| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य ब्रह्मणो हि प्रजापतेः ॥ प्रसन्नमानसो भूत्वा तं प्रोवाच स नारदः ॥ १॥
इति आकर्ण्य वचः तस्य ब्रह्मणः हि प्रजापतेः ॥ प्रसन्न-मानसः भूत्वा तम् प्रोवाच स नारदः ॥ १॥
iti ākarṇya vacaḥ tasya brahmaṇaḥ hi prajāpateḥ .. prasanna-mānasaḥ bhūtvā tam provāca sa nāradaḥ .. 1..
नारद उवाच ।।
ब्रह्मन् विधे महाभाग विष्णुशिष्य महामते ॥ धन्यस्त्वं शिवभक्तो हि परतत्त्वप्रदर्शकः ॥ २॥
ब्रह्मन् विधे महाभाग विष्णु-शिष्य महामते ॥ धन्यः त्वम् शिव-भक्तः हि पर-तत्त्व-प्रदर्शकः ॥ २॥
brahman vidhe mahābhāga viṣṇu-śiṣya mahāmate .. dhanyaḥ tvam śiva-bhaktaḥ hi para-tattva-pradarśakaḥ .. 2..
श्राविता सुकथा दिव्या शिवभक्तिविवर्द्धिनी ॥ अरुंधत्यास्तथा तस्याः स्वरूपायाः परे भवे ॥ ३ ॥
श्राविता सु कथा दिव्या शिव-भक्ति-विवर्द्धिनी ॥ अरुंधत्याः तथा तस्याः स्व-रूपायाः परे भवे ॥ ३ ॥
śrāvitā su kathā divyā śiva-bhakti-vivarddhinī .. aruṃdhatyāḥ tathā tasyāḥ sva-rūpāyāḥ pare bhave .. 3 ..
इदानीं ब्रूहि धर्मज्ञ पवित्रं चरितं परम् ॥ शिवस्य परपापघ्नं मंगलप्रदमुत्तमम् ॥ ४ ॥
इदानीम् ब्रूहि धर्म-ज्ञ पवित्रम् चरितम् परम् ॥ शिवस्य पर-पाप-घ्नम् मंगल-प्रदम् उत्तमम् ॥ ४ ॥
idānīm brūhi dharma-jña pavitram caritam param .. śivasya para-pāpa-ghnam maṃgala-pradam uttamam .. 4 ..
गृहीतदारे कामे च दृष्टे तेषु गतेषु च ॥ संध्यायां किं तपस्तप्तुं गतायामभवत्ततः ॥ ५ ॥
गृहीत-दारे कामे च दृष्टे तेषु गतेषु च ॥ संध्यायाम् किम् तपः तप्तुम् गतायाम् अभवत् ततस् ॥ ५ ॥
gṛhīta-dāre kāme ca dṛṣṭe teṣu gateṣu ca .. saṃdhyāyām kim tapaḥ taptum gatāyām abhavat tatas .. 5 ..
सूत उवाच ।।
इति श्रुत्वा वचस्तस्य ऋषेर्वै भावितात्मनः ॥ सुप्रसन्नतरो भूत्वा ब्रह्मा वचनमब्रवीत् ॥ ६ ॥
इति श्रुत्वा वचः तस्य ऋषेः वै भावितात्मनः ॥ सुप्रसन्नतरः भूत्वा ब्रह्मा वचनम् अब्रवीत् ॥ ६ ॥
iti śrutvā vacaḥ tasya ṛṣeḥ vai bhāvitātmanaḥ .. suprasannataraḥ bhūtvā brahmā vacanam abravīt .. 6 ..
ब्रह्मोवाच ।।
शृणु नारद विप्रेन्द्र तदैव चरितं शुभम् ॥ शिवलीलान्वितं भक्त्या धन्यस्त्वं शिवसेवकः ॥ ७ ॥
शृणु नारद विप्र-इन्द्र तदा एव चरितम् शुभम् ॥ शिव-लीला-अन्वितम् भक्त्या धन्यः त्वम् शिव-सेवकः ॥ ७ ॥
śṛṇu nārada vipra-indra tadā eva caritam śubham .. śiva-līlā-anvitam bhaktyā dhanyaḥ tvam śiva-sevakaḥ .. 7 ..
अहं विमोहितस्तात यदैवांतर्हितः पुरा ॥ अचिंतयं सदाहं तच्छंभुवाक्यविषार्दितः ॥ ८॥
अहम् विमोहितः तात यदा एव अंतर्हितः पुरा ॥ अचिंतयम् सदा अहम् तद्-शंभु-वाक्य-विष-अर्दितः ॥ ८॥
aham vimohitaḥ tāta yadā eva aṃtarhitaḥ purā .. aciṃtayam sadā aham tad-śaṃbhu-vākya-viṣa-arditaḥ .. 8..
चिंतयित्वा चिरं चित्ते शिवमायाविमोहितः ॥ शिवे चेर्ष्यामकार्षं हि तच्छ्ृवृणुष्व वदामि ते ॥ ९ ॥
चिंतयित्वा चिरम् चित्ते शिव-माया-विमोहितः ॥ शिवे च ईर्ष्याम् अकार्षम् हि तत् शृवृणुष्व वदामि ते ॥ ९ ॥
ciṃtayitvā ciram citte śiva-māyā-vimohitaḥ .. śive ca īrṣyām akārṣam hi tat śṛvṛṇuṣva vadāmi te .. 9 ..
अथाहमगमं तत्र यत्र दक्षादयः स्थिताः ॥ सरतिं मदनं दृष्ट्वा समदोह हि किञ्चन ॥ 2.2.8.१० ॥
अथ अहम् अगमम् तत्र यत्र दक्ष-आदयः स्थिताः ॥ सरतिम् मदनम् दृष्ट्वा समदोह हि किञ्चन ॥ २।२।८।१० ॥
atha aham agamam tatra yatra dakṣa-ādayaḥ sthitāḥ .. saratim madanam dṛṣṭvā samadoha hi kiñcana .. 2.2.8.10 ..
दक्षमाभाष्य सुप्रीत्या परान्पुत्रांश्च नारद ॥ अवोचं वचनं सोहं शिवमायाविमोहितः ॥ ११ ॥
दक्षम् आभाष्य सु प्रीत्या परान् पुत्रान् च नारद ॥ अवोचम् वचनम् सः हम् शिव-माया-विमोहितः ॥ ११ ॥
dakṣam ābhāṣya su prītyā parān putrān ca nārada .. avocam vacanam saḥ ham śiva-māyā-vimohitaḥ .. 11 ..
ब्रह्मोवाच ।।
हे दक्ष हे मरीच्याद्यास्सुताः शृणुत मद्वचः ॥ श्रुत्वोपायं विधेयं हि मम कष्टापनुत्तये ॥ १२ ॥
हे दक्ष हे मरीचि-आद्याः सुताः शृणुत मद्-वचः ॥ श्रुत्वा उपायम् विधेयम् हि मम कष्ट-अपनुत्तये ॥ १२ ॥
he dakṣa he marīci-ādyāḥ sutāḥ śṛṇuta mad-vacaḥ .. śrutvā upāyam vidheyam hi mama kaṣṭa-apanuttaye .. 12 ..
कांताभिलाषमात्रं मे दृष्ट्वा शम्भुरगर्हयत् ॥ मां च युष्मान्महायोगी धिक्कारं कृतवान्बहु ॥ १३ ॥
कान्ता-अभिलाष-मात्रम् मे दृष्ट्वा शम्भुः अगर्हयत् ॥ माम् च युष्मान् महा-योगी धिक्कारम् कृतवान् बहु ॥ १३ ॥
kāntā-abhilāṣa-mātram me dṛṣṭvā śambhuḥ agarhayat .. mām ca yuṣmān mahā-yogī dhikkāram kṛtavān bahu .. 13 ..
तेन दुःखाभितप्तोहं लभेहं शर्म न क्वचित् ॥ यथा गृह्णातु कांतां स स यत्नः कार्य एव हि ॥ १४ ॥
तेन दुःख-अभितप्ता उहम् लभे इहम् शर्म न क्वचिद् ॥ यथा गृह्णातु कांताम् स स यत्नः कार्यः एव हि ॥ १४ ॥
tena duḥkha-abhitaptā uham labhe iham śarma na kvacid .. yathā gṛhṇātu kāṃtām sa sa yatnaḥ kāryaḥ eva hi .. 14 ..
यथा गृह्णातु कांतां स सुखी स्यां दुःखवर्जितः ॥ दुर्लभस्य तु कामो मे परं मन्ये विचारतः ॥ १५॥
यथा गृह्णातु कांताम् स सुखी स्याम् दुःख-वर्जितः ॥ दुर्लभस्य तु कामः मे परम् मन्ये विचारतः ॥ १५॥
yathā gṛhṇātu kāṃtām sa sukhī syām duḥkha-varjitaḥ .. durlabhasya tu kāmaḥ me param manye vicārataḥ .. 15..
कांताभिलाषमात्रं मे दृष्ट्वा शंभुरगर्हयत् ॥ मुनीनां पुरतः कस्मात्स कांतां संग्रहीष्यति ॥ १६ ॥
कांता-अभिलाष-मात्रम् मे दृष्ट्वा शंभुः अगर्हयत् ॥ मुनीनाम् पुरतस् कस्मात् स कांताम् संग्रहीष्यति ॥ १६ ॥
kāṃtā-abhilāṣa-mātram me dṛṣṭvā śaṃbhuḥ agarhayat .. munīnām puratas kasmāt sa kāṃtām saṃgrahīṣyati .. 16 ..
का वा नारी त्रिलोकेस्मिन् या भवेत्तन्मनाः स्थिता ॥ योगमार्गमवज्ञाप्य तस्य मोहं करिष्यति ॥ १७ ॥
का वा नारी त्रिलोके इस्मिन् या भवेत् तद्-मनाः स्थिता ॥ योग-मार्गम् अवज्ञाप्य तस्य मोहम् करिष्यति ॥ १७ ॥
kā vā nārī triloke ismin yā bhavet tad-manāḥ sthitā .. yoga-mārgam avajñāpya tasya moham kariṣyati .. 17 ..
मन्मथोपि समर्थो नो भविष्यत्यस्य मोहने ॥ नितांतयोगी रामाणां नामापि सहते न सः ॥ १८ ॥
मन्मथः उपि समर्थः नः भविष्यति अस्य मोहने ॥ नितान्त-योगी रामाणाम् नाम अपि सहते न सः ॥ १८ ॥
manmathaḥ upi samarthaḥ naḥ bhaviṣyati asya mohane .. nitānta-yogī rāmāṇām nāma api sahate na saḥ .. 18 ..
अगृहीतेषुणा चैव हरेण कथमादिना ॥ मध्यमा च भवेत्सृष्टिस्तद्वाचा नान्यवारिता ॥ १९ ॥
अगृहीत-इषुणा च एव हरेण कथम् आदिना ॥ मध्यमा च भवेत् सृष्टिः तद्-वाचा न अन्य-वारिता ॥ १९ ॥
agṛhīta-iṣuṇā ca eva hareṇa katham ādinā .. madhyamā ca bhavet sṛṣṭiḥ tad-vācā na anya-vāritā .. 19 ..
भुवि केचिद्भविष्यंति मायाबद्धा महासुराः ॥ बद्धा केचिद्धरेर्नूनं केचिच्छंभोरुपायतः ॥ 2.2.8.२० ॥
भुवि केचिद् भविष्यन्ति माया-बद्धाः महा-असुराः ॥ बद्धा केचिद् हरेः नूनम् केचिद् शंभोः उपायतः ॥ २।२।८।२० ॥
bhuvi kecid bhaviṣyanti māyā-baddhāḥ mahā-asurāḥ .. baddhā kecid hareḥ nūnam kecid śaṃbhoḥ upāyataḥ .. 2.2.8.20 ..
संसारविमुखे शंभौ तथैकांतविरागिणि ॥ अस्मादृते न कर्मान्यत् करिष्यति न संशयः ॥ २१ ॥
संसार-विमुखे शंभौ तथा एकान्त-विरागिणि ॥ अस्मात् ऋते न कर्म अन्यत् करिष्यति न संशयः ॥ २१ ॥
saṃsāra-vimukhe śaṃbhau tathā ekānta-virāgiṇi .. asmāt ṛte na karma anyat kariṣyati na saṃśayaḥ .. 21 ..
इत्युक्त्वा तनयांश्चाहं दक्षादीन् सुनिरीक्ष्य च ॥ सरतिं मदनं तत्र सानंदमगदं ततः ॥ २२ ॥
इति उक्त्वा तनयान् च अहम् दक्ष-आदीन् सु निरीक्ष्य च ॥ सरतिम् मदनम् तत्र स आनंदम् अगदम् ततस् ॥ २२ ॥
iti uktvā tanayān ca aham dakṣa-ādīn su nirīkṣya ca .. saratim madanam tatra sa ānaṃdam agadam tatas .. 22 ..
ब्रह्मोवाच ।।
मत्पुत्र वर काम त्वं सर्वथा सुखदायकः ॥ मद्वचश्शृणु सुप्रीत्या स्वपत्न्या पितृवत्सल ॥ २३ ॥
मद्-पुत्र वर काम त्वम् सर्वथा सुख-दायकः ॥ मद्-वचः शृणु सु प्रीत्या स्व-पत्न्या पितृ-वत्सल ॥ २३ ॥
mad-putra vara kāma tvam sarvathā sukha-dāyakaḥ .. mad-vacaḥ śṛṇu su prītyā sva-patnyā pitṛ-vatsala .. 23 ..
अनया सहचारिण्या राजसे त्वं मनोभव ॥ एषा च भवता पत्या युक्ता संशोभते भृशम् ॥ २४ ॥
अनया सहचारिण्या राजसे त्वम् मनोभव ॥ एषा च भवता पत्या युक्ता संशोभते भृशम् ॥ २४ ॥
anayā sahacāriṇyā rājase tvam manobhava .. eṣā ca bhavatā patyā yuktā saṃśobhate bhṛśam .. 24 ..
यथा स्त्रिया हृषीकेशो हरिणा सा यथा रमा ॥ क्षणदा विधुना युक्ता तया युक्तो यथा विधुः ॥ २५ ॥
यथा स्त्रियाः हृषीकेशः हरिणा सा यथा रमा ॥ क्षणदा विधुना युक्ता तया युक्तः यथा विधुः ॥ २५ ॥
yathā striyāḥ hṛṣīkeśaḥ hariṇā sā yathā ramā .. kṣaṇadā vidhunā yuktā tayā yuktaḥ yathā vidhuḥ .. 25 ..
तथैव युवयोश्शोभा दांपत्यं च पुरस्कृतम् ॥ अतस्त्वं जगतः केतुर्विश्वकेतुर्भविष्यसि॥ २६ ॥
तथा एव युवयोः शोभा दांपत्यम् च पुरस्कृतम् ॥ अतस् त्वम् जगतः केतुः विश्वकेतुः भविष्यसि॥ २६ ॥
tathā eva yuvayoḥ śobhā dāṃpatyam ca puraskṛtam .. atas tvam jagataḥ ketuḥ viśvaketuḥ bhaviṣyasi.. 26 ..
जगद्धिताय वत्स त्वं मोहयस्व पिनाकिनम् ॥ यथाशु सुमनश्शंभुः कुर्य्याद्दारप्रतिग्रहम् ॥ २७ ॥
जगत्-हिताय वत्स त्वम् मोहयस्व पिनाकिनम् ॥ यथाशु सु मनः शंभुः कुर्य्यात् दार-प्रतिग्रहम् ॥ २७ ॥
jagat-hitāya vatsa tvam mohayasva pinākinam .. yathāśu su manaḥ śaṃbhuḥ kuryyāt dāra-pratigraham .. 27 ..
विजने स्निग्धदेशे तु पर्वतेषु सरस्सु च ॥ यत्रयत्र प्रयातीशस्तत्र तत्रानया सह ॥ २८ ॥
विजने स्निग्ध-देशे तु पर्वतेषु सरस्सु च ॥ यत्र यत्र प्रयाति ईशः तत्र तत्र अनया सह ॥ २८ ॥
vijane snigdha-deśe tu parvateṣu sarassu ca .. yatra yatra prayāti īśaḥ tatra tatra anayā saha .. 28 ..
मोहय त्वं यतात्मानं वनिताविमुखं हरम् ॥ त्वदृते विद्यते नान्यः कश्चिदस्य विमोहकः ॥ २९ ॥
मोहय त्वम् यत-आत्मानम् वनिता-विमुखम् हरम् ॥ त्वत् ऋते विद्यते ना अन्यः कश्चिद् अस्य विमोहकः ॥ २९ ॥
mohaya tvam yata-ātmānam vanitā-vimukham haram .. tvat ṛte vidyate nā anyaḥ kaścid asya vimohakaḥ .. 29 ..
भूते हरे सानुरागे भवतोपि मनोभव ।शापोपशांतिर्भविता तस्मादात्महितं कुरु ॥ 2.2.8.३० ॥
भूते हरे स अनुरागे भवतः अपि मनोभव ।शाप-उपशांतिः भविता तस्मात् आत्म-हितम् कुरु ॥ २।२।८।३० ॥
bhūte hare sa anurāge bhavataḥ api manobhava .śāpa-upaśāṃtiḥ bhavitā tasmāt ātma-hitam kuru .. 2.2.8.30 ..
सानुरागो वरारोहां यदीच्छति महेश्वरः ॥ तदा भवोपि योग्यार्यस्त्वां च संतारयिष्यति ॥ ३१ ॥
स अनुरागः वरारोहाम् यदि इच्छति महेश्वरः ॥ तदा भवः अपि योग्य-आर्यः त्वाम् च संतारयिष्यति ॥ ३१ ॥
sa anurāgaḥ varārohām yadi icchati maheśvaraḥ .. tadā bhavaḥ api yogya-āryaḥ tvām ca saṃtārayiṣyati .. 31 ..
तस्माज्जायाद्वितीयस्त्वं यतस्व हरमोहने ॥ विश्वस्य भव केतुस्त्वं मोहयित्वा महेश्वरम् ॥ ३२॥
तस्मात् जाया-अद्वितीयः त्वम् यतस्व हर-मोहने ॥ विश्वस्य भव केतुः त्वम् मोहयित्वा महेश्वरम् ॥ ३२॥
tasmāt jāyā-advitīyaḥ tvam yatasva hara-mohane .. viśvasya bhava ketuḥ tvam mohayitvā maheśvaram .. 32..
ब्रह्मोवाच ।।
इति श्रुत्वा वचो मे हि जनकस्य जगत्प्रभोः ॥ उवाच मन्मथस्तथ्यं तदा मां जगतां पतिम् ॥ ३३ ॥
इति श्रुत्वा वचः मे हि जनकस्य जगत्प्रभोः ॥ उवाच मन्मथः तथ्यम् तदा माम् जगताम् पतिम् ॥ ३३ ॥
iti śrutvā vacaḥ me hi janakasya jagatprabhoḥ .. uvāca manmathaḥ tathyam tadā mām jagatām patim .. 33 ..
मन्मथ उवाच ।।
करिष्येहं तव विभो वचनाच्छंभुमोहनम् ॥ किं तु योषिन्महास्त्रं मे तत्कांतां भगवन् सृज ॥ ३४॥
करिष्ये इहम् तव विभो वचनात् शंभु-मोहनम् ॥ किम् तु योषित्-महा-अस्त्रम् मे तत् कांताम् भगवन् सृज ॥ ३४॥
kariṣye iham tava vibho vacanāt śaṃbhu-mohanam .. kim tu yoṣit-mahā-astram me tat kāṃtām bhagavan sṛja .. 34..
मया संमोहिते शंभो यया तस्यानुमोहनम् ॥ कर्तव्यमधुना धातस्तत्रोपायं परं कुरु ॥ ३५ ॥
मया संमोहिते शंभो यया तस्य अनुमोहनम् ॥ कर्तव्यम् अधुना धातर् तत्र उपायम् परम् कुरु ॥ ३५ ॥
mayā saṃmohite śaṃbho yayā tasya anumohanam .. kartavyam adhunā dhātar tatra upāyam param kuru .. 35 ..
ब्रह्मोवाच ।।
एवंवादिनि कंदर्पे धाताहं स प्रजापतिः ॥ कया संमोहनीयोसाविति चिंतामयामहम् ॥ ३६ ॥
एवंवादिनि कंदर्पे धाता अहम् स प्रजापतिः ॥ कया संमोहनीया उसौ इति ॥ ३६ ॥
evaṃvādini kaṃdarpe dhātā aham sa prajāpatiḥ .. kayā saṃmohanīyā usau iti .. 36 ..
चिंताविष्टस्य मे तस्य निःश्वासो यो विनिस्सृतः ॥ तस्माद्वसंतस्संजातः पुष्पव्रातविभूषितः ॥ ३७ ॥
चिंता-आविष्टस्य मे तस्य निःश्वासः यः विनिस्सृतः ॥ तस्मात् वसंतः संजातः पुष्प-व्रात-विभूषितः ॥ ३७ ॥
ciṃtā-āviṣṭasya me tasya niḥśvāsaḥ yaḥ vinissṛtaḥ .. tasmāt vasaṃtaḥ saṃjātaḥ puṣpa-vrāta-vibhūṣitaḥ .. 37 ..
शोणराजीवसंकाशः फुल्लतामरसेक्षणः ॥ संध्योदिताखंडशशिप्रतिमास्यस्सुनासिकः॥ ३८॥
शोण-राजीव-संकाशः फुल्ल-तामरस-ईक्षणः ॥ संध्या-उदित-आखंड-शशि-प्रतिमा-अस्यः सु नासिकः॥ ३८॥
śoṇa-rājīva-saṃkāśaḥ phulla-tāmarasa-īkṣaṇaḥ .. saṃdhyā-udita-ākhaṃḍa-śaśi-pratimā-asyaḥ su nāsikaḥ.. 38..
शार्ङ्गवच्चरणावर्त्तश्श्यामकुंचितमूर्द्धजः॥ संध्यांशुमालिसदृशः कुडलद्वयमंडितः ॥ ३९ ॥
शार्ङ्ग-वत् चरण-आवर्तः श्याम-कुंचित-मूर्द्धजः॥ संध्यांशुमालि-सदृशः कुडल-द्वय-मंडितः ॥ ३९ ॥
śārṅga-vat caraṇa-āvartaḥ śyāma-kuṃcita-mūrddhajaḥ.. saṃdhyāṃśumāli-sadṛśaḥ kuḍala-dvaya-maṃḍitaḥ .. 39 ..
प्रमत्तेभगतिः पीनायतदोरुन्नतांसकः ॥ कंबुग्रीवस्सुविस्तीर्णहृदयः पीनसन्मुखः ॥ 2.2.8.४० ॥
प्रमत्त-इभ-गतिः पीन-आयत-दोस्-उन्नत-अंसकः ॥ कंबु-ग्रीवः सु विस्तीर्ण-हृदयः पीन-सत्-मुखः ॥ २।२।८।४० ॥
pramatta-ibha-gatiḥ pīna-āyata-dos-unnata-aṃsakaḥ .. kaṃbu-grīvaḥ su vistīrṇa-hṛdayaḥ pīna-sat-mukhaḥ .. 2.2.8.40 ..
सर्वांगसुन्दरः श्यामस्सम्पूर्णस्सर्वलक्षणैः ॥ दर्शनीयतमस्सर्वमोहनः कामवर्द्धनः ॥ ४१ ॥
सर्व-अंग-सुन्दरः श्यामः सम्पूर्णः सर्व-लक्षणैः ॥ दर्शनीयतमः सर्व-मोहनः काम-वर्द्धनः ॥ ४१ ॥
sarva-aṃga-sundaraḥ śyāmaḥ sampūrṇaḥ sarva-lakṣaṇaiḥ .. darśanīyatamaḥ sarva-mohanaḥ kāma-varddhanaḥ .. 41 ..
एतादृशे समुत्पन्ने वसंते कुसुमाकरे ॥ ववौ वायुस्सुसुरभिः पादपा अपि पुष्पिताः ॥ ४२ ॥
एतादृशे समुत्पन्ने वसंते कुसुमाकरे ॥ ववौ वायुः सु सुरभिः पादपाः अपि पुष्पिताः ॥ ४२ ॥
etādṛśe samutpanne vasaṃte kusumākare .. vavau vāyuḥ su surabhiḥ pādapāḥ api puṣpitāḥ .. 42 ..
पिका विनेदुश्शतशः पंचमं मधुरस्वनाः ॥ प्रफुल्लपद्मा अभवन्सरस्यः स्वच्छपुष्कराः ॥ ४३ ॥
पिकाः विनेदुः शतशस् पंचमम् मधुर-स्वनाः ॥ प्रफुल्ल-पद्माः अभवन् सरस्यः सु अच्छ-पुष्कराः ॥ ४३ ॥
pikāḥ vineduḥ śataśas paṃcamam madhura-svanāḥ .. praphulla-padmāḥ abhavan sarasyaḥ su accha-puṣkarāḥ .. 43 ..
तमुत्पन्नमहं वीक्ष्य तदा तादृशमुत्तमम् ॥ हिरण्यगर्भो मदनमगदं मधुरं वचः ॥ ४४ ॥
तम् उत्पन्नम् अहम् वीक्ष्य तदा तादृशम् उत्तमम् ॥ हिरण्यगर्भः मदनम् अगदम् मधुरम् वचः ॥ ४४ ॥
tam utpannam aham vīkṣya tadā tādṛśam uttamam .. hiraṇyagarbhaḥ madanam agadam madhuram vacaḥ .. 44 ..
ब्रह्मोवाच ॥ एवं स मन्मथनिभस्सदा सहचरोभवत् ॥ आनुकूल्यं तव कृतः सर्वं देव करिष्यति ॥ ४५ ॥
ब्रह्मा उवाच ॥ एवम् स मन्मथ-निभः सदा सहचरः भवत् ॥ आनुकूल्यम् तव कृतः सर्वम् देव करिष्यति ॥ ४५ ॥
brahmā uvāca .. evam sa manmatha-nibhaḥ sadā sahacaraḥ bhavat .. ānukūlyam tava kṛtaḥ sarvam deva kariṣyati .. 45 ..
यथाग्नेः पवनो मित्रं सर्वत्रोपकरिष्यति ॥ तथायं भवतो मित्रं सदा त्वामनुयास्यति ॥ ४६ ॥
यथा अग्नेः पवनः मित्रम् सर्वत्र उपकरिष्यति ॥ तथा अयम् भवतः मित्रम् सदा त्वाम् अनुयास्यति ॥ ४६ ॥
yathā agneḥ pavanaḥ mitram sarvatra upakariṣyati .. tathā ayam bhavataḥ mitram sadā tvām anuyāsyati .. 46 ..
वसंतेरंतहेतुत्वाद्वसंताख्यो भवत्वयम् ॥ तवानुगमनं कर्म तथा लोकानुरञ्जनम् । ४७ ॥
वसंतेः अंत-हेतु-त्वात् वसंत-आख्यः भवतु अयम् ॥ तव अनुगमनम् कर्म तथा लोक-अनुरञ्जनम् । ४७ ॥
vasaṃteḥ aṃta-hetu-tvāt vasaṃta-ākhyaḥ bhavatu ayam .. tava anugamanam karma tathā loka-anurañjanam . 47 ..
असौ वसंतशृंगारो वासंतो मलयानिलः ॥ भवेत्तु सुहृदो भावस्सदा त्वद्वशवर्त्तिनः ॥ ४८॥
असौ वसंतशृंगारः वासंतः मलय-अनिलः ॥ भवेत् तु सुहृदः भावः सदा त्वद्-वश-वर्त्तिनः ॥ ४८॥
asau vasaṃtaśṛṃgāraḥ vāsaṃtaḥ malaya-anilaḥ .. bhavet tu suhṛdaḥ bhāvaḥ sadā tvad-vaśa-varttinaḥ .. 48..
विष्वोकाद्यास्तथा हावाश्चतुष्षष्टिकलास्तथा ॥ रत्याः कुर्वंतु सौहृद्यं सुहृदस्ते यथा तव ॥ ४९ ॥
विष्वोक-आद्याः तथा हावाः चतुष्षष्टि-कलाः तथा ॥ रत्याः कुर्वंतु सौहृद्यम् सुहृदः ते यथा तव ॥ ४९ ॥
viṣvoka-ādyāḥ tathā hāvāḥ catuṣṣaṣṭi-kalāḥ tathā .. ratyāḥ kurvaṃtu sauhṛdyam suhṛdaḥ te yathā tava .. 49 ..
एभिस्सहचरैः काम वसंत प्रमुखैर्भवान् ॥ मोहयस्व महादेवं रत्या सह महोद्यतः ॥ 2.2.8.५० ॥
एभिः सहचरैः काम वसंत प्रमुखैः भवान् ॥ मोहयस्व महादेवम् रत्या सह महा-उद्यतः ॥ २।२।८।५० ॥
ebhiḥ sahacaraiḥ kāma vasaṃta pramukhaiḥ bhavān .. mohayasva mahādevam ratyā saha mahā-udyataḥ .. 2.2.8.50 ..
अहं तां कामिनीं तात भावयिष्यामि यत्नतः ॥ मनसा सुविचार्यैव या हरं मोहयिष्यति ॥ ५१ ॥
अहम् ताम् कामिनीम् तात भावयिष्यामि यत्नतः ॥ मनसा सु विचार्य एव या हरम् मोहयिष्यति ॥ ५१ ॥
aham tām kāminīm tāta bhāvayiṣyāmi yatnataḥ .. manasā su vicārya eva yā haram mohayiṣyati .. 51 ..
ब्रह्मोवाच ।।
एवमुक्तो मया कामः सुरज्येष्ठेन हर्षितः ॥ ननाम चरणौ मेऽपि स पत्नी सहितस्तदा ॥ ५२ ॥
एवम् उक्तः मया कामः सुरज्येष्ठेन हर्षितः ॥ ननाम चरणौ मे अपि स पत्नी सहितः तदा ॥ ५२ ॥
evam uktaḥ mayā kāmaḥ surajyeṣṭhena harṣitaḥ .. nanāma caraṇau me api sa patnī sahitaḥ tadā .. 52 ..
दक्षं प्रणम्य तान् सर्वान्मानसानभिवाद्य च ॥ यत्रात्मा गतवाञ्शंभुस्तत्स्थानं मन्मथो ययौ ॥ ५३ ॥
दक्षम् प्रणम्य तान् सर्वान् मानसान् अभिवाद्य च ॥ यत्र आत्मा गतवान् शंभुः तत् स्थानम् मन्मथः ययौ ॥ ५३ ॥
dakṣam praṇamya tān sarvān mānasān abhivādya ca .. yatra ātmā gatavān śaṃbhuḥ tat sthānam manmathaḥ yayau .. 53 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सतीचरित्रे द्वितीये सतीखंडे वसंतस्वरूपवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् सतीचरित्रे द्वितीये सती-खण्डे वसंतस्वरूपवर्णनम् नाम अष्टमः अध्यायः ॥ ८ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām satīcaritre dvitīye satī-khaṇḍe vasaṃtasvarūpavarṇanam nāma aṣṭamaḥ adhyāyaḥ .. 8 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In