| |
|

This overlay will guide you through the buttons:

नारद उवाच।।
विष्णुशिष्य महाप्राज्ञ विधे लोककर प्रभो ॥ अद्भुतेयं कथा प्रोक्ता शिवलीलामृतान्विता ॥ १ ॥
विष्णु-शिष्य महा-प्राज्ञ विधे लोक-कर प्रभो ॥ अद्भुता इयम् कथा प्रोक्ता शिव-लीला-अमृत-अन्विता ॥ १ ॥
viṣṇu-śiṣya mahā-prājña vidhe loka-kara prabho .. adbhutā iyam kathā proktā śiva-līlā-amṛta-anvitā .. 1 ..
ततः किमभवत्तात चरितं तद्वदाधुना ॥ अहं श्रद्धान्वितः श्रोतुं यदि शम्भुकथाश्रयम् ॥ २ ॥ ॥
ततस् किम् अभवत् तात चरितम् तत् वद अधुना ॥ अहम् श्रद्धा-अन्वितः श्रोतुम् यदि शम्भु-कथा-आश्रयम् ॥ २ ॥ ॥
tatas kim abhavat tāta caritam tat vada adhunā .. aham śraddhā-anvitaḥ śrotum yadi śambhu-kathā-āśrayam .. 2 .. ..
शंभौ गते निजस्थाने वेधस्यंतर्हिते मयि ॥ दक्ष प्राहाथ कंदर्पं संस्मरन् मम तद्वचः ॥ ॥ ३ ॥ ॥
शंभौ गते निज-स्थाने वेधसि अंतर्हिते मयि ॥ दक्ष प्राह अथ कंदर्पम् संस्मरन् मम तत् वचः ॥ ॥ ३ ॥ ॥
śaṃbhau gate nija-sthāne vedhasi aṃtarhite mayi .. dakṣa prāha atha kaṃdarpam saṃsmaran mama tat vacaḥ .. .. 3 .. ..
दक्ष उवाच ।।
मद्देहजेयं कंदर्प सद्रूपगुणसंयुता ॥ एनां गृह्णीष्व भार्यार्थं भवतस्सदृशीं गुणैः ॥ ४ ॥
मद्-देह-जा इयम् कंदर्प सत्-रूप-गुण-संयुता ॥ एनाम् गृह्णीष्व भार्या-अर्थम् भवतः सदृशीम् गुणैः ॥ ४ ॥
mad-deha-jā iyam kaṃdarpa sat-rūpa-guṇa-saṃyutā .. enām gṛhṇīṣva bhāryā-artham bhavataḥ sadṛśīm guṇaiḥ .. 4 ..
एषा तव महा तेजास्सर्वदा सहचारिणी ॥ भविष्यति यथाकामं धर्मतो वशवर्तिनी ॥ ५ ॥
एषा तव महा तेजाः सर्वदा सहचारिणी ॥ भविष्यति यथाकामम् धर्मतः वश-वर्तिनी ॥ ५ ॥
eṣā tava mahā tejāḥ sarvadā sahacāriṇī .. bhaviṣyati yathākāmam dharmataḥ vaśa-vartinī .. 5 ..
ब्रह्मोवाच ।।
इत्युक्त्वा प्रददौ तस्यै देहस्वेदांबुसम्भवाम् ॥ कंदर्प्पायाग्रतः कृत्वा नाम कृत्वा रतीति ताम् ॥ ६ ॥
इति उक्त्वा प्रददौ तस्यै देह-स्वेद-अंबु-सम्भवाम् ॥ कंदर्प्पाय अग्रतस् कृत्वा नाम कृत्वा रती इति ताम् ॥ ६ ॥
iti uktvā pradadau tasyai deha-sveda-aṃbu-sambhavām .. kaṃdarppāya agratas kṛtvā nāma kṛtvā ratī iti tām .. 6 ..
विवाह्य तां स्मरस्सोपि मुमोदातीव नारद ॥ दक्षजां तनयां रम्यां मुनीनामपि मोहिनीम् ॥ ७ ॥
विवाह्य ताम् स्मरः सः उपि मुमोद अतीव नारद ॥ दक्ष-जाम् तनयाम् रम्याम् मुनीनाम् अपि मोहिनीम् ॥ ७ ॥
vivāhya tām smaraḥ saḥ upi mumoda atīva nārada .. dakṣa-jām tanayām ramyām munīnām api mohinīm .. 7 ..
अथ तां वीक्ष्य मदनो रत्याख्यां स्वस्त्रियं शुभाम् ॥ आत्मा गुणेन विद्धोसौ मुमोह रतिरंजितः ॥ ८ ॥
अथ ताम् वीक्ष्य मदनः रति-आख्याम् स्व-स्त्रियम् शुभाम् ॥ आत्मा गुणेन विद्धः उसौ मुमोह रति-रंजितः ॥ ८ ॥
atha tām vīkṣya madanaḥ rati-ākhyām sva-striyam śubhām .. ātmā guṇena viddhaḥ usau mumoha rati-raṃjitaḥ .. 8 ..
क्षणप्रदाऽभवत्कांता गौरी मृगदृशी मुदा ॥ लोलापांग्यथ तस्यैव भार्या च सदृशी रतौ ॥ ९ ॥
क्षणप्रदा अभवत् कांता गौरी मृग-दृशी मुदा ॥ लोलापांगी अथ तस्य एव भार्या च सदृशी रतौ ॥ ९ ॥
kṣaṇapradā abhavat kāṃtā gaurī mṛga-dṛśī mudā .. lolāpāṃgī atha tasya eva bhāryā ca sadṛśī ratau .. 9 ..
तस्या भ्रूयुगलं वीक्ष्य संशयं मदनोकरोत् ॥ उत्सादनं मत्कोदण्डं विधात्रास्यां निवेशितम् ॥ 2.2.4.१० ॥
तस्याः भ्रू-युगलम् वीक्ष्य संशयम् मदनः करोत् ॥ उत्सादनम् मद्-कोदण्डम् विधात्रा अस्याम् निवेशितम् ॥ २।२।४।१० ॥
tasyāḥ bhrū-yugalam vīkṣya saṃśayam madanaḥ karot .. utsādanam mad-kodaṇḍam vidhātrā asyām niveśitam .. 2.2.4.10 ..
कटाक्षाणामाशुगतिं दृष्ट्वा तस्या द्विजोत्तम॥ आशु गन्तुं निजास्त्राणां श्रद्दधे न च चारुताम् ॥ ११ ॥
कटाक्षाणाम् आशु-गतिम् दृष्ट्वा तस्याः द्विजोत्तम॥ आशु गन्तुम् निज-अस्त्राणाम् श्रद्दधे न च चारु-ताम् ॥ ११ ॥
kaṭākṣāṇām āśu-gatim dṛṣṭvā tasyāḥ dvijottama.. āśu gantum nija-astrāṇām śraddadhe na ca cāru-tām .. 11 ..
तस्याः स्वभावसुरभिधीरश्वासानिलं तथा ॥ आघ्राय मदनः श्रद्धां त्यक्तवान् मलयांतिके ॥ १२ ।
तस्याः स्वभाव-सुरभि-धीर-श्वास-अनिलम् तथा ॥ आघ्राय मदनः श्रद्धाम् त्यक्तवान् मलय-अंतिके ॥ १२ ।
tasyāḥ svabhāva-surabhi-dhīra-śvāsa-anilam tathā .. āghrāya madanaḥ śraddhām tyaktavān malaya-aṃtike .. 12 .
पूर्णेन्दुसदृशं वक्त्रं दृष्ट्वा लक्ष्मसुलक्षितम् ॥ न निश्चिकाय मदनो भेदं तन्मुखचन्द्रयोः ॥ १३ ॥
पूर्ण-इन्दु-सदृशम् वक्त्रम् दृष्ट्वा लक्ष्म-सु लक्षितम् ॥ न निश्चिकाय मदनः भेदम् तद्-मुख-चन्द्रयोः ॥ १३ ॥
pūrṇa-indu-sadṛśam vaktram dṛṣṭvā lakṣma-su lakṣitam .. na niścikāya madanaḥ bhedam tad-mukha-candrayoḥ .. 13 ..
सुवर्ण पद्मकलिकातुल्यं तस्याः कुचद्वयम् ॥ रेजे चूचुकयुग्मेन भ्रमरेणेव वेष्टितम् ॥ १४ ॥
सुवर्ण पद्म-कलिका-तुल्यम् तस्याः कुच-द्वयम् ॥ रेजे चूचुक-युग्मेन भ्रमरेण इव वेष्टितम् ॥ १४ ॥
suvarṇa padma-kalikā-tulyam tasyāḥ kuca-dvayam .. reje cūcuka-yugmena bhramareṇa iva veṣṭitam .. 14 ..
दृढपीनोन्नतं तस्यास्तनमध्यं विलंबिनीम् ॥ आनाभिप्रतलं मालां तन्वीं चन्द्रायितां शुभाम् ॥ १५॥
दृढ-पीन-उन्नतम् तस्याः स्तन-मध्यम् विलंबिनीम् ॥ आनाभिप्रतलम् मालाम् तन्वीम् चन्द्रायिताम् शुभाम् ॥ १५॥
dṛḍha-pīna-unnatam tasyāḥ stana-madhyam vilaṃbinīm .. ānābhipratalam mālām tanvīm candrāyitām śubhām .. 15..
ज्यां पुष्पधनुषः कामः षट्पदावलिसंभ्रमाम् ॥ विसस्मार च यस्मात्तां विसृज्यैनां निरीक्षते ॥ १६॥
ज्याम् पुष्पधनुषः कामः षट्पद-आवलि-संभ्रमाम् ॥ विसस्मार च यस्मात् ताम् विसृज्य एनाम् निरीक्षते ॥ १६॥
jyām puṣpadhanuṣaḥ kāmaḥ ṣaṭpada-āvali-saṃbhramām .. visasmāra ca yasmāt tām visṛjya enām nirīkṣate .. 16..
गम्भीरनाभिरंध्रांतश्चतुःपार्श्वत्वगादृतम् ॥ आननाब्जेऽक्षणद्वंद्वमारक्तकफलं यथा ॥ १७ ॥
गम्भीर-नाभि-रंध्र-अन्तर् चतुर्-पार्श्व-त्वच्-आदृतम् ॥ आनन-अब्जे अक्षण-द्वंद्वम् आरक्तक-फलम् यथा ॥ १७ ॥
gambhīra-nābhi-raṃdhra-antar catur-pārśva-tvac-ādṛtam .. ānana-abje akṣaṇa-dvaṃdvam āraktaka-phalam yathā .. 17 ..
मध्येन वपुषा निसर्गाष्टापदप्रभा ॥ रुक्मवेदीव ददृशे कामेन रमणी हि सा ॥ १८ ॥
मध्येन वपुषा निसर्ग-अष्टापद-प्रभा ॥ रुक्म-वेदिः इव ददृशे कामेन रमणी हि सा ॥ १८ ॥
madhyena vapuṣā nisarga-aṣṭāpada-prabhā .. rukma-vediḥ iva dadṛśe kāmena ramaṇī hi sā .. 18 ..
रंभास्तंभायतं स्निग्धं यदूरुयुगलं मृदु ॥ निजशक्तिसमं कामो वीक्षांचक्रे मनोहरम् ॥ १९ ॥
रंभा-स्तंभ-आयतम् स्निग्धम् यत् ऊरु-युगलम् मृदु ॥ निज-शक्ति-समम् कामः वीक्षांचक्रे मनोहरम् ॥ १९ ॥
raṃbhā-staṃbha-āyatam snigdham yat ūru-yugalam mṛdu .. nija-śakti-samam kāmaḥ vīkṣāṃcakre manoharam .. 19 ..
आरक्तपार्ष्णिपादाग्रप्रांतभागं पदद्वयम् ॥ अनुरागमिवाऽनेन मित्रं तस्या मनोभवः ॥ 2.2.4.२० ॥
आरक्त-पार्ष्णि-पाद-अग्र-प्रांत-भागम् पद-द्वयम् ॥ अनुरागम् इव अ अनेन मित्रम् तस्याः मनोभवः ॥ २।२।४।२० ॥
ārakta-pārṣṇi-pāda-agra-prāṃta-bhāgam pada-dvayam .. anurāgam iva a anena mitram tasyāḥ manobhavaḥ .. 2.2.4.20 ..
तस्याः करयुगं रक्तं नखरैः किंशुकोपमैः ॥ वृत्ताभिरंगुलीभिश्च सूक्ष्माग्राभिर्मनोहरम् ॥ २१॥
तस्याः कर-युगम् रक्तम् नखरैः किंशुक-उपमैः ॥ वृत्ताभिः अंगुलीभिः च सूक्ष्म-अग्राभिः मनोहरम् ॥ २१॥
tasyāḥ kara-yugam raktam nakharaiḥ kiṃśuka-upamaiḥ .. vṛttābhiḥ aṃgulībhiḥ ca sūkṣma-agrābhiḥ manoharam .. 21..
तद्बाहुयुगुलं कांतं मृणालयुगलायतम् ॥ मृदु स्निग्धं चिरं राजत्कांतिलोहप्रवालवत् ॥ २२॥
तद्-बाहु-युगुलम् कांतम् मृणाल-युगल-आयतम् ॥ मृदु स्निग्धम् चिरम् राजत्-कांति-लोह-प्रवालवत् ॥ २२॥
tad-bāhu-yugulam kāṃtam mṛṇāla-yugala-āyatam .. mṛdu snigdham ciram rājat-kāṃti-loha-pravālavat .. 22..
नीलनीरदसंकाशः केशपाशो मनोहरः ॥ चमरीवाल भरवद्विभाति स्म स्मरप्रियः ॥ २३॥
नील-नीरद-संकाशः केशपाशः मनोहरः ॥ चमरी-वाल भर-वत् विभाति स्म स्मरप्रियः ॥ २३॥
nīla-nīrada-saṃkāśaḥ keśapāśaḥ manoharaḥ .. camarī-vāla bhara-vat vibhāti sma smarapriyaḥ .. 23..
एतादृशीं रतिं नाम्ना प्रालेयाद्रिसमुद्भवाम्॥ गंगामिव महादेवो जग्राहोत्फुल्ललोचनः ॥ २४॥
एतादृशीम् रतिम् नाम्ना प्रालेयाद्रिसमुद्भवाम्॥ गंगाम् इव महादेवः जग्राह उत्फुल्ल-लोचनः ॥ २४॥
etādṛśīm ratim nāmnā prāleyādrisamudbhavām.. gaṃgām iva mahādevaḥ jagrāha utphulla-locanaḥ .. 24..
चक्रपद्मां चारुबाहुं मृणालशकलान्विताम् ॥ भ्रूयुग्मविभ्रमव्राततनूर्मिपरिराजिताम् ॥ २५ ॥
चक्र-पद्माम् चारु-बाहुम् मृणाल-शकल-अन्विताम् ॥ भ्रू-युग्म-विभ्रम-व्रात-तनु-ऊर्मि-परिराजिताम् ॥ २५ ॥
cakra-padmām cāru-bāhum mṛṇāla-śakala-anvitām .. bhrū-yugma-vibhrama-vrāta-tanu-ūrmi-parirājitām .. 25 ..
कटाक्षपाततुंगौघां स्वीयनेत्रोत्पलान्विताम् ॥ तनुलोमांबुशैवालां मनोद्रुमविलासिनीम् ॥ २६ ॥
कटाक्ष-पात-तुंग-ओघाम् स्वीय-नेत्र-उत्पल-अन्विताम् ॥ तनु-लोम-अंबु-शैवालाम् मनः-द्रुम-विलासिनीम् ॥ २६ ॥
kaṭākṣa-pāta-tuṃga-oghām svīya-netra-utpala-anvitām .. tanu-loma-aṃbu-śaivālām manaḥ-druma-vilāsinīm .. 26 ..
निम्ननाभिह्रदां क्षामां सर्वांगरमणीयिकाम् ॥ सर्वलावण्यसदनां शोभमानां रमामिव ॥ २७ ॥
निम्न-नाभि-ह्रदाम् क्षामाम् सर्व-अंग-रमणीयिकाम् ॥ सर्व-लावण्य-सदनाम् शोभमानाम् रमाम् इव ॥ २७ ॥
nimna-nābhi-hradām kṣāmām sarva-aṃga-ramaṇīyikām .. sarva-lāvaṇya-sadanām śobhamānām ramām iva .. 27 ..
द्वादशाभरणैर्युक्तां शृंगारैः षोडशैर्युताम् ॥ मोहनीं सर्वलोकानां भासयंतीं दिशो दश ॥ २८॥
द्वादश-आभरणैः युक्ताम् शृंगारैः षोडशैः युताम् ॥ मोहनीम् सर्व-लोकानाम् भासयंतीम् दिशः दश ॥ २८॥
dvādaśa-ābharaṇaiḥ yuktām śṛṃgāraiḥ ṣoḍaśaiḥ yutām .. mohanīm sarva-lokānām bhāsayaṃtīm diśaḥ daśa .. 28..
इति तां मदनो वीक्ष्य रतिं जग्राह सोत्सुकः ॥ रागादुपस्थितां लक्ष्मीं हृषीकेश इवोत्तमाम् ॥ २९॥
इति ताम् मदनः वीक्ष्य रतिम् जग्राह स उत्सुकः ॥ रागात् उपस्थिताम् लक्ष्मीम् हृषीकेशः इव उत्तमाम् ॥ २९॥
iti tām madanaḥ vīkṣya ratim jagrāha sa utsukaḥ .. rāgāt upasthitām lakṣmīm hṛṣīkeśaḥ iva uttamām .. 29..
नोवाच च तदा दक्षं कामो मोदभवात्ततः ॥ विस्मृत्य दारुणं शापं विधिदत्तं विमोहितः॥ 2.2.4.३०॥
ना उवाच च तदा दक्षम् कामः मोद-भवात् ततस् ॥ विस्मृत्य दारुणम् शापम् विधिदत्तम् विमोहितः॥ २।२।४।३०॥
nā uvāca ca tadā dakṣam kāmaḥ moda-bhavāt tatas .. vismṛtya dāruṇam śāpam vidhidattam vimohitaḥ.. 2.2.4.30..
तदा महोत्सवस्तात बभूव सुखवर्द्धनः ॥ दक्षः प्रीततरश्चासीन्मुमुदे तनया मम ॥ ३१ ॥
तदा महा-उत्सवः तात बभूव सुख-वर्द्धनः ॥ दक्षः प्रीततरः च आसीत् मुमुदे तनया मम ॥ ३१ ॥
tadā mahā-utsavaḥ tāta babhūva sukha-varddhanaḥ .. dakṣaḥ prītataraḥ ca āsīt mumude tanayā mama .. 31 ..
कामोतीव सुखं प्राप्य सर्वदुःखक्षयं गतः ॥ दक्षजापि रतिः कामं प्राप्य चापि जहर्ष ह ॥ ३२॥
सुखम् प्राप्य सर्व-दुःख-क्षयम् गतः ॥ दक्ष-जा अपि रतिः कामम् प्राप्य च अपि जहर्ष ह ॥ ३२॥
sukham prāpya sarva-duḥkha-kṣayam gataḥ .. dakṣa-jā api ratiḥ kāmam prāpya ca api jaharṣa ha .. 32..
रराज चेतयासार्द्धं भिन्नश्चारुवचः स्मरः ॥ जीमूत इव संध्यायां सौदामन्या मनोज्ञया ॥ ३३ ॥
रराज चेतया सार्द्धम् भिन्नः चारु-वचः स्मरः ॥ जीमूतः इव संध्यायाम् सौदामन्या मनोज्ञया ॥ ३३ ॥
rarāja cetayā sārddham bhinnaḥ cāru-vacaḥ smaraḥ .. jīmūtaḥ iva saṃdhyāyām saudāmanyā manojñayā .. 33 ..
इति रतिपतिरुच्चैर्मोहयुक्तो रतिं तां हृदुपरि जगृहे वै योगदर्शीव विद्याम् ॥
इति रतिपतिः उच्चैस् मोह-युक्तः रतिम् ताम् हृद्-उपरि जगृहे वै योग-दर्शी इव विद्याम् ॥
iti ratipatiḥ uccais moha-yuktaḥ ratim tām hṛd-upari jagṛhe vai yoga-darśī iva vidyām ..
रतिरपि पतिमग्र्यं प्राप्य सा चापि रेजे हरिमिव कमला वै पूर्णचन्द्रोपमास्या ॥ ३४॥
रतिः अपि पतिम् अग्र्यम् प्राप्य सा च अपि रेजे हरिम् इव कमला वै पूर्ण-चन्द्र-उपम-आस्या ॥ ३४॥
ratiḥ api patim agryam prāpya sā ca api reje harim iva kamalā vai pūrṇa-candra-upama-āsyā .. 34..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्विती- स० कामविवाहवर्णनं नाम चतुर्थोऽध्यायः ॥ ४॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीय-कामविवाहवर्णनम् नाम चतुर्थः अध्यायः ॥ ४॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīya-kāmavivāhavarṇanam nāma caturthaḥ adhyāyaḥ .. 4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In