| |
|

This overlay will guide you through the buttons:

सूत उवाच।।
इत्याकर्ण्य वचस्तस्य ब्रह्मणो मुनिसत्तमः ॥ स मुदोवाच संस्मृत्य शंकरं प्रीतमानसः ॥ १ ॥
इति आकर्ण्य वचः तस्य ब्रह्मणः मुनि-सत्तमः ॥ स मुदा उवाच संस्मृत्य शंकरम् प्रीत-मानसः ॥ १ ॥
iti ākarṇya vacaḥ tasya brahmaṇaḥ muni-sattamaḥ .. sa mudā uvāca saṃsmṛtya śaṃkaram prīta-mānasaḥ .. 1 ..
नारद उवाच ।। ।।
ब्रह्मन् विधे महाभाग विष्णुशिष्य महामते ॥ अद्भुता कथिता लीला त्वया च शशिमौलिनः ॥ २ ॥
ब्रह्मन् विधे महाभाग विष्णु-शिष्य महामते ॥ अद्भुता कथिता लीला त्वया च शशिमौलिनः ॥ २ ॥
brahman vidhe mahābhāga viṣṇu-śiṣya mahāmate .. adbhutā kathitā līlā tvayā ca śaśimaulinaḥ .. 2 ..
गृहीतदारे मदने हृष्टे हि स्वगृहे गते ॥ दक्षे च स्वगृहं याते तथा हि त्वयि कर्तरि ॥ ३ ॥
गृहीत-दारे मदने हृष्टे हि स्व-गृहे गते ॥ दक्षे च स्व-गृहम् याते तथा हि त्वयि कर्तरि ॥ ३ ॥
gṛhīta-dāre madane hṛṣṭe hi sva-gṛhe gate .. dakṣe ca sva-gṛham yāte tathā hi tvayi kartari .. 3 ..
मानसेषु च पुत्रेषु गतेषु स्वस्वधामसु ॥ संध्या कुत्र गता सा च ब्रह्मपुत्री पितृप्रसूः ॥ ४ ॥
मानसेषु च पुत्रेषु गतेषु स्व-स्व-धामसु ॥ संध्या कुत्र गता सा च ब्रह्मपुत्री पितृप्रसूः ॥ ४ ॥
mānaseṣu ca putreṣu gateṣu sva-sva-dhāmasu .. saṃdhyā kutra gatā sā ca brahmaputrī pitṛprasūḥ .. 4 ..
किं चकार च केनैव पुरुषेण विवाहिता ॥ एतत्सर्वं विशेषेण संध्यायाश्चरितं वद ॥ ५ ॥
किम् चकार च केन एव पुरुषेण विवाहिता ॥ एतत् सर्वम् विशेषेण संध्यायाः चरितम् वद ॥ ५ ॥
kim cakāra ca kena eva puruṣeṇa vivāhitā .. etat sarvam viśeṣeṇa saṃdhyāyāḥ caritam vada .. 5 ..
सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य ब्रह्मपुत्रश्च धीमतः ॥ संस्मृत्य शंकरं सक्त्या ब्रह्मा प्रोवाच तत्त्ववित् ॥ ६ ॥
इति आकर्ण्य वचः तस्य ब्रह्म-पुत्रः च धीमतः ॥ संस्मृत्य शंकरम् सक्त्या ब्रह्मा प्रोवाच तत्त्व-विद् ॥ ६ ॥
iti ākarṇya vacaḥ tasya brahma-putraḥ ca dhīmataḥ .. saṃsmṛtya śaṃkaram saktyā brahmā provāca tattva-vid .. 6 ..
ब्रह्मोवाच ।।
शृणु त्वं च मुने सर्वं संध्यायाश्चरितं शुभम् ॥ यच्छ्रुत्वा सर्वकामिन्यस्साध्व्यस्स्युस्सर्वदा मुने ॥ ७ ॥
शृणु त्वम् च मुने सर्वम् संध्यायाः चरितम् शुभम् ॥ यत् श्रुत्वा सर्व-कामिन्यः साध्व्यः स्युः सर्वदा मुने ॥ ७ ॥
śṛṇu tvam ca mune sarvam saṃdhyāyāḥ caritam śubham .. yat śrutvā sarva-kāminyaḥ sādhvyaḥ syuḥ sarvadā mune .. 7 ..
सा च संध्या सुता मे हि मनोजाता पुराऽ भवत् ॥ तपस्तप्त्वा तनुं त्यक्त्वा सैव जाता त्वरुंधती ॥ ८॥
सा च संध्या सुता मे हि मनः-जाता पुरा भवत् ॥ तपः तप्त्वा तनुम् त्यक्त्वा सा एव जाता तु अरुंधती ॥ ८॥
sā ca saṃdhyā sutā me hi manaḥ-jātā purā bhavat .. tapaḥ taptvā tanum tyaktvā sā eva jātā tu aruṃdhatī .. 8..
मेधातिथेस्सुता भूत्वा मुनिश्रेष्ठस्य धीमती ॥ ब्रह्मविष्णुमहेशानवचनाच्चरितव्रता॥ ९॥
मेधातिथेः सुता भूत्वा मुनि-श्रेष्ठस्य धीमती ॥ ब्रह्म-विष्णु-महेशान-वचनात् चरित-व्रता॥ ९॥
medhātitheḥ sutā bhūtvā muni-śreṣṭhasya dhīmatī .. brahma-viṣṇu-maheśāna-vacanāt carita-vratā.. 9..
वव्रे पतिं महात्मानं वसिष्ठं शंसितव्रतम् ॥ पतिव्रता च मुख्याऽभूद्वंद्या पूज्या त्वभीषणा॥ 2.2.5.१०॥
वव्रे पतिम् महात्मानम् वसिष्ठम् शंसित-व्रतम् ॥ पतिव्रता च मुख्या अभूत् वंद्या पूज्या तु अभीषणा॥ २।२।५।१०॥
vavre patim mahātmānam vasiṣṭham śaṃsita-vratam .. pativratā ca mukhyā abhūt vaṃdyā pūjyā tu abhīṣaṇā.. 2.2.5.10..
नारद उवाच।।
कथं तया तपस्तप्तं किमर्थं कुत्र संध्यया॥ कथं शरीरं सा त्यक्त्वाऽभवन्मेधातिथेः सुता॥ ॥ ।
कथम् तया तपः तप्तम् किमर्थम् कुत्र संध्यया॥ कथम् शरीरम् सा त्यक्त्वा अभवत् मेधातिथेः सुता॥ ॥ ।
katham tayā tapaḥ taptam kimartham kutra saṃdhyayā.. katham śarīram sā tyaktvā abhavat medhātitheḥ sutā.. .. .
कथं वा विहितं देवैर्ब्रह्मविष्णुशिवैः पतिम्।वसिष्ठं तु महात्मानं संवव्रे शंसितव्रतम्॥ १२॥
कथम् वा विहितम् देवैः ब्रह्म-विष्णु-शिवैः पतिम्।वसिष्ठम् तु महात्मानम् संवव्रे शंसित-व्रतम्॥ १२॥
katham vā vihitam devaiḥ brahma-viṣṇu-śivaiḥ patim.vasiṣṭham tu mahātmānam saṃvavre śaṃsita-vratam.. 12..
एतन्मे श्रोष्यमाणाय विस्तरेण पितामह॥ कौतूहलमरुंधत्याश्चरितं ब्रूहि तत्त्वतः ॥ १३॥ ।
एतत् मे श्रोष्यमाणाय विस्तरेण पितामह॥ कौतूहलम् अरुंधत्याः चरितम् ब्रूहि तत्त्वतः ॥ १३॥ ।
etat me śroṣyamāṇāya vistareṇa pitāmaha.. kautūhalam aruṃdhatyāḥ caritam brūhi tattvataḥ .. 13.. .
ब्रह्मोवाच ।।
अहं स्वतनयां संध्यां दृष्ट्वा पूर्वमथात्मनः॥ कामायाशु मनोऽकार्षं त्यक्त्वा शिवभयाच्च सा ॥ १४॥
अहम् स्व-तनयाम् संध्याम् दृष्ट्वा पूर्वम् अथ आत्मनः॥ कामाय आशु मनः अकार्षम् त्यक्त्वा शिव-भयात् च सा ॥ १४॥
aham sva-tanayām saṃdhyām dṛṣṭvā pūrvam atha ātmanaḥ.. kāmāya āśu manaḥ akārṣam tyaktvā śiva-bhayāt ca sā .. 14..
संध्यायाश्चलितं चित्तं कामबाणविलोडितम् ॥ ऋषीणामपि संरुद्धमानसानां महात्मनाम्॥ १५॥
संध्यायाः चलितम् चित्तम् काम-बाण-विलोडितम् ॥ ऋषीणाम् अपि संरुद्ध-मानसानाम् महात्मनाम्॥ १५॥
saṃdhyāyāḥ calitam cittam kāma-bāṇa-viloḍitam .. ṛṣīṇām api saṃruddha-mānasānām mahātmanām.. 15..
भर्गस्य वचनं श्रुत्वा सोपहासं च मां प्रति ॥ आत्मनश्चलितत्वं वै ह्यमर्यादमृषीन्प्रति ॥ १६॥
भर्गस्य वचनम् श्रुत्वा स उपहासम् च माम् प्रति ॥ आत्मनः चलित-त्वम् वै हि अमर्यादम् ऋषीन् प्रति ॥ १६॥
bhargasya vacanam śrutvā sa upahāsam ca mām prati .. ātmanaḥ calita-tvam vai hi amaryādam ṛṣīn prati .. 16..
कामस्य तादृशं भावं मुनिमोहकरं मुहुः॥ दृष्ट्वा संध्या स्वयं तत्रोपयमायातिदुःखिता॥ १७ ॥ ।
कामस्य तादृशम् भावम् मुनि-मोह-करम् मुहुर्॥ दृष्ट्वा संध्या स्वयम् तत्र उपयमाय अति दुःखिता॥ १७ ॥ ।
kāmasya tādṛśam bhāvam muni-moha-karam muhur.. dṛṣṭvā saṃdhyā svayam tatra upayamāya ati duḥkhitā.. 17 .. .
ततस्तु ब्रह्मणा शप्ते मदने च मया मुने॥ अंतर्भूते मयि शिवे गते चापि निजास्पदे ॥ १८॥
ततस् तु ब्रह्मणा शप्ते मदने च मया मुने॥ अंतर्भूते मयि शिवे गते च अपि निज-आस्पदे ॥ १८॥
tatas tu brahmaṇā śapte madane ca mayā mune.. aṃtarbhūte mayi śive gate ca api nija-āspade .. 18..
आमर्षवशमापन्ना सा संध्या मुनिसत्तम॥ मम पुत्री विचार्यैवं तदा ध्यानपराऽभवत् ॥ १९ ॥
आमर्ष-वशम् आपन्ना सा संध्या मुनि-सत्तम॥ मम पुत्री विचार्य एवम् तदा ध्यान-परा अभवत् ॥ १९ ॥
āmarṣa-vaśam āpannā sā saṃdhyā muni-sattama.. mama putrī vicārya evam tadā dhyāna-parā abhavat .. 19 ..
ध्यायंती क्षणमेवाशु पूर्वं वृत्तं मनस्विनी ॥ इदं विममृशे संध्या तस्मिन्काले यथोचितम् ॥ 2.2.5.२० ॥
ध्यायंती क्षणम् एवा आशु पूर्वम् वृत्तम् मनस्विनी ॥ इदम् विममृशे संध्या तस्मिन् काले यथोचितम् ॥ २।२।५।२० ॥
dhyāyaṃtī kṣaṇam evā āśu pūrvam vṛttam manasvinī .. idam vimamṛśe saṃdhyā tasmin kāle yathocitam .. 2.2.5.20 ..
संध्योवाच ।।
उत्पन्नमात्रां मां दृष्ट्वा युवतीं मदनेरितः ॥ अकार्षित्सानुरागोयमभिलाषं पिता मम ॥ २१॥ ।
उत्पन्न-मात्राम् माम् दृष्ट्वा युवतीम् मदन-ईरितः ॥ अकार्षित् स अनुरागः ऊयम् अभिलाषम् पिता मम ॥ २१॥ ।
utpanna-mātrām mām dṛṣṭvā yuvatīm madana-īritaḥ .. akārṣit sa anurāgaḥ ūyam abhilāṣam pitā mama .. 21.. .
पश्यतां मानसानां च मुनीनां भावितात्मनाम्॥ दृष्ट्वैव माममर्यादं सकाममभवन्मनः॥ २२॥
पश्यताम् मानसानाम् च मुनीनाम् भावितात्मनाम्॥ दृष्ट्वा एव माम् अमर्यादम् स कामम् अभवत् मनः॥ २२॥
paśyatām mānasānām ca munīnām bhāvitātmanām.. dṛṣṭvā eva mām amaryādam sa kāmam abhavat manaḥ.. 22..
ममापि मथितं चित्तं मदनेन दुरात्मना ॥ येन दृष्ट्वा मुनीन्सर्वांश्चलितं मन्मनो भृशम् ॥ २६॥
मम अपि मथितम् चित्तम् मदनेन दुरात्मना ॥ येन दृष्ट्वा मुनीन् सर्वान् चलितम् मद्-मनः भृशम् ॥ २६॥
mama api mathitam cittam madanena durātmanā .. yena dṛṣṭvā munīn sarvān calitam mad-manaḥ bhṛśam .. 26..
फलमेतस्य पापस्य मदनस्स्वयमाप्तवान्॥ यस्तं शशाप कुपितः शंभोरग्रे पितामहः॥ २४॥
फलम् एतस्य पापस्य मदनः स्वयम् आप्तवान्॥ यः तम् शशाप कुपितः शंभोः अग्रे पितामहः॥ २४॥
phalam etasya pāpasya madanaḥ svayam āptavān.. yaḥ tam śaśāpa kupitaḥ śaṃbhoḥ agre pitāmahaḥ.. 24..
प्राप्नुयां फलमेतस्य पापस्य स्वघकारिणी ॥ तच्छोधनफलमहमाशु नेच्छामि साधनम् ॥ २९॥
प्राप्नुयाम् फलम् एतस्य पापस्य स्वघ-कारिणी ॥ तद्-शोधन-फलम् अहम् आशु न इच्छामि साधनम् ॥ २९॥
prāpnuyām phalam etasya pāpasya svagha-kāriṇī .. tad-śodhana-phalam aham āśu na icchāmi sādhanam .. 29..
यन्मां पिता भ्रातरश्च सकाममपरोक्षतः ॥ दृष्ट्वा चक्रुस्स्पृहां तस्मान्न मत्तः पापकृत्परा ॥ २६॥
यत् माम् पिता भ्रातरः च स कामम् अपरोक्षतः ॥ दृष्ट्वा चक्रुः स्पृहाम् तस्मात् न मत्तः पाप-कृत् परा ॥ २६॥
yat mām pitā bhrātaraḥ ca sa kāmam aparokṣataḥ .. dṛṣṭvā cakruḥ spṛhām tasmāt na mattaḥ pāpa-kṛt parā .. 26..
ममापि कामभावोभूदमर्यादं समीक्ष्य तान् ॥ पत्या इव स्वकेताते सर्वेषु सहजेष्वषि॥ २७॥
मम अपि समीक्ष्य तान् ॥ पत्या इव स्व-केताते सर्वेषु सहजेषु अषि॥ २७॥
mama api samīkṣya tān .. patyā iva sva-ketāte sarveṣu sahajeṣu aṣi.. 27..
करिष्यारम्यस्य पापस्य प्रायश्चित्तमहं स्वयम्॥ आत्मानमग्नौ होष्यामि वेदमार्गानुसारत॥ २८॥
करिष्या अरम्यस्य पापस्य प्रायश्चित्तम् अहम् स्वयम्॥ आत्मानम् अग्नौ होष्यामि वेद-मार्ग-अनुसारत॥ २८॥
kariṣyā aramyasya pāpasya prāyaścittam aham svayam.. ātmānam agnau hoṣyāmi veda-mārga-anusārata.. 28..
किं त्वेकां स्थापयिष्यामि मर्यादामिह भूतले ॥ उत्पन्नमात्रा न यथा सकामास्स्युश्शरीरिणः ॥ २९ ॥
किम् तु एकाम् स्थापयिष्यामि मर्यादाम् इह भू-तले ॥ उत्पन्न-मात्राः न यथा स कामाः स्युः शरीरिणः ॥ २९ ॥
kim tu ekām sthāpayiṣyāmi maryādām iha bhū-tale .. utpanna-mātrāḥ na yathā sa kāmāḥ syuḥ śarīriṇaḥ .. 29 ..
एतदर्थमहं कृत्वा तपः परम दारुणम् ॥ मर्यादां स्थापयिष्यामि पश्चात्त्यक्षामि जीवितम्॥ 2.2.5.३०॥
एतद्-अर्थम् अहम् कृत्वा तपः परम दारुणम् ॥ मर्यादाम् स्थापयिष्यामि पश्चात् त्यक्षामि जीवितम्॥ २।२।५।३०॥
etad-artham aham kṛtvā tapaḥ parama dāruṇam .. maryādām sthāpayiṣyāmi paścāt tyakṣāmi jīvitam.. 2.2.5.30..
यस्मिञ्च्छरीरे पित्रा मे ह्यभिलाषस्स्वयं कृतः॥ भातृभिस्तेन कायेन किंचिन्नास्ति प्रयोजनम् ॥ ३१॥
यस्मिन् शरीरे पित्रा मे हि अभिलाषः स्वयम् कृतः॥ भातृभिः तेन कायेन किंचिद् ना अस्ति प्रयोजनम् ॥ ३१॥
yasmin śarīre pitrā me hi abhilāṣaḥ svayam kṛtaḥ.. bhātṛbhiḥ tena kāyena kiṃcid nā asti prayojanam .. 31..
मया येन शरीरेण तातेषु सहजेषु च ॥ उद्भावितः कामभावो न तत्सुकृतसाधनम्॥ ३२॥
मया येन शरीरेण तातेषु सहजेषु च ॥ उद्भावितः काम-भावः न तत् सुकृत-साधनम्॥ ३२॥
mayā yena śarīreṇa tāteṣu sahajeṣu ca .. udbhāvitaḥ kāma-bhāvaḥ na tat sukṛta-sādhanam.. 32..
इति संचित्य मनसा संध्या शैलवरं ततः ॥ जगाम चन्द्रभागाख्यं चन्द्रभागापगा यतः ॥ ३३ ॥
इति संचित्य मनसा संध्या शैल-वरम् ततस् ॥ जगाम चन्द्रभाग-आख्यम् चन्द्रभाग-आपगा यतस् ॥ ३३ ॥
iti saṃcitya manasā saṃdhyā śaila-varam tatas .. jagāma candrabhāga-ākhyam candrabhāga-āpagā yatas .. 33 ..
अथ तत्र गतां ज्ञात्वा संध्यां गिरिवरं प्रति ॥ तपसे नियतात्मानं ब्रह्मावोचमहं सुतम् ॥ ३४ ॥
अथ तत्र गताम् ज्ञात्वा संध्याम् गिरि-वरम् प्रति ॥ तपसे नियत-आत्मानम् ब्रह्म अवोचम् अहम् सुतम् ॥ ३४ ॥
atha tatra gatām jñātvā saṃdhyām giri-varam prati .. tapase niyata-ātmānam brahma avocam aham sutam .. 34 ..
वशिष्ठं संयतात्मानं सर्वज्ञं ज्ञानयोगिनम् ॥ समीपे स्वे समासीनं वेदवेदाङ्गपारगम् ॥ ३५॥
वसिष्ठम् संयत-आत्मानम् सर्वज्ञम् ज्ञान-योगिनम् ॥ समीपे स्वे समासीनम् वेद-वेदाङ्ग-पारगम् ॥ ३५॥
vasiṣṭham saṃyata-ātmānam sarvajñam jñāna-yoginam .. samīpe sve samāsīnam veda-vedāṅga-pāragam .. 35..
ब्रह्मोवाच ।।
वसिष्ठ पुत्र गच्छ त्वं संध्यां जातां मनस्विनीम्॥ तपसे धृतकामां च दीक्षस्वैनां यथा विधि ॥ ३६॥
वसिष्ठ पुत्र गच्छ त्वम् संध्याम् जाताम् मनस्विनीम्॥ तपसे धृत-कामाम् च दीक्षस्व एनाम् यथा विधि ॥ ३६॥
vasiṣṭha putra gaccha tvam saṃdhyām jātām manasvinīm.. tapase dhṛta-kāmām ca dīkṣasva enām yathā vidhi .. 36..
मंदाक्षमभवत्तस्याः पुरा दृष्ट्वैव कामुकान्॥ युष्मान्मां च तथात्मानं सकामां मुनिसत्तम॥ ३७॥
मंदाक्षम् अभवत् तस्याः पुरा दृष्ट्वा एव कामुकान्॥ युष्मान् माम् च तथा आत्मानम् स कामाम् मुनि-सत्तम॥ ३७॥
maṃdākṣam abhavat tasyāḥ purā dṛṣṭvā eva kāmukān.. yuṣmān mām ca tathā ātmānam sa kāmām muni-sattama.. 37..
अभूतपूर्वं तत्कर्म पूर्व मृत्युं विमृश्य सा ॥ युष्माकमात्मनश्चापि प्राणान्संत्यक्तुमिच्छति ॥ ३८॥
अभूत-पूर्वम् तत् कर्म मृत्युम् विमृश्य सा ॥ युष्माकम् आत्मनः च अपि प्राणान् संत्यक्तुम् इच्छति ॥ ३८॥
abhūta-pūrvam tat karma mṛtyum vimṛśya sā .. yuṣmākam ātmanaḥ ca api prāṇān saṃtyaktum icchati .. 38..
समर्यादेषु मर्यादां तपसा स्थापयिष्यति ॥ तपः कर्तुं गता साध्वी चन्द्रभागाख्यभूधरे॥ ३९॥
स मर्यादेषु मर्यादाम् तपसा स्थापयिष्यति ॥ तपः कर्तुम् गता साध्वी चन्द्रभाग-आख्य-भूधरे॥ ३९॥
sa maryādeṣu maryādām tapasā sthāpayiṣyati .. tapaḥ kartum gatā sādhvī candrabhāga-ākhya-bhūdhare.. 39..
न भावं तपसस्तात सानुजानाति कंचन॥ तस्माद्यथोपदेशात्सा प्राप्नोत्विष्टं तथा कुरु॥ 2.2.5.४०॥
न भावम् तपसः तात सा अनुजानाति कंचन॥ तस्मात् यथा उपदेशात् सा प्राप्नोतु इष्टम् तथा कुरु॥ २।२।५।४०॥
na bhāvam tapasaḥ tāta sā anujānāti kaṃcana.. tasmāt yathā upadeśāt sā prāpnotu iṣṭam tathā kuru.. 2.2.5.40..
इदं रूपं परित्यज्य निजं रूपांतरं मुने ॥ परिगृह्यांतिके तस्यास्तपश्चर्यां निदर्शयन् ॥ ४१ ॥
इदम् रूपम् परित्यज्य निजम् रूप-अंतरम् मुने ॥ परिगृह्य अंतिके तस्याः तपः-चर्याम् निदर्शयन् ॥ ४१ ॥
idam rūpam parityajya nijam rūpa-aṃtaram mune .. parigṛhya aṃtike tasyāḥ tapaḥ-caryām nidarśayan .. 41 ..
इदं स्वरूपं भवतो दृष्ट्वा पूर्वं यथात्र वाम् ॥ नाप्नुयात्साऽथ किंचिद्वै ततो रूपांतरं कुरु ॥ ४२॥
इदम् स्व-रूपम् भवतः दृष्ट्वा पूर्वम् यथा अत्र वाम् ॥ न आप्नुयात् सा अथ किंचिद् वै ततस् रूप-अंतरम् कुरु ॥ ४२॥
idam sva-rūpam bhavataḥ dṛṣṭvā pūrvam yathā atra vām .. na āpnuyāt sā atha kiṃcid vai tatas rūpa-aṃtaram kuru .. 42..
ब्रह्मोवाच ॥ नारदेत्थं वसिष्ठो मे समाज्ञप्तो दयावता ॥ यथाऽस्विति च मां प्रोच्य ययौ संध्यांतिकं मुनिः ॥ ४३ ॥
ब्रह्मा उवाच ॥ नारद इत्थम् वसिष्ठः मे समाज्ञप्तः दयावता ॥ यथा असु इति च माम् प्रोच्य ययौ संध्या-अंतिकम् मुनिः ॥ ४३ ॥
brahmā uvāca .. nārada ittham vasiṣṭhaḥ me samājñaptaḥ dayāvatā .. yathā asu iti ca mām procya yayau saṃdhyā-aṃtikam muniḥ .. 43 ..
तत्र देवसरः पूर्णं गुणैर्मानससंमितम् ॥ ददर्श स वसिष्टोथ संध्यां तत्तीरगामपि॥ । ४४ ॥
तत्र देव-सरः पूर्णम् गुणैः मानस-संमितम् ॥ ददर्श स वसिष्ठः उथ संध्याम् तद्-तीर-गाम् अपि॥ । ४४ ॥
tatra deva-saraḥ pūrṇam guṇaiḥ mānasa-saṃmitam .. dadarśa sa vasiṣṭhaḥ utha saṃdhyām tad-tīra-gām api.. . 44 ..
तीरस्थया तया रेजे तत्सरः कमलोज्ज्वलम् ॥ उद्यदिंदुसुनक्षत्र प्रदोषे गगनं यथा ॥ ४५ ॥
तीर-स्थया तया रेजे तत् सरः कमल-उज्ज्वलम् ॥ उद्यत्-इंदु-सु नक्षत्र प्रदोषे गगनम् यथा ॥ ४५ ॥
tīra-sthayā tayā reje tat saraḥ kamala-ujjvalam .. udyat-iṃdu-su nakṣatra pradoṣe gaganam yathā .. 45 ..
मुनिर्दृष्ट्वाथ तां तत्र सुसंभावां स कौतुकी ॥ वीक्षांचक्रे सरस्तत्र बृहल्लोहितसंज्ञकम् ॥ ४६ ॥
मुनिः दृष्ट्वा अथ ताम् तत्र सुसंभावाम् स कौतुकी ॥ वीक्षांचक्रे सरः तत्र बृहल्लोहित-संज्ञकम् ॥ ४६ ॥
muniḥ dṛṣṭvā atha tām tatra susaṃbhāvām sa kautukī .. vīkṣāṃcakre saraḥ tatra bṛhallohita-saṃjñakam .. 46 ..
चन्द्रभागा नदी तस्मात्प्राकाराद्दक्षिणांबुधिम् ॥ यांती सा चैव ददृशे तेन सानुगिरेर्महत् ॥ ४७ ॥
चन्द्रभागा नदी तस्मात् प्राकारात् दक्षिण-अंबुधिम् ॥ यांती सा च एव ददृशे तेन सानु-गिरेः महत् ॥ ४७ ॥
candrabhāgā nadī tasmāt prākārāt dakṣiṇa-aṃbudhim .. yāṃtī sā ca eva dadṛśe tena sānu-gireḥ mahat .. 47 ..
निर्भिद्य पश्चिमं सा तु चन्द्रभागस्य सा नदी ॥ यथा हिमवतो गंगा तथा गच्छति सागरम् ॥ ४८॥
निर्भिद्य पश्चिमम् सा तु चन्द्रभागस्य सा नदी ॥ यथा हिमवतः गंगा तथा गच्छति सागरम् ॥ ४८॥
nirbhidya paścimam sā tu candrabhāgasya sā nadī .. yathā himavataḥ gaṃgā tathā gacchati sāgaram .. 48..
तस्मिन् गिरौ चन्द्रभागे बृहल्लोहिततीरगाम् ॥ संध्यां दृष्ट्वाथ पप्रच्छ वसिष्ठस्सादरं तदा ॥ ४९॥
तस्मिन् गिरौ चन्द्रभागे बृहत्-लोहित-तीर-गाम् ॥ संध्याम् दृष्ट्वा अथ पप्रच्छ वसिष्ठः स आदरम् तदा ॥ ४९॥
tasmin girau candrabhāge bṛhat-lohita-tīra-gām .. saṃdhyām dṛṣṭvā atha papraccha vasiṣṭhaḥ sa ādaram tadā .. 49..
वशिष्ठ .उवाच ।।
किमर्थमागता भद्रे निर्जनं त्वं महीधरम् ॥ कस्य वा तनया किं वा भवत्यापि चिकीर्षितम् ॥ 2.2.5.५० ॥
किमर्थम् आगता भद्रे निर्जनम् त्वम् महीधरम् ॥ कस्य वा तनया किम् वा भवत्या अपि चिकीर्षितम् ॥ २।२।५।५० ॥
kimartham āgatā bhadre nirjanam tvam mahīdharam .. kasya vā tanayā kim vā bhavatyā api cikīrṣitam .. 2.2.5.50 ..
एतदिच्छाम्यहं श्रोतुं वद गुह्यं न चेद्भवेत् ॥ वदनं पूर्णचन्द्राभं निश्चेष्टं वा कथं तव ॥ ५१ ॥
एतत् इच्छामि अहम् श्रोतुम् वद गुह्यम् न चेद् भवेत् ॥ वदनम् पूर्ण-चन्द्र-आभम् निश्चेष्टम् वा कथम् तव ॥ ५१ ॥
etat icchāmi aham śrotum vada guhyam na ced bhavet .. vadanam pūrṇa-candra-ābham niśceṣṭam vā katham tava .. 51 ..
ब्रह्मोवाच ।।
तच्छ्रुत्वा वचनं तस्य वशिष्ठस्य महात्मनः ॥ दृष्ट्वा च तं महात्मानं ज्वलंतमिव पावकम् ॥ ५२ ॥
तत् श्रुत्वा वचनम् तस्य वशिष्ठस्य महात्मनः ॥ दृष्ट्वा च तम् महात्मानम् ज्वलंतम् इव पावकम् ॥ ५२ ॥
tat śrutvā vacanam tasya vaśiṣṭhasya mahātmanaḥ .. dṛṣṭvā ca tam mahātmānam jvalaṃtam iva pāvakam .. 52 ..
शरीरधृग्ब्रह्मचर्यं विलसंतं जटाधरम् ॥ सादरं प्रणिपत्याथ संध्योवाच तपोधनम् ॥ ५३ ॥
शरीरधृक् ब्रह्मचर्यम् विलसन्तम् जटाधरम् ॥ स आदरम् प्रणिपत्य अथ संध्या उवाच तपोधनम् ॥ ५३ ॥
śarīradhṛk brahmacaryam vilasantam jaṭādharam .. sa ādaram praṇipatya atha saṃdhyā uvāca tapodhanam .. 53 ..
संध्योवाच ।।
यदर्थमागता शैलं सिद्धं तन्मे निबोध ह ॥ तव दर्शनमात्रेण यन्मे सेत्स्यति वा विभो ॥ ५४ ॥
यद्-अर्थम् आगता शैलम् सिद्धम् तत् मे निबोध ह ॥ तव दर्शन-मात्रेण यत् मे सेत्स्यति वा विभो ॥ ५४ ॥
yad-artham āgatā śailam siddham tat me nibodha ha .. tava darśana-mātreṇa yat me setsyati vā vibho .. 54 ..
तपश्चर्तुमहं ब्रह्मन्निर्जनं शैलमागता ॥ ब्रह्मणोहं सुता जाता नाम्ना संध्येति विश्रुता ॥ ५५॥
तपः चर्तुम् अहम् ब्रह्मन् निर्जनम् शैलम् आगता ॥ ब्रह्मणा उहम् सुता जाता नाम्ना संध्या इति विश्रुता ॥ ५५॥
tapaḥ cartum aham brahman nirjanam śailam āgatā .. brahmaṇā uham sutā jātā nāmnā saṃdhyā iti viśrutā .. 55..
यदि ते युज्यते सह्यं मां त्वं समुपदेशय ॥ एतच्चिकीर्षितं गुह्यं नान्यैः किंचन विद्यते ॥ ५६॥
यदि ते युज्यते सह्यम् माम् त्वम् समुपदेशय ॥ एतत् चिकीर्षितम् गुह्यम् न अन्यैः किंचन विद्यते ॥ ५६॥
yadi te yujyate sahyam mām tvam samupadeśaya .. etat cikīrṣitam guhyam na anyaiḥ kiṃcana vidyate .. 56..
अज्ञात्वा तपसो भावं तपोवनमुपाश्रिता ॥ चिंतया परिशुष्येहं वेपते हि मनो मम ॥ ५७॥
अ ज्ञात्वा तपसः भावम् तपोवनम् उपाश्रिता ॥ चिंतया परिशुष्य इहम् वेपते हि मनः मम ॥ ५७॥
a jñātvā tapasaḥ bhāvam tapovanam upāśritā .. ciṃtayā pariśuṣya iham vepate hi manaḥ mama .. 57..
ब्रह्मोवाच ।।
आकर्ण्य तस्या वचनं वसिष्ठो ब्रह्मवित्तमः ॥ स्वयं च सर्वकृत्यज्ञो नान्यत्किंचन पृष्टवान् ॥ ५८ ॥
आकर्ण्य तस्याः वचनम् वसिष्ठः ब्रह्म-वित्तमः ॥ स्वयम् च सर्व-कृत्य-ज्ञः न अन्यत् किंचन पृष्टवान् ॥ ५८ ॥
ākarṇya tasyāḥ vacanam vasiṣṭhaḥ brahma-vittamaḥ .. svayam ca sarva-kṛtya-jñaḥ na anyat kiṃcana pṛṣṭavān .. 58 ..
अथ तां नियतात्मानं तपसेति धृतोद्यमाम् ॥ प्रोवाच मनसा स्मृत्वा शंकरं भक्तवत्सलम् ॥ ५९ ॥
अथ ताम् नियत-आत्मानम् तपसा इति धृत-उद्यमाम् ॥ प्रोवाच मनसा स्मृत्वा शंकरम् भक्त-वत्सलम् ॥ ५९ ॥
atha tām niyata-ātmānam tapasā iti dhṛta-udyamām .. provāca manasā smṛtvā śaṃkaram bhakta-vatsalam .. 59 ..
वसिष्ठ उवाच ।।
परमं यो महत्तेजः परमं यो महत्तपः ॥ परमः परमाराध्यः शम्भुर्मनसि धार्यताम् ॥ 2.2.5.६० ॥
परमम् यः महत् तेजः परमम् यः महत् तपः ॥ परमः परम-आराध्यः शम्भुः मनसि धार्यताम् ॥ २।२।५।६० ॥
paramam yaḥ mahat tejaḥ paramam yaḥ mahat tapaḥ .. paramaḥ parama-ārādhyaḥ śambhuḥ manasi dhāryatām .. 2.2.5.60 ..
धर्मार्थकाममोक्षाणां य एकस्त्वादिकारणम् ॥ तमेकं जगतामाद्यं भजस्व पुरुषोत्तमम् ॥ ६१ ॥
धर्म-अर्थ-काम-मोक्षाणाम् यः एकः तु आदिकारणम् ॥ तम् एकम् जगताम् आद्यम् भजस्व पुरुषोत्तमम् ॥ ६१ ॥
dharma-artha-kāma-mokṣāṇām yaḥ ekaḥ tu ādikāraṇam .. tam ekam jagatām ādyam bhajasva puruṣottamam .. 61 ..
मंत्रेणानेन देवेशं शम्भुं भज शुभानने ॥ तेन ते सकला वाप्तिर्भविष्यति न संशयः ॥ ६२॥
मंत्रेण अनेन देवेशम् शम्भुम् भज शुभ-आनने ॥ तेन ते सकला वाप्तिः भविष्यति न संशयः ॥ ६२॥
maṃtreṇa anena deveśam śambhum bhaja śubha-ānane .. tena te sakalā vāptiḥ bhaviṣyati na saṃśayaḥ .. 62..
ॐ नमश्शंकरायेति ॐमित्यंतेन सन्ततम् ॥ मौनतपस्याप्रारंम्भं तन्मे निगदतः शृणु॥ ६३॥
ओम् नमः शंकराय इति ओम् मिति अन्तेन सन्ततम् ॥ मौन-तपस्य-अ प्रारंम्भम् तत् मे निगदतः शृणु॥ ६३॥
om namaḥ śaṃkarāya iti om miti antena santatam .. mauna-tapasya-a prāraṃmbham tat me nigadataḥ śṛṇu.. 63..
स्नानं मौनेन कर्तव्यं मौनेन हरपूजनम् ॥ द्वयोः पूर्णजलाहारं प्रथमं षष्ठकालयोः ॥ ६४ ॥
स्नानम् मौनेन कर्तव्यम् मौनेन हर-पूजनम् ॥ द्वयोः पूर्णजल-आहारम् प्रथमम् षष्ठकालयोः ॥ ६४ ॥
snānam maunena kartavyam maunena hara-pūjanam .. dvayoḥ pūrṇajala-āhāram prathamam ṣaṣṭhakālayoḥ .. 64 ..
तृतीये षष्ठकाले तु ह्युपवासपरो भवेत् ॥ एवं तपस्समाप्तौ वा षष्ठे काले क्रिया भवेत् ॥ ६५ ॥
तृतीये षष्ठकाले तु हि उपवास-परः भवेत् ॥ एवम् तपः-समाप्तौ वा षष्ठे काले क्रिया भवेत् ॥ ६५ ॥
tṛtīye ṣaṣṭhakāle tu hi upavāsa-paraḥ bhavet .. evam tapaḥ-samāptau vā ṣaṣṭhe kāle kriyā bhavet .. 65 ..
एवं मौनतपस्याख्या ब्रह्मचर्यफलप्रदा ॥ सर्वाभीष्टप्रदा देवि सत्यंसत्यं न संशयः ॥ ६६ ॥
एवम् मौन-तपस्य-आख्या ब्रह्मचर्य-फल-प्रदा ॥ सर्व-अभीष्ट-प्रदा देवि सत्यम् सत्यम् न संशयः ॥ ६६ ॥
evam mauna-tapasya-ākhyā brahmacarya-phala-pradā .. sarva-abhīṣṭa-pradā devi satyam satyam na saṃśayaḥ .. 66 ..
एवं चित्ते समुद्दिश्य कामं चिंतय शंकरम् ॥ स ते प्रसन्न इष्टार्थमचिरादेव दास्यति ॥ ६७ ॥
एवम् चित्ते समुद्दिश्य कामम् चिंतय शंकरम् ॥ स ते प्रसन्नः इष्ट-अर्थम् अचिरात् एव दास्यति ॥ ६७ ॥
evam citte samuddiśya kāmam ciṃtaya śaṃkaram .. sa te prasannaḥ iṣṭa-artham acirāt eva dāsyati .. 67 ..
ब्रह्मोवाच ।।
उपविश्य वसिष्ठोथ संध्यायै तपसः क्रियाम् ॥ तामाभाष्य यथान्यायं तत्रैवांतर्दधे मुनिः ॥ ६८ ॥
उपविश्य वसिष्ठः उथ संध्यायै तपसः क्रियाम् ॥ ताम् आभाष्य यथान्यायम् तत्र एव अंतर्दधे मुनिः ॥ ६८ ॥
upaviśya vasiṣṭhaḥ utha saṃdhyāyai tapasaḥ kriyām .. tām ābhāṣya yathānyāyam tatra eva aṃtardadhe muniḥ .. 68 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे संध्याचरित्रवर्णनो नाम पंचमोऽध्यायः ॥ ५ ॥ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सतीखण्डे संध्याचरित्रवर्णनः नाम पंचमः अध्यायः ॥ ५ ॥ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satīkhaṇḍe saṃdhyācaritravarṇanaḥ nāma paṃcamaḥ adhyāyaḥ .. 5 .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In