| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
इति स्तुतो रमेशेन मया चैव सुरर्षिभिः ॥ तथान्यैश्च महादेवः प्रसन्नस्संबभूव ह ॥ १॥
इति स्तुतः रमेशेन मया च एव सुर-ऋषिभिः ॥ तथा अन्यैः च महादेवः प्रसन्नः संबभूव ह ॥ १॥
iti stutaḥ rameśena mayā ca eva sura-ṛṣibhiḥ .. tathā anyaiḥ ca mahādevaḥ prasannaḥ saṃbabhūva ha .. 1..
अथ शंभुः कृपा दृष्ट्या सर्वान् ऋषिसुरादिकान् ॥ ब्रह्मविष्णू समाधाय दक्षमेतदुवाच ह ॥ २॥
अथ शंभुः कृपा दृष्ट्या सर्वान् ऋषि-सुर-आदिकान् ॥ ब्रह्म-विष्णू समाधाय दक्षम् एतत् उवाच ह ॥ २॥
atha śaṃbhuḥ kṛpā dṛṣṭyā sarvān ṛṣi-sura-ādikān .. brahma-viṣṇū samādhāya dakṣam etat uvāca ha .. 2..
महादेव उवाच ।।
शृणु दक्ष प्रवक्ष्यामि प्रसन्नोस्मि प्रजापते ॥ भक्ताधीनः सदाहं वै स्वतंत्रोप्यखिलेश्वरः ॥ ३॥
शृणु दक्ष प्रवक्ष्यामि प्रसन्नः अस्मि प्रजापते ॥ भक्त-अधीनः सदा अहम् वै स्वतंत्रः उपि अखिल-ईश्वरः ॥ ३॥
śṛṇu dakṣa pravakṣyāmi prasannaḥ asmi prajāpate .. bhakta-adhīnaḥ sadā aham vai svataṃtraḥ upi akhila-īśvaraḥ .. 3..
चतुर्विधा भजंते मां जनाः सुकृतिनस्सदा॥ उत्तरोत्तरतः श्रेष्ठास्तेषां दक्षप्रजापते ॥ ४॥
चतुर्विधाः भजंते माम् जनाः सुकृतिनः सदा॥ उत्तरोत्तरतः श्रेष्ठाः तेषाम् दक्ष-प्रजापते ॥ ४॥
caturvidhāḥ bhajaṃte mām janāḥ sukṛtinaḥ sadā.. uttarottarataḥ śreṣṭhāḥ teṣām dakṣa-prajāpate .. 4..
आर्तो जिज्ञासुरर्थार्थी ज्ञानी चैव चतुर्थकः ॥ पूर्वे त्रयश्च सामान्याश्चतुर्थो हि विशिष्यते ॥ ५ ॥
आर्तः जिज्ञासुः अर्थ-अर्थी ज्ञानी च एव चतुर्थकः ॥ पूर्वे त्रयः च सामान्याः चतुर्थः हि विशिष्यते ॥ ५ ॥
ārtaḥ jijñāsuḥ artha-arthī jñānī ca eva caturthakaḥ .. pūrve trayaḥ ca sāmānyāḥ caturthaḥ hi viśiṣyate .. 5 ..
तत्र ज्ञानी प्रियतर ममरूपञ्च स स्मृतः ॥ तस्मात्प्रियतरो नान्यः सत्यं सत्यं वदाम्यहम्॥ ६॥
तत्र ज्ञानी स स्मृतः ॥ तस्मात् प्रियतरः न अन्यः सत्यम् सत्यम् वदामि अहम्॥ ६॥
tatra jñānī sa smṛtaḥ .. tasmāt priyataraḥ na anyaḥ satyam satyam vadāmi aham.. 6..
ज्ञानगम्योहमात्मज्ञो वेदांतश्रुतिपारगैः ॥ विना ज्ञानेन मां प्राप्तुं यतन्ते चाल्पबुद्धयः ॥ ७॥
ज्ञान-गम्यः अहम् आत्म-ज्ञः वेदांत-श्रुति-पारगैः ॥ विना ज्ञानेन माम् प्राप्तुम् यतन्ते च अल्पबुद्धयः ॥ ७॥
jñāna-gamyaḥ aham ātma-jñaḥ vedāṃta-śruti-pāragaiḥ .. vinā jñānena mām prāptum yatante ca alpabuddhayaḥ .. 7..
न वेदैश्च न यज्ञैश्च न दानैस्तपसा क्वचित् ॥ न शक्नुवंति मां प्राप्तुं मूढाः कर्मवशा नरा ॥ ८॥
न वेदैः च न यज्ञैः च न दानैः तपसा क्वचिद् ॥ न शक्नुवंति माम् प्राप्तुम् मूढाः कर्म-वशाः नरा ॥ ८॥
na vedaiḥ ca na yajñaiḥ ca na dānaiḥ tapasā kvacid .. na śaknuvaṃti mām prāptum mūḍhāḥ karma-vaśāḥ narā .. 8..
केवलं कर्म्मणा त्वं स्म संसारं तर्तुमिच्छसि ॥ अत एवाभवं रुष्टो यज्ञविध्वंसकारकः ॥ ९॥
केवलम् कर्म्मणा त्वम् स्म संसारम् तर्तुम् इच्छसि ॥ अतस् एव अभवम् रुष्टः यज्ञ-विध्वंस-कारकः ॥ ९॥
kevalam karmmaṇā tvam sma saṃsāram tartum icchasi .. atas eva abhavam ruṣṭaḥ yajña-vidhvaṃsa-kārakaḥ .. 9..
इतः प्रभृति भो दक्ष मत्वा मां परमेश्वरम् ॥ बुद्ध्या ज्ञानपरो भूत्वा कुरु कर्म समाहितः ॥ 2.2.43.१०॥
इतस् प्रभृति भो दक्ष मत्वा माम् परमेश्वरम् ॥ बुद्ध्या ज्ञान-परः भूत्वा कुरु कर्म समाहितः ॥ २।२।४३।१०॥
itas prabhṛti bho dakṣa matvā mām parameśvaram .. buddhyā jñāna-paraḥ bhūtvā kuru karma samāhitaḥ .. 2.2.43.10..
अन्यच्च शृणु सद्बुद्ध्या वचनं मे प्रजापते ॥ वच्मि गुह्यं धर्महेतोः सगुणत्वेप्यहं तव ॥ ११॥
अन्यत् च शृणु सत्-बुद्ध्या वचनम् मे प्रजापते ॥ वच्मि गुह्यम् धर्म-हेतोः स गुण-त्वे अपि अहम् तव ॥ ११॥
anyat ca śṛṇu sat-buddhyā vacanam me prajāpate .. vacmi guhyam dharma-hetoḥ sa guṇa-tve api aham tava .. 11..
अहं ब्रह्मा च विष्णुश्च जगतः कारणं परम् ॥ आत्मेश्वर उपद्रष्टा स्वयंदृगविशेषणः ॥ १२॥
अहम् ब्रह्मा च विष्णुः च जगतः कारणम् परम् ॥ ॥ १२॥
aham brahmā ca viṣṇuḥ ca jagataḥ kāraṇam param .. .. 12..
आत्ममायां समाविश्य सोहं गुणमयीं मुने ॥ सृजन्रक्षन्हरन्विश्वं दधे संज्ञाः क्रियोचिताः ॥ १३॥
आत्म-मायाम् समाविश्य सः अहम् गुण-मयीम् मुने ॥ सृजन् रक्षन् हरन् विश्वम् दधे संज्ञाः क्रिया-उचिताः ॥ १३॥
ātma-māyām samāviśya saḥ aham guṇa-mayīm mune .. sṛjan rakṣan haran viśvam dadhe saṃjñāḥ kriyā-ucitāḥ .. 13..
अद्वितीये परे तस्मिन् ब्रह्मण्यात्मनि केवले ॥ अज्ञः पश्यति भेदेन भूतानि ब्रह्मचेश्वरम् ॥ १४॥
अद्वितीये परे तस्मिन् ब्रह्मणि आत्मनि केवले ॥ अज्ञः पश्यति भेदेन भूतानि ॥ १४॥
advitīye pare tasmin brahmaṇi ātmani kevale .. ajñaḥ paśyati bhedena bhūtāni .. 14..
शिरः करादिस्वांगेषु कुरुते न यथा पुमान् ॥ पारक्यशेमुषीं क्वापि भूतेष्वेवं हि मत्परः ॥ १५॥
शिरः कर-आदि-स्व-अंगेषु कुरुते न यथा पुमान् ॥ पारक्य-शेमुषीम् क्वापि भूतेषु एवम् हि मद्-परः ॥ १५॥
śiraḥ kara-ādi-sva-aṃgeṣu kurute na yathā pumān .. pārakya-śemuṣīm kvāpi bhūteṣu evam hi mad-paraḥ .. 15..
सर्वभूतात्मनामेकभावनां यो न पश्यति ॥ त्रिसुराणां भिदां दक्ष स शांतिमधिगच्छति ॥ १६॥
सर्व-भूत-आत्मनाम् एक-भावनाम् यः न पश्यति ॥ त्रि-सुराणाम् भिदाम् दक्ष स शांतिम् अधिगच्छति ॥ १६॥
sarva-bhūta-ātmanām eka-bhāvanām yaḥ na paśyati .. tri-surāṇām bhidām dakṣa sa śāṃtim adhigacchati .. 16..
यः करोति त्रिदेवेषु भेदबुद्धिं नराधमः ॥ नरके स वसेन्नूनं यावदाचन्द्रतारकम् ॥ १७॥
यः करोति त्रि-देवेषु भेद-बुद्धिम् नर-अधमः ॥ नरके स वसेत् नूनम् यावत् आचन्द्रतारकम् ॥ १७॥
yaḥ karoti tri-deveṣu bheda-buddhim nara-adhamaḥ .. narake sa vaset nūnam yāvat ācandratārakam .. 17..
मत्परः पूजयेद्देवान् सर्वानपि विचक्षणः ॥ स ज्ञानं लभते येन मुक्तिर्भवति शाश्वती ॥ १८॥
मद्-परः पूजयेत् देवान् सर्वान् अपि विचक्षणः ॥ स ज्ञानम् लभते येन मुक्तिः भवति शाश्वती ॥ १८॥
mad-paraḥ pūjayet devān sarvān api vicakṣaṇaḥ .. sa jñānam labhate yena muktiḥ bhavati śāśvatī .. 18..
विधिभक्तिं विना नैव भक्तिर्भवति वैष्णवी ॥ विष्णुभक्तिं विना मे न भक्तिः क्वापि प्रजायते ॥ १९॥
विधि-भक्तिम् विना ना एव भक्तिः भवति वैष्णवी ॥ विष्णु-भक्तिम् विना मे न भक्तिः क्वापि प्रजायते ॥ १९॥
vidhi-bhaktim vinā nā eva bhaktiḥ bhavati vaiṣṇavī .. viṣṇu-bhaktim vinā me na bhaktiḥ kvāpi prajāyate .. 19..
इत्युक्त्वा शंकरस्स्वामी सर्वेषां परमेश्वरः ॥ सर्वेषां शृण्वतां तत्रोवाच वाणीं कृपाकरः ॥ 2.2.43.२०॥
इति उक्त्वा शंकरः स्वामी सर्वेषाम् परम-ईश्वरः ॥ सर्वेषाम् शृण्वताम् तत्र उवाच वाणीम् कृपा-करः ॥ २।२।४३।२०॥
iti uktvā śaṃkaraḥ svāmī sarveṣām parama-īśvaraḥ .. sarveṣām śṛṇvatām tatra uvāca vāṇīm kṛpā-karaḥ .. 2.2.43.20..
हरिभक्तो हि मां निन्देत्तथा शैवोभवे द्यदि ॥ तयोः शापा भवेयुस्ते तत्त्वप्राप्तिर्भवेन्न हि ॥ २१ ॥
हरि-भक्तः हि माम् निन्देत् तथा ॥ तयोः शापाः भवेयुः ते तत्त्व-प्राप्तिः भवेत् न हि ॥ २१ ॥
hari-bhaktaḥ hi mām nindet tathā .. tayoḥ śāpāḥ bhaveyuḥ te tattva-prāptiḥ bhavet na hi .. 21 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य महेशस्य वचनं सुखकारकम् ॥ जहृषुस्सकलास्तत्र सुरमुन्यादयो मुने ॥ २२॥
इति आकर्ण्य महेशस्य वचनम् सुख-कारकम् ॥ जहृषुः सकलाः तत्र सुर-मुनि-आदयः मुने ॥ २२॥
iti ākarṇya maheśasya vacanam sukha-kārakam .. jahṛṣuḥ sakalāḥ tatra sura-muni-ādayaḥ mune .. 22..
दक्षोभवन्महाप्रीत्या शिवभक्तिरतस्तदा ॥ सकुटुम्बस्सुराद्यास्ते शिवं मत्वाखिलेश्वरम् ॥ २३॥
दक्षः भवत् महा-प्रीत्या शिव-भक्ति-रतः तदा ॥ स कुटुम्बः स्सुर-आद्याः ते शिवम् मत्वा अखिल-ईश्वरम् ॥ २३॥
dakṣaḥ bhavat mahā-prītyā śiva-bhakti-rataḥ tadā .. sa kuṭumbaḥ ssura-ādyāḥ te śivam matvā akhila-īśvaram .. 23..
यथा येन कृता शंभोः संस्तुतिः परमात्मनः ॥ तथा तस्मै वरो दत्तश्शंभुना तुष्टचेतसा ॥ २४ ॥
यथा येन कृता शंभोः संस्तुतिः परमात्मनः ॥ तथा तस्मै वरः दत्तः शंभुना तुष्ट-चेतसा ॥ २४ ॥
yathā yena kṛtā śaṃbhoḥ saṃstutiḥ paramātmanaḥ .. tathā tasmai varaḥ dattaḥ śaṃbhunā tuṣṭa-cetasā .. 24 ..
ज्ञप्तः शिवेनाशु दक्षः शिवभक्तः प्रसन्नधीः ॥ यज्ञं चकार संपूर्णं शिवानुग्रहतो मुने ॥ २५॥
ज्ञप्तः शिवेन आशु दक्षः शिव-भक्तः प्रसन्न-धीः ॥ यज्ञम् चकार संपूर्णम् शिव-अनुग्रहतः मुने ॥ २५॥
jñaptaḥ śivena āśu dakṣaḥ śiva-bhaktaḥ prasanna-dhīḥ .. yajñam cakāra saṃpūrṇam śiva-anugrahataḥ mune .. 25..
ददौ भागान्सुरेभ्यो हि पूर्णभागं शिवाय सः ॥ दानं ददौ द्विजेभ्यश्च प्राप्तः शंभोरनुग्रहः ॥ २६॥
ददौ भागान् सुरेभ्यः हि पूर्ण-भागम् शिवाय सः ॥ दानम् ददौ द्विजेभ्यः च प्राप्तः शंभोः अनुग्रहः ॥ २६॥
dadau bhāgān surebhyaḥ hi pūrṇa-bhāgam śivāya saḥ .. dānam dadau dvijebhyaḥ ca prāptaḥ śaṃbhoḥ anugrahaḥ .. 26..
अथो देवस्य सुमहत्तत्कर्म विधिपूर्वकम् ॥ दक्षः समाप्य विधिवत्सहर्त्विग्भिः प्रजापतिः ॥ २७॥
अथो देवस्य सु महत् तत् कर्म विधि-पूर्वकम् ॥ दक्षः समाप्य विधिवत् सह ऋत्विग्भिः प्रजापतिः ॥ २७॥
atho devasya su mahat tat karma vidhi-pūrvakam .. dakṣaḥ samāpya vidhivat saha ṛtvigbhiḥ prajāpatiḥ .. 27..
एवं दक्षमखः पूर्णोभवत्तत्र मुनीश्वरः ॥ शंकरस्य प्रसादेन परब्रह्मस्वरूपिणः ॥ २८॥
एवम् दक्ष-मखः पूर्णः भवत् तत्र मुनि-ईश्वरः ॥ शंकरस्य प्रसादेन पर-ब्रह्म-स्वरूपिणः ॥ २८॥
evam dakṣa-makhaḥ pūrṇaḥ bhavat tatra muni-īśvaraḥ .. śaṃkarasya prasādena para-brahma-svarūpiṇaḥ .. 28..
अथ देवर्षयस्सर्वे शंसंतश्शांकरं यशः ॥ स्वधामानि ययुस्तु ष्टाः परेपि सुखतस्तदा ॥ २९॥
अथ देवर्षयः सर्वे शंसंतः शांकरम् यशः ॥ स्व-धामानि ययुः तु सुखतः तदा ॥ २९॥
atha devarṣayaḥ sarve śaṃsaṃtaḥ śāṃkaram yaśaḥ .. sva-dhāmāni yayuḥ tu sukhataḥ tadā .. 29..
अहं विष्णुश्च सुप्रीतावपि स्वंस्वं परं मुदा ॥ गायन्तौ सुयशश्शंभोः सर्वमंगलदं सदा ॥ 2.2.43.३०॥
अहम् विष्णुः च सु प्रीतौ अपि स्वम् स्वम् परम् मुदा ॥ गायन्तौ सु यशः शंभोः सर्व-मंगल-दम् सदा ॥ २।२।४३।३०॥
aham viṣṇuḥ ca su prītau api svam svam param mudā .. gāyantau su yaśaḥ śaṃbhoḥ sarva-maṃgala-dam sadā .. 2.2.43.30..
दक्ष संमानितः प्रीत्या महादेवोपि सद्गतिः ॥ कैलासं स ययौ शैलं सुप्रीतस्सगणो निजम्॥ ३१॥
दक्ष संमानितः प्रीत्या महादेवः अपि सत्-गतिः ॥ कैलासम् स ययौ शैलम् सु प्रीतः स गणः निजम्॥ ३१॥
dakṣa saṃmānitaḥ prītyā mahādevaḥ api sat-gatiḥ .. kailāsam sa yayau śailam su prītaḥ sa gaṇaḥ nijam.. 31..
आगत्य स्वगिरिं शंभुस्सस्मार स्वप्रियां सतीम् ॥ गणेभ्यः कथयामास प्रधानेभ्यश्च तत्कथाम् ॥ ३२॥
आगत्य स्व-गिरिम् शंभुः सस्मार स्व-प्रियाम् सतीम् ॥ गणेभ्यः कथयामास प्रधानेभ्यः च तत् कथाम् ॥ ३२॥
āgatya sva-girim śaṃbhuḥ sasmāra sva-priyām satīm .. gaṇebhyaḥ kathayāmāsa pradhānebhyaḥ ca tat kathām .. 32..
कालं निनाय विज्ञानी बहु तच्चरितं वदन्॥ लौकिकीं गतिमाश्रित्य दर्शयन् कामितां प्रभुः ॥ ३३॥
कालम् निनाय विज्ञानी बहु तद्-चरितम् वदन्॥ लौकिकीम् गतिम् आश्रित्य दर्शयन् कामिताम् प्रभुः ॥ ३३॥
kālam nināya vijñānī bahu tad-caritam vadan.. laukikīm gatim āśritya darśayan kāmitām prabhuḥ .. 33..
नानीतिकारकः स्वामी परब्रह्म सतां गतिः॥ तस्य मोहः क्व वा शोकः क्व विकारः परो मुने ॥ ३४॥
स्वामी पर-ब्रह्म सताम् गतिः॥ तस्य मोहः क्व वा शोकः क्व विकारः परः मुने ॥ ३४॥
svāmī para-brahma satām gatiḥ.. tasya mohaḥ kva vā śokaḥ kva vikāraḥ paraḥ mune .. 34..
अहं विष्णुश्च जानीवस्तद्भेदं न कदाचन ॥ केपरे मुनयो देवा मनुषाद्याश्च योगिनः ॥ ३५॥
अहम् विष्णुः च जानीवः तद्-भेदम् न कदाचन ॥ के परे मुनयः देवाः मनुष-आद्याः च योगिनः ॥ ३५॥
aham viṣṇuḥ ca jānīvaḥ tad-bhedam na kadācana .. ke pare munayaḥ devāḥ manuṣa-ādyāḥ ca yoginaḥ .. 35..
महिमा शांकरोनंतो दुर्विज्ञेयो मनीषिभिः ॥ भक्तज्ञातश्च सद्भक्त्या तत्प्रसादाद्विना श्रमम् ॥ ३६॥
महिमा शांकरः अनंतः दुर्विज्ञेयः मनीषिभिः ॥ भक्त-ज्ञातः च सत्-भक्त्या तद्-प्रसादात् विना श्रमम् ॥ ३६॥
mahimā śāṃkaraḥ anaṃtaḥ durvijñeyaḥ manīṣibhiḥ .. bhakta-jñātaḥ ca sat-bhaktyā tad-prasādāt vinā śramam .. 36..
एकोपि न विकारो हि शिवस्य परमात्मनः ॥ संदर्शयति लोकेभ्यः कृत्वा तां तादृशीं गतिम्॥ ३७॥
एकः अपि न विकारः हि शिवस्य परमात्मनः ॥ संदर्शयति लोकेभ्यः कृत्वा ताम् तादृशीम् गतिम्॥ ३७॥
ekaḥ api na vikāraḥ hi śivasya paramātmanaḥ .. saṃdarśayati lokebhyaḥ kṛtvā tām tādṛśīm gatim.. 37..
यत्पठित्वा च संश्रुत्य सर्वलोकसुधीर्मुने॥ लभते सद्गतिं दिब्यामिहापि सुखमुत्तमम्॥ ३८॥
यत् पठित्वा च संश्रुत्य सर्व-लोक-सुधीः मुने॥ लभते सत्-गतिम् दिब्याम् इह अपि सुखम् उत्तमम्॥ ३८॥
yat paṭhitvā ca saṃśrutya sarva-loka-sudhīḥ mune.. labhate sat-gatim dibyām iha api sukham uttamam.. 38..
इत्थं दाक्षायणी हित्वा निजदेहं सती पुनः ॥ जज्ञे हिमवतः पत्न्यां मेनायामिति विश्रुतम् ॥ ३९॥
इत्थम् दाक्षायणी हित्वा निज-देहम् सती पुनर् ॥ जज्ञे हिमवतः पत्न्याम् मेनायाम् इति विश्रुतम् ॥ ३९॥
ittham dākṣāyaṇī hitvā nija-deham satī punar .. jajñe himavataḥ patnyām menāyām iti viśrutam .. 39..
पुनः कृत्वा तपस्तत्र शिवं वव्रे पतिं च सा ॥ गौरी भूत्वार्द्धवामांगी लीलाश्चक्रेद्भुताश्शिवा ॥ 2.2.43.४०॥
पुनर् कृत्वा तपः तत्र शिवम् वव्रे पतिम् च सा ॥ गौरी भूत्वा अर्द्ध-वाम-अंगी लीलाः चक्रे इद्भुताः शिवा ॥ २।२।४३।४०॥
punar kṛtvā tapaḥ tatra śivam vavre patim ca sā .. gaurī bhūtvā arddha-vāma-aṃgī līlāḥ cakre idbhutāḥ śivā .. 2.2.43.40..
इत्थं सतीचरित्रं ते वर्णितं परमाद्भुतम् ॥ भुक्तिमुक्तिप्रदं दिव्यं सर्वकामप्रदायकम् ॥ ४१ ॥
इत्थम् सती-चरित्रम् ते वर्णितम् परम-अद्भुतम् ॥ भुक्ति-मुक्ति-प्रदम् दिव्यम् सर्व-काम-प्रदायकम् ॥ ४१ ॥
ittham satī-caritram te varṇitam parama-adbhutam .. bhukti-mukti-pradam divyam sarva-kāma-pradāyakam .. 41 ..
इदमाख्यानमनघं पवित्रं परपावनम् ॥ स्वर्ग्यं यशस्यमायुष्यं पुत्रपौत्रफलप्रदम् ॥ ४२ ॥
इदम् आख्यानम् अनघम् पवित्रम् पर-पावनम् ॥ स्वर्ग्यम् यशस्यम् आयुष्यम् पुत्र-पौत्र-फल-प्रदम् ॥ ४२ ॥
idam ākhyānam anagham pavitram para-pāvanam .. svargyam yaśasyam āyuṣyam putra-pautra-phala-pradam .. 42 ..
य इदं शृणुयाद्भक्त्या श्रावयेद्भक्तिमान्नरान् ॥ सर्वकर्मा लभेत्तात परत्र परमां गतिम् ॥ ४३ ॥
यः इदम् शृणुयात् भक्त्या श्रावयेत् भक्तिमान् नरान् ॥ सर्व-कर्मा लभेत् तात परत्र परमाम् गतिम् ॥ ४३ ॥
yaḥ idam śṛṇuyāt bhaktyā śrāvayet bhaktimān narān .. sarva-karmā labhet tāta paratra paramām gatim .. 43 ..
यः पठेत्पाठयेद्वापि समाख्यानमिदं शुभम् ॥ सोपि भुक्त्वाखिलान् भोगानंते मोक्षमवाप्नुयात् ॥ ४४ ॥
यः पठेत् पाठयेत् वा अपि समाख्यानम् इदम् शुभम् ॥ सः उपि भुक्त्वा अखिलान् भोगान् अन्ते मोक्षम् अवाप्नुयात् ॥ ४४ ॥
yaḥ paṭhet pāṭhayet vā api samākhyānam idam śubham .. saḥ upi bhuktvā akhilān bhogān ante mokṣam avāpnuyāt .. 44 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे दक्षय ज्ञानुसंधानवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥ ॥ श्रीः ॥ समाप्तोयं रुद्रसंहितान्तर्गतसतीखण्डो द्वितीयः ॥ २ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सतीखण्डे दक्षय-ज्ञानुसंधानवर्णनम् नाम त्रिचत्वारिंशः अध्यायः ॥ ४३ ॥ ॥ श्रीः ॥ समाप्ता इयम् रुद्रसंहिता-अन्तर्गत-सतीखण्डः द्वितीयः ॥ २ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satīkhaṇḍe dakṣaya-jñānusaṃdhānavarṇanam nāma tricatvāriṃśaḥ adhyāyaḥ .. 43 .. .. śrīḥ .. samāptā iyam rudrasaṃhitā-antargata-satīkhaṇḍaḥ dvitīyaḥ .. 2 ..
समाप्तोयं रुद्रसंहितान्तर्गतसतीखण्डो द्वितीयः ॥ २ ॥
समाप्ता इयम् रुद्रसंहिता-अन्तर्गत-सतीखण्डः द्वितीयः ॥ २ ॥
samāptā iyam rudrasaṃhitā-antargata-satīkhaṇḍaḥ dvitīyaḥ .. 2 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In