| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
सुतवर्य महाप्राज्ञ शृणु संध्यातपो महत् ॥ यच्छ्रुत्वा नश्यते पापसमूहस्तत्क्षणाद्ध्रुवम् ॥ १ ॥
सुत-वर्य महा-प्राज्ञ शृणु संध्या-तपः महत् ॥ यत् श्रुत्वा नश्यते पाप-समूहः तद्-क्षणात् ध्रुवम् ॥ १ ॥
suta-varya mahā-prājña śṛṇu saṃdhyā-tapaḥ mahat .. yat śrutvā naśyate pāpa-samūhaḥ tad-kṣaṇāt dhruvam .. 1 ..
उपविश्य तपोभावं वसिष्ठे स्वगृहं गते ॥ संध्यापि तपसो भावं ज्ञात्वा मोदमवाप ह ॥ २ ॥
उपविश्य तपः-भावम् वसिष्ठे स्व-गृहम् गते ॥ संध्या अपि तपसः भावम् ज्ञात्वा मोदम् अवाप ह ॥ २ ॥
upaviśya tapaḥ-bhāvam vasiṣṭhe sva-gṛham gate .. saṃdhyā api tapasaḥ bhāvam jñātvā modam avāpa ha .. 2 ..
ततस्सानंदमनसो वेषं कृत्वा तु यादृशम् ॥ तपश्चर्तुं समारेभे बृहल्लोहिततीरगा ॥ ३ ॥
ततस् स आनंद-मनसः वेषम् कृत्वा तु यादृशम् ॥ तपः चर्तुम् समारेभे बृहत्-लोहित-तीर-गा ॥ ३ ॥
tatas sa ānaṃda-manasaḥ veṣam kṛtvā tu yādṛśam .. tapaḥ cartum samārebhe bṛhat-lohita-tīra-gā .. 3 ..
यथोक्तं तु वशिष्ठेन मंत्रं तपसि साधनम् ॥ मंत्रेण तेन सद्भक्त्या पूजयामास शंकरम् ॥ ४॥
यथोक्तम् तु वशिष्ठेन मंत्रम् तपसि साधनम् ॥ मंत्रेण तेन सत्-भक्त्या पूजयामास शंकरम् ॥ ४॥
yathoktam tu vaśiṣṭhena maṃtram tapasi sādhanam .. maṃtreṇa tena sat-bhaktyā pūjayāmāsa śaṃkaram .. 4..
एकान्तमनसस्तस्याः कुर्वंत्या सुमहत्तपः ॥ शंभौ विन्यस्तचित्ताया गतमेकं चतुर्युगम् ॥ ५ ॥
एकान्त-मनसः तस्याः कुर्वंत्या सु महत् तपः ॥ शंभौ विन्यस्त-चित्तायाः गतम् एकम् चतुर्-युगम् ॥ ५ ॥
ekānta-manasaḥ tasyāḥ kurvaṃtyā su mahat tapaḥ .. śaṃbhau vinyasta-cittāyāḥ gatam ekam catur-yugam .. 5 ..
प्रसन्नोभूत्तदा शंभुस्तपसा तेन तोषितः ॥ अंतर्बहिस्तथाकाशे दर्शयित्वा निजं वपुः ॥ ६ ॥
प्रसन्नः भूत् तदा शंभुः तपसा तेन तोषितः ॥ अंतर् बहिस् तथा आकाशे दर्शयित्वा निजम् वपुः ॥ ६ ॥
prasannaḥ bhūt tadā śaṃbhuḥ tapasā tena toṣitaḥ .. aṃtar bahis tathā ākāśe darśayitvā nijam vapuḥ .. 6 ..
यद्रूपं चिंतयंती सा तेन प्रत्यक्षतां गतः ॥ ७ ॥
यद्-रूपम् चिंतयंती सा तेन प्रत्यक्षताम् गतः ॥ ७ ॥
yad-rūpam ciṃtayaṃtī sā tena pratyakṣatām gataḥ .. 7 ..
अथ सा पुरतो दृष्ट्वा मनसा चिंतितं प्रभुम् ॥ प्रसन्नवदनं शांतं मुमोदातीव शंकरम् ॥ ८॥
अथ सा पुरतस् दृष्ट्वा मनसा चिंतितम् प्रभुम् ॥ प्रसन्न-वदनम् शांतम् मुमोद अतीव शंकरम् ॥ ८॥
atha sā puratas dṛṣṭvā manasā ciṃtitam prabhum .. prasanna-vadanam śāṃtam mumoda atīva śaṃkaram .. 8..
ससाध्वसमहं वक्ष्ये किं कथं स्तौमि वा हरम् ॥ इति चिंतापरा भूत्वा न्यमीलयत चक्षुषी ॥ ९ ॥
स साध्वसम् अहम् वक्ष्ये किम् कथम् स्तौमि वा हरम् ॥ इति चिंता-परा भूत्वा न्यमीलयत चक्षुषी ॥ ९ ॥
sa sādhvasam aham vakṣye kim katham staumi vā haram .. iti ciṃtā-parā bhūtvā nyamīlayata cakṣuṣī .. 9 ..
निमीलिताक्ष्यास्तस्यास्तु प्रविश्य हृदयं हरः ॥ दिव्यं ज्ञानं ददौ तस्यै वाचं दिव्ये च चक्षुषी ॥ 2.2.6.१०॥
निमीलित-अक्ष्याः तस्याः तु प्रविश्य हृदयम् हरः ॥ दिव्यम् ज्ञानम् ददौ तस्यै वाचम् दिव्ये च चक्षुषी ॥ २।२।६।१०॥
nimīlita-akṣyāḥ tasyāḥ tu praviśya hṛdayam haraḥ .. divyam jñānam dadau tasyai vācam divye ca cakṣuṣī .. 2.2.6.10..
दिव्यज्ञानं दिव्यचक्षुर्दिव्या वाचमवाप सा ॥ प्रत्यक्षं वीक्ष्य दुर्गेशं तुष्टाव जगतां पतिम् ॥ ११॥ ॥
दिव्य-ज्ञानम् दिव्य-चक्षुः दिव्या वाचम् अवाप सा ॥ प्रत्यक्षम् वीक्ष्य दुर्गेशम् तुष्टाव जगताम् पतिम् ॥ ११॥ ॥
divya-jñānam divya-cakṣuḥ divyā vācam avāpa sā .. pratyakṣam vīkṣya durgeśam tuṣṭāva jagatām patim .. 11.. ..
संध्योवाच ।।
निराकारं ज्ञानगम्यं परं यन्नैव स्थूलं नापि सूक्ष्मं न चोच्चम् ॥ अंतश्चिंत्यं योगिभिस्तस्य रूपं तस्मै तुभ्यं लोककर्त्रे नमोस्तु ॥ १२ ॥
निराकारम् ज्ञान-गम्यम् परम् यत् ना एव स्थूलम् ना अपि सूक्ष्मम् न च उच्चम् ॥ अंतर् चिंत्यम् योगिभिः तस्य रूपम् तस्मै तुभ्यम् लोक-कर्त्रे नमः अस्तु ॥ १२ ॥
nirākāram jñāna-gamyam param yat nā eva sthūlam nā api sūkṣmam na ca uccam .. aṃtar ciṃtyam yogibhiḥ tasya rūpam tasmai tubhyam loka-kartre namaḥ astu .. 12 ..
सर्वं शांतं निर्मलं निर्विकारं ज्ञानागम्यं स्वप्रकाशेऽविकारम् ॥ खाध्वप्रख्यं ध्वांतमार्गात्परस्तद्रूपं यस्य त्वां नमामि प्रसन्नम् ॥ १३ ॥
सर्वम् शांतम् निर्मलम् निर्विकारम् ज्ञान-अगम्यम् स्व-प्रकाशे अविकारम् ॥ ख-अध्व-प्रख्यम् ध्वांत-मार्गात् परः तद्-रूपम् यस्य त्वाम् नमामि प्रसन्नम् ॥ १३ ॥
sarvam śāṃtam nirmalam nirvikāram jñāna-agamyam sva-prakāśe avikāram .. kha-adhva-prakhyam dhvāṃta-mārgāt paraḥ tad-rūpam yasya tvām namāmi prasannam .. 13 ..
एकं शुद्धं दीप्यमानं तथाजं चिदानंदं सहजं चाविकारि ॥ नित्यानंदं सत्यभूतिप्रसन्नं यस्य श्रीदं रूपमस्मै नमस्ते ॥ १४ ॥
एकम् शुद्धम् दीप्यमानम् तथा अजम् चिदानंदम् सहजम् च अविकारि ॥ नित्य-आनंदम् सत्य-भूति-प्रसन्नम् यस्य श्री-दम् रूपम् अस्मै नमः ते ॥ १४ ॥
ekam śuddham dīpyamānam tathā ajam cidānaṃdam sahajam ca avikāri .. nitya-ānaṃdam satya-bhūti-prasannam yasya śrī-dam rūpam asmai namaḥ te .. 14 ..
विद्याकारोद्भावनीयं प्रभिन्नं सत्त्वच्छंदं ध्येयमात्मस्वरूपम् ॥ सारं पारं पावनानां पवित्रं तस्मै रूपं यस्य चैवं नमस्ते ॥ १५ ॥
विद्या-आकार-उद्भावनीयम् प्रभिन्नम् सत्त्व-छंदम् ध्येयम् आत्म-स्वरूपम् ॥ सारम् पारम् पावनानाम् पवित्रम् तस्मै रूपम् यस्य च एवम् नमः ते ॥ १५ ॥
vidyā-ākāra-udbhāvanīyam prabhinnam sattva-chaṃdam dhyeyam ātma-svarūpam .. sāram pāram pāvanānām pavitram tasmai rūpam yasya ca evam namaḥ te .. 15 ..
यत्त्वाकारं शुद्धरूपं मनोज्ञं रत्नाकल्पं स्वच्छकर्पूरगौरम् ॥ इष्टाभीती शूलमुंडे दधानं हस्तैर्नमो योगयुक्ताय तुभ्यम् ॥ १६॥
यत् तु आकारम् शुद्ध-रूपम् मनोज्ञम् रत्न-आकल्पम् स्वच्छ-कर्पूर-गौरम् ॥ इष्ट-अभीती शूल-मुंडे दधानम् हस्तैः नमः योग-युक्ताय तुभ्यम् ॥ १६॥
yat tu ākāram śuddha-rūpam manojñam ratna-ākalpam svaccha-karpūra-gauram .. iṣṭa-abhītī śūla-muṃḍe dadhānam hastaiḥ namaḥ yoga-yuktāya tubhyam .. 16..
गगनं भूर्दिशश्चैव सलिलं ज्योतिरेव च ॥ पुनः कालश्च रूपाणि यस्य तुभ्यं नमोस्तु ते ॥ १७ ॥
गगनम् भूः दिशः च एव सलिलम् ज्योतिः एव च ॥ पुनर् कालः च रूपाणि यस्य तुभ्यम् नमः अस्तु ते ॥ १७ ॥
gaganam bhūḥ diśaḥ ca eva salilam jyotiḥ eva ca .. punar kālaḥ ca rūpāṇi yasya tubhyam namaḥ astu te .. 17 ..
प्रधानपुरुषौ यस्य कायत्वेन विनिर्गतौ ॥ तस्मादव्यक्तरूपाय शंकराय नमोनमः ॥ १८ ॥
प्रधान-पुरुषौ यस्य काय-त्वेन विनिर्गतौ ॥ तस्मात् अव्यक्त-रूपाय शंकराय नमः नमः ॥ १८ ॥
pradhāna-puruṣau yasya kāya-tvena vinirgatau .. tasmāt avyakta-rūpāya śaṃkarāya namaḥ namaḥ .. 18 ..
यो ब्रह्मा कुरुते सृष्टिं यो विष्णुः कुरुते स्थितिम् ॥ संहरिष्यति यो रुद्रस्तस्मै तुभ्यं नमोनमः ॥ १९॥
यः ब्रह्मा कुरुते सृष्टिम् यः विष्णुः कुरुते स्थितिम् ॥ संहरिष्यति यः रुद्रः तस्मै तुभ्यम् नमः नमः ॥ १९॥
yaḥ brahmā kurute sṛṣṭim yaḥ viṣṇuḥ kurute sthitim .. saṃhariṣyati yaḥ rudraḥ tasmai tubhyam namaḥ namaḥ .. 19..
नमोनमः कारणकारणाय दिव्यामृतज्ञानविभूतिदाय॥ समस्तलोकांतरभूतिदाय प्रकाशरूपाय परात्पराय ॥ 2.2.6.२० ॥
नमः नमः कारण-कारणाय दिव्य-अमृत-ज्ञान-विभूति-दाय॥ समस्त-लोक-अन्तर-भूति-दाय प्रकाश-रूपाय परात्पराय ॥ २।२।६।२० ॥
namaḥ namaḥ kāraṇa-kāraṇāya divya-amṛta-jñāna-vibhūti-dāya.. samasta-loka-antara-bhūti-dāya prakāśa-rūpāya parātparāya .. 2.2.6.20 ..
यस्याऽपरं नो जगदुच्यते पदात् क्षितिर्दिशस्सूर्य इंदुर्मनौजः ॥ बर्हिर्मुखा नाभितश्चान्तरिक्षं तस्मै तुभ्यं शंभवे मे नमोस्तु ॥ २१ ॥
यस्य अ परम् नः जगत् उच्यते पदात् क्षितिः दिशः सूर्यः इंदुः मनः-ओजः ॥ बर्हिः-मुखाः नाभितः च अन्तरिक्षम् तस्मै तुभ्यम् शंभवे मे नमः अस्तु ॥ २१ ॥
yasya a param naḥ jagat ucyate padāt kṣitiḥ diśaḥ sūryaḥ iṃduḥ manaḥ-ojaḥ .. barhiḥ-mukhāḥ nābhitaḥ ca antarikṣam tasmai tubhyam śaṃbhave me namaḥ astu .. 21 ..
त्वं परः परमात्मा च त्वं विद्या विविधा हरः ॥ सद्ब्रह्म च परं ब्रह्म विचारणपरायणः ॥ २२॥
त्वम् परः परम-आत्मा च त्वम् विद्याः विविधाः हरः ॥ सत्-ब्रह्म च परम् ब्रह्म विचारण-परायणः ॥ २२॥
tvam paraḥ parama-ātmā ca tvam vidyāḥ vividhāḥ haraḥ .. sat-brahma ca param brahma vicāraṇa-parāyaṇaḥ .. 22..
यस्य नादिर्न मध्यं च नांतमस्ति जगद्यतः ॥ कथं स्तोष्यामि तं देवं वाङ्मनोगोचरं हरम्॥ ॥ २३ ॥
यस्य ना आदिः न मध्यम् च ना अंतम् अस्ति जगत् यतस् ॥ कथम् स्तोष्यामि तम् देवम् वाच्-मनः-गोचरम् हरम्॥ ॥ २३ ॥
yasya nā ādiḥ na madhyam ca nā aṃtam asti jagat yatas .. katham stoṣyāmi tam devam vāc-manaḥ-gocaram haram.. .. 23 ..
यस्य ब्रह्मादयो देव मुनयश्च तपोधनाः ॥ न विप्रण्वंति रूपाणि वर्णनीयः कथं स मे ॥ २४ ॥
यस्य ब्रह्म-आदयः देव मुनयः च तपोधनाः ॥ न रूपाणि वर्णनीयः कथम् स मे ॥ २४ ॥
yasya brahma-ādayaḥ deva munayaḥ ca tapodhanāḥ .. na rūpāṇi varṇanīyaḥ katham sa me .. 24 ..
स्त्रिया मया ते किं ज्ञेया निर्गुणस्य गुणाः प्रभो ॥ नैव जानंति यद्रूपं सेन्द्रा अपि सुरासुराः ॥ २५ ॥
स्त्रियाः मया ते किम् ज्ञेयाः निर्गुणस्य गुणाः प्रभो ॥ न एव जानन्ति यत् रूपम् स इन्द्राः अपि सुर-असुराः ॥ २५ ॥
striyāḥ mayā te kim jñeyāḥ nirguṇasya guṇāḥ prabho .. na eva jānanti yat rūpam sa indrāḥ api sura-asurāḥ .. 25 ..
नमस्तुभ्यं महेशान नमस्तुभ्यं तमोमय ॥ प्रसीद शंभो देवेश भूयोभूयो नमोस्तु ते ॥ २६ ॥
नमः तुभ्यम् महेशान नमः तुभ्यम् तमः-मय ॥ प्रसीद शंभो देवेश भूयस् भूयस् नमः अस्तु ते ॥ २६ ॥
namaḥ tubhyam maheśāna namaḥ tubhyam tamaḥ-maya .. prasīda śaṃbho deveśa bhūyas bhūyas namaḥ astu te .. 26 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्यास्संस्तुतः परमेश्वरः ॥ सुप्रसन्नतरश्चाभूच्छंकरो भक्तवत्सलः ॥ २७ ॥
इति आकर्ण्य वचः तस्याः संस्तुतः परमेश्वरः ॥ सुप्रसन्नतरः च अभूत् शंकरः भक्त-वत्सलः ॥ २७ ॥
iti ākarṇya vacaḥ tasyāḥ saṃstutaḥ parameśvaraḥ .. suprasannataraḥ ca abhūt śaṃkaraḥ bhakta-vatsalaḥ .. 27 ..
अथ तस्याश्शरीरं तु वल्कलाजिनसंयुतम् ॥ परिच्छन्नं जटाव्रातैः पवित्रे मूर्ध्नि राजितैः ॥ २८ ॥
अथ तस्याः शरीरम् तु वल्कल-अजिन-संयुतम् ॥ परिच्छन्नम् जटा-व्रातैः पवित्रे मूर्ध्नि राजितैः ॥ २८ ॥
atha tasyāḥ śarīram tu valkala-ajina-saṃyutam .. paricchannam jaṭā-vrātaiḥ pavitre mūrdhni rājitaiḥ .. 28 ..
हिमानीतर्जितांभोजसदृशं वदनं तदा ॥ निरीक्ष्य कृपयाविष्टो हरः प्रोवाच तामिदम् ॥ २९॥
हिमानी-तर्जित-अंभोज-सदृशम् वदनम् तदा ॥ निरीक्ष्य कृपया आविष्टः हरः प्रोवाच ताम् इदम् ॥ २९॥
himānī-tarjita-aṃbhoja-sadṛśam vadanam tadā .. nirīkṣya kṛpayā āviṣṭaḥ haraḥ provāca tām idam .. 29..
महेश्वर उवाच ।।
प्रीतोस्मि तपसा भद्रे भवत्याः परमेण वै ॥ स्तवेन च शुभप्राज्ञे वरं वरय सांप्रतम् ॥ 2.2.6.३० ॥
प्रीतः अस्मि तपसा भद्रे भवत्याः परमेण वै ॥ स्तवेन च शुभ-प्राज्ञे वरम् वरय सांप्रतम् ॥ २।२।६।३० ॥
prītaḥ asmi tapasā bhadre bhavatyāḥ parameṇa vai .. stavena ca śubha-prājñe varam varaya sāṃpratam .. 2.2.6.30 ..
येन ते विद्यते कार्यं वरेणास्मिन्मनोगतम् ॥ तत्करिष्ये च भद्रं ते प्रसन्नोहं तव व्रतैः ॥ ३१ ॥
येन ते विद्यते कार्यम् वरेण अस्मिन् मनोगतम् ॥ तत् करिष्ये च भद्रम् ते प्रसन्ना उहम् तव व्रतैः ॥ ३१ ॥
yena te vidyate kāryam vareṇa asmin manogatam .. tat kariṣye ca bhadram te prasannā uham tava vrataiḥ .. 31 ..
ब्रह्मोवाच ।।
इति श्रुत्वा महेशस्य प्रसन्नमनसस्तदा ॥ संध्योवाच सुप्रसन्ना प्रणम्य च मुहुर्मुहुः ॥ ३२ ॥
इति श्रुत्वा महेशस्य प्रसन्न-मनसः तदा ॥ संध्या उवाच सु प्रसन्ना प्रणम्य च मुहुर् मुहुर् ॥ ३२ ॥
iti śrutvā maheśasya prasanna-manasaḥ tadā .. saṃdhyā uvāca su prasannā praṇamya ca muhur muhur .. 32 ..
संध्योवाच ।। ।।
यदि देयो वरः प्रीत्या वरयोग्यास्म्यहं यदि ॥ यदि शुद्धास्म्यहं जाता तस्मात्पापान्महेश्वर॥ ३३॥
यदि देयः वरः प्रीत्या वर-योग्या अस्मि अहम् यदि ॥ यदि शुद्धा अस्मि अहम् जाता तस्मात् पापात् महेश्वर॥ ३३॥
yadi deyaḥ varaḥ prītyā vara-yogyā asmi aham yadi .. yadi śuddhā asmi aham jātā tasmāt pāpāt maheśvara.. 33..
यदि देव प्रसव्रोऽसि तपसा मम सांप्रतम् ॥ वृतस्तदायं प्रथमो वरो मम विधीयताम् ॥ ३४॥
यदि देव प्रसव्रः असि तपसा मम सांप्रतम् ॥ वृतः तदा अयम् प्रथमः वरः मम विधीयताम् ॥ ३४॥
yadi deva prasavraḥ asi tapasā mama sāṃpratam .. vṛtaḥ tadā ayam prathamaḥ varaḥ mama vidhīyatām .. 34..
उत्पन्नमात्रा देवेश प्राणिनोस्मिन्नभः स्थले ॥ न भवंतु समेनैव सकामास्संभवंतु वै ॥ ३५॥
उत्पन्न-मात्राः देवेश प्राणिनः उस्मिन् नभः स्थले ॥ न भवन्तु समेन एव स कामाः संभवंतु वै ॥ ३५॥
utpanna-mātrāḥ deveśa prāṇinaḥ usmin nabhaḥ sthale .. na bhavantu samena eva sa kāmāḥ saṃbhavaṃtu vai .. 35..
यद्धि वृत्ता हि लोकेषु त्रिष्वपि प्रथिता यथा ॥ भविष्यामि तथा नान्या वर एको वृतो मया ॥ ३६ ॥
यत् हि वृत्ताः हि लोकेषु त्रिषु अपि प्रथिताः यथा ॥ भविष्यामि तथा ना अन्या वरः एकः वृतः मया ॥ ३६ ॥
yat hi vṛttāḥ hi lokeṣu triṣu api prathitāḥ yathā .. bhaviṣyāmi tathā nā anyā varaḥ ekaḥ vṛtaḥ mayā .. 36 ..
सकामा मम सृष्टिस्तु कुत्रचिन्न पतिष्यति ॥ यो मे पतिर्भवेन्नाथ सोपि मेऽतिसुहृच्च वै ॥ ३७ ॥
स कामा मम सृष्टिः तु कुत्रचिद् न पतिष्यति ॥ यः मे पतिः भवेत् नाथ सः अपि मे अति सुहृद् च वै ॥ ३७ ॥
sa kāmā mama sṛṣṭiḥ tu kutracid na patiṣyati .. yaḥ me patiḥ bhavet nātha saḥ api me ati suhṛd ca vai .. 37 ..
यो द्रक्ष्यति सकामो मां पुरुषस्तस्य पौरुषम् ॥ नाशं गमिष्यति तदा स च क्लीबो भविष्यति ॥ ।३८॥
यः द्रक्ष्यति स कामः माम् पुरुषः तस्य पौरुषम् ॥ नाशम् गमिष्यति तदा स च क्लीबः भविष्यति ॥ ।३८॥
yaḥ drakṣyati sa kāmaḥ mām puruṣaḥ tasya pauruṣam .. nāśam gamiṣyati tadā sa ca klībaḥ bhaviṣyati .. .38..
ब्रह्मोवाच ।।
इति श्रुत्वा वचस्तस्यश्शंकरो भक्तवत्सलः ॥ उवाच सुप्रसन्नात्मा निष्पापायास्तयेरिते ॥ ३९॥
इति श्रुत्वा वचः तस्यः शंकरः भक्त-वत्सलः ॥ उवाच सु प्रसन्न-आत्मा निष्पापायाः तया ईरिते ॥ ३९॥
iti śrutvā vacaḥ tasyaḥ śaṃkaraḥ bhakta-vatsalaḥ .. uvāca su prasanna-ātmā niṣpāpāyāḥ tayā īrite .. 39..
महेश्वर उवाच ।।
शृणु देवि च संध्ये त्वं त्वत्पापं भस्मतां गतम् ॥ त्वयि त्यक्तो मया क्रोधः शुद्धा जाता तपःकरात् ॥ 2.2.6.४०॥
शृणु देवि च संध्ये त्वम् त्वद्-पापम् भस्म-ताम् गतम् ॥ त्वयि त्यक्तः मया क्रोधः शुद्धा जाता तपः-करात् ॥ २।२।६।४०॥
śṛṇu devi ca saṃdhye tvam tvad-pāpam bhasma-tām gatam .. tvayi tyaktaḥ mayā krodhaḥ śuddhā jātā tapaḥ-karāt .. 2.2.6.40..
यद्यद्वृतं त्वया भद्रे दत्तं तदखिलं मया॥ सुप्रसन्नेन तपसा तव संध्ये वरेण हि ॥ ४१ ॥
यत् यत् वृतम् त्वया भद्रे दत्तम् तत् अखिलम् मया॥ सु प्रसन्नेन तपसा तव संध्ये वरेण हि ॥ ४१ ॥
yat yat vṛtam tvayā bhadre dattam tat akhilam mayā.. su prasannena tapasā tava saṃdhye vareṇa hi .. 41 ..
प्रथमं शैशवो भावः कौमाराख्यो द्वितीयकः ॥ तृतीयो यौवनो भावश्चतुर्थो वार्द्धकस्तथा ॥ ४२॥
प्रथमम् शैशवः भावः कौमार-आख्यः द्वितीयकः ॥ तृतीयः यौवनः भावः चतुर्थः वार्द्धकः तथा ॥ ४२॥
prathamam śaiśavaḥ bhāvaḥ kaumāra-ākhyaḥ dvitīyakaḥ .. tṛtīyaḥ yauvanaḥ bhāvaḥ caturthaḥ vārddhakaḥ tathā .. 42..
तृतीये त्वथ संप्राप्ते वयोभागे शरीरिणः॥ सकामास्स्युर्द्वितीयांतो भविष्यति क्वचित् क्वचित् ॥ ४३ ॥
तृतीये तु अथ संप्राप्ते वयः-भागे शरीरिणः॥ स कामाः स्युः द्वितीय-अंतः भविष्यति क्वचिद् क्वचिद् ॥ ४३ ॥
tṛtīye tu atha saṃprāpte vayaḥ-bhāge śarīriṇaḥ.. sa kāmāḥ syuḥ dvitīya-aṃtaḥ bhaviṣyati kvacid kvacid .. 43 ..
तपसा तव मर्यादा जगति स्थापिता मया ॥ उत्पन्नमात्रा न यथा सकामास्स्युश्शरीरिणः ॥ ४४॥
तपसा तव मर्यादा जगति स्थापिता मया ॥ उत्पन्न-मात्राः न यथा स कामाः स्युः शरीरिणः ॥ ४४॥
tapasā tava maryādā jagati sthāpitā mayā .. utpanna-mātrāḥ na yathā sa kāmāḥ syuḥ śarīriṇaḥ .. 44..
त्वं च लोके सतीभावं तादृशं समवाप्नुहि ॥ त्रिषु लोकेषु नान्यस्या यादृशं संभविष्यति ॥ ४५ ॥
त्वम् च लोके सती-भावम् तादृशम् समवाप्नुहि ॥ त्रिषु लोकेषु न अन्यस्याः यादृशम् संभविष्यति ॥ ४५ ॥
tvam ca loke satī-bhāvam tādṛśam samavāpnuhi .. triṣu lokeṣu na anyasyāḥ yādṛśam saṃbhaviṣyati .. 45 ..
यः पश्यति सकामस्त्वां पाणिग्राहमृते तव ॥ स सद्यः क्लीबतां प्राप्य दुर्बलत्वं गमिष्यति ॥ ४६ ॥
यः पश्यति स कामः त्वाम् पाणिग्राहम् ऋते तव ॥ स सद्यस् क्लीब-ताम् प्राप्य दुर्बल-त्वम् गमिष्यति ॥ ४६ ॥
yaḥ paśyati sa kāmaḥ tvām pāṇigrāham ṛte tava .. sa sadyas klība-tām prāpya durbala-tvam gamiṣyati .. 46 ..
पतिस्तव महाभागस्तपोरूपसमन्वितः ॥ सप्तकल्पांतजीवी च भविष्यति सह त्वया ॥ ४७ ॥
पतिः तव महाभागः तपः-रूप-समन्वितः ॥ सप्त-कल्प-अंत-जीवी च भविष्यति सह त्वया ॥ ४७ ॥
patiḥ tava mahābhāgaḥ tapaḥ-rūpa-samanvitaḥ .. sapta-kalpa-aṃta-jīvī ca bhaviṣyati saha tvayā .. 47 ..
इति ते ये वरा मत्तः प्रार्थितास्ते कृता मया ॥ अन्यच्च ते वदिष्यामि पूर्वजन्मनि संस्थितम् ॥ ४८ ॥
इति ते ये वराः मत्तः प्रार्थिताः ते कृताः मया ॥ अन्यत् च ते वदिष्यामि पूर्व-जन्मनि संस्थितम् ॥ ४८ ॥
iti te ye varāḥ mattaḥ prārthitāḥ te kṛtāḥ mayā .. anyat ca te vadiṣyāmi pūrva-janmani saṃsthitam .. 48 ..
अग्नौ शरीत्यागस्ते पूर्वमेव प्रतिश्रुतः ॥ तदुपायं वदामि त्वां तत्कुरुष्व न संशयः ॥ ४९॥
अग्नौ पूर्वम् एव प्रतिश्रुतः ॥ तद्-उपायम् वदामि त्वाम् तत् कुरुष्व न संशयः ॥ ४९॥
agnau pūrvam eva pratiśrutaḥ .. tad-upāyam vadāmi tvām tat kuruṣva na saṃśayaḥ .. 49..
स च मेधातिथिर्यज्ञे मुने द्वादशवार्षिके ॥ कृत्स्नप्रज्वलिते वह्नावचिरात् क्रियतां त्वया ॥ 2.2.6.५०॥
स च मेधातिथिः यज्ञे मुने द्वादश-वार्षिके ॥ कृत्स्न-प्रज्वलिते वह्नौ अचिरात् क्रियताम् त्वया ॥ २।२।६।५०॥
sa ca medhātithiḥ yajñe mune dvādaśa-vārṣike .. kṛtsna-prajvalite vahnau acirāt kriyatām tvayā .. 2.2.6.50..
एतच्छैलोपत्यकायां चंद्रभागानदीतटे ॥ मेधातिथिर्महायज्ञं कुरुते तापसाश्रमे ॥ ५१॥
एतत् शैल-उपत्यकायाम् चंद्रभागा-नदी-तटे ॥ मेधातिथिः महा-यज्ञम् कुरुते तापस-आश्रमे ॥ ५१॥
etat śaila-upatyakāyām caṃdrabhāgā-nadī-taṭe .. medhātithiḥ mahā-yajñam kurute tāpasa-āśrame .. 51..
तत्र गत्वा स्वयं छंदं मुनिभिर्न्नोपलक्षिता ॥ मत्प्रसादाद्वह्निजाता तस्य पुत्री भविष्यसि ॥ ५२ ॥
तत्र गत्वा स्वयम् छंदम् मुनिभिः न्न उपलक्षिता ॥ मद्-प्रसादात् वह्नि-जाता तस्य पुत्री भविष्यसि ॥ ५२ ॥
tatra gatvā svayam chaṃdam munibhiḥ nna upalakṣitā .. mad-prasādāt vahni-jātā tasya putrī bhaviṣyasi .. 52 ..
यस्ते वरो वाञ्छनीयः स्वामी मनसि कश्चन ॥ तं निधाय निजस्वांते त्यज वह्नौ वपुः स्वकम् ॥ ५३ ॥
यः ते वरः वाञ्छनीयः स्वामी मनसि कश्चन ॥ तम् निधाय निज-स्वांते त्यज वह्नौ वपुः स्वकम् ॥ ५३ ॥
yaḥ te varaḥ vāñchanīyaḥ svāmī manasi kaścana .. tam nidhāya nija-svāṃte tyaja vahnau vapuḥ svakam .. 53 ..
यदा त्वं दारुणं संध्ये तपश्चरसि पर्वते ॥ यावच्चतुर्युगं तस्य व्यतीते तु कृते युगे ॥ ५४॥
यदा त्वम् दारुणम् संध्ये तपः चरसि पर्वते ॥ यावत् चतुर्युगम् तस्य व्यतीते तु कृते युगे ॥ ५४॥
yadā tvam dāruṇam saṃdhye tapaḥ carasi parvate .. yāvat caturyugam tasya vyatīte tu kṛte yuge .. 54..
त्रेतायाः प्रथमे भागे जाता दक्षस्य कन्यका ॥ वाक्पाश्शीलसमापन्ना यथा योग्यं विवाहिताः॥ ५५॥
त्रेतायाः प्रथमे भागे जाता दक्षस्य कन्यका ॥ वाच्-पाश्-शील-समापन्नाः यथा योग्यम् विवाहिताः॥ ५५॥
tretāyāḥ prathame bhāge jātā dakṣasya kanyakā .. vāc-pāś-śīla-samāpannāḥ yathā yogyam vivāhitāḥ.. 55..
तन्मध्ये स ददौ कन्या विधवे सप्तविंशतिः ॥ चन्द्रोऽन्यास्संपरित्यज्य रोहिण्यां प्रीतिमानभूत्॥ ५६॥
तद्-मध्ये स ददौ कन्याः विधवे सप्तविंशतिः ॥ चन्द्रः अन्याः संपरित्यज्य रोहिण्याम् प्रीतिमान् अभूत्॥ ५६॥
tad-madhye sa dadau kanyāḥ vidhave saptaviṃśatiḥ .. candraḥ anyāḥ saṃparityajya rohiṇyām prītimān abhūt.. 56..
तद्धेतोर्हि यदा चन्द्रश्शप्तो दक्षेण कोपिना ॥ तदा भवत्या निकटे सर्वे देवास्समागताः ॥ ५७॥
तद्-हेतोः हि यदा चन्द्रः शप्तः दक्षेण कोपिना ॥ तदा भवत्याः निकटे सर्वे देवाः समागताः ॥ ५७॥
tad-hetoḥ hi yadā candraḥ śaptaḥ dakṣeṇa kopinā .. tadā bhavatyāḥ nikaṭe sarve devāḥ samāgatāḥ .. 57..
न दृष्टाश्च त्वया संध्ये ते देवा ब्रह्मणा सह ॥ मयि विन्यस्तमनसा खं च दृष्ट्वा लभेत्पुनः ॥ ५८॥
न दृष्टाः च त्वया संध्ये ते देवाः ब्रह्मणा सह ॥ मयि विन्यस्त-मनसा खम् च दृष्ट्वा लभेत् पुनर् ॥ ५८॥
na dṛṣṭāḥ ca tvayā saṃdhye te devāḥ brahmaṇā saha .. mayi vinyasta-manasā kham ca dṛṣṭvā labhet punar .. 58..
चंद्रस्य शापमोक्षार्थं जाता चंद्रनदी तदा॥ सृष्टा धात्रा तदैवात्र मेधातिथिरुपस्थितः॥ ५९॥
चंद्रस्य शाप-मोक्ष-अर्थम् जाता चंद्रनदी तदा॥ सृष्टा धात्रा तदा एव अत्र मेधातिथिः उपस्थितः॥ ५९॥
caṃdrasya śāpa-mokṣa-artham jātā caṃdranadī tadā.. sṛṣṭā dhātrā tadā eva atra medhātithiḥ upasthitaḥ.. 59..
तपसा सत्समो नास्ति न भूतो न भविष्यति॥ येन यज्ञस्समारब्धो ज्योतिष्टोमो महाविधिः॥ 2.2.6.६०॥
तपसा सत्-समः ना अस्ति न भूतः न भविष्यति॥ येन यज्ञः समारब्धः ज्योतिष्टोमः महा-विधिः॥ २।२।६।६०॥
tapasā sat-samaḥ nā asti na bhūtaḥ na bhaviṣyati.. yena yajñaḥ samārabdhaḥ jyotiṣṭomaḥ mahā-vidhiḥ.. 2.2.6.60..
तत्र प्रज्वलितो वह्निस्तस्मिन्त्यज वपुः स्वकम् ॥ सुपवित्रा त्वमिदानीं संपूर्णोस्तु पणस्तव ॥ ६१॥
तत्र प्रज्वलितः वह्निः तस्मिन् त्यज वपुः स्वकम् ॥ सु पवित्रा त्वम् इदानीम् संपूर्णः उः पणः तव ॥ ६१॥
tatra prajvalitaḥ vahniḥ tasmin tyaja vapuḥ svakam .. su pavitrā tvam idānīm saṃpūrṇaḥ uḥ paṇaḥ tava .. 61..
एतन्मया स्थापितन्ते कार्यार्थं भो तपस्विनि॥ तत्कुरुष्व महाभागे याहि यज्ञे महामुनेः ॥ तस्याहितं च देवेशस्तत्रैवांतरधीयत॥ ६२॥
एतत् मया स्थापित-अन्ते कार्य-अर्थम् भो तपस्विनि॥ तत् कुरुष्व महाभागे याहि यज्ञे महा-मुनेः ॥ तस्य अहितम् च देवेशः तत्र एव अंतरधीयत॥ ६२॥
etat mayā sthāpita-ante kārya-artham bho tapasvini.. tat kuruṣva mahābhāge yāhi yajñe mahā-muneḥ .. tasya ahitam ca deveśaḥ tatra eva aṃtaradhīyata.. 62..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे संध्याचरित्रवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सतीखण्डे संध्याचरित्रवर्णनम् नाम षष्ठः अध्यायः ॥ ६ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satīkhaṇḍe saṃdhyācaritravarṇanam nāma ṣaṣṭhaḥ adhyāyaḥ .. 6 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In