| |
|

This overlay will guide you through the buttons:

विष्ण्वादय ऊचुः ।।
देवदेव महादेव लौकिकाचारकृत्प्रभो ॥ ब्रह्म त्वामीश्वरं शंभुं जानीमः कृपया तव ॥ १ ॥
देवदेव महादेव लौकिक-आचार-कृत् प्रभो ॥ ब्रह्म त्वाम् ईश्वरम् शंभुम् जानीमः कृपया तव ॥ १ ॥
devadeva mahādeva laukika-ācāra-kṛt prabho .. brahma tvām īśvaram śaṃbhum jānīmaḥ kṛpayā tava .. 1 ..
किं मोहयसि नस्तात मायया परया तव ॥ दुर्ज्ञेयया सदा पुंसां मोहिन्या परमेश्वर ॥ २ ॥ ।
किम् मोहयसि नः तात मायया परया तव ॥ दुर्ज्ञेयया सदा पुंसाम् मोहिन्या परमेश्वर ॥ २ ॥ ।
kim mohayasi naḥ tāta māyayā parayā tava .. durjñeyayā sadā puṃsām mohinyā parameśvara .. 2 .. .
प्रकृतः पुरुषस्यापि जगतो योनिबीजयोः ॥ परब्रह्म परस्त्वं च मनोवाचामगोचरः ॥ ३ ॥
प्रकृतः पुरुषस्य अपि जगतः योनि-बीजयोः ॥ पर-ब्रह्म परः त्वम् च मनः-वाचाम् अगोचरः ॥ ३ ॥
prakṛtaḥ puruṣasya api jagataḥ yoni-bījayoḥ .. para-brahma paraḥ tvam ca manaḥ-vācām agocaraḥ .. 3 ..
त्वमेव विश्वं सृजसि पास्यत्सि निजतंत्रतः ॥ स्वरूपां शिवशक्तिं हि क्रीडन्नूर्णपटो यथा ॥ ४ ॥
त्वम् एव विश्वम् सृजसि निज-तंत्रतः ॥ स्व-रूपाम् शिव-शक्तिम् हि क्रीडन् ऊर्णपटः यथा ॥ ४ ॥
tvam eva viśvam sṛjasi nija-taṃtrataḥ .. sva-rūpām śiva-śaktim hi krīḍan ūrṇapaṭaḥ yathā .. 4 ..
त्वमेव क्रतुमीशान ससर्जिथ दयापरः ॥ दक्षेण सूत्रेण विभो सदा त्रय्यभिपत्तये ॥ ५ ॥
त्वम् एव क्रतुम् ईशान ससर्जिथ दया-परः ॥ दक्षेण सूत्रेण विभो सदा त्रयी-अभिपत्तये ॥ ५ ॥
tvam eva kratum īśāna sasarjitha dayā-paraḥ .. dakṣeṇa sūtreṇa vibho sadā trayī-abhipattaye .. 5 ..
त्वयैव लोकेवसितास्सेतवो यान् धृतव्रताः ॥ शुद्धान् श्रद्दधते विप्रा वेदमार्गविचक्षणाः ॥ ६॥
त्वया एव लोक-इवसिताः सेतवः यान् धृत-व्रताः ॥ शुद्धान् श्रद्दधते विप्राः वेद-मार्ग-विचक्षणाः ॥ ६॥
tvayā eva loka-ivasitāḥ setavaḥ yān dhṛta-vratāḥ .. śuddhān śraddadhate viprāḥ veda-mārga-vicakṣaṇāḥ .. 6..
कर्तुस्त्वं मंगलानां हि स्वपरं तु मुखे विभो ॥ अमंगलानां च हितं मिश्रं वाथ विपर्ययम् ॥ ७॥
कर्तुः त्वम् मंगलानाम् हि स्व-परम् तु मुखे विभो ॥ अमंगलानाम् च हितम् मिश्रम् वा अथ विपर्ययम् ॥ ७॥
kartuḥ tvam maṃgalānām hi sva-param tu mukhe vibho .. amaṃgalānām ca hitam miśram vā atha viparyayam .. 7..
सर्वकर्मफलानां हि सदा दाता त्वमेव हि॥ सर्वे हि प्रोक्ता हि यशस्तत्पतिस्त्वं श्रुतिश्रुतः ॥ ८॥
सर्व-कर्म-फलानाम् हि सदा दाता त्वम् एव हि॥ सर्वे हि प्रोक्ताः हि यशः तद्-पतिः त्वम् श्रुति-श्रुतः ॥ ८॥
sarva-karma-phalānām hi sadā dātā tvam eva hi.. sarve hi proktāḥ hi yaśaḥ tad-patiḥ tvam śruti-śrutaḥ .. 8..
पृथग्धियः कर्मदृशोऽरुंतुदाश्च दुराशयाः ॥ वितुदंति परान्मूढा दुरुक्तैर्मत्सरान्विताः ॥ ९॥
पृथक् धियः कर्म-दृशः अरुंतुदाः च दुराशयाः ॥ वितुदंति परान् मूढाः दुरुक्तैः मत्सर-अन्विताः ॥ ९॥
pṛthak dhiyaḥ karma-dṛśaḥ aruṃtudāḥ ca durāśayāḥ .. vitudaṃti parān mūḍhāḥ duruktaiḥ matsara-anvitāḥ .. 9..
तेषां दैववधानां भो भूयात्त्वच्च वधो विभो ॥ भगवन्परमेशान कृपां कुरु परप्रभो ॥ 2.2.41.१०॥
तेषाम् दैव-वधानाम् भो भूयात् त्वत् च वधः विभो ॥ भगवन् परमेशान कृपाम् कुरु पर-प्रभो ॥ २।२।४१।१०॥
teṣām daiva-vadhānām bho bhūyāt tvat ca vadhaḥ vibho .. bhagavan parameśāna kṛpām kuru para-prabho .. 2.2.41.10..
नमो रुद्राय शांताय ब्रह्मणे परमात्मने॥ कपर्दिने महेशाय ज्योत्स्नाय महते नमः ॥ ११॥
नमः रुद्राय शांताय ब्रह्मणे परमात्मने॥ कपर्दिने महेशाय ज्योत्स्नाय महते नमः ॥ ११॥
namaḥ rudrāya śāṃtāya brahmaṇe paramātmane.. kapardine maheśāya jyotsnāya mahate namaḥ .. 11..
त्वं हि विश्वसृजां स्रष्टा धाता त्वं प्रपितामहः॥ त्रिगुणात्मा निर्गुणश्च प्रकृतेः पुरुषात्परः ॥ १२ ॥
त्वम् हि विश्वसृजाम् स्रष्टा धाता त्वम् प्रपितामहः॥ त्रिगुण-आत्मा निर्गुणः च प्रकृतेः पुरुषात् परः ॥ १२ ॥
tvam hi viśvasṛjām sraṣṭā dhātā tvam prapitāmahaḥ.. triguṇa-ātmā nirguṇaḥ ca prakṛteḥ puruṣāt paraḥ .. 12 ..
नमस्ते नीलकंठाय वेधसे परमात्मने ॥ विश्वाय विश्वबीजाय जगदानंदहेतवे ॥ १३ ॥
नमः ते नीलकंठाय वेधसे परमात्मने ॥ विश्वाय विश्वबीजाय जगत्-आनंद-हेतवे ॥ १३ ॥
namaḥ te nīlakaṃṭhāya vedhase paramātmane .. viśvāya viśvabījāya jagat-ānaṃda-hetave .. 13 ..
ओंकारस्त्वं वषट्कारस्सर्वारंभप्रवर्तकः ॥ हंतकास्स्वधाकारो हव्यकव्यान्नभुक् सदा ॥ १४॥
ओंकारः त्वम् वषट्कारः सर्व-आरंभ-प्रवर्तकः ॥ हंतकाः स्वधाकारः हव्य-कव्य-अन्न-भुज् सदा ॥ १४॥
oṃkāraḥ tvam vaṣaṭkāraḥ sarva-āraṃbha-pravartakaḥ .. haṃtakāḥ svadhākāraḥ havya-kavya-anna-bhuj sadā .. 14..
कृतः कथं यज्ञभंगस्त्वया धर्मपरायण।ब्रह्मण्यस्त्वं महादेव कथं यज्ञहनो विभो ॥ १५ ॥
कृतः कथम् यज्ञ-भंगः त्वया धर्म-परायण।ब्रह्मण्यः त्वम् महादेव कथम् यज्ञ-हनः विभो ॥ १५ ॥
kṛtaḥ katham yajña-bhaṃgaḥ tvayā dharma-parāyaṇa.brahmaṇyaḥ tvam mahādeva katham yajña-hanaḥ vibho .. 15 ..
ब्राह्मणानां गवां चैव धर्मस्य प्रतिपालकः ॥ शरण्योसि सदानंत्यः सर्वेषां प्राणिनां प्रभो ॥ १६ ॥
ब्राह्मणानाम् गवाम् च एव धर्मस्य प्रतिपालकः ॥ शरण्यः असि सदा अनंत्यः सर्वेषाम् प्राणिनाम् प्रभो ॥ १६ ॥
brāhmaṇānām gavām ca eva dharmasya pratipālakaḥ .. śaraṇyaḥ asi sadā anaṃtyaḥ sarveṣām prāṇinām prabho .. 16 ..
नमस्ते भगवन् रुद्र भास्करामिततेजसे ॥ नमो भवाय देवाय रसायांबुमयाय ते ॥ ॥ १७ ॥
नमः ते भगवन् रुद्र भास्कर-अमित-तेजसे ॥ नमः भवाय देवाय रसाय अंबु-मयाय ते ॥ ॥ १७ ॥
namaḥ te bhagavan rudra bhāskara-amita-tejase .. namaḥ bhavāya devāya rasāya aṃbu-mayāya te .. .. 17 ..
शर्वाय क्षितिरूपाय सदा सुरभिणे नमः ॥ रुद्रायाग्निस्वरूपाय महातेजस्विने नमः ॥ १८ ॥
शर्वाय क्षिति-रूपाय सदा सुरभिणे नमः ॥ रुद्राय अग्नि-स्वरूपाय महा-तेजस्विने नमः ॥ १८ ॥
śarvāya kṣiti-rūpāya sadā surabhiṇe namaḥ .. rudrāya agni-svarūpāya mahā-tejasvine namaḥ .. 18 ..
ईशाय वायवे तुभ्यं संस्पर्शाय नमोनमः ॥ पशूनांपतये तुभ्यं यजमानाय वेधसे ॥ १९ ॥
ईशाय वायवे तुभ्यम् संस्पर्शाय नमः नमः ॥ पशूनांपतये तुभ्यम् यजमानाय वेधसे ॥ १९ ॥
īśāya vāyave tubhyam saṃsparśāya namaḥ namaḥ .. paśūnāṃpataye tubhyam yajamānāya vedhase .. 19 ..
भीमाय व्योमरूपाय शब्दमात्राय ते नमः ॥ महादेवाय सोमाय प्रवृत्ताय नमोस्तु ते ॥ 2.2.41.२० ॥
भीमाय व्योम-रूपाय शब्द-मात्राय ते नमः ॥ महादेवाय सोमाय प्रवृत्ताय नमः अस्तु ते ॥ २।२।४१।२० ॥
bhīmāya vyoma-rūpāya śabda-mātrāya te namaḥ .. mahādevāya somāya pravṛttāya namaḥ astu te .. 2.2.41.20 ..
उग्राय सूर्यरूपाय नमस्ते कर्मयोगिने ॥ नमस्ते कालकालाय नमस्ते रुद्र मन्यवे ॥ ॥ २१ ॥
उग्राय सूर्य-रूपाय नमः ते कर्म-योगिने ॥ नमः ते काल-कालाय नमः ते रुद्र मन्यवे ॥ ॥ २१ ॥
ugrāya sūrya-rūpāya namaḥ te karma-yogine .. namaḥ te kāla-kālāya namaḥ te rudra manyave .. .. 21 ..
नमश्शिवाय भीमाय शंकराय शिवाय ते ॥ उग्रोसि सर्व भूतानां नियंता यच्छिवोसि नः ॥ २२ ॥
नमः शिवाय भीमाय शंकराय शिवाय ते ॥ उग्रः असि सर्व-भूतानाम् नियंता यत् शिवः असि नः ॥ २२ ॥
namaḥ śivāya bhīmāya śaṃkarāya śivāya te .. ugraḥ asi sarva-bhūtānām niyaṃtā yat śivaḥ asi naḥ .. 22 ..
मयस्कराय विश्वाय ब्रह्मणे ह्यार्तिनाशिने ॥ अम्बिकापतये तुभ्यमुमायाः पतये नमः ॥ २३ ॥
मयस्कराय विश्वाय ब्रह्मणे हि आर्ति-नाशिने ॥ अम्बिका-पतये तुभ्यम् उमायाः पतये नमः ॥ २३ ॥
mayaskarāya viśvāya brahmaṇe hi ārti-nāśine .. ambikā-pataye tubhyam umāyāḥ pataye namaḥ .. 23 ..
शर्वाय सर्वरूपाय पुरुषाय परात्मने ॥ सदसद्व्यक्तिहीनाय महतः कारणाय ते ॥ २४॥
शर्वाय सर्व-रूपाय पुरुषाय परात्मने ॥ सत्-असत्-व्यक्ति-हीनाय महतः कारणाय ते ॥ २४॥
śarvāya sarva-rūpāya puruṣāya parātmane .. sat-asat-vyakti-hīnāya mahataḥ kāraṇāya te .. 24..
जाताय बहुधा लोके प्रभूताय नमोनमः ॥ नीलाय नीलरुद्राय कद्रुद्राय प्रचेतसे ॥ २५ ॥
जाताय बहुधा लोके प्रभूताय नमः नमः ॥ नीलाय नील-रुद्राय कद्रुद्राय प्रचेतसे ॥ २५ ॥
jātāya bahudhā loke prabhūtāya namaḥ namaḥ .. nīlāya nīla-rudrāya kadrudrāya pracetase .. 25 ..
मीढुष्टमाय देवाय शिपिविष्टाय ते नमः ॥ महीयसे नमस्तुभ्यं हंत्रे देवारिणां सदा ॥ २६ ॥
मीढुष्टमाय देवाय शिपिविष्टाय ते नमः ॥ महीयसे नमः तुभ्यम् हंत्रे देव-अरिणाम् सदा ॥ २६ ॥
mīḍhuṣṭamāya devāya śipiviṣṭāya te namaḥ .. mahīyase namaḥ tubhyam haṃtre deva-ariṇām sadā .. 26 ..
ताराय च सुताराय तरुणाय सुतेजसे ॥ हरिकेशाय देवाय महेशाय नमोनमः ॥ २७ ॥
ताराय च सुताराय तरुणाय सु तेजसे ॥ हरिकेशाय देवाय महेशाय नमः नमः ॥ २७ ॥
tārāya ca sutārāya taruṇāya su tejase .. harikeśāya devāya maheśāya namaḥ namaḥ .. 27 ..
देवानां शंभवे तुभ्यं विभवे परमात्मने ॥ परमाय नमस्तुभ्यं कालकंठाय ते नमः ॥ २८ ॥
देवानाम् शंभवे तुभ्यम् विभवे परमात्मने ॥ परमाय नमः तुभ्यम् कालकंठाय ते नमः ॥ २८ ॥
devānām śaṃbhave tubhyam vibhave paramātmane .. paramāya namaḥ tubhyam kālakaṃṭhāya te namaḥ .. 28 ..
हिरण्याय परेशाय हिरण्यवपुषे नमः ॥ भीमाय भीमरूपाय भीमकर्मरताय च ॥ २९ ॥
हिरण्याय परेशाय हिरण्य-वपुषे नमः ॥ भीमाय भीम-रूपाय भीम-कर्म-रताय च ॥ २९ ॥
hiraṇyāya pareśāya hiraṇya-vapuṣe namaḥ .. bhīmāya bhīma-rūpāya bhīma-karma-ratāya ca .. 29 ..
भस्मदिग्धशरीराय रुद्राक्षाभरणाय च ॥ नमो ह्रस्वाय दीर्घाय वामनाय नमोस्तु ते ॥ 2.2.41.३० ॥
भस्म-दिग्ध-शरीराय रुद्राक्ष-आभरणाय च ॥ नमः ह्रस्वाय दीर्घाय वामनाय नमः अस्तु ते ॥ २।२।४१।३० ॥
bhasma-digdha-śarīrāya rudrākṣa-ābharaṇāya ca .. namaḥ hrasvāya dīrghāya vāmanāya namaḥ astu te .. 2.2.41.30 ..
दूरेवधाय ते देवा ग्रेवधाय नमोनमः ॥ धन्विने शूलिने तुभ्यं गदिने हलिने नमः ॥ ३१ ॥
दूरेवधाय ते देवाः ग्रेवधाय नमः नमः ॥ धन्विने शूलिने तुभ्यम् गदिने हलिने नमः ॥ ३१ ॥
dūrevadhāya te devāḥ grevadhāya namaḥ namaḥ .. dhanvine śūline tubhyam gadine haline namaḥ .. 31 ..
नानायुधधरायैव दैत्यदानवनाशिने ॥ सद्याय सद्यरूपाय सद्योजाताय वै नमः ॥ ३२ ॥
नाना आयुध-धराय एव दैत्य-दानव-नाशिने ॥ सद्याय सद्य-रूपाय सद्योजाताय वै नमः ॥ ३२ ॥
nānā āyudha-dharāya eva daitya-dānava-nāśine .. sadyāya sadya-rūpāya sadyojātāya vai namaḥ .. 32 ..
वामाय वामरूपाय वामनेत्राय ते नमः ॥ अघोराय परेशाय विकटाय नमोनमः ॥ ३३ ॥
वामाय वाम-रूपाय वाम-नेत्राय ते नमः ॥ अघोराय परेशाय विकटाय नमः नमः ॥ ३३ ॥
vāmāya vāma-rūpāya vāma-netrāya te namaḥ .. aghorāya pareśāya vikaṭāya namaḥ namaḥ .. 33 ..
तत्पुरुषाय नाथाय पुराणपुरुषाय च ॥ पुरुषार्थप्रदानाय व्रतिने परमेष्ठिने ॥ ३४ ॥
तत्पुरुषाय नाथाय पुराणपुरुषाय च ॥ पुरुष-अर्थ-प्रदानाय व्रतिने परमेष्ठिने ॥ ३४ ॥
tatpuruṣāya nāthāya purāṇapuruṣāya ca .. puruṣa-artha-pradānāya vratine parameṣṭhine .. 34 ..
ईशानाय नमस्तुभ्यमीश्वराय नमो नमः ॥ ब्रह्मणे ब्रह्मरूपाय नमस्साक्षात्परात्मने ॥ ३५ ॥
ईशानाय नमः तुभ्यम् ईश्वराय नमः नमः ॥ ब्रह्मणे ब्रह्म-रूपाय नमः साक्षात् परात्मने ॥ ३५ ॥
īśānāya namaḥ tubhyam īśvarāya namaḥ namaḥ .. brahmaṇe brahma-rūpāya namaḥ sākṣāt parātmane .. 35 ..
उग्रोसि सर्वदुष्टानां नियंतासि शिवोसि नः ॥ कालकूटाशिने तुभ्यं देवाद्यवन कारिणे ॥ ३६ ॥
उग्रः असि सर्व-दुष्टानाम् नियंता असि शिवः असि नः ॥ कालकूट-आशिने तुभ्यम् देव अद्य वन कारिणे ॥ ३६ ॥
ugraḥ asi sarva-duṣṭānām niyaṃtā asi śivaḥ asi naḥ .. kālakūṭa-āśine tubhyam deva adya vana kāriṇe .. 36 ..
वीराय वीरभद्राय रक्षद्वीराय शूलिने ॥ महादेवाय महते पशूनां पतये नमः ॥ ३७ ॥
वीराय वीरभद्राय रक्षत्-वीराय शूलिने ॥ महादेवाय महते पशूनाम् पतये नमः ॥ ३७ ॥
vīrāya vīrabhadrāya rakṣat-vīrāya śūline .. mahādevāya mahate paśūnām pataye namaḥ .. 37 ..
वीरात्मने सुविद्याय श्रीकंठाय पिनाकिने ॥ नमोनंताय सूक्ष्माय नमस्ते मृत्युमन्यवे ॥ ३८ ॥
वीर-आत्मने सुविद्याय श्रीकंठाय पिनाकिने ॥ नमः नंताय सूक्ष्माय नमः ते मृत्यु-मन्यवे ॥ ३८ ॥
vīra-ātmane suvidyāya śrīkaṃṭhāya pinākine .. namaḥ naṃtāya sūkṣmāya namaḥ te mṛtyu-manyave .. 38 ..
पराय परमेशाय परात्परतराय ते ॥ परात्पराय विभवे नमस्ते विश्वमूर्तये ॥ ३९॥
परस्मै परमेशाय परात्परतराय ते ॥ परात्पराय विभवे नमः ते विश्वमूर्तये ॥ ३९॥
parasmai parameśāya parātparatarāya te .. parātparāya vibhave namaḥ te viśvamūrtaye .. 39..
नमो विष्णुकलत्राय विष्णुक्षेत्राय भानवे ॥ भैरवाय शरण्याय त्र्यंबकाय विहारिणे ॥ 2.2.41.४० ॥
नमः विष्णु-कलत्राय विष्णु-क्षेत्राय भानवे ॥ भैरवाय शरण्याय त्र्यंबकाय विहारिणे ॥ २।२।४१।४० ॥
namaḥ viṣṇu-kalatrāya viṣṇu-kṣetrāya bhānave .. bhairavāya śaraṇyāya tryaṃbakāya vihāriṇe .. 2.2.41.40 ..
मृत्युंजयाय शोकाय त्रिगुणाय गुणात्मने ॥ चन्द्रसूर्याग्निनेत्राय सर्वकारणसेतवे ॥ ४१ ॥
मृत्युंजयाय शोकाय त्रिगुणाय गुण-आत्मने ॥ चन्द्र-सूर्य-अग्नि-नेत्राय सर्व-कारण-सेतवे ॥ ४१ ॥
mṛtyuṃjayāya śokāya triguṇāya guṇa-ātmane .. candra-sūrya-agni-netrāya sarva-kāraṇa-setave .. 41 ..
भवता हि जगत्सर्वं व्याप्तं स्वेनैव तेजसा ॥ परब्रह्म निर्विकारी चिदानंदःप्रकाशवान् ॥ ४२ ॥
भवता हि जगत् सर्वम् व्याप्तम् स्वेन एव तेजसा ॥ पर-ब्रह्म निर्विकारी चिदानंदः प्रकाशवान् ॥ ४२ ॥
bhavatā hi jagat sarvam vyāptam svena eva tejasā .. para-brahma nirvikārī cidānaṃdaḥ prakāśavān .. 42 ..
ब्रह्मविष्ण्विंद्रचन्द्रादिप्रमुखास्सकलास्सुराः ॥ मुनयश्चापरे त्वत्तस्संप्रसूता महेश्वर ॥ ४३॥
ब्रह्म-विष्णु-इंद्र-चन्द्र-आदि-प्रमुखाः सकलाः सुराः ॥ मुनयः च अपरे त्वत्तः संप्रसूताः महेश्वर ॥ ४३॥
brahma-viṣṇu-iṃdra-candra-ādi-pramukhāḥ sakalāḥ surāḥ .. munayaḥ ca apare tvattaḥ saṃprasūtāḥ maheśvara .. 43..
यतो बिभर्षि सकलं विभज्य तनुमष्टधा ॥ अष्टमूर्तिरितीशश्च त्वमाद्यः करुणामयः ॥ ॥ ४४ ॥
यतस् बिभर्षि सकलम् विभज्य तनुम् अष्टधा ॥ अष्टमूर्तिः इति ईशः च त्वम् आद्यः करुणा-मयः ॥ ॥ ४४ ॥
yatas bibharṣi sakalam vibhajya tanum aṣṭadhā .. aṣṭamūrtiḥ iti īśaḥ ca tvam ādyaḥ karuṇā-mayaḥ .. .. 44 ..
त्वद्भयाद्वाति वातोयं दहत्यग्निर्भयात्तव ॥ सूर्यस्तपति ते भीत्या मृत्युर्धावति सर्वतः ॥ ४५ ॥
त्वद्-भयात् वाति वात-उयम् दहति अग्निः भयात् तव ॥ सूर्यः तपति ते भीत्या मृत्युः धावति सर्वतस् ॥ ४५ ॥
tvad-bhayāt vāti vāta-uyam dahati agniḥ bhayāt tava .. sūryaḥ tapati te bhītyā mṛtyuḥ dhāvati sarvatas .. 45 ..
दयासिन्धो महेशान प्रसीद परमेश्वर ॥ रक्ष रक्ष सदैवास्मान् यस्मान्नष्टान् विचेतसः ॥ ४६ ॥
दया-सिन्धो महेशान प्रसीद परमेश्वर ॥ रक्ष रक्ष सदा एव अस्मान् यस्मात् नष्टान् विचेतसः ॥ ४६ ॥
dayā-sindho maheśāna prasīda parameśvara .. rakṣa rakṣa sadā eva asmān yasmāt naṣṭān vicetasaḥ .. 46 ..
रक्षिताः सततं नाथ त्वयैव करुणानिधे ॥ नानापद्भ्यो वयं शंभो तथैवाद्य प्रपाहि नः ॥ ४७॥
रक्षिताः सततम् नाथ त्वया एव करुणा-निधे ॥ नाना आपद्भ्यः वयम् शंभो तथा एव अद्य प्रपाहि नः ॥ ४७॥
rakṣitāḥ satatam nātha tvayā eva karuṇā-nidhe .. nānā āpadbhyaḥ vayam śaṃbho tathā eva adya prapāhi naḥ .. 47..
यज्ञस्योद्धरणं नाथ कुरु शीघ्रं प्रसादकृत्॥ असमाप्तस्य दुर्गेश दक्षस्य च प्रजापतेः॥ ४८॥
यज्ञस्य उद्धरणम् नाथ कुरु शीघ्रम् प्रसाद-कृत्॥ असमाप्तस्य दुर्ग-ईश दक्षस्य च प्रजापतेः॥ ४८॥
yajñasya uddharaṇam nātha kuru śīghram prasāda-kṛt.. asamāptasya durga-īśa dakṣasya ca prajāpateḥ.. 48..
भगोक्षिणी प्रपद्येत यजमानश्च जीवतु ॥ पूष्णो दंताश्च रोहंतु भृगोः श्मश्रूणि पूर्ववत्॥ ४९॥
भगा उक्षिणी प्रपद्येत यजमानः च जीवतु ॥ पूष्णः दंताः च रोहंतु भृगोः श्मश्रूणि पूर्ववत्॥ ४९॥
bhagā ukṣiṇī prapadyeta yajamānaḥ ca jīvatu .. pūṣṇaḥ daṃtāḥ ca rohaṃtu bhṛgoḥ śmaśrūṇi pūrvavat.. 49..
भवतानुग्रहीतानां देवादीनांश्च सर्वशः॥ ॥ आरोग्यं भग्नगात्राणां शंकर त्वायुधाश्मभिः ॥ 2.2.41.५० ॥
भवता अनुग्रहीतानाम् देव-आदीनाम् च सर्वशस्॥ ॥ आरोग्यम् भग्न-गात्राणाम् शंकर तु आयुध-अश्मभिः ॥ २।२।४१।५० ॥
bhavatā anugrahītānām deva-ādīnām ca sarvaśas.. .. ārogyam bhagna-gātrāṇām śaṃkara tu āyudha-aśmabhiḥ .. 2.2.41.50 ..
पूर्णभागोस्तु ते नाथावशिष्टेऽध्वरकर्मणि ॥ रुद्रभागेन यज्ञस्ते कल्पितो नान्यथा क्वचित् ॥ ५१ ॥
ते नाथ-अवशिष्टे अध्वर-कर्मणि ॥ रुद्र-भागेन यज्ञः ते कल्पितः न अन्यथा क्वचिद् ॥ ५१ ॥
te nātha-avaśiṣṭe adhvara-karmaṇi .. rudra-bhāgena yajñaḥ te kalpitaḥ na anyathā kvacid .. 51 ..
इत्युक्त्वा सप्रजेशश्च रमेशश्च कृतांजलिः ॥ दंडवत्पतितो भूमौ क्षमापयितुमुद्यतः॥ ५२॥
इति उक्त्वा स प्रजा-ईशः च रमेशः च कृतांजलिः ॥ दंड-वत् पतितः भूमौ क्षमापयितुम् उद्यतः॥ ५२॥
iti uktvā sa prajā-īśaḥ ca rameśaḥ ca kṛtāṃjaliḥ .. daṃḍa-vat patitaḥ bhūmau kṣamāpayitum udyataḥ.. 52..
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे देवस्तुतिवर्णनं नामैकचत्वारिंशोऽध्यायः॥ ४१ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सतीखण्डे देवस्तुतिवर्णनम् नाम एकचत्वारिंशः अध्यायः॥ ४१ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satīkhaṇḍe devastutivarṇanam nāma ekacatvāriṃśaḥ adhyāyaḥ.. 41 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In