| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
वरं दत्त्वा मुने तस्मिन् शंभावंतर्हिते तदा ॥ संध्याप्यगच्छत्तत्रैव यत्र मेधातिथिर्मुनिः ॥ १ ॥
वरम् दत्त्वा मुने तस्मिन् शंभौ अंतर्हिते तदा ॥ संध्या अप्यगच्छत् तत्र एव यत्र मेधातिथिः मुनिः ॥ १ ॥
varam dattvā mune tasmin śaṃbhau aṃtarhite tadā .. saṃdhyā apyagacchat tatra eva yatra medhātithiḥ muniḥ .. 1 ..
तत्र शंभोः प्रसादेन न केनाप्युपलक्षिता ॥ सस्मार वर्णिनं तं वै स्वोपदेशकरं तपः ॥ २ ॥
तत्र शंभोः प्रसादेन न केन अपि उपलक्षिता ॥ सस्मार वर्णिनम् तम् वै स्व-उपदेश-करम् तपः ॥ २ ॥
tatra śaṃbhoḥ prasādena na kena api upalakṣitā .. sasmāra varṇinam tam vai sva-upadeśa-karam tapaḥ .. 2 ..
वसिष्ठेन पुरा सा तु वर्णीभूत्वा महामुने ॥ उपदिष्टा तपश्चर्तुं वचनात्परमेष्ठिनः ॥ ३ ॥
वसिष्ठेन पुरा सा तु वर्णीभूत्वा महा-मुने ॥ उपदिष्टा तपः चर्तुम् वचनात् परमेष्ठिनः ॥ ३ ॥
vasiṣṭhena purā sā tu varṇībhūtvā mahā-mune .. upadiṣṭā tapaḥ cartum vacanāt parameṣṭhinaḥ .. 3 ..
तमेव कृत्वा मनसा तपश्चर्योपदेशकम् ॥ पतित्वेन तदा संध्या ब्राह्मणं ब्रह्मचारिणम् ॥ ४ ॥
तम् एव कृत्वा मनसा तपः-चर्या-उपदेशकम् ॥ पति-त्वेन तदा संध्या ब्राह्मणम् ब्रह्मचारिणम् ॥ ४ ॥
tam eva kṛtvā manasā tapaḥ-caryā-upadeśakam .. pati-tvena tadā saṃdhyā brāhmaṇam brahmacāriṇam .. 4 ..
समिद्धेग्नौ महायज्ञे मुनिभिर्नोपलक्षिता ॥ दृष्टा शंभुप्रसादेन सा विवेश विधेः सुता ॥ ५ ॥
समिद्ध-इग्नौ महा-यज्ञे मुनिभिः न उपलक्षिता ॥ दृष्टा शंभु-प्रसादेन सा विवेश विधेः सुता ॥ ५ ॥
samiddha-ignau mahā-yajñe munibhiḥ na upalakṣitā .. dṛṣṭā śaṃbhu-prasādena sā viveśa vidheḥ sutā .. 5 ..
तस्याः पुरोडाशमयं शरीरं तत्क्षणात्ततः ॥ दग्धं पुरोडाशगंधं तस्तार यदलक्षितम् ॥ ६॥
तस्याः पुरोडाश-मयम् शरीरम् तद्-क्षणात् ततस् ॥ दग्धम् पुरोडाश-गंधम् तस्तार यत् अलक्षितम् ॥ ६॥
tasyāḥ puroḍāśa-mayam śarīram tad-kṣaṇāt tatas .. dagdham puroḍāśa-gaṃdham tastāra yat alakṣitam .. 6..
वह्निस्तस्याः शरीरं तु दग्ध्वा सूर्यस्य मंडलम् ॥ शुद्धं प्रवेशयामास शंभोरेवाज्ञया पुनः ॥ ७॥
वह्निः तस्याः शरीरम् तु दग्ध्वा सूर्यस्य मंडलम् ॥ शुद्धम् प्रवेशयामास शंभोः एव आज्ञया पुनर् ॥ ७॥
vahniḥ tasyāḥ śarīram tu dagdhvā sūryasya maṃḍalam .. śuddham praveśayāmāsa śaṃbhoḥ eva ājñayā punar .. 7..
सूर्यो त्र्यर्थं विभज्याथ तच्छरीरं तदा रथे ॥ स्वकेशं स्थापयामास प्रीतये पितृदेवयोः ॥ ८॥
सूर्यो त्रि-अर्थम् विभज्य अथ तत् शरीरम् तदा रथे ॥ स्व-केशम् स्थापयामास प्रीतये पितृ-देवयोः ॥ ८॥
sūryo tri-artham vibhajya atha tat śarīram tadā rathe .. sva-keśam sthāpayāmāsa prītaye pitṛ-devayoḥ .. 8..
तदूर्द्ध्वभागस्तस्यास्तु शरीरस्य मुनीश्वर॥ प्रातस्संध्याभवत्सा तु अहोरात्रादिमध्यगा।९।
तद्-ऊर्द्ध्व-भागः तस्याः तु शरीरस्य मुनि-ईश्वर॥ प्रातस्संध्या अभवत् सा तु अहर्-रात्र-आदि-मध्य-गा।९।
tad-ūrddhva-bhāgaḥ tasyāḥ tu śarīrasya muni-īśvara.. prātassaṃdhyā abhavat sā tu ahar-rātra-ādi-madhya-gā.9.
तच्छेषभागस्तस्यास्तु अहोरात्रांतमध्यगा ॥ सा सायमभवत्संध्या पितृप्रीतिप्रदा सदा ॥ 2.2.7.१ ०॥
तद्-शेष-भागः तस्याः तु अहोरात्र-अंत-मध्य-गा ॥ सा सायम् अभवत् संध्या पितृ-प्रीति-प्रदा सदा ॥ २।२।७।१ ०॥
tad-śeṣa-bhāgaḥ tasyāḥ tu ahorātra-aṃta-madhya-gā .. sā sāyam abhavat saṃdhyā pitṛ-prīti-pradā sadā .. 2.2.7.1 0..
सूर्योदयात्तु प्रथमं यदा स्यादरुणोदयः ॥ प्रातस्संध्या तदोदेति देवानां प्रीतिकारिणी ॥ ११ ॥
सूर्य-उदयात् तु प्रथमम् यदा स्यात् अरुण-उदयः ॥ प्रातस्संध्या तदा उदेति देवानाम् प्रीति-कारिणी ॥ ११ ॥
sūrya-udayāt tu prathamam yadā syāt aruṇa-udayaḥ .. prātassaṃdhyā tadā udeti devānām prīti-kāriṇī .. 11 ..
अस्तं गते ततः सूर्य्ये शोणपद्मनिभे सदा ॥ उदेति सायं संध्यापि पितॄणां मोदकारिणी ॥ १२॥
अस्तम् गते ततस् सूर्य्ये शोण-पद्म-निभे सदा ॥ उदेति सायम् संध्या अपि पितॄणाम् मोद-कारिणी ॥ १२॥
astam gate tatas sūryye śoṇa-padma-nibhe sadā .. udeti sāyam saṃdhyā api pitṝṇām moda-kāriṇī .. 12..
तस्याः प्राणास्तु मनसा शंभुनाथ दयालुना ॥ दिव्येन तु शरीरेण चक्रिरे हि शरीरिणः ॥ १३॥
तस्याः प्राणाः तु मनसा शंभुना अथ दयालुना ॥ दिव्येन तु शरीरेण चक्रिरे हि शरीरिणः ॥ १३॥
tasyāḥ prāṇāḥ tu manasā śaṃbhunā atha dayālunā .. divyena tu śarīreṇa cakrire hi śarīriṇaḥ .. 13..
मुनेर्यज्ञावसाने तु संप्राप्ते मुनिना तु सा ॥ प्राप्ता पुत्री वह्निमध्ये तप्तकांचनसुप्रभा ॥ १४ ॥
मुनेः यज्ञ-अवसाने तु संप्राप्ते मुनिना तु सा ॥ प्राप्ता पुत्री वह्नि-मध्ये तप्त-कांचन-सु प्रभा ॥ १४ ॥
muneḥ yajña-avasāne tu saṃprāpte muninā tu sā .. prāptā putrī vahni-madhye tapta-kāṃcana-su prabhā .. 14 ..
तां जग्राह तदा पुत्रीं मुनुरामोदसंयुतः ॥ यज्ञार्थं तान्तु संस्नाप्य निजक्रोडे दधौ मुने ॥ १५ ॥
ताम् जग्राह तदा पुत्रीम् मुनुः आमोद-संयुतः ॥ यज्ञ-अर्थम् तान् तु संस्नाप्य निज-क्रोडे मुने ॥ १५ ॥
tām jagrāha tadā putrīm munuḥ āmoda-saṃyutaḥ .. yajña-artham tān tu saṃsnāpya nija-kroḍe mune .. 15 ..
अरुंधती तु तस्यास्तु नाम चक्रे महामुनिः ॥ शिष्यैः परिवृतस्तत्र महामोदमवाप ह ॥ १६ ॥
अरुंधती तु तस्याः तु नाम चक्रे महा-मुनिः ॥ शिष्यैः परिवृतः तत्र महा-मोदम् अवाप ह ॥ १६ ॥
aruṃdhatī tu tasyāḥ tu nāma cakre mahā-muniḥ .. śiṣyaiḥ parivṛtaḥ tatra mahā-modam avāpa ha .. 16 ..
विरुणद्धि यतो धर्मं सा कस्मादपि कारणात् ॥ अतस्त्रिलोके विदितं नाम संप्राप तत्स्वयम् ॥ १७॥
विरुणद्धि यतस् धर्मम् सा कस्मात् अपि कारणात् ॥ अतस् त्रिलोके विदितम् नाम संप्राप तत् स्वयम् ॥ १७॥
viruṇaddhi yatas dharmam sā kasmāt api kāraṇāt .. atas triloke viditam nāma saṃprāpa tat svayam .. 17..
यज्ञं समाप्य स मुनिः कृतकृत्यभावमासाद्य संपदयुतस्तनया प्रलंभात् ॥ तस्मिन्निजाश्रमपदे सह शिष्यवर्गैस्तामेव सततमसौ दयिते सुरर्षे ॥ १८॥
यज्ञम् समाप्य स मुनिः कृतकृत्य-भावम् आसाद्य संपद्-अयुतः तनया प्रलंभात् ॥ तस्मिन् निज-आश्रम-पदे सह शिष्य-वर्गैः ताम् एव सततम् असौ दयिते सुरर्षे ॥ १८॥
yajñam samāpya sa muniḥ kṛtakṛtya-bhāvam āsādya saṃpad-ayutaḥ tanayā pralaṃbhāt .. tasmin nija-āśrama-pade saha śiṣya-vargaiḥ tām eva satatam asau dayite surarṣe .. 18..
अथ सा ववृधे देवी तस्मिन्मुनिवराश्रमे ॥ चन्द्रभागानदीतीरे तापसारण्यसंज्ञके ॥ १९ ॥
अथ सा ववृधे देवी तस्मिन् मुनि-वर-आश्रमे ॥ चन्द्रभागा-नदी-तीरे तापसारण्य-संज्ञके ॥ १९ ॥
atha sā vavṛdhe devī tasmin muni-vara-āśrame .. candrabhāgā-nadī-tīre tāpasāraṇya-saṃjñake .. 19 ..
संप्राप्ते पञ्चमे वर्षे चन्द्रभागां तदा गुणैः ॥ तापसारण्यमपि सा पवित्रमकरोत्सती ॥ 2.2.7.२०॥
संप्राप्ते पञ्चमे वर्षे चन्द्रभागाम् तदा गुणैः ॥ तापस-अरण्यम् अपि सा पवित्रम् अकरोत् सती ॥ २।२।७।२०॥
saṃprāpte pañcame varṣe candrabhāgām tadā guṇaiḥ .. tāpasa-araṇyam api sā pavitram akarot satī .. 2.2.7.20..
विवाहं कारयामासुस्तस्या ब्रह्मसुतेन वै ॥ वसिष्ठेन ह्यरुंधत्या ब्रह्मविष्णुमहेश्वराः ॥ २१॥
विवाहम् कारयामासुः तस्याः ब्रह्म-सुतेन वै ॥ वसिष्ठेन हि अरुंधत्या ब्रह्म-विष्णु-महेश्वराः ॥ २१॥
vivāham kārayāmāsuḥ tasyāḥ brahma-sutena vai .. vasiṣṭhena hi aruṃdhatyā brahma-viṣṇu-maheśvarāḥ .. 21..
तद्विवाहे महोत्साहो वभूव सुखवर्द्धनः॥ सर्वे सुराश्च मुनयस्सुखमापुः परं मुनो।२२॥
तद्-विवाहे महा-उत्साहः वभूव सुख-वर्द्धनः॥ सर्वे सुराः च मुनयः सुखम् आपुः परम् मुनो।२२॥
tad-vivāhe mahā-utsāhaḥ vabhūva sukha-varddhanaḥ.. sarve surāḥ ca munayaḥ sukham āpuḥ param muno.22..
ब्रह्मविष्णुमहेशानां करनिस्सृततोयतः ॥ सप्तनद्यस्समुत्पन्नाश्शिप्राद्यास्सुपवित्रकाः ॥ २३ ॥
ब्रह्म-विष्णु-महेशानाम् कर-निस्सृत-तोयतः ॥ सप्त-नद्यः समुत्पन्नाः शिप्रा-आद्याः सु पवित्रकाः ॥ २३ ॥
brahma-viṣṇu-maheśānām kara-nissṛta-toyataḥ .. sapta-nadyaḥ samutpannāḥ śiprā-ādyāḥ su pavitrakāḥ .. 23 ..
अरुंधती महासाध्वी साध्वीनां प्रवरोत्तमा ॥ वसिष्ठं प्राप्य संरेजे मेधातिथिसुता मुने ॥ २४ ॥
अरुंधती महा-साध्वी साध्वीनाम् प्रवर-उत्तमा ॥ वसिष्ठम् प्राप्य संरेजे मेधातिथि-सुता मुने ॥ २४ ॥
aruṃdhatī mahā-sādhvī sādhvīnām pravara-uttamā .. vasiṣṭham prāpya saṃreje medhātithi-sutā mune .. 24 ..
यस्याः पुत्रास्समुत्पन्नाः श्रेष्ठाश्शक्त्यादयश्शुभाः ॥ वसिष्ठं प्राप्य तं कांतं संरेजे मुनिसत्तमाः ॥ २५ ॥
यस्याः पुत्राः समुत्पन्नाः श्रेष्ठाः शक्ति-आदयः शुभाः ॥ वसिष्ठम् प्राप्य तम् कान्तम् संरेजे मुनि-सत्तमाः ॥ २५ ॥
yasyāḥ putrāḥ samutpannāḥ śreṣṭhāḥ śakti-ādayaḥ śubhāḥ .. vasiṣṭham prāpya tam kāntam saṃreje muni-sattamāḥ .. 25 ..
एवं संध्याचरित्रं ते कथितं मुनिसत्तम ॥ पवित्रं पावनं दिव्यं सर्वकामफलप्रदम् ॥ २६ ॥
एवम् संध्या-चरित्रम् ते कथितम् मुनि-सत्तम ॥ पवित्रम् पावनम् दिव्यम् सर्व-काम-फल-प्रदम् ॥ २६ ॥
evam saṃdhyā-caritram te kathitam muni-sattama .. pavitram pāvanam divyam sarva-kāma-phala-pradam .. 26 ..
य इदं शृणुयान्नारी पुरुषो वा शुभव्रतः ॥ सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ॥ २७ ॥
यः इदम् शृणुयात् नारी पुरुषः वा शुभ-व्रतः ॥ सर्वान् कामान् अवाप्नोति न अत्र कार्या विचारणा ॥ २७ ॥
yaḥ idam śṛṇuyāt nārī puruṣaḥ vā śubha-vrataḥ .. sarvān kāmān avāpnoti na atra kāryā vicāraṇā .. 27 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वि- सतीखंडे सप्तमोऽध्यायः ॥ ७ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वि-सती-खण्डे सप्तमः अध्यायः ॥ ७ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvi-satī-khaṇḍe saptamaḥ adhyāyaḥ .. 7 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In