| |
|

This overlay will guide you through the buttons:

नारद उचाच ।।
विधे विधे महाप्राज्ञा शैवतत्त्वप्रदर्शक ॥ श्राविता रमणीप्राया शिवलीला महाद्भुता ॥ १ ॥
विधे विधे महा-प्राज्ञा शैव-तत्त्व-प्रदर्शक ॥ श्राविता रमणी-प्राया शिव-लीला महा-अद्भुता ॥ १ ॥
vidhe vidhe mahā-prājñā śaiva-tattva-pradarśaka .. śrāvitā ramaṇī-prāyā śiva-līlā mahā-adbhutā .. 1 ..
वीरेण वीरभद्रेण दक्षयज्ञं विनाश्य वै ॥ कैलासाद्रौ गते तात किमभूत्तद्वदाधुना ॥ २ ॥
वीरेण वीरभद्रेण दक्ष-यज्ञम् विनाश्य वै ॥ कैलास-अद्रौ गते तात किम् अभूत् तत् वद अधुना ॥ २ ॥
vīreṇa vīrabhadreṇa dakṣa-yajñam vināśya vai .. kailāsa-adrau gate tāta kim abhūt tat vada adhunā .. 2 ..
।। ब्रह्मोवाच ।।
अथ देवगणास्सर्वे मुनयश्च पराजिताः ॥ रुद्रानीकैर्विभिन्नांगा मम लोकं ययुस्तदा ॥ ३ ॥
अथ देव-गणाः सर्वे मुनयः च पराजिताः ॥ रुद्र-अनीकैः विभिन्न-अंगाः मम लोकम् ययुः तदा ॥ ३ ॥
atha deva-gaṇāḥ sarve munayaḥ ca parājitāḥ .. rudra-anīkaiḥ vibhinna-aṃgāḥ mama lokam yayuḥ tadā .. 3 ..
स्वयंभुवे नमस्कृत्य मह्यं संस्तूय भूरिशः ॥ तत्स्वक्लेशं विशेषेण कार्त्स्येनैव न्यवेदयन् ॥ ४ ॥
स्वयंभुवे नमस्कृत्य मह्यम् संस्तूय भूरिशस् ॥ तद्-स्व-क्लेशम् विशेषेण कार्त्स्येन एव न्यवेदयन् ॥ ४ ॥
svayaṃbhuve namaskṛtya mahyam saṃstūya bhūriśas .. tad-sva-kleśam viśeṣeṇa kārtsyena eva nyavedayan .. 4 ..
तदाकर्ण्य ततोहं वै पुत्रशोकेन पीडितः ॥ अचिन्तयमतिव्यग्रो दूयमानेन चेतसा ॥ ५ ॥
तत् आकर्ण्य ततस् हम् वै पुत्र-शोकेन पीडितः ॥ अचिन्तयम् अति व्यग्रः दूयमानेन चेतसा ॥ ५ ॥
tat ākarṇya tatas ham vai putra-śokena pīḍitaḥ .. acintayam ati vyagraḥ dūyamānena cetasā .. 5 ..
किं कार्य्यं कार्यमद्याशु मया देवसुखावहम् ॥ येन जीवतु दक्षासौ मखः पूर्णो भवेत्सुरः ॥ ६ ॥
किम् कार्य्यम् कार्यम् अद्य आशु मया देव-सुख-आवहम् ॥ येन जीवतु दक्षा असौ मखः पूर्णः भवेत् सुरः ॥ ६ ॥
kim kāryyam kāryam adya āśu mayā deva-sukha-āvaham .. yena jīvatu dakṣā asau makhaḥ pūrṇaḥ bhavet suraḥ .. 6 ..
एवं विचार्य बहुधा नालभं शमहं मुने ॥ विष्णुं तदा स्मरन् भक्त्या ज्ञानमाप्तं तदोचितम् ॥ ७ ॥
एवम् विचार्य बहुधा न अलभम् शम् अहम् मुने ॥ विष्णुम् तदा स्मरन् भक्त्या ज्ञानम् आप्तम् तदा उचितम् ॥ ७ ॥
evam vicārya bahudhā na alabham śam aham mune .. viṣṇum tadā smaran bhaktyā jñānam āptam tadā ucitam .. 7 ..
अथ देवैश्च मुनिभिर्विष्णोर्लोकमहं गतः ॥ नत्वा नुत्वा च विविधैस्स्तवैर्दुःखं न्यवेदयम् ॥ ८॥
अथ देवैः च मुनिभिः विष्णोः लोक-महम् गतः ॥ नत्वा नुत्वा च विविधैः स्तवैः दुःखम् न्यवेदयम् ॥ ८॥
atha devaiḥ ca munibhiḥ viṣṇoḥ loka-maham gataḥ .. natvā nutvā ca vividhaiḥ stavaiḥ duḥkham nyavedayam .. 8..
यथाध्वरः प्रपूर्णः स्याद्देव यज्ञकरश्च सः ॥ सुखिनस्स्युस्सुरास्सर्वे मुनयश्च तथा कुरु ॥ ९ ॥
यथा अध्वरः प्रपूर्णः स्यात् देव यज्ञ-करः च सः ॥ सुखिनः स्युः सुराः सर्वे मुनयः च तथा कुरु ॥ ९ ॥
yathā adhvaraḥ prapūrṇaḥ syāt deva yajña-karaḥ ca saḥ .. sukhinaḥ syuḥ surāḥ sarve munayaḥ ca tathā kuru .. 9 ..
देव देव रमानाथ विष्णो देवसुखावह ॥ वयं त्वच्छरणं प्राप्तास्सदेवमुनयो ध्रुवम् ॥ 2.2.40.१० ॥
देव देव रमानाथ विष्णो देव-सुख-आवह ॥ वयम् त्वद्-शरणम् प्राप्ताः स देव-मुनयः ध्रुवम् ॥ २।२।४०।१० ॥
deva deva ramānātha viṣṇo deva-sukha-āvaha .. vayam tvad-śaraṇam prāptāḥ sa deva-munayaḥ dhruvam .. 2.2.40.10 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचो मे हि ब्रह्मणस्स रमेश्वरः ॥ प्रत्युवाच शिवं स्मृत्वा शिवात्मा दीनमानसः ॥ ११ ॥
इति आकर्ण्य वचः मे हि ब्रह्मणः स रमेश्वरः ॥ प्रत्युवाच शिवम् स्मृत्वा शिव-आत्मा दीन-मानसः ॥ ११ ॥
iti ākarṇya vacaḥ me hi brahmaṇaḥ sa rameśvaraḥ .. pratyuvāca śivam smṛtvā śiva-ātmā dīna-mānasaḥ .. 11 ..
विष्णुरुवाच ।।
तेजीयसि न सा भूता कृतागसि बुभूषताम् ॥ तत्र क्षेमाय बहुधा बुभूषा हि कृतागसाम् ॥ १२ ॥
तेजीयसि न सा भूता कृत-आगसि बुभूषताम् ॥ तत्र क्षेमाय बहुधा बुभूषा हि कृत-आगसाम् ॥ १२ ॥
tejīyasi na sā bhūtā kṛta-āgasi bubhūṣatām .. tatra kṣemāya bahudhā bubhūṣā hi kṛta-āgasām .. 12 ..
कृतपापास्सुरा सर्वे शिवे हि परमेश्वरे ॥ पराददुर्यज्ञभागं तस्य शंभोर्विधे यतः ॥ १३ ॥
सर्वे शिवे हि परमेश्वरे ॥ पराददुः यज्ञ-भागम् तस्य शंभोः विधे यतस् ॥ १३ ॥
sarve śive hi parameśvare .. parādaduḥ yajña-bhāgam tasya śaṃbhoḥ vidhe yatas .. 13 ..
प्रसादयध्यं सर्वे हि यूयं शुद्धेन चेतसा ॥ अथापरप्रसादं तं गृहीतांघ्रियुगं शिवम् ॥ १४॥
सर्वे हि यूयम् शुद्धेन चेतसा ॥ अथ अपर-प्रसादम् तम् गृहीत-अंघ्रि-युगम् शिवम् ॥ १४॥
sarve hi yūyam śuddhena cetasā .. atha apara-prasādam tam gṛhīta-aṃghri-yugam śivam .. 14..
यस्मिन् प्रकुपिते देवे विनश्यत्यखिलं जगत् ॥ सलोकपालयज्ञस्य शासनाज्जीवितं द्रुतम् ॥ १५॥
यस्मिन् प्रकुपिते देवे विनश्यति अखिलम् जगत् ॥ स लोकपाल-यज्ञस्य शासनात् जीवितम् द्रुतम् ॥ १५॥
yasmin prakupite deve vinaśyati akhilam jagat .. sa lokapāla-yajñasya śāsanāt jīvitam drutam .. 15..
तमाशु देवं प्रियया विहीनं च दुरुक्तिभिः ॥ क्षमापयध्वं हृद्विद्धं दक्षेण सुदुरात्मना ॥ १६ ॥
तम् आशु देवम् प्रियया विहीनम् च दुरुक्तिभिः ॥ क्षमापयध्वम् हृद्-विद्धम् दक्षेण सु दुरात्मना ॥ १६ ॥
tam āśu devam priyayā vihīnam ca duruktibhiḥ .. kṣamāpayadhvam hṛd-viddham dakṣeṇa su durātmanā .. 16 ..
अयमेव महोपायस्तच्छांत्यै केवलं विधे ॥ शंभोस्संतुष्टये मन्ये सत्यमेवोदितं मया ॥ १७ ॥
अयम् एव महा-उपायः तद्-शांत्यै केवलम् विधे ॥ शंभोः संतुष्टये मन्ये सत्यम् एवा उदितम् मया ॥ १७ ॥
ayam eva mahā-upāyaḥ tad-śāṃtyai kevalam vidhe .. śaṃbhoḥ saṃtuṣṭaye manye satyam evā uditam mayā .. 17 ..
नाहं न त्वं सुराश्चान्ये मुनयोपि तनूभृतः ॥ यस्य तत्त्वं प्रमाणं च न विदुर्बलवीर्ययोः ॥ १८ ॥
न अहम् न त्वम् सुराः च अन्ये मुनयः अपि तनूभृतः ॥ यस्य तत्त्वम् प्रमाणम् च न विदुः बल-वीर्ययोः ॥ १८ ॥
na aham na tvam surāḥ ca anye munayaḥ api tanūbhṛtaḥ .. yasya tattvam pramāṇam ca na viduḥ bala-vīryayoḥ .. 18 ..
आत्मतंत्रस्य तस्यापि परस्य परमात्मनः ॥ क उपायं विधित्सेद्वै परं मूढं विरोधिनम् ॥ १९ ॥
आत्मतंत्रस्य तस्य अपि परस्य परमात्मनः ॥ कः उपायम् विधित्सेत् वै परम् मूढम् विरोधिनम् ॥ १९ ॥
ātmataṃtrasya tasya api parasya paramātmanaḥ .. kaḥ upāyam vidhitset vai param mūḍham virodhinam .. 19 ..
चलिष्येहमपि ब्रह्मन् सर्वैः सार्द्ध शिवालयम् ॥ क्षमापयामि गिरिशं कृतागाश्च शिवे धुवम् ॥ 2.2.40.२० ॥
चलिष्ये इहम् अपि ब्रह्मन् सर्वैः सार्द्ध शिव-आलयम् ॥ क्षमापयामि गिरिशम् कृत-आगाः च शिवे ॥ २।२।४०।२० ॥
caliṣye iham api brahman sarvaiḥ sārddha śiva-ālayam .. kṣamāpayāmi giriśam kṛta-āgāḥ ca śive .. 2.2.40.20 ..
ब्रह्मोवाच ।।
इत्थमादिश्य विष्णुर्मां ब्रह्माणं सामरादिकम् ॥ सार्द्धं देवेर्मतिं चक्रे तद्गिरौ गमनाय सः ॥ २१ ॥
इत्थम् आदिश्य विष्णुः माम् ब्रह्माणम् स अमर-आदिकम् ॥ सार्द्धम् देवेः मतिम् चक्रे तद्-गिरौ गमनाय सः ॥ २१ ॥
ittham ādiśya viṣṇuḥ mām brahmāṇam sa amara-ādikam .. sārddham deveḥ matim cakre tad-girau gamanāya saḥ .. 21 ..
ययौ स्वधिष्ण्य निलयं शिवस्याद्रिवरं शुभम् ॥ कैलासं सामरमुनिप्रजेशादिमयो हरिः ॥ २२॥
ययौ स्व-धिष्ण्य निलयम् शिवस्य अद्रि-वरम् शुभम् ॥ कैलासम् स अमर-मुनि-प्रजा-ईश-आदि-मयः हरिः ॥ २२॥
yayau sva-dhiṣṇya nilayam śivasya adri-varam śubham .. kailāsam sa amara-muni-prajā-īśa-ādi-mayaḥ hariḥ .. 22..
अतिप्रियं प्रभोर्नित्यं सुजुष्टं किन्नरादिभिः ॥ नरेतरैरप्सरोभिर्योगसिद्धैमहोन्नतम् ॥ २३ ॥
अति प्रियम् प्रभोः नित्यम् सु जुष्टम् किन्नर-आदिभिः ॥ नरेतरैः अप्सरोभिः योग-सिद्धैः महा-उन्नतम् ॥ २३ ॥
ati priyam prabhoḥ nityam su juṣṭam kinnara-ādibhiḥ .. naretaraiḥ apsarobhiḥ yoga-siddhaiḥ mahā-unnatam .. 23 ..
नानामणिमयैश्शृंगैः शोभमानं समंततः ॥ नानाधातुविचित्रं वै नानाद्रुमलताकुलम् ॥ ॥ २४ ॥
नाना मणि-मयैः शृंगैः शोभमानम् समंततः ॥ नाना धातु-विचित्रम् वै नाना द्रुम-लता-आकुलम् ॥ ॥ २४ ॥
nānā maṇi-mayaiḥ śṛṃgaiḥ śobhamānam samaṃtataḥ .. nānā dhātu-vicitram vai nānā druma-latā-ākulam .. .. 24 ..
नानामृगगणाकीर्णं नानापक्षिसमन्वितम् ॥ नानाजलप्रस्रवणैरमरैस्सिद्धयोषिताम् ॥ २५ ॥
नाना मृग-गण-आकीर्णम् नाना पक्षि-समन्वितम् ॥ नाना जल-प्रस्रवणैः अमरैः सिद्ध-योषिताम् ॥ २५ ॥
nānā mṛga-gaṇa-ākīrṇam nānā pakṣi-samanvitam .. nānā jala-prasravaṇaiḥ amaraiḥ siddha-yoṣitām .. 25 ..
रमणैवाहरंतीनां नानाकंदर सानुभिः ॥ द्रुमजातिभिरन्याभी राजितं राजतप्रभम् ॥ २६ ॥
नाना कंदर सानुभिः ॥ द्रुम-जातिभिः अन्याभिः राजितम् राजत-प्रभम् ॥ २६ ॥
nānā kaṃdara sānubhiḥ .. druma-jātibhiḥ anyābhiḥ rājitam rājata-prabham .. 26 ..
व्याघ्रादिभिर्महासत्त्वैर्निर्घुष्टं क्रूरतोज्झितम् ॥ सर्वशोभान्वितं दिव्यं महाविस्मयकारकम् ॥ २७ ॥
व्याघ्र-आदिभिः महासत्त्वैः निर्घुष्टम् क्रूर-ता-उज्झितम् ॥ सर्व-शोभा-अन्वितम् दिव्यम् महा-विस्मय-कारकम् ॥ २७ ॥
vyāghra-ādibhiḥ mahāsattvaiḥ nirghuṣṭam krūra-tā-ujjhitam .. sarva-śobhā-anvitam divyam mahā-vismaya-kārakam .. 27 ..
पर्यस्तं गंगया सत्या स्थानपुण्यतरोदया ॥ सर्वपावनसंकर्त्र्या विष्णुपद्या सुनिर्मलम् ॥ । ॥ २८ ॥
पर्यस्तम् गंगया सत्या स्थान-पुण्यतर-उदया ॥ ॥ । ॥ २८ ॥
paryastam gaṃgayā satyā sthāna-puṇyatara-udayā .. .. . .. 28 ..
एवंविधं गिरिं दृष्ट्वा कैलासाख्यं शिवप्रियम् ॥ ययुस्ते विस्मयं देवा विष्ण्वाद्यास्समुनीश्वराः ॥ २९ ॥
एवंविधम् गिरिम् दृष्ट्वा कैलास-आख्यम् शिव-प्रियम् ॥ ययुः ते विस्मयम् देवाः विष्णु-आद्याः स मुनि-ईश्वराः ॥ २९ ॥
evaṃvidham girim dṛṣṭvā kailāsa-ākhyam śiva-priyam .. yayuḥ te vismayam devāḥ viṣṇu-ādyāḥ sa muni-īśvarāḥ .. 29 ..
तस्समीपेऽलकां रम्यां ददृशुर्नाम ते पुरीम् ॥ कुबेरस्य महादिव्यां रुद्रमित्रस्य निर्जराः ॥ 2.2.40.३०॥
तद्-समीपे अलकाम् रम्याम् ददृशुः नाम ते पुरीम् ॥ कुबेरस्य महा-दिव्याम् रुद्र-मित्रस्य निर्जराः ॥ २।२।४०।३०॥
tad-samīpe alakām ramyām dadṛśuḥ nāma te purīm .. kuberasya mahā-divyām rudra-mitrasya nirjarāḥ .. 2.2.40.30..
वनं सौगंधिकं चापि ददृशुस्तत्समीपतः ॥ सर्वद्रुमान्वितं दिव्यं यत्र तन्नादमद्रुतम् ॥ ३१॥
वनम् सौगंधिकम् च अपि ददृशुः तद्-समीपतः ॥ सर्व-द्रुम-अन्वितम् दिव्यम् यत्र तद्-नादम् अद्रुतम् ॥ ३१॥
vanam saugaṃdhikam ca api dadṛśuḥ tad-samīpataḥ .. sarva-druma-anvitam divyam yatra tad-nādam adrutam .. 31..
तद्बाह्यतस्तस्य दिव्ये सरितावतिपावने ॥ नंदा चालकनंदा च दर्शनात्पापहारिके॥ ॥ ३२ ॥
तत् बाह्यतस् तस्य दिव्ये सरितौ अति पावने ॥ नंदा च अलकनंदा च दर्शनात् पाप-हारिके॥ ॥ ३२ ॥
tat bāhyatas tasya divye saritau ati pāvane .. naṃdā ca alakanaṃdā ca darśanāt pāpa-hārike.. .. 32 ..
पपुः सुरस्त्रियो नित्यमवगूह्य स्वलोकतः ॥ विगाह्य पुंभिस्तास्तत्र क्रीडंति रतिकर्शिताः ॥ ३३॥
पपुः सुर-स्त्रियः नित्यम् अवगूह्य स्व-लोकतः ॥ विगाह्य पुंभिः ताः तत्र क्रीडंति रति-कर्शिताः ॥ ३३॥
papuḥ sura-striyaḥ nityam avagūhya sva-lokataḥ .. vigāhya puṃbhiḥ tāḥ tatra krīḍaṃti rati-karśitāḥ .. 33..
हित्वा यक्षेश्वरपुरीं वनं सौगंधिकं च यत्॥ गच्छंतस्ते सुरा आराद्ददृशुश्शांकरं वटम् ॥ ३४ ॥
हित्वा यक्ष-ईश्वर-पुरीम् वनम् सौगंधिकम् च यत्॥ गच्छन्तः ते सुराः आरात् ददृशुः शांकरम् वटम् ॥ ३४ ॥
hitvā yakṣa-īśvara-purīm vanam saugaṃdhikam ca yat.. gacchantaḥ te surāḥ ārāt dadṛśuḥ śāṃkaram vaṭam .. 34 ..
पर्यक् कृताचलच्छायं पादोन विटपाय तम् ॥ शतयोजन कोत्सेधं निर्नीडं तापवर्ज्जितम् ॥ ३५॥
कृत-अचल-छायम् तम् ॥ शत-योजन-क-उत्सेधम् निर्नीडम् ताप-वर्जितम् ॥ ३५॥
kṛta-acala-chāyam tam .. śata-yojana-ka-utsedham nirnīḍam tāpa-varjitam .. 35..
महापुण्यवतां दृश्यं सुरम्यं चातिपावनम् ॥ शंभुयोगस्थलं दिव्यं योगिसेव्यं महोत्तमम् ॥ । ॥ ३६ ॥
महा-पुण्यवताम् दृश्यम् सु रम्यम् च अति पावनम् ॥ शंभु-योग-स्थलम् दिव्यम् योगि-सेव्यम् महा-उत्तमम् ॥ । ॥ ३६ ॥
mahā-puṇyavatām dṛśyam su ramyam ca ati pāvanam .. śaṃbhu-yoga-sthalam divyam yogi-sevyam mahā-uttamam .. . .. 36 ..
मुमुक्षुशरणे तस्मिन् महायोगमये वटे ॥ आसीनं ददृशुस्सर्वे शिवं विष्ण्वादयस्सुराः ॥ ३७॥
मुमुक्षु-शरणे तस्मिन् महा-योग-मये वटे ॥ आसीनम् ददृशुः सर्वे शिवम् विष्णु-आदयः सुराः ॥ ३७॥
mumukṣu-śaraṇe tasmin mahā-yoga-maye vaṭe .. āsīnam dadṛśuḥ sarve śivam viṣṇu-ādayaḥ surāḥ .. 37..
विधिपुत्रैर्महासिद्धैश्शिव भक्तिरतैस्सदा ॥ उपास्यमानं सुमुदा शांतैस्संशांतविग्रहैः ॥ ३८॥
विधिपुत्रैः महा-सिद्धैः शिव भक्ति-रतैः सदा ॥ उपास्यमानम् सुमुदा शांतैः संशांत-विग्रहैः ॥ ३८॥
vidhiputraiḥ mahā-siddhaiḥ śiva bhakti-rataiḥ sadā .. upāsyamānam sumudā śāṃtaiḥ saṃśāṃta-vigrahaiḥ .. 38..
तथा सख्या कुबेरेण भर्त्रा गुह्यकरक्षसाम् ॥ सेव्यमानं विशेषेण स्वगणैर्ज्ञातिभिस्सदा ॥ ३९ ॥
तथा सख्या कुबेरेण भर्त्रा गुह्यक-रक्षसाम् ॥ सेव्यमानम् विशेषेण स्व-गणैः ज्ञातिभिः सदा ॥ ३९ ॥
tathā sakhyā kubereṇa bhartrā guhyaka-rakṣasām .. sevyamānam viśeṣeṇa sva-gaṇaiḥ jñātibhiḥ sadā .. 39 ..
तापसाभीष्टसद्रूपं बिभ्रतं परमेश्वरम् ॥ वात्सल्याद्विश्वसुहृदं भस्मादिसुविराजितम् ॥ 2.2.40.४० ॥
तापस-अभीष्ट-सत्-रूपम् बिभ्रतम् परमेश्वरम् ॥ वात्सल्यात् विश्व-सुहृदम् भस्म-आदि-सु विराजितम् ॥ २।२।४०।४० ॥
tāpasa-abhīṣṭa-sat-rūpam bibhratam parameśvaram .. vātsalyāt viśva-suhṛdam bhasma-ādi-su virājitam .. 2.2.40.40 ..
मुने तुभ्यं प्रवोचंतं पृच्छते ज्ञानमुत्तमम् ॥ कुशासने सूपविष्टं सर्वेषां शृण्वतां सताम् ॥ ४१ ॥
मुने तुभ्यम् प्रवोचंतम् पृच्छते ज्ञानम् उत्तमम् ॥ कुश-आसने सु उपविष्टम् सर्वेषाम् शृण्वताम् सताम् ॥ ४१ ॥
mune tubhyam pravocaṃtam pṛcchate jñānam uttamam .. kuśa-āsane su upaviṣṭam sarveṣām śṛṇvatām satām .. 41 ..
कृत्वोरौ दक्षिणे सव्यं चरणं चैव जानुनि ॥ बाहुप्रकोष्ठाक्षमालं स्थितं सत्तर्कमुद्रया ॥ ४२॥
कृत्वा ऊरौ दक्षिणे सव्यम् चरणम् च एव जानुनि ॥ बाहु-प्रकोष्ठ-अक्ष-मालम् स्थितम् सत्-तर्क-मुद्रया ॥ ४२॥
kṛtvā ūrau dakṣiṇe savyam caraṇam ca eva jānuni .. bāhu-prakoṣṭha-akṣa-mālam sthitam sat-tarka-mudrayā .. 42..
एवंविधं शिवं दृष्ट्वा तदा विष्ण्वादयस्सुराः ॥ प्रणेमुस्त्वरितं सर्वे करौ बध्वा विनम्रकाः ॥ ४३ ॥
एवंविधम् शिवम् दृष्ट्वा तदा विष्णु-आदयः सुराः ॥ प्रणेमुः त्वरितम् सर्वे करौ बध्वा विनम्रकाः ॥ ४३ ॥
evaṃvidham śivam dṛṣṭvā tadā viṣṇu-ādayaḥ surāḥ .. praṇemuḥ tvaritam sarve karau badhvā vinamrakāḥ .. 43 ..
उपलभ्यागतं रुद्रो मया विष्णुं सतां गतिः ॥ उत्थाय चक्रे शिरसाभिवंदनमपि प्रभुः ॥ ४४ ॥
उपलभ्य आगतम् रुद्रः मया विष्णुम् सताम् गतिः ॥ उत्थाय चक्रे शिरसा अभिवंदनम् अपि प्रभुः ॥ ४४ ॥
upalabhya āgatam rudraḥ mayā viṣṇum satām gatiḥ .. utthāya cakre śirasā abhivaṃdanam api prabhuḥ .. 44 ..
वंदितांघ्रिस्तदा सर्वैर्दिव्यैर्विष्ण्वादिभिश्शिवः ॥ ननामाथ यथा विष्णुं कश्यपं लोकसद्गतिः ॥ ४५ ॥
वंदित-अंघ्रिः तदा सर्वैः दिव्यैः विष्णु-आदिभिः शिवः ॥ ननाम अथ यथा विष्णुम् कश्यपम् लोक-सत्-गतिः ॥ ४५ ॥
vaṃdita-aṃghriḥ tadā sarvaiḥ divyaiḥ viṣṇu-ādibhiḥ śivaḥ .. nanāma atha yathā viṣṇum kaśyapam loka-sat-gatiḥ .. 45 ..
सुरसिद्धगणाधीशमहर्षिसु नमस्कृतम्॥ समुवाच सुरैर्विष्णुं कृतसन्नतिमादरात् ॥ ४६॥
सुर-सिद्ध-गण-अधीश-महा-ऋषिसु नमस्कृतम्॥ समुवाच सुरैः विष्णुम् कृत-सन्नतिम् आदरात् ॥ ४६॥
sura-siddha-gaṇa-adhīśa-mahā-ṛṣisu namaskṛtam.. samuvāca suraiḥ viṣṇum kṛta-sannatim ādarāt .. 46..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे शिवदर्शनवर्णनं नाम चत्वारिंशोध्यायः ॥ ४० ॥
इति श्री-शिवमहापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सतीखण्डे शिवदर्शनवर्णनम् नाम चत्वारिंशः उध्यायः ॥ ४० ॥
iti śrī-śivamahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satīkhaṇḍe śivadarśanavarṇanam nāma catvāriṃśaḥ udhyāyaḥ .. 40 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In