुदारुणम् ॥ सुदर्शनमिति ख्यातं चक्रं विष्णोः प्रयत्नतः ॥ भवस्य तच्छुभं चक्रं न जिघांसति मामिह ॥ १८ ॥
भगवन् भवता लब्धम् पुरा अतीव सु दारुणम् ॥ सुदर्शनम् इति ख्यातम् चक्रम् विष्णोः प्रयत्नतः ॥ भवस्य तत् शुभम् चक्रम् न जिघांसति माम् इह ॥ १८ ॥
bhagavan bhavatā labdham purā atīva su dāruṇam .. sudarśanam iti khyātam cakram viṣṇoḥ prayatnataḥ .. bhavasya tat śubham cakram na jighāṃsati mām iha .. 18 ..
भगवानथ क्रुद्धोऽस्मै सर्वास्त्राणि क्रमाद्धरिः ॥ ब्रह्मास्त्राद्यैः शरैश्चास्त्रैः प्रयत्नं कर्तुमर्हसि ॥ १९ ॥
भगवान् अथ क्रुद्धः अस्मै सर्व-अस्त्राणि क्रमात् हरिः ॥ ब्रह्मास्त्र-आद्यैः शरैः च अस्त्रैः प्रयत्नम् कर्तुम् अर्हसि ॥ १९ ॥
bhagavān atha kruddhaḥ asmai sarva-astrāṇi kramāt hariḥ .. brahmāstra-ādyaiḥ śaraiḥ ca astraiḥ prayatnam kartum arhasi .. 19 ..
ब्रह्मोवाच ।।
स तस्य वचनं श्रुत्वा दृष्ट्वा नि्र्वीर्य्यमानुषम् ॥ ससर्जाथ क्रुधा तस्मै सर्वास्त्राणि क्रमाद्धरिः ॥ 2.2.39.२० ॥
स तस्य वचनम् श्रुत्वा दृष्ट्वा निर्वीर्य्य-मानुषम् ॥ ससर्ज अथ क्रुधा तस्मै सर्व-अस्त्राणि क्रमात् हरिः ॥ २।२।३९।२० ॥
sa tasya vacanam śrutvā dṛṣṭvā nirvīryya-mānuṣam .. sasarja atha krudhā tasmai sarva-astrāṇi kramāt hariḥ .. 2.2.39.20 ..
चक्रुर्देवास्ततस्तस्य विष्णोस्साहाय्यमादरात् ॥ द्विजेनैकेन संयोद्धुं प्रसृतस्य विबुद्धयः ॥ २१॥
चक्रुः देवाः ततस् तस्य विष्णोः साहाय्यम् आदरात् ॥ द्विजेन एकेन संयोद्धुम् प्रसृतस्य विबुद्धयः ॥ २१॥
cakruḥ devāḥ tatas tasya viṣṇoḥ sāhāyyam ādarāt .. dvijena ekena saṃyoddhum prasṛtasya vibuddhayaḥ .. 21..
चिक्षिपुः स्वानि स्वान्याशु शस्त्राण्यस्त्राणि सर्वतः ॥ दधीचोपरि वेगेन शक्राद्या हरिपाक्षिकाः ॥ २२ ॥
चिक्षिपुः स्वानि स्वानि आशु शस्त्राणि अस्त्राणि सर्वतस् ॥ दधीच-उपरि वेगेन शक्र-आद्याः हरि-पाक्षिकाः ॥ २२ ॥
cikṣipuḥ svāni svāni āśu śastrāṇi astrāṇi sarvatas .. dadhīca-upari vegena śakra-ādyāḥ hari-pākṣikāḥ .. 22 ..
कुशमुष्टिमथादाय दधीचस्संस्मरन् शिवम् ॥ ससर्ज सर्वदेवेभ्यो वज्रास्थि सर्वतो वशी ॥ २३ ॥
कुश-मुष्टिम् अथ आदाय दधीचः संस्मरन् शिवम् ॥ ससर्ज सर्व-देवेभ्यः वज्र-अस्थि सर्वतस् वशी ॥ २३ ॥
kuśa-muṣṭim atha ādāya dadhīcaḥ saṃsmaran śivam .. sasarja sarva-devebhyaḥ vajra-asthi sarvatas vaśī .. 23 ..
शंकरस्य प्रभावात्तु कुशमुष्टिर्मुनेर्हि सा ॥ दिव्यं त्रिशूलमभवत् कालाग्निसदृशं मुने ॥ २४ ॥
शंकरस्य प्रभावात् तु कुश-मुष्टिः मुनेः हि सा ॥ दिव्यम् त्रिशूलम् अभवत् कालाग्नि-सदृशम् मुने ॥ २४ ॥
śaṃkarasya prabhāvāt tu kuśa-muṣṭiḥ muneḥ hi sā .. divyam triśūlam abhavat kālāgni-sadṛśam mune .. 24 ..
दग्धुं देवान् मतिं चक्रे सायुधं सशिखं च तत् ॥ प्रज्वलत्सर्वतश्शैवं युगांताग्र्यधिकप्रभम् ॥ २५ ॥
दग्धुम् देवान् मतिम् चक्रे स आयुधम् स शिखम् च तत् ॥ प्रज्वलत् सर्वतस् शैवम् युग-अन्त-अग्रि-अधिक-प्रभम् ॥ २५ ॥
dagdhum devān matim cakre sa āyudham sa śikham ca tat .. prajvalat sarvatas śaivam yuga-anta-agri-adhika-prabham .. 25 ..
नारायणेन्दुमुख्यैस्तु देवैः क्षिप्तानि यानि च ॥ आयुधानि समस्तानि प्रणेमुस्त्रिशिखं च तत् ॥ २६ ।
नारायण-इन्दु-मुख्यैः तु देवैः क्षिप्तानि यानि च ॥ आयुधानि समस्तानि प्रणेमुः त्रि-शिखम् च तत् ॥ २६ ।
nārāyaṇa-indu-mukhyaiḥ tu devaiḥ kṣiptāni yāni ca .. āyudhāni samastāni praṇemuḥ tri-śikham ca tat .. 26 .
देवाश्च दुद्रुवुस्सर्वे ध्वस्तवीर्या दिवौकसः ॥ तस्थौ तत्र हरिर्भीतः केवलं मायिनां वरः ॥ २७ ॥
देवाः च दुद्रुवुः सर्वे ध्वस्त-वीर्याः दिवौकसः ॥ तस्थौ तत्र हरिः भीतः केवलम् मायिनाम् वरः ॥ २७ ॥
devāḥ ca dudruvuḥ sarve dhvasta-vīryāḥ divaukasaḥ .. tasthau tatra hariḥ bhītaḥ kevalam māyinām varaḥ .. 27 ..
ससर्ज भगवान् विष्णुः स्वदेहात्पुरुषोत्तमः ॥ आत्मनस्सदृशान् दिव्यान् लक्षलक्षायुतान् गणान् ॥ २८ ॥
ससर्ज भगवान् विष्णुः स्व-देहात् पुरुषोत्तमः ॥ आत्मनः सदृशान् दिव्यान् लक्ष-लक्ष-अयुतान् गणान् ॥ २८ ॥
sasarja bhagavān viṣṇuḥ sva-dehāt puruṣottamaḥ .. ātmanaḥ sadṛśān divyān lakṣa-lakṣa-ayutān gaṇān .. 28 ..
ते चापि युयुधुस्तत्र वीरा विष्णुगणास्ततः ॥ मुनिनैकेन देवर्षे दधीचेन शिवात्मना ॥ २९ ॥
ते च अपि युयुधुः तत्र वीराः विष्णु-गणाः ततस् ॥ मुनिना एकेन देव-ऋषे दधीचेन शिव-आत्मना ॥ २९ ॥
te ca api yuyudhuḥ tatra vīrāḥ viṣṇu-gaṇāḥ tatas .. muninā ekena deva-ṛṣe dadhīcena śiva-ātmanā .. 29 ..
ततो विष्णुगणान् तान्वै नियुध्य बहुशो रणे ॥ ददाह सहसा सर्वान् दधी चश्शैव सत्तमः ॥ 2.2.39.३० ॥
ततस् विष्णु-गणान् तान् वै नियुध्य बहुशस् रणे ॥ ददाह सहसा सर्वान् सत्तमः ॥ २।२।३९।३० ॥
tatas viṣṇu-gaṇān tān vai niyudhya bahuśas raṇe .. dadāha sahasā sarvān sattamaḥ .. 2.2.39.30 ..
ततस्तद्विस्मयाथाय दधीचेस्य मुनेर्हरिः ॥ विश्वमूर्तिरभूच्छीघ्रं महामायाविशारदः ॥ ३१ ॥
ततस् तद्-विस्मय-अथाय मुनेः हरिः ॥ विश्वमूर्तिः अभूत् शीघ्रम् महा-माया-विशारदः ॥ ३१ ॥
tatas tad-vismaya-athāya muneḥ hariḥ .. viśvamūrtiḥ abhūt śīghram mahā-māyā-viśāradaḥ .. 31 ..
तस्य देहे हरेः साक्षादपश्यद्द्विजसत्तमः ॥ दधीचो देवतादीनां जीवानां च सहस्रकम् ॥ ३२ ॥
तस्य देहे हरेः साक्षात् अपश्यत् द्विजसत्तमः ॥ दधीचः देवता-आदीनाम् जीवानाम् च सहस्रकम् ॥ ३२ ॥
tasya dehe hareḥ sākṣāt apaśyat dvijasattamaḥ .. dadhīcaḥ devatā-ādīnām jīvānām ca sahasrakam .. 32 ..
भूतानां कोटयश्चैव गणानां कोटयस्तथा ॥ अंडानां कोटयश्चैव विश्वमूतस्तनौ तदा ॥ ३३॥
भूतानाम् कोटयः च एव गणानाम् कोटयः तथा ॥ अंडानाम् कोटयः च एव विश्वमूत-स्तनौ तदा ॥ ३३॥
bhūtānām koṭayaḥ ca eva gaṇānām koṭayaḥ tathā .. aṃḍānām koṭayaḥ ca eva viśvamūta-stanau tadā .. 33..
दृष्ट्वैतदखिलं तत्र च्यावनिस्सततं तदा ॥ विष्णुमाह जगन्नाथं जगत्स्तु वमजं विभुम् ॥ ३४ ॥
दृष्ट्वा एतत् अखिलम् तत्र च्याव-निस्सततम् तदा ॥ विष्णुम् आह जगन्नाथम् जगत् स्तु वम-जम् विभुम् ॥ ३४ ॥
dṛṣṭvā etat akhilam tatra cyāva-nissatatam tadā .. viṣṇum āha jagannātham jagat stu vama-jam vibhum .. 34 ..
दधीच उवाच ।।
मायां त्यज महाबाहो प्रतिभासो विचारतः ॥ विज्ञातानि सहस्राणि दुर्विज्ञेयानि माधव ॥ ३५ ॥
मायाम् त्यज महा-बाहो प्रतिभासः विचारतः ॥ विज्ञातानि सहस्राणि दुर्विज्ञेयानि माधव ॥ ३५ ॥
māyām tyaja mahā-bāho pratibhāsaḥ vicārataḥ .. vijñātāni sahasrāṇi durvijñeyāni mādhava .. 35 ..
मयि पश्य जगत्सर्वं त्वया युक्तमतंद्रितः ॥ ब्रह्माणं च तथा रुद्रं दिव्यां दृष्टिं ददामि ते ॥ ३६ ॥
मयि पश्य जगत् सर्वम् त्वया युक्तम् अतंद्रितः ॥ ब्रह्माणम् च तथा रुद्रम् दिव्याम् दृष्टिम् ददामि ते ॥ ३६ ॥
mayi paśya jagat sarvam tvayā yuktam ataṃdritaḥ .. brahmāṇam ca tathā rudram divyām dṛṣṭim dadāmi te .. 36 ..
ब्रह्मोवाच ।।
इत्युक्त्वा दर्शयामास स्वतनौ निखिलं मुनिः ॥ ब्रह्मांडं च्यावनिश्शंभुतेजसा पूर्णदेहकः ॥ ३७ ॥
इति उक्त्वा दर्शयामास स्व-तनौ निखिलम् मुनिः ॥ ब्रह्मांडम् च्याव-निः शंभु-तेजसा पूर्ण-देहकः ॥ ३७ ॥
iti uktvā darśayāmāsa sva-tanau nikhilam muniḥ .. brahmāṃḍam cyāva-niḥ śaṃbhu-tejasā pūrṇa-dehakaḥ .. 37 ..
ददाह विष्णुं देवेशं दधीचश्शैवसत्तमः ॥ संस्मरञ् शंकरं चित्ते विहसन् विभयस्सुधीः ॥ ३८॥
ददाह विष्णुम् देवेशम् दधीचः शैव-सत्तमः ॥ संस्मरन् शंकरम् चित्ते विहसन् विभयः सुधीः ॥ ३८॥
dadāha viṣṇum deveśam dadhīcaḥ śaiva-sattamaḥ .. saṃsmaran śaṃkaram citte vihasan vibhayaḥ sudhīḥ .. 38..
दधीच उवाच ।।
मायया त्वनया किं वा मंत्रशक्त्याथ वा हरे ॥ सत्कामायामिमां तस्माद्योद्धुमर्हसि यत्नतः ॥ ३९॥
मायया तु अनया किम् वा मंत्र-शक्त्या अथ वा हरे ॥ सत्-कामायाम् इमाम् तस्मात् योद्धुम् अर्हसि यत्नतः ॥ ३९॥
māyayā tu anayā kim vā maṃtra-śaktyā atha vā hare .. sat-kāmāyām imām tasmāt yoddhum arhasi yatnataḥ .. 39..
ब्रह्मोवाच ।।
एतच्छुत्वा मुनेस्तस्य वचनं निर्भयस्तदा॥ शंभुतेजोमयं विष्णुश्चुकोपातीव तं मुनिम् ॥ 2.2.39.४० ॥
एतत् शुत्वा मुनेः तस्य वचनम् निर्भयः तदा॥ शंभु-तेजः-मयम् विष्णुः चुकोप अतीव तम् मुनिम् ॥ २।२।३९।४० ॥
etat śutvā muneḥ tasya vacanam nirbhayaḥ tadā.. śaṃbhu-tejaḥ-mayam viṣṇuḥ cukopa atīva tam munim .. 2.2.39.40 ..
देवाश्च दुद्रुवुर्भूयो देवं नारायणं च तम् ॥ योद्धुकामाश्च मुनिना दधीचेन प्रतापिना ॥ ४१ ॥
देवाः च दुद्रुवुः भूयस् देवम् नारायणम् च तम् ॥ योद्धु-कामाः च मुनिना दधीचेन प्रतापिना ॥ ४१ ॥
devāḥ ca dudruvuḥ bhūyas devam nārāyaṇam ca tam .. yoddhu-kāmāḥ ca muninā dadhīcena pratāpinā .. 41 ..
एतस्मिन्नंतरे तत्रागमन्मत्संगतः क्षुवः ॥ अवारयंतं निश्चेष्टं पद्मयोनिं हरिं सुरान् ॥ ४२ ॥
एतस्मिन् अंतरे तत्र अगमत् मद्-संगतः क्षुवः ॥ अवारयन्तम् निश्चेष्टम् पद्मयोनिम् हरिम् सुरान् ॥ ४२ ॥
etasmin aṃtare tatra agamat mad-saṃgataḥ kṣuvaḥ .. avārayantam niśceṣṭam padmayonim harim surān .. 42 ..
निशम्य वचनं मे हि ब्राह्मणो न विनिर्जितः ॥ जगाम निकटं तस्य प्रणनाम मुनिं हरिः ॥ ४३ ॥
निशम्य वचनम् मे हि ब्राह्मणः न विनिर्जितः ॥ जगाम निकटम् तस्य प्रणनाम मुनिम् हरिः ॥ ४३ ॥
niśamya vacanam me hi brāhmaṇaḥ na vinirjitaḥ .. jagāma nikaṭam tasya praṇanāma munim hariḥ .. 43 ..
क्षुवो दीनतरो भूत्वा गत्वा तत्र मुनीश्वरम् ॥ दधीचमभिवाद्यैव प्रार्थयामास विक्लवः ॥ ४४ ॥
क्षुवः दीनतरः भूत्वा गत्वा तत्र मुनि-ईश्वरम् ॥ दधीचम् अभिवाद्य एव प्रार्थयामास विक्लवः ॥ ४४ ॥
kṣuvaḥ dīnataraḥ bhūtvā gatvā tatra muni-īśvaram .. dadhīcam abhivādya eva prārthayāmāsa viklavaḥ .. 44 ..
क्षुव उवाच ।।
प्रसीद मुनिशार्दूल शिवभक्तशिरोमणे ॥ प्रसीद परमेशान दुर्लक्ष्ये दुर्जनैस्सह ॥ ४५ ॥
प्रसीद मुनि-शार्दूल शिव-भक्त-शिरोमणे ॥ प्रसीद परमेशान दुर्लक्ष्ये दुर्जनैः सह ॥ ४५ ॥
prasīda muni-śārdūla śiva-bhakta-śiromaṇe .. prasīda parameśāna durlakṣye durjanaiḥ saha .. 45 ..
ब्रह्मोवाच।।
इत्याकर्ण्य वचस्तस्य राज्ञस्सुरगणस्य हि ॥ अनुजग्राह तं विप्रो दधीचस्तपसां निधिः ॥ ४६॥
इति आकर्ण्य वचः तस्य राज्ञः सुर-गणस्य हि ॥ अनुजग्राह तम् विप्रः दधीचः तपसाम् निधिः ॥ ४६॥
iti ākarṇya vacaḥ tasya rājñaḥ sura-gaṇasya hi .. anujagrāha tam vipraḥ dadhīcaḥ tapasām nidhiḥ .. 46..
अथ दृष्ट्वा रमेशादीन् क्रोधविह्वलितो मुनिः ॥ हृदि स्मृत्वा शिवं विष्णुं शशाप च सुरानपि ॥ ४७॥
अथ दृष्ट्वा रमेश-आदीन् क्रोध-विह्वलितः मुनिः ॥ हृदि स्मृत्वा शिवम् विष्णुम् शशाप च सुरान् अपि ॥ ४७॥
atha dṛṣṭvā rameśa-ādīn krodha-vihvalitaḥ muniḥ .. hṛdi smṛtvā śivam viṣṇum śaśāpa ca surān api .. 47..
दधीच उवाच ।।
रुद्रकोपाग्निना देवास्सदेवेंद्रा मुनीश्वराः ॥ ध्वस्ता भवंतु देवेन विष्णुना च समं गणैः ॥ ४८ ॥
रुद्र-कोप-अग्निना देवाः स देव-इंद्राः मुनि-ईश्वराः ॥ ध्वस्ताः भवन्तु देवेन विष्णुना च समम् गणैः ॥ ४८ ॥
rudra-kopa-agninā devāḥ sa deva-iṃdrāḥ muni-īśvarāḥ .. dhvastāḥ bhavantu devena viṣṇunā ca samam gaṇaiḥ .. 48 ..
।। ब्रह्मोवाच ।। ।।
एवं शप्त्वा सुरान् प्रेक्ष्य क्षुवमाह ततो मुनिः ॥ देवैश्च पूज्यो राजेन्द्र नृपैश्चैव द्विजोत्तमः ॥ ४९ ॥
एवम् शप्त्वा सुरान् प्रेक्ष्य क्षुवम् आह ततस् मुनिः ॥ देवैः च पूज्यः राज-इन्द्र नृपैः च एव द्विजोत्तमः ॥ ४९ ॥
evam śaptvā surān prekṣya kṣuvam āha tatas muniḥ .. devaiḥ ca pūjyaḥ rāja-indra nṛpaiḥ ca eva dvijottamaḥ .. 49 ..
ब्राह्मणा एव राजेन्द्र बलिनः प्रभविष्णवः ॥ इत्युक्त्वा स स्फुट विप्रः प्रविवेश निजाश्रमम् ॥ 2.2.39.५० ॥
ब्राह्मणाः एव राज-इन्द्र बलिनः प्रभविष्णवः ॥ इति उक्त्वा स स्फुट-विप्रः प्रविवेश निज-आश्रमम् ॥ २।२।३९।५० ॥
brāhmaṇāḥ eva rāja-indra balinaḥ prabhaviṣṇavaḥ .. iti uktvā sa sphuṭa-vipraḥ praviveśa nija-āśramam .. 2.2.39.50 ..
दधीचमभिवंद्यैव क्षुवो निजगृहं गतः ॥ विष्णुर्जगाम स्वं लोकं सुरैस्सह यथागतम् ॥ ५१ ॥
दधीचम् अभिवंद्य एव क्षुवः निज-गृहम् गतः ॥ विष्णुः जगाम स्वम् लोकम् सुरैः सह यथागतम् ॥ ५१ ॥
dadhīcam abhivaṃdya eva kṣuvaḥ nija-gṛham gataḥ .. viṣṇuḥ jagāma svam lokam suraiḥ saha yathāgatam .. 51 ..
तदेवं तीर्थमभवत् स्थानेश्वर इति स्मृतम् ॥ स्थानेश्वरमनुप्राप्य शिवसायुज्यमाप्नुयात् ॥ ५२ ॥
तत् एवम् तीर्थम् अभवत् स्थानेश्वरः इति स्मृतम् ॥ स्थानेश्वरम् अनुप्राप्य शिव-सायुज्यम् आप्नुयात् ॥ ५२ ॥
tat evam tīrtham abhavat sthāneśvaraḥ iti smṛtam .. sthāneśvaram anuprāpya śiva-sāyujyam āpnuyāt .. 52 ..
कथितस्तव संक्षेपाद्वादः क्षुवदधीचयोः ॥ नृपाप्तशापयोस्तात ब्रह्मविष्ण्वोः शिवं विना ॥ ५३ ॥
कथितः तव संक्षेपात् वादः क्षुव-दधीचयोः ॥ नृप-आप्त-शापयोः तात ब्रह्म-विष्ण्वोः शिवम् विना ॥ ५३ ॥
kathitaḥ tava saṃkṣepāt vādaḥ kṣuva-dadhīcayoḥ .. nṛpa-āpta-śāpayoḥ tāta brahma-viṣṇvoḥ śivam vinā .. 53 ..
य इदं कीत्तयेन्नित्यं वादं क्षुवदधीचयोः ॥ जित्वापमृत्युं देहान्ते ब्रह्मलोकं प्रयाति सः ॥ ॥ ५४ ॥
यः इदम् कीत्तयेत् नित्यम् वादम् क्षुव-दधीचयोः ॥ जित्वा अपमृत्युम् देहान्ते ब्रह्म-लोकम् प्रयाति सः ॥ ॥ ५४ ॥
yaḥ idam kīttayet nityam vādam kṣuva-dadhīcayoḥ .. jitvā apamṛtyum dehānte brahma-lokam prayāti saḥ .. .. 54 ..
रणे यः कीर्तयित्वेदं प्रविशेत्तस्य सर्वदा ॥ मृत्युभीतिभवेन्नैव विजयी च भविष्यति ॥ ५५ ॥
रणे यः कीर्तयित्वा इदम् प्रविशेत् तस्य सर्वदा ॥ मृत्यु-भीति-भवेत् न एव विजयी च भविष्यति ॥ ५५ ॥
raṇe yaḥ kīrtayitvā idam praviśet tasya sarvadā .. mṛtyu-bhīti-bhavet na eva vijayī ca bhaviṣyati .. 55 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे विष्णुदधीचयुद्धवर्णनो नाम नवत्रिंशोऽध्यायः ॥ ३९ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सती-खण्डे विष्णुदधीचयुद्धवर्णनः नाम नवत्रिंशः अध्यायः ॥ ३९ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satī-khaṇḍe viṣṇudadhīcayuddhavarṇanaḥ nāma navatriṃśaḥ adhyāyaḥ .. 39 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In