| |
|

This overlay will guide you through the buttons:

श्रीब्रह्मेशप्रजेशेन सदैव मुनिना च वै॥ अनुनीतश्शंभुरासीत्प्रसन्नः परमेश्वरः ॥ १॥
श्री-ब्रह्म-ईश-प्रजा-ईशेन सदा एव मुनिना च वै॥ अनुनीतः शंभुः आसीत् प्रसन्नः परमेश्वरः ॥ १॥
śrī-brahma-īśa-prajā-īśena sadā eva muninā ca vai.. anunītaḥ śaṃbhuḥ āsīt prasannaḥ parameśvaraḥ .. 1..
आश्वास्य देवान् विष्ण्वादीन्विहस्य करुणानिधिः।उवाच परमेशानः कुर्वन् परमनुग्रहम् ॥ २॥
आश्वास्य देवान् विष्णु-आदीन् विहस्य करुणा-निधिः।उवाच परमेशानः कुर्वन् परम् अनुग्रहम् ॥ २॥
āśvāsya devān viṣṇu-ādīn vihasya karuṇā-nidhiḥ.uvāca parameśānaḥ kurvan param anugraham .. 2..
श्रीमहादेव उवाच ।।
शृणुतं सावधानेन मम वाक्यं सुरोत्तमौ ॥ यथार्थं वच्मि वां तात वां क्रोधं सर्वदासहम् ॥ ३ ॥
शृणुतम् स अवधानेन मम वाक्यम् सुर-उत्तमौ ॥ यथार्थम् वच्मि वाम् तात वाम् क्रोधम् सर्वदा असहम् ॥ ३ ॥
śṛṇutam sa avadhānena mama vākyam sura-uttamau .. yathārtham vacmi vām tāta vām krodham sarvadā asaham .. 3 ..
नाघं तनौ तु बालानां वर्णमेवानुचिंतये ॥ मम मायाभिभूतानां दंडस्तत्र धृतो मया ॥ ४ ॥
न अघम् तनौ तु बालानाम् वर्णम् एव अनुचिंतये ॥ मम माया-अभिभूतानाम् दंडः तत्र धृतः मया ॥ ४ ॥
na agham tanau tu bālānām varṇam eva anuciṃtaye .. mama māyā-abhibhūtānām daṃḍaḥ tatra dhṛtaḥ mayā .. 4 ..
दक्षस्य यज्ञभंगोयं न कृतश्च मया क्वचित् ॥ परं द्वेष्टि परेषां यदात्मनस्तद्भविष्यति ॥ ५॥
दक्षस्य यज्ञ-भंगः यम् न कृतः च मया क्वचिद् ॥ परम् द्वेष्टि परेषाम् यत् आत्मनः तत् भविष्यति ॥ ५॥
dakṣasya yajña-bhaṃgaḥ yam na kṛtaḥ ca mayā kvacid .. param dveṣṭi pareṣām yat ātmanaḥ tat bhaviṣyati .. 5..
परेषां क्लेदनं कर्म न कार्यं तत्कदाचन॥ परं द्वेष्टि परेषां यदात्मनस्तद्भविष्यति ॥ ६ ॥
परेषाम् क्लेदनम् कर्म न कार्यम् तत् कदाचन॥ परम् द्वेष्टि परेषाम् यत् आत्मनः तत् भविष्यति ॥ ६ ॥
pareṣām kledanam karma na kāryam tat kadācana.. param dveṣṭi pareṣām yat ātmanaḥ tat bhaviṣyati .. 6 ..
दक्षस्य यज्ञशीर्ष्णो हि भवत्वजमुखं शिरः ॥ मित्रनेत्रेण संपश्येद्यज्ञभागं भगस्सुरः ॥ ७ ॥
दक्षस्य यज्ञ-शीर्ष्णः हि भवतु अज-मुखम् शिरः ॥ मित्र-नेत्रेण संपश्येत् यज्ञ-भागम् भगः सुरः ॥ ७ ॥
dakṣasya yajña-śīrṣṇaḥ hi bhavatu aja-mukham śiraḥ .. mitra-netreṇa saṃpaśyet yajña-bhāgam bhagaḥ suraḥ .. 7 ..
पूषाभिधस्सुरस्तातौ दद्भिर्यज्ञसुपिष्टभुक् ॥ याजमानैर्भग्नदंतस्सत्यमेतन्मयोदितम् ॥ ८॥
पूष-अभिधः सुरः तातौ दद्भिः यज्ञ-सुपिष्ट-भुज् ॥ याजमानैः भग्न-दन्तः सत्यम् एतत् मया उदितम् ॥ ८॥
pūṣa-abhidhaḥ suraḥ tātau dadbhiḥ yajña-supiṣṭa-bhuj .. yājamānaiḥ bhagna-dantaḥ satyam etat mayā uditam .. 8..
बस्तश्मश्रुर्भवेदेव भृगुर्मम विरोध कृत्॥ देवाः प्रकृतिसर्वांगा ये म उच्छेदनं ददुः॥ ९॥
बस्त-श्मश्रुः भवेत् एव भृगुः मम विरोध कृत्॥ देवाः प्रकृति-सर्व-अंगाः ये मे उच्छेदनम् ददुः॥ ९॥
basta-śmaśruḥ bhavet eva bhṛguḥ mama virodha kṛt.. devāḥ prakṛti-sarva-aṃgāḥ ye me ucchedanam daduḥ.. 9..
बाहुभ्यामश्विनौ पूष्णो हस्ताभ्यां कृतवाहकौ ॥ भवंत्वध्वर्यवश्चान्ये भवत्प्रीत्या मयोदितम् ॥ 2.2.42.१०॥
बाहुभ्याम् अश्विनौ पूष्णः हस्ताभ्याम् कृत-वाहकौ ॥ भवन्तु अध्वर्यवः च अन्ये भवत्-प्रीत्या मया उदितम् ॥ २।२।४२।१०॥
bāhubhyām aśvinau pūṣṇaḥ hastābhyām kṛta-vāhakau .. bhavantu adhvaryavaḥ ca anye bhavat-prītyā mayā uditam .. 2.2.42.10..
ब्रह्मोवाच ।।
इत्युक्त्वा परमेशानो विरराम दयान्वितः ॥ चराचरपतिर्देवः सम्राट् वेदानुसारकृत्॥ ११॥
इति उक्त्वा परमेशानः विरराम दया-अन्वितः ॥ कृत्॥ ११॥
iti uktvā parameśānaḥ virarāma dayā-anvitaḥ .. kṛt.. 11..
तदा सर्व सुराद्यास्ते श्रुत्वा शंकरभाषितम्॥ साधुसाध्विति संप्रोचुः परितुष्टाः सविष्ण्वजाः॥ १२॥
तदा सर्व-सुर-आद्याः ते श्रुत्वा शंकर-भाषितम्॥ साधु-साधु इति संप्रोचुः परितुष्टाः स विष्णु-अजाः॥ १२॥
tadā sarva-sura-ādyāḥ te śrutvā śaṃkara-bhāṣitam.. sādhu-sādhu iti saṃprocuḥ parituṣṭāḥ sa viṣṇu-ajāḥ.. 12..
ततश्शंभुं समामंत्र्य मया विष्णुस्सुरर्षिभिः॥ भूयस्तद्देवयजनं ययौ च परया मुदा॥ १३॥
ततस् शंभुम् समामंत्र्य मया विष्णुः सुर-ऋषिभिः॥ भूयस् तत् देवयजनम् ययौ च परया मुदा॥ १३॥
tatas śaṃbhum samāmaṃtrya mayā viṣṇuḥ sura-ṛṣibhiḥ.. bhūyas tat devayajanam yayau ca parayā mudā.. 13..
एवं तेषां प्रार्थनया विष्णुप्रभृतिभिस्सुरैः॥ ययौ कनखलं शंभुर्यज्ञवाटं प्रजापतेः॥ १४॥
एवम् तेषाम् प्रार्थनया विष्णु-प्रभृतिभिः सुरैः॥ ययौ कन-खलम् शंभुः यज्ञ-वाटम् प्रजापतेः॥ १४॥
evam teṣām prārthanayā viṣṇu-prabhṛtibhiḥ suraiḥ.. yayau kana-khalam śaṃbhuḥ yajña-vāṭam prajāpateḥ.. 14..
रुद्रस्तदा ददर्शाथ वीरभद्रेण यत्कृतम् ॥ प्रध्वंसं तं क्रतोस्तत्र देवर्षीणां विशेषतः ॥ १५ ॥
रुद्रः तदा ददर्श अथ वीरभद्रेण यत् कृतम् ॥ प्रध्वंसम् तम् क्रतोः तत्र देवर्षीणाम् विशेषतः ॥ १५ ॥
rudraḥ tadā dadarśa atha vīrabhadreṇa yat kṛtam .. pradhvaṃsam tam kratoḥ tatra devarṣīṇām viśeṣataḥ .. 15 ..
स्वाहा स्वधा तथा पूषा तुष्टिर्धृतिः सरस्वती ॥ तथान्ये ऋषयस्सर्वे पितरश्चाग्नयस्तथा ॥ १६॥
स्वाहा स्वधा तथा पूषा तुष्टिः धृतिः सरस्वती ॥ तथा अन्ये ऋषयः सर्वे पितरः च अग्नयः तथा ॥ १६॥
svāhā svadhā tathā pūṣā tuṣṭiḥ dhṛtiḥ sarasvatī .. tathā anye ṛṣayaḥ sarve pitaraḥ ca agnayaḥ tathā .. 16..
येऽन्ये च बहवस्तत्र यक्षगंधवर्राक्षसाः ॥ त्रोटिता लुंचिताश्चैव मृताः केचिद्रणाजिरे ॥ १७॥
ये अन्ये च बहवः तत्र ॥ त्रोटिताः लुंचिताः च एव मृताः केचिद् रण-अजिरे ॥ १७॥
ye anye ca bahavaḥ tatra .. troṭitāḥ luṃcitāḥ ca eva mṛtāḥ kecid raṇa-ajire .. 17..
यज्ञं तथाविधं दृष्ट्वा समाहूय गणाधिपम् ॥ वीरभद्रं महावीरमुवाच प्रहसन् प्रभुः ॥ १८ ॥
यज्ञम् तथाविधम् दृष्ट्वा समाहूय गणाधिपम् ॥ वीरभद्रम् महा-वीरम् उवाच प्रहसन् प्रभुः ॥ १८ ॥
yajñam tathāvidham dṛṣṭvā samāhūya gaṇādhipam .. vīrabhadram mahā-vīram uvāca prahasan prabhuḥ .. 18 ..
वीरभद्र महाबाहो किं कृतं कर्म ते त्विदम् ॥ महान्दंडो धृतस्तात देवर्ष्यादिषु सत्वरम् ॥ १९ ॥
वीरभद्र महा-बाहो किम् कृतम् कर्म ते तु इदम् ॥ महान् दंडः धृतः तात देव-ऋषि-आदिषु सत्वरम् ॥ १९ ॥
vīrabhadra mahā-bāho kim kṛtam karma te tu idam .. mahān daṃḍaḥ dhṛtaḥ tāta deva-ṛṣi-ādiṣu satvaram .. 19 ..
दक्षमानय शीघ्रं त्वं येनेदं कृतमीदृशम् ॥ यज्ञो विलक्षणस्तात यस्येदं फलमीदृशम् ॥ 2.2.42.२०॥
दक्षम् आनय शीघ्रम् त्वम् येन इदम् कृतम् ईदृशम् ॥ यज्ञः विलक्षणः तात यस्य इदम् फलम् ईदृशम् ॥ २।२।४२।२०॥
dakṣam ānaya śīghram tvam yena idam kṛtam īdṛśam .. yajñaḥ vilakṣaṇaḥ tāta yasya idam phalam īdṛśam .. 2.2.42.20..
।। ब्रह्मोवाच ।।
एवमुक्तश्शंकरेण वीरभद्रस्त्वरान्वितः ॥ कबंधमानयित्वाग्रे तस्य शंभोरथाक्षिपत् ॥ २१॥
एवम् उक्तः शंकरेण वीरभद्रः त्वरा-अन्वितः ॥ कबंधम् आनयित्वा अग्रे तस्य शंभोः अथ अक्षिपत् ॥ २१॥
evam uktaḥ śaṃkareṇa vīrabhadraḥ tvarā-anvitaḥ .. kabaṃdham ānayitvā agre tasya śaṃbhoḥ atha akṣipat .. 21..
विशिरस्कं च तं दृष्ट्वा शंकरो लोकशंकरः ॥ वीरभद्रमुवाचाग्रे विहसन्मुनिसत्तम ॥ २२ ॥
विशिरस्कम् च तम् दृष्ट्वा शंकरः लोक-शंकरः ॥ वीरभद्रम् उवाच अग्रे विहसन् मुनि-सत्तम ॥ २२ ॥
viśiraskam ca tam dṛṣṭvā śaṃkaraḥ loka-śaṃkaraḥ .. vīrabhadram uvāca agre vihasan muni-sattama .. 22 ..
शिरः कुत्रेति तेनोक्ते वीरभद्रोऽब्रवीत्प्रभुः ॥ मया शिरो हुतं चाग्नौ तदानीमेव शंकर ॥ २३॥
शिरः कुत्र इति तेन उक्ते वीरभद्रः अब्रवीत् प्रभुः ॥ मया शिरः हुतम् च अग्नौ तदानीम् एव शंकर ॥ २३॥
śiraḥ kutra iti tena ukte vīrabhadraḥ abravīt prabhuḥ .. mayā śiraḥ hutam ca agnau tadānīm eva śaṃkara .. 23..
इति श्रुत्वा वचस्तस्य वीरभद्रस्य शंकरः ॥ देवान् तथाज्ञपत्प्रीत्या यदुक्तं तत्पुरा प्रभुः ॥ २४ ॥
इति श्रुत्वा वचः तस्य वीरभद्रस्य शंकरः ॥ देवान् तथा अज्ञपत् प्रीत्या यत् उक्तम् तत् पुरा प्रभुः ॥ २४ ॥
iti śrutvā vacaḥ tasya vīrabhadrasya śaṃkaraḥ .. devān tathā ajñapat prītyā yat uktam tat purā prabhuḥ .. 24 ..
विधाय कार्त्स्न्येन च तद्यदाह भगवान् भवः ॥ मया विष्ण्वादयः सर्वे भृग्वादीनथ सत्वरम् ॥ २५॥
विधाय कार्त्स्न्येन च तत् यत् आह भगवान् भवः ॥ मया विष्णु-आदयः सर्वे भृगु-आदीन् अथ सत्वरम् ॥ २५॥
vidhāya kārtsnyena ca tat yat āha bhagavān bhavaḥ .. mayā viṣṇu-ādayaḥ sarve bhṛgu-ādīn atha satvaram .. 25..
अथ प्रजापतेस्तस्य सवनीयपशोश्शिरः॥ बस्तस्य संदधुश्शंभोः कायेनारं सुशासनात्॥ २६॥
अथ प्रजापतेः तस्य सवनीयपशोः शिरः॥ बस्तस्य संदधुः शंभोः कायेन अरम् सुशासनात्॥ २६॥
atha prajāpateḥ tasya savanīyapaśoḥ śiraḥ.. bastasya saṃdadhuḥ śaṃbhoḥ kāyena aram suśāsanāt.. 26..
संधीयमाने शिरसि शंभुसद्दृष्टिवीक्षितः ॥ सद्यस्सुप्त इवोत्तस्थौ लब्धप्राणः प्रजापतिः॥ २७॥
संधीयमाने शिरसि शंभु-सत्-दृष्टि-वीक्षितः ॥ सद्यस् सुप्तः इव उत्तस्थौ लब्ध-प्राणः प्रजापतिः॥ २७॥
saṃdhīyamāne śirasi śaṃbhu-sat-dṛṣṭi-vīkṣitaḥ .. sadyas suptaḥ iva uttasthau labdha-prāṇaḥ prajāpatiḥ.. 27..
उत्थितश्चाग्रतश्शंभुं ददर्श करुणानिधिम् ॥ दक्षः प्रीतमतिः प्रीत्या संस्थितः सुप्रसन्नधीः॥ २८॥
उत्थितः च अग्रतस् शंभुम् ददर्श करुणा-निधिम् ॥ दक्षः प्रीत-मतिः प्रीत्या संस्थितः सु प्रसन्न-धीः॥ २८॥
utthitaḥ ca agratas śaṃbhum dadarśa karuṇā-nidhim .. dakṣaḥ prīta-matiḥ prītyā saṃsthitaḥ su prasanna-dhīḥ.. 28..
पुरा हर महाद्वेषकलिलात्माभवद्धि सः॥ शिवावलोकनात्सद्यश्शरच्चन्द्र इवामलः॥ २९॥
पुरा हर महा-द्वेष-कलिल-आत्मा अभवत् हि सः॥ शिव-अवलोकनात् सद्यस् शरद्-चन्द्रः इव अमलः॥ २९॥
purā hara mahā-dveṣa-kalila-ātmā abhavat hi saḥ.. śiva-avalokanāt sadyas śarad-candraḥ iva amalaḥ.. 29..
भवं स्तोतुमना सोथ नाशक्नोदनुरागतः ॥ उत्कंठाविकलत्वाच्च संपरेतां सुतां स्मरन् ॥ 2.2.42.३० ॥
भवम् स्तोतु-मनाः सः उथ न अशक्नोत् अनुरागतः ॥ उत्कंठा-विकल-त्वात् च संपरेताम् सुताम् स्मरन् ॥ २।२।४२।३० ॥
bhavam stotu-manāḥ saḥ utha na aśaknot anurāgataḥ .. utkaṃṭhā-vikala-tvāt ca saṃparetām sutām smaran .. 2.2.42.30 ..
अथ दक्षः प्रसन्नात्मा शिवं लज्जासमन्वितः ॥ तुष्टाव प्रणतो भूत्वा शंकरं लोकशंकरम् ॥ ३१ ॥
अथ दक्षः प्रसन्न-आत्मा शिवम् लज्जा-समन्वितः ॥ तुष्टाव प्रणतः भूत्वा शंकरम् लोक-शंकरम् ॥ ३१ ॥
atha dakṣaḥ prasanna-ātmā śivam lajjā-samanvitaḥ .. tuṣṭāva praṇataḥ bhūtvā śaṃkaram loka-śaṃkaram .. 31 ..
दक्ष उवाच ।।
नमामि देव वरदं वरेण्यं महेश्वरं ज्ञाननिधिं सनातनम् ॥ नमामि देवाधिपतीश्वरं हरं सदासुखाढ्यं जगदेकबांधवम् ॥ ३२॥
नमामि देव वर-दम् वरेण्यम् महेश्वरम् ज्ञान-निधिम् सनातनम् ॥ नमामि देव-अधिपति-ईश्वरम् हरम् सदा सुख-आढ्यम् जगत्-एक-बांधवम् ॥ ३२॥
namāmi deva vara-dam vareṇyam maheśvaram jñāna-nidhim sanātanam .. namāmi deva-adhipati-īśvaram haram sadā sukha-āḍhyam jagat-eka-bāṃdhavam .. 32..
नमामि विश्वेश्वर विश्वरूपं पुरातनं ब्रह्मनिजात्मरूपम्॥ नमामि शर्वं भव भावभावं परात्परं शंकरमानतोमि ॥ ३३॥
नमामि विश्वेश्वर विश्वरूपम् पुरातनम् ब्रह्म-निज-आत्म-रूपम्॥ नमामि शर्वम् भव भाव-भावम् परात्परम् शंकरम् आनतोमि ॥ ३३॥
namāmi viśveśvara viśvarūpam purātanam brahma-nija-ātma-rūpam.. namāmi śarvam bhava bhāva-bhāvam parātparam śaṃkaram ānatomi .. 33..
देवदेव महादेव कृपां कुरु नमोस्तु ते ॥ अपराधं क्षमस्वाद्य मम शंभो कृपानिधे ॥ ॥ ३४॥
देवदेव महादेव कृपाम् कुरु नमः अस्तु ते ॥ अपराधम् क्षमस्व अद्य मम शंभो कृपा-निधे ॥ ॥ ३४॥
devadeva mahādeva kṛpām kuru namaḥ astu te .. aparādham kṣamasva adya mama śaṃbho kṛpā-nidhe .. .. 34..
अनुग्रहः कृतस्ते हि दंडव्याजेन शंकर ॥ खलोहं मूढधीर्देव ज्ञातं तत्त्वं मया न ते ॥ ३५ ॥
अनुग्रहः कृतः ते हि दंड-व्याजेन शंकर ॥ खल उहम् मूढ-धीः देव ज्ञातम् तत्त्वम् मया न ते ॥ ३५ ॥
anugrahaḥ kṛtaḥ te hi daṃḍa-vyājena śaṃkara .. khala uham mūḍha-dhīḥ deva jñātam tattvam mayā na te .. 35 ..
अद्य ज्ञातं मया तत्त्वं सर्वोपरि भवान्मतः ॥ विष्णुब्रह्मादिभिस्सेव्यो वेदवेद्यो महेश्वरः॥ ३६॥ ॥
अद्य ज्ञातम् मया तत्त्वम् सर्व-उपरि भवान् मतः ॥ विष्णु-ब्रह्म-आदिभिः सेव्यः वेद-वेद्यः महेश्वरः॥ ३६॥ ॥
adya jñātam mayā tattvam sarva-upari bhavān mataḥ .. viṣṇu-brahma-ādibhiḥ sevyaḥ veda-vedyaḥ maheśvaraḥ.. 36.. ..
साधूनां कल्पवृक्षस्त्वं दुष्टानां दंडधृक्सदा ॥ स्वतंत्रः परमात्मा हि भक्ताभीष्टवरप्रदः ॥ ३७॥
साधूनाम् कल्पवृक्षः त्वम् दुष्टानाम् दंड-धृक् सदा ॥ स्वतंत्रः परमात्मा हि भक्त-अभीष्ट-वर-प्रदः ॥ ३७॥
sādhūnām kalpavṛkṣaḥ tvam duṣṭānām daṃḍa-dhṛk sadā .. svataṃtraḥ paramātmā hi bhakta-abhīṣṭa-vara-pradaḥ .. 37..
विद्यातपोव्रतधरानसृजः प्रथमं द्विजा ॥ आत्मतत्त्वं समावेत्तुं मुखतः परमेश्वरः ॥ ३८॥
विद्या-तपः-व्रत-धरान् असृजः प्रथमम् द्विजा ॥ आत्म-तत्त्वम् समावेत्तुम् मुखतस् परमेश्वरः ॥ ३८॥
vidyā-tapaḥ-vrata-dharān asṛjaḥ prathamam dvijā .. ātma-tattvam samāvettum mukhatas parameśvaraḥ .. 38..
सर्वापद्भ्यः पालयिता गोपतिस्तु पशूनिव ॥ गृहीतदंडो दुष्टांस्तान् मर्यादापरिपालकः ॥ ३९॥
सर्व-आपद्भ्यः पालयिता गोपतिः तु पशून् इव ॥ गृहीत-दंडः दुष्टान् तान् मर्यादा-परिपालकः ॥ ३९॥
sarva-āpadbhyaḥ pālayitā gopatiḥ tu paśūn iva .. gṛhīta-daṃḍaḥ duṣṭān tān maryādā-paripālakaḥ .. 39..
मया दुरुक्तविशिखैः प्रविद्धः परमेश्वरः ॥ अमरानतिदीनाशान् मदनुग्रहकारकः ॥ 2.2.42.४०॥
मया दुरुक्त-विशिखैः प्रविद्धः परमेश्वरः ॥ मद्-अनुग्रह-कारकः ॥ २।२।४२।४०॥
mayā durukta-viśikhaiḥ praviddhaḥ parameśvaraḥ .. mad-anugraha-kārakaḥ .. 2.2.42.40..
स भवान् भगवान् शंभो दीनबंधो परात्परः ॥ स्वकृतेन महार्हेण संतुष्टो भक्तवत्सल ॥ ४१॥
स भवान् भगवान् शंभो दीन-बंधो परात्परः ॥ स्व-कृतेन महार्हेण संतुष्टः भक्त-वत्सल ॥ ४१॥
sa bhavān bhagavān śaṃbho dīna-baṃdho parātparaḥ .. sva-kṛtena mahārheṇa saṃtuṣṭaḥ bhakta-vatsala .. 41..
।। ब्रह्मोवाच ।।
इति स्तुत्वा महेशानं शंकरं लोकशंकरम् ॥ प्रजापतिर्विनीतात्मा विरराम महाप्रभुम् ॥ ४२॥
इति स्तुत्वा महेशानम् शंकरम् लोक-शंकरम् ॥ प्रजापतिः विनीत-आत्मा विरराम महा-प्रभुम् ॥ ४२॥
iti stutvā maheśānam śaṃkaram loka-śaṃkaram .. prajāpatiḥ vinīta-ātmā virarāma mahā-prabhum .. 42..
अथ विष्णुः प्रसन्नात्मा तुष्टाव वृषभध्वजम् ॥ बाष्पगद्गदया वाण्या सुप्रणम्य कृतांजलिः ॥ ४३ ॥
अथ विष्णुः प्रसन्न-आत्मा तुष्टाव वृषभध्वजम् ॥ बाष्प-गद्गदया वाण्या सु प्रणम्य कृतांजलिः ॥ ४३ ॥
atha viṣṇuḥ prasanna-ātmā tuṣṭāva vṛṣabhadhvajam .. bāṣpa-gadgadayā vāṇyā su praṇamya kṛtāṃjaliḥ .. 43 ..
विष्णुवाच ।।
महादेव महेशान लोकानुग्रहकारक ॥ परब्रह्म परात्मा त्वं दीनबंधो दयानिधे ॥ ४४॥
महादेव महेशान लोक-अनुग्रह-कारक ॥ पर-ब्रह्म पर-आत्मा त्वम् दीन-बंधो दया-निधे ॥ ४४॥
mahādeva maheśāna loka-anugraha-kāraka .. para-brahma para-ātmā tvam dīna-baṃdho dayā-nidhe .. 44..
सर्वव्यापी स्वैरवर्ती वेदवेद्ययशाः प्रभोः ॥ अनुग्रहः कृतस्तेन कृताश्चासुकृता वयम्॥ ॥ ४५॥
॥ अनुग्रहः कृतः तेन कृताः च अ सु कृताः वयम्॥ ॥ ४५॥
.. anugrahaḥ kṛtaḥ tena kṛtāḥ ca a su kṛtāḥ vayam.. .. 45..
दक्षोयं मम भक्तस्त्वां यन्निनिंद खलः पुरा ॥ तत् क्षंतव्यं महेशाद्य निर्विकारो यतो भवान् ॥ ४६॥
दक्षः अयम् मम भक्तः त्वाम् यत् निनिंद खलः पुरा ॥ तत् क्षंतव्यम् महेश-अद्य निर्विकारः यतस् भवान् ॥ ४६॥
dakṣaḥ ayam mama bhaktaḥ tvām yat niniṃda khalaḥ purā .. tat kṣaṃtavyam maheśa-adya nirvikāraḥ yatas bhavān .. 46..
कृतो मयापराधोपि तव शंकर मूढतः ॥ त्वद्गणेन कृतं युद्धं वीरभद्रेण पक्षतः ॥ ४७॥
कृतः मया अपराधः अपि तव शंकर मूढतः ॥ त्वद्-गणेन कृतम् युद्धम् वीरभद्रेण पक्षतः ॥ ४७॥
kṛtaḥ mayā aparādhaḥ api tava śaṃkara mūḍhataḥ .. tvad-gaṇena kṛtam yuddham vīrabhadreṇa pakṣataḥ .. 47..
त्वं मे स्वामी परब्रह्म दासोहं ते सदाशिव ॥ पोष्यश्चापि सदा ते हि सर्वेषां त्वं पिता यतः ॥ ४८॥
त्वम् मे स्वामी पर-ब्रह्म दासः हम् ते सदाशिव ॥ पोष्यः च अपि सदा ते हि सर्वेषाम् त्वम् पिता यतस् ॥ ४८॥
tvam me svāmī para-brahma dāsaḥ ham te sadāśiva .. poṣyaḥ ca api sadā te hi sarveṣām tvam pitā yatas .. 48..
ब्रह्मोवाच ।।
देवदेव महादेव करुणासागर प्रभो ॥ स्वतंत्रः परमात्मा त्वं परमेशो द्वयोव्ययः॥ ॥ ४९॥
देवदेव महादेव करुणा-सागर प्रभो ॥ स्वतंत्रः परमात्मा त्वम् परमेशः॥ ॥ ४९॥
devadeva mahādeva karuṇā-sāgara prabho .. svataṃtraḥ paramātmā tvam parameśaḥ.. .. 49..
मम पुत्रोपरि कृतो देवानुग्रह ईश्वर॥ स्वापमानमगणयन् दक्षयज्ञं समुद्धर ॥ 2.2.42.५०॥
मम पुत्र-उपरि कृतः देव-अनुग्रहः ईश्वर॥ स्वाप-मानम् अगणयन् दक्ष-यज्ञम् समुद्धर ॥ २।२।४२।५०॥
mama putra-upari kṛtaḥ deva-anugrahaḥ īśvara.. svāpa-mānam agaṇayan dakṣa-yajñam samuddhara .. 2.2.42.50..
प्रसन्नो भव देवेश सर्वशापान्निराकुरु ॥ सबोधः प्रेरकस्त्वं मे त्वमेवं विनिवारकः॥ ५१॥
प्रसन्नः भव देवेश सर्व-शापान् निराकुरु ॥ स बोधः प्रेरकः त्वम् मे त्वम् एवम् विनिवारकः॥ ५१॥
prasannaḥ bhava deveśa sarva-śāpān nirākuru .. sa bodhaḥ prerakaḥ tvam me tvam evam vinivārakaḥ.. 51..
इति स्तुत्वा महेशानं परमं च महामुने ॥ कृतांजलिपुटो भूत्वा विनम्रीकृतमस्तकः॥ ॥ ५२॥
इति स्तुत्वा महेशानम् परमम् च महा-मुने ॥ कृत-अंजलि-पुटः भूत्वा विनम्रीकृत-मस्तकः॥ ॥ ५२॥
iti stutvā maheśānam paramam ca mahā-mune .. kṛta-aṃjali-puṭaḥ bhūtvā vinamrīkṛta-mastakaḥ.. .. 52..
अथ शक्रादयो देवा लोकपालास्सुचेतसः ॥ तुष्टुवुः शंकरं देवं प्रसन्नमुखपंकजम् ॥ ५३॥
अथ शक्र-आदयः देवाः लोकपालाः सु चेतसः ॥ तुष्टुवुः शंकरम् देवम् प्रसन्न-मुख-पंकजम् ॥ ५३॥
atha śakra-ādayaḥ devāḥ lokapālāḥ su cetasaḥ .. tuṣṭuvuḥ śaṃkaram devam prasanna-mukha-paṃkajam .. 53..
ततः प्रसन्नमनसः सर्वे देवास्तथा परे ॥ सिद्धर्षयः प्रजेशाश्च तुष्टुवुः शंकरं मुदा ॥ ५४॥
ततस् प्रसन्न-मनसः सर्वे देवाः तथा परे ॥ सिद्ध-ऋषयः प्रजा-ईशाः च तुष्टुवुः शंकरम् मुदा ॥ ५४॥
tatas prasanna-manasaḥ sarve devāḥ tathā pare .. siddha-ṛṣayaḥ prajā-īśāḥ ca tuṣṭuvuḥ śaṃkaram mudā .. 54..
तथोपदेवनागाश्च सदस्या ब्राह्मणास्तथा ॥ प्रणम्य परया भक्त्या तुष्टुवुश्च पृथक् पृथक्॥ ५५॥
तथा उपदेवनागाः च सदस्याः ब्राह्मणाः तथा ॥ प्रणम्य परया भक्त्या तुष्टुवुः च पृथक् पृथक्॥ ५५॥
tathā upadevanāgāḥ ca sadasyāḥ brāhmaṇāḥ tathā .. praṇamya parayā bhaktyā tuṣṭuvuḥ ca pṛthak pṛthak.. 55..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे दक्षदुःखनिराकरणवर्णनं नाम द्विचत्वारिंशो ऽध्यायः ॥ ४२॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सती-खण्डे दक्षदुःखनिराकरणवर्णनम् नाम द्विचत्वारिंशः अध्यायः ॥ ४२॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satī-khaṇḍe dakṣaduḥkhanirākaraṇavarṇanam nāma dvicatvāriṃśaḥ adhyāyaḥ .. 42..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In