| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
तस्मिन् गते सानुचरे शिवस्थानं च मन्मथे ॥ चरित्रमभवच्चित्रं तच्छृणुष्व मुनीश्वर ॥ १ ॥
तस्मिन् गते स अनुचरे शिव-स्थानम् च मन्मथे ॥ चरित्रम् अभवत् चित्रम् तत् शृणुष्व मुनि-ईश्वर ॥ १ ॥
tasmin gate sa anucare śiva-sthānam ca manmathe .. caritram abhavat citram tat śṛṇuṣva muni-īśvara .. 1 ..
गत्वा तत्र महावीरो मन्मथो मोहकारकः ॥ स्वप्रभावं ततानाशु मोहयामास प्राणिनः॥ २॥
गत्वा तत्र महा-वीरः मन्मथः मोह-कारकः ॥ स्व-प्रभावम् ततान आशु मोहयामास प्राणिनः॥ २॥
gatvā tatra mahā-vīraḥ manmathaḥ moha-kārakaḥ .. sva-prabhāvam tatāna āśu mohayāmāsa prāṇinaḥ.. 2..
वसंतोपि प्रभावं स्वं चकार हरमोहनम् ॥ सर्वे वृक्षा एकदैव प्रफुल्ला अभवन्मुने ॥ ३ ॥
वसंतः अपि प्रभावम् स्वम् चकार हर-मोहनम् ॥ सर्वे वृक्षाः एकदा एव प्रफुल्लाः अभवन् मुने ॥ ३ ॥
vasaṃtaḥ api prabhāvam svam cakāra hara-mohanam .. sarve vṛkṣāḥ ekadā eva praphullāḥ abhavan mune .. 3 ..
विविधान्कृतवान्यत्नान् रत्या सह मनोभवः ॥ जीवास्सर्वे वशं यातास्सगणेशश्शिवो न हि ॥ ४ ॥
विविधान् कृतवान् यत्नान् रत्या सह मनोभवः ॥ जीवाः सर्वे वशम् याताः स गणेशः शिवः न हि ॥ ४ ॥
vividhān kṛtavān yatnān ratyā saha manobhavaḥ .. jīvāḥ sarve vaśam yātāḥ sa gaṇeśaḥ śivaḥ na hi .. 4 ..
समधोर्मदनस्यासन्प्रयासा निप्फला मुने ॥ जगाम स मम स्थानं निवृत्त्य विमदस्तदा ॥ ५॥
स मधोः मदनस्य आसन् प्रयासाः निप्फलाः मुने ॥ जगाम स मम स्थानम् निवृत्त्य विमदः तदा ॥ ५॥
sa madhoḥ madanasya āsan prayāsāḥ nipphalāḥ mune .. jagāma sa mama sthānam nivṛttya vimadaḥ tadā .. 5..
कृत्वा प्रणामं विधये मह्यं गद्गदया गिरा ॥ उवाच मदनो मां चोदासीनो विमदो मुने ॥ ६॥
कृत्वा प्रणामम् विधये मह्यम् गद्गदया गिरा ॥ उवाच मदनः माम् च उदासीनः विमदः मुने ॥ ६॥
kṛtvā praṇāmam vidhaye mahyam gadgadayā girā .. uvāca madanaḥ mām ca udāsīnaḥ vimadaḥ mune .. 6..
काम उवाच ।।
ब्रह्मन् शंभुर्मोहनीयो न वै योगपरायणः ॥ न शक्तिर्मम नान्यस्य तस्य शंभोर्हि मोहने ॥ ७ ॥
ब्रह्मन् शंभुः मोहनीयः न वै योग-परायणः ॥ न शक्तिः मम ना अन्यस्य तस्य शंभोः हि मोहने ॥ ७ ॥
brahman śaṃbhuḥ mohanīyaḥ na vai yoga-parāyaṇaḥ .. na śaktiḥ mama nā anyasya tasya śaṃbhoḥ hi mohane .. 7 ..
समित्रेण मया ब्रह्मन्नुपाया विविधाः कृताः ॥ रत्या सहाखिलास्ते च निष्फला अभवञ्च्छिवे ॥ ८॥
स मित्रेण मया ब्रह्मन् उपायाः विविधाः कृताः ॥ रत्या सह अखिलाः ते च निष्फलाः अभवन् शिवे ॥ ८॥
sa mitreṇa mayā brahman upāyāḥ vividhāḥ kṛtāḥ .. ratyā saha akhilāḥ te ca niṣphalāḥ abhavan śive .. 8..
शृणु ब्रह्मन्यथाऽस्माभिः कृतां हि हरमोहने ॥ प्रयासा विविधास्तात गदतस्तान्मुने मम ॥ ९॥
शृणु ब्रह्मन् यथा अस्माभिः कृताम् हि हर-मोहने ॥ प्रयासाः विविधाः तात गदतः तान् मुने मम ॥ ९॥
śṛṇu brahman yathā asmābhiḥ kṛtām hi hara-mohane .. prayāsāḥ vividhāḥ tāta gadataḥ tān mune mama .. 9..
यदा समाधिमाश्रित्य स्थितश्शंभुर्नियंत्रितः ॥ तदा सुगंधिवातेन शीतलेनातिवेगिना ॥ 2.2.9.१० ॥
यदा समाधिम् आश्रित्य स्थितः शंभुः नियंत्रितः ॥ तदा सुगंधि-वातेन शीतलेन अतिवेगिना ॥ २।२।९।१० ॥
yadā samādhim āśritya sthitaḥ śaṃbhuḥ niyaṃtritaḥ .. tadā sugaṃdhi-vātena śītalena ativeginā .. 2.2.9.10 ..
उद्वीजयामि रुद्रं स्म नित्यं मोहनकारिणा ॥ प्रयत्नतो महादेवं समाधिस्थं त्रिलोचनम् ॥ ११ ॥
उद्वीजयामि रुद्रम् स्म नित्यम् मोहन-कारिणा ॥ प्रयत्नतः महादेवम् समाधि-स्थम् त्रिलोचनम् ॥ ११ ॥
udvījayāmi rudram sma nityam mohana-kāriṇā .. prayatnataḥ mahādevam samādhi-stham trilocanam .. 11 ..
स्वसायकांस्तथा पंच समादाय शरासनम् ॥ तस्याभितो भ्रमंतस्तु मोहयंस्तद्ग णानहम् ॥ १२ ॥
स्व-सायकान् तथा पंच समादाय शरासनम् ॥ तस्य अभितस् भ्रमंतः तु मोहयन् तद्-ग णान् अहम् ॥ १२ ॥
sva-sāyakān tathā paṃca samādāya śarāsanam .. tasya abhitas bhramaṃtaḥ tu mohayan tad-ga ṇān aham .. 12 ..
मम प्रवेशमात्रेण सुवश्यास्सर्वजंतवः ॥ अभवद्विकृतो नैव शंकरस्सगणः प्रभुः ॥ १३ ॥
मम प्रवेश-मात्रेण सु वश्याः सर्व-जंतवः ॥ अभवत् विकृतः ना एव शंकरः स गणः प्रभुः ॥ १३ ॥
mama praveśa-mātreṇa su vaśyāḥ sarva-jaṃtavaḥ .. abhavat vikṛtaḥ nā eva śaṃkaraḥ sa gaṇaḥ prabhuḥ .. 13 ..
यदा हिमवतः प्रस्थं स गतः प्रमथाधिपः ॥ तत्रागतस्तदैवाहं सरतिस्समधुर्विधे ॥ १४ ॥
यदा हिमवतः प्रस्थम् स गतः प्रमथ-अधिपः ॥ तत्र आगतः तदा एव अहम् स रतिः स मधुर्विधे ॥ १४ ॥
yadā himavataḥ prastham sa gataḥ pramatha-adhipaḥ .. tatra āgataḥ tadā eva aham sa ratiḥ sa madhurvidhe .. 14 ..
यदा मेरुं गतो रुद्रो यदा वा नागकेशरम् ॥ कैलासं वा यदा यातस्तत्राहं गतवाँस्तदा ॥ १५ ॥
यदा मेरुम् गतः रुद्रः यदा वा नागकेशरम् ॥ कैलासम् वा यदा यातः तत्र अहम् गतवान् तदा ॥ १५ ॥
yadā merum gataḥ rudraḥ yadā vā nāgakeśaram .. kailāsam vā yadā yātaḥ tatra aham gatavān tadā .. 15 ..
यदा त्यक्तसमाधिस्तु हरस्तस्थौ कदाचन ॥ तदा तस्य पुरश्चक्रयुगं रचितवानहम् ॥ ॥ १६ ॥
यदा त्यक्त-समाधिः तु हरः तस्थौ कदाचन ॥ तदा तस्य पुरस् चक्र-युगम् रचितवान् अहम् ॥ ॥ १६ ॥
yadā tyakta-samādhiḥ tu haraḥ tasthau kadācana .. tadā tasya puras cakra-yugam racitavān aham .. .. 16 ..
तच्च भ्रूयुगलं ब्रह्मन् हावभावयुतं मुहुः ॥ नानाभावानकार्षीच्च दांपत्यक्रममुत्तमम् ॥ १७ ॥
तत् च भ्रू-युगलम् ब्रह्मन् हाव-भाव-युतम् मुहुर् ॥ नाना भावान् अकार्षीत् च दांपत्य-क्रमम् उत्तमम् ॥ १७ ॥
tat ca bhrū-yugalam brahman hāva-bhāva-yutam muhur .. nānā bhāvān akārṣīt ca dāṃpatya-kramam uttamam .. 17 ..
नीलकंठं महादेवं सगणं तत्पुरःस्थिताः ॥ अकार्षुमोहितं भावं मृगाश्च पक्षिणस्तथा ॥ १८ ॥
नीलकंठम् महादेवम् स गणम् तद्-पुरस् स्थिताः ॥ अकार्षुम् मोहितम् भावम् मृगाः च पक्षिणः तथा ॥ १८ ॥
nīlakaṃṭham mahādevam sa gaṇam tad-puras sthitāḥ .. akārṣum mohitam bhāvam mṛgāḥ ca pakṣiṇaḥ tathā .. 18 ..
मयूरमिथुनं तत्राकार्षीद्भावं रसोत्सुकम् ॥ विविधां गतिमाश्रित्य पार्श्वे तस्य पुरस्तथा ॥ १९ ॥
मयूर-मिथुनम् तत्र अकार्षीत् भावम् रस-उत्सुकम् ॥ विविधाम् गतिम् आश्रित्य पार्श्वे तस्य पुरस् तथा ॥ १९ ॥
mayūra-mithunam tatra akārṣīt bhāvam rasa-utsukam .. vividhām gatim āśritya pārśve tasya puras tathā .. 19 ..
नालभद्विवरं तस्मिन् कदाचिदपि मच्छरः ॥ सत्यं ब्रवीमि लोकेश मम शक्तिर्न मोहने ॥ 2.2.9.२० ॥
ना अलभत् विवरम् तस्मिन् कदाचिद् अपि मद्-शरः ॥ सत्यम् ब्रवीमि लोकेश मम शक्तिः न मोहने ॥ २।२।९।२० ॥
nā alabhat vivaram tasmin kadācid api mad-śaraḥ .. satyam bravīmi lokeśa mama śaktiḥ na mohane .. 2.2.9.20 ..
मधुरप्यकरोत्कर्म युक्तं यत्तस्य मोहने ॥ तच्छृणुष्व महाभाग सत्यं सत्यं वदाम्यहम् ॥ २१ ॥
मधुः अपि अकरोत् कर्म युक्तम् यत् तस्य मोहने ॥ तत् शृणुष्व महाभाग सत्यम् सत्यम् वदामि अहम् ॥ २१ ॥
madhuḥ api akarot karma yuktam yat tasya mohane .. tat śṛṇuṣva mahābhāga satyam satyam vadāmi aham .. 21 ..
चंपकान्केशरान्वालान्कारणान्पाटलांस्तथा ॥ नागकेशरपुन्नागान्किंशुकान्केतकान्करान् ॥ २२ ॥
चंपकान् केशरान् वालान् कारणान् पाटलान् तथा ॥ नाग-केशर-पुन्नागान् किंशुकान् केतकान् करान् ॥ २२ ॥
caṃpakān keśarān vālān kāraṇān pāṭalān tathā .. nāga-keśara-punnāgān kiṃśukān ketakān karān .. 22 ..
मागंधिमल्लिकापर्णभरान्कुरवकांस्तथा ॥ उत्फुल्लयति तत्र स्म यत्र तिष्ठति वै हरः ॥ २३॥
मागंधि-मल्लिका-पर्ण-भरान् कुरवकान् तथा ॥ उत्फुल्लयति तत्र स्म यत्र तिष्ठति वै हरः ॥ २३॥
māgaṃdhi-mallikā-parṇa-bharān kuravakān tathā .. utphullayati tatra sma yatra tiṣṭhati vai haraḥ .. 23..
सरांस्युत्फुल्लपद्मानि वीजयन् मलयानिलैः ॥ यत्नात्सुगंधीन्यकरोदतीव गिरिशाश्रमे ॥ २४ ॥
सरांसि उत्फुल्ल-पद्मानि वीजयन् मलय-अनिलैः ॥ यत्नात् सुगंधीनि अकरोत् अतीव गिरिश-आश्रमे ॥ २४ ॥
sarāṃsi utphulla-padmāni vījayan malaya-anilaiḥ .. yatnāt sugaṃdhīni akarot atīva giriśa-āśrame .. 24 ..
लतास्सर्वास्सुमनसो दधुरंकुरसंचयान् ॥ वृक्षांकं चिरभावेन वेष्टयंति स्म तत्र च ॥ २५ ॥
लताः सर्वाः सुमनसः दधुः अंकुर-संचयान् ॥ वृक्ष-अंकम् चिर-भावेन वेष्टयंति स्म तत्र च ॥ २५ ॥
latāḥ sarvāḥ sumanasaḥ dadhuḥ aṃkura-saṃcayān .. vṛkṣa-aṃkam cira-bhāvena veṣṭayaṃti sma tatra ca .. 25 ..
तान्वृक्षांश्च सुपुष्पौघान् तैः सुगंधिसमीरणैः ॥ दृष्ट्वा कामवशं याता मुनयोपि परे किमु ॥ २६ ॥
तान् वृक्षान् च सु पुष्प-ओघान् तैः सुगंधि-समीरणैः ॥ दृष्ट्वा काम-वशम् याताः मुनयः अपि परे किमु ॥ २६ ॥
tān vṛkṣān ca su puṣpa-oghān taiḥ sugaṃdhi-samīraṇaiḥ .. dṛṣṭvā kāma-vaśam yātāḥ munayaḥ api pare kimu .. 26 ..
एवं सत्यपि शंभोर्न दृष्टं मोहस्य कारणम् ॥ भावमात्रमकार्षीन्नो कोपो मय्यपि शंकरः ॥ २७ ॥
एवम् सति अपि शंभोः न दृष्टम् मोहस्य कारणम् ॥ भाव-मात्रम् अकार्षीत् नो कोपः मयि अपि शंकरः ॥ २७ ॥
evam sati api śaṃbhoḥ na dṛṣṭam mohasya kāraṇam .. bhāva-mātram akārṣīt no kopaḥ mayi api śaṃkaraḥ .. 27 ..
इति सर्वमहं दृष्ट्वा ज्ञात्वा तस्य च भावनाम् ॥ विमुखोहं शंभुमोहान्नियतं ते वदाम्यहम् ॥ २८॥
इति सर्वम् अहम् दृष्ट्वा ज्ञात्वा तस्य च भावनाम् ॥ विमुखा ऊहम् शंभु-मोहात् नियतम् ते वदामि अहम् ॥ २८॥
iti sarvam aham dṛṣṭvā jñātvā tasya ca bhāvanām .. vimukhā ūham śaṃbhu-mohāt niyatam te vadāmi aham .. 28..
तस्य त्यक्तसमाधेस्तु क्षणं नो दृष्टिगोचरे ॥ शक्नुयामो वयं स्थातुं तं रुद्रं को विमोहयेत् ॥ २९ ॥
तस्य त्यक्त-समाधेः तु क्षणम् नः दृष्टि-गोचरे ॥ शक्नुयामः वयम् स्थातुम् तम् रुद्रम् कः विमोहयेत् ॥ २९ ॥
tasya tyakta-samādheḥ tu kṣaṇam naḥ dṛṣṭi-gocare .. śaknuyāmaḥ vayam sthātum tam rudram kaḥ vimohayet .. 29 ..
ज्वलदग्निप्रकाशाक्षं जट्टाराशिकरालिनम् ॥ शृंगिणं वीक्ष्य कस्स्थातुं ब्रह्मन् शक्नोति तत्पुरः ॥ 2.2.9.३० ॥
ज्वलत्-अग्नि-प्रकाश-अक्षम् जट्टा-राशि-करालिनम् ॥ शृंगिणम् वीक्ष्य कः स्थातुम् ब्रह्मन् शक्नोति तत् पुरस् ॥ २।२।९।३० ॥
jvalat-agni-prakāśa-akṣam jaṭṭā-rāśi-karālinam .. śṛṃgiṇam vīkṣya kaḥ sthātum brahman śaknoti tat puras .. 2.2.9.30 ..
।। ब्रह्मोवाच ।।
मनो भववचश्चेत्थं श्रुत्वाहं चतुराननः ॥ विवक्षुरपि नावोचं चिंताविष्टोऽभवं तदा ॥ ३१॥
मनः भव-वचः च इत्थम् श्रुत्वा अहम् चतुराननः ॥ विवक्षुः अपि ना अवोचम् चिंता-आविष्टः अभवम् तदा ॥ ३१॥
manaḥ bhava-vacaḥ ca ittham śrutvā aham caturānanaḥ .. vivakṣuḥ api nā avocam ciṃtā-āviṣṭaḥ abhavam tadā .. 31..
मोहनेहं समर्थो न हरस्येति मनोभवः ॥ वचः श्रुत्वा महादुःखान्निरश्वसमहं मुने ॥ ३२ ॥
मोहन-इहम् समर्थः न हरस्य इति मनोभवः ॥ वचः श्रुत्वा महा-दुःखात् निरश्वसम् अहम् मुने ॥ ३२ ॥
mohana-iham samarthaḥ na harasya iti manobhavaḥ .. vacaḥ śrutvā mahā-duḥkhāt niraśvasam aham mune .. 32 ..
निश्श्वासमारुता मे हि नाना रूपमहाबलः ॥ जाता गता लोलजिह्वा लोलाश्चातिभयंकराः ॥ ३३ ॥
निश्श्वास-मारुताः मे हि नाना रूप-महा-बलः ॥ जाताः गताः लोल-जिह्वाः लोलाः च अति भयंकराः ॥ ३३ ॥
niśśvāsa-mārutāḥ me hi nānā rūpa-mahā-balaḥ .. jātāḥ gatāḥ lola-jihvāḥ lolāḥ ca ati bhayaṃkarāḥ .. 33 ..
अवादयंत ते सर्वे नानावाद्यानसंख्यकान् ॥ पटहादिगणास्तांस्तान् विकरालान्महारवान् ॥ ३४॥
अवादयन्त ते सर्वे नाना वाद्यान् असंख्यकान् ॥ पटह-आदि-गणाः तान् तान् विकरालान् महा-रवान् ॥ ३४॥
avādayanta te sarve nānā vādyān asaṃkhyakān .. paṭaha-ādi-gaṇāḥ tān tān vikarālān mahā-ravān .. 34..
अथ ते मम निश्श्वाससंभवाश्च महागणाः ॥ मारयच्छेदयेत्यूचुर्ब्रह्मणो मे पुरः स्थिताः ॥ ३५ ॥
अथ ते मम निश्श्वास-संभवाः च महा-गणाः ॥ मारयत् छेदय इति ऊचुः ब्रह्मणः मे पुरस् स्थिताः ॥ ३५ ॥
atha te mama niśśvāsa-saṃbhavāḥ ca mahā-gaṇāḥ .. mārayat chedaya iti ūcuḥ brahmaṇaḥ me puras sthitāḥ .. 35 ..
तेषां तु वदतां' तत्र मारयच्छेदयेति माम् ॥ वचः श्रुत्वा विधिं कामः प्रवक्तुमुपचक्रमे ॥ ३६ ॥
तेषाम् तु वदताम् तत्र मारयत् छेदय इति माम् ॥ वचः श्रुत्वा विधिम् कामः प्रवक्तुम् उपचक्रमे ॥ ३६ ॥
teṣām tu vadatām tatra mārayat chedaya iti mām .. vacaḥ śrutvā vidhim kāmaḥ pravaktum upacakrame .. 36 ..
मुनेऽथ मां समाभाष्य तान् दृष्ट्वा मदनो गणान् ॥ उवाच वारयन् ब्रह्मन्गणानामग्रतः स्मरः ॥ ३७ ॥
मुने अथ माम् समाभाष्य तान् दृष्ट्वा मदनः गणान् ॥ उवाच वारयन् ब्रह्मन् गणानाम् अग्रतस् स्मरः ॥ ३७ ॥
mune atha mām samābhāṣya tān dṛṣṭvā madanaḥ gaṇān .. uvāca vārayan brahman gaṇānām agratas smaraḥ .. 37 ..
उवाच वारयन् ब्रह्मन्गणानामग्रतः स्मरः ॥ ३७ ॥
उवाच वारयन् ब्रह्मन् गणानाम् अग्रतस् स्मरः ॥ ३७ ॥
uvāca vārayan brahman gaṇānām agratas smaraḥ .. 37 ..
काम उवाच ।।
हे ब्रह्मन् हे प्रजानाथ सर्वसृष्टिप्रवर्तक ॥ उत्पन्नाः क इमे वीरा विकराला भयंकराः ॥ ३८ ॥
हे ब्रह्मन् हे प्रजानाथ सर्व-सृष्टि-प्रवर्तक ॥ उत्पन्नाः के इमे वीराः विकरालाः भयंकराः ॥ ३८ ॥
he brahman he prajānātha sarva-sṛṣṭi-pravartaka .. utpannāḥ ke ime vīrāḥ vikarālāḥ bhayaṃkarāḥ .. 38 ..
किं कर्मैते करिष्यंति कुत्र स्थास्यंति वा विधे ॥ किन्नामधेया एते तद्वद तत्र नियोजय ॥ ३९ ॥
किम् कर्म एते करिष्यंति कुत्र स्थास्यंति वा विधे ॥ किन्नामधेयाः एते तत् वद तत्र नियोजय ॥ ३९ ॥
kim karma ete kariṣyaṃti kutra sthāsyaṃti vā vidhe .. kinnāmadheyāḥ ete tat vada tatra niyojaya .. 39 ..
नियोज्य तान्निजे कृत्ये स्थानं दत्त्वा च नाम च ॥ मामाज्ञापय देवेश कृपां कृत्वा यथोचिताम् ॥ 2.2.9.४० ॥
नियोज्य तान् निजे कृत्ये स्थानम् दत्त्वा च नाम च ॥ माम् आज्ञापय देवेश कृपाम् कृत्वा यथोचिताम् ॥ २।२।९।४० ॥
niyojya tān nije kṛtye sthānam dattvā ca nāma ca .. mām ājñāpaya deveśa kṛpām kṛtvā yathocitām .. 2.2.9.40 ..
ब्रह्मोवाच ।।
इति तद्वाक्यमाकर्ण्य मुनेऽहं लोककारकः ॥ तमवोचं ह मदनं तेषां कर्मादिकं दिशन् ॥ ४१ ॥
इति तद्-वाक्यम् आकर्ण्य मुने अहम् लोक-कारकः ॥ तम् अवोचम् ह मदनम् तेषाम् कर्म-आदिकम् दिशन् ॥ ४१ ॥
iti tad-vākyam ākarṇya mune aham loka-kārakaḥ .. tam avocam ha madanam teṣām karma-ādikam diśan .. 41 ..
ब्रह्मोवाच ।।
एत उत्पन्नमात्रा हि मारयेत्यवदन् वचः ॥ मुहुर्मुहुरतोमीषां नाम मारेति जायताम् ॥ ४२ ॥
एते उत्पन्न-मात्राः हि मारय इति अवदन् वचः ॥ मुहुर् मुहुर् अतोमीषाम् नाम मार इति जायताम् ॥ ४२ ॥
ete utpanna-mātrāḥ hi māraya iti avadan vacaḥ .. muhur muhur atomīṣām nāma māra iti jāyatām .. 42 ..
सदैव विघ्नं जंतूनां करिष्यन्ति गणा इमे ॥ विना निजार्चनं काम नाना कामरतात्मनाम् ॥ ४३॥
सदा एव विघ्नम् जंतूनाम् करिष्यन्ति गणाः इमे ॥ विना निज-अर्चनम् काम नाना काम-रत-आत्मनाम् ॥ ४३॥
sadā eva vighnam jaṃtūnām kariṣyanti gaṇāḥ ime .. vinā nija-arcanam kāma nānā kāma-rata-ātmanām .. 43..
तवानुगमने कर्म मुख्यमेषां मनोभव ॥ सहायिनो भविष्यंति सदा तव न संशयः ॥ ४४ ॥
तव अनुगमने कर्म मुख्यम् एषाम् मनोभव ॥ सहायिनः भविष्यन्ति सदा तव न संशयः ॥ ४४ ॥
tava anugamane karma mukhyam eṣām manobhava .. sahāyinaḥ bhaviṣyanti sadā tava na saṃśayaḥ .. 44 ..
यत्रयत्र भवान् याता स्वकर्मार्थं यदा यदा ॥ गंता स तत्रतत्रैते सहायार्थं तदातदा ॥ ४५॥
यत्र यत्र भवान् याता स्व-कर्म-अर्थम् यदा यदा ॥ स तत्र तत्र एते सहाय-अर्थम् तदा तदा ॥ ४५॥
yatra yatra bhavān yātā sva-karma-artham yadā yadā .. sa tatra tatra ete sahāya-artham tadā tadā .. 45..
चित्तभ्रांतिं करिष्यंति त्वदस्त्रवशवर्तिनाम् ॥ ज्ञानिनां ज्ञानमार्गं च विघ्नयिष्यंति सर्वथा ॥ ४६ ॥
चित्त-भ्रांतिम् करिष्यंति त्वद्-अस्त्र-वशवर्तिनाम् ॥ ज्ञानिनाम् ज्ञान-मार्गम् च विघ्नयिष्यंति सर्वथा ॥ ४६ ॥
citta-bhrāṃtim kariṣyaṃti tvad-astra-vaśavartinām .. jñāninām jñāna-mārgam ca vighnayiṣyaṃti sarvathā .. 46 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचो मे हि सरतिस्समहानुगः ॥ किंचित्प्रसन्नवदनो बभूव मुनिसत्तम ॥ ४७॥
इति आकर्ण्य वचः मे हि स रतिः स महा-अनुगः ॥ किंचिद् प्रसन्न-वदनः बभूव मुनि-सत्तम ॥ ४७॥
iti ākarṇya vacaḥ me hi sa ratiḥ sa mahā-anugaḥ .. kiṃcid prasanna-vadanaḥ babhūva muni-sattama .. 47..
श्रुत्वा तेपि गणास्सर्वे मदनं मां च सर्वतः ॥ परिवार्य्य यथाकामं तस्थुस्तत्र निजाकृतिम् ॥ ४८ ॥
श्रुत्वा ते अपि गणाः सर्वे मदनम् माम् च सर्वतस् ॥ परिवार्य यथाकामम् तस्थुः तत्र निज-आकृतिम् ॥ ४८ ॥
śrutvā te api gaṇāḥ sarve madanam mām ca sarvatas .. parivārya yathākāmam tasthuḥ tatra nija-ākṛtim .. 48 ..
अथ ब्रह्मा स्मरं प्रीत्याऽगदन्मे कुरु शासनम् ॥ एभिस्सहैव गच्छ त्वं पुनश्च हरमोहने ॥ ४९॥ ।
अथ ब्रह्मा स्मरम् प्रीत्या अगदत् मे कुरु शासनम् ॥ एभिः सह एव गच्छ त्वम् पुनर् च हर-मोहने ॥ ४९॥ ।
atha brahmā smaram prītyā agadat me kuru śāsanam .. ebhiḥ saha eva gaccha tvam punar ca hara-mohane .. 49.. .
मन आधाय यवाद्धि कुरु मारगणैस्सह ॥ मोहो भवेद्यथा शंभोर्दारग्रहणहेतवे ॥ 2.2.9.५०॥
मनः आधाय यवात् हि कुरु मार-गणैः सह ॥ मोहः भवेत् यथा शंभोः दार-ग्रहण-हेतवे ॥ २।२।९।५०॥
manaḥ ādhāya yavāt hi kuru māra-gaṇaiḥ saha .. mohaḥ bhavet yathā śaṃbhoḥ dāra-grahaṇa-hetave .. 2.2.9.50..
इत्याकर्ण्य वचः कामः प्रोवाच वचनं पुनः॥ देवर्षे गौरवं मत्वा प्रणम्य विनयेन माम् ॥ ५१॥
इति आकर्ण्य वचः कामः प्रोवाच वचनम् पुनर्॥ देव-ऋषे गौरवम् मत्वा प्रणम्य विनयेन माम् ॥ ५१॥
iti ākarṇya vacaḥ kāmaḥ provāca vacanam punar.. deva-ṛṣe gauravam matvā praṇamya vinayena mām .. 51..
मया सम्यक् कृतं कर्म मोहने तस्य यत्नतः ॥ तन्मोहो नाभवत्तात न भविष्यति नाधुना ॥ ५२ ॥
मया सम्यक् कृतम् कर्म मोहने तस्य यत्नतः ॥ तद्-मोहः न अभवत् तात न भविष्यति न अधुना ॥ ५२ ॥
mayā samyak kṛtam karma mohane tasya yatnataḥ .. tad-mohaḥ na abhavat tāta na bhaviṣyati na adhunā .. 52 ..
काम उवाच ।।
तव वाग्गौरवं मत्वा दृष्ट्वा मारगणानपि ॥ गमिष्यामि पुनस्तत्र सदारोहं त्वदाज्ञया ॥ ५३ ॥
तव वाच्-गौरवम् मत्वा दृष्ट्वा मार-गणान् अपि ॥ गमिष्यामि पुनर् तत्र सत्-आरोहम् त्वद्-आज्ञया ॥ ५३ ॥
tava vāc-gauravam matvā dṛṣṭvā māra-gaṇān api .. gamiṣyāmi punar tatra sat-āroham tvad-ājñayā .. 53 ..
मनो निश्चितमेतद्धि तन्मोहो न भविष्यति ॥ भस्म कुर्यान्न मे देहमिति शंकास्ति मे विधे ॥ ५४ ॥
मनः निश्चितम् एतत् हि तद्-मोहः न भविष्यति ॥ भस्म कुर्यात् न मे देहम् इति शंका अस्ति मे विधे ॥ ५४ ॥
manaḥ niścitam etat hi tad-mohaḥ na bhaviṣyati .. bhasma kuryāt na me deham iti śaṃkā asti me vidhe .. 54 ..
इत्युक्त्वा समधुः कामस्सरतिस्सभयस्तदा ॥ ययौ मारगणैः सार्द्धं शिवस्थानं मुनीश्वर ॥ ५५ ॥
इति उक्त्वा स मधुः कामः स रतिः स भयः तदा ॥ ययौ मार-गणैः सार्द्धम् शिव-स्थानम् मुनि-ईश्वर ॥ ५५ ॥
iti uktvā sa madhuḥ kāmaḥ sa ratiḥ sa bhayaḥ tadā .. yayau māra-gaṇaiḥ sārddham śiva-sthānam muni-īśvara .. 55 ..
पूर्ववत् स्वप्रभावं च चक्रे मनसिजस्तदा ॥ बहूपायं स हि मधुर्विविधां बुद्धिमावहन् ॥ ५६ ॥
पूर्ववत् स्व-प्रभावम् च चक्रे मनसिजः तदा ॥ बहु-उपायम् स हि मधुः विविधाम् बुद्धिम् आवहन् ॥ ५६ ॥
pūrvavat sva-prabhāvam ca cakre manasijaḥ tadā .. bahu-upāyam sa hi madhuḥ vividhām buddhim āvahan .. 56 ..
उपायं स चकाराति तत्र मारगणोऽपि च ॥ मोहोभवन्न वै शंभोरपि कश्चित्परात्मनः ॥ ५७ ॥
उपायम् स चकार अति तत्र मार-गणः अपि च ॥ मोहः भवन् न वै शंभोः अपि कश्चिद् परात्मनः ॥ ५७ ॥
upāyam sa cakāra ati tatra māra-gaṇaḥ api ca .. mohaḥ bhavan na vai śaṃbhoḥ api kaścid parātmanaḥ .. 57 ..
निवृत्त्य पुनरायातो मम स्थानं स्मरस्तदा ॥ आसीन्मारगणोऽगर्वोऽहर्षो मेपि पुरस्थितः ॥ ५८ ॥
निवृत्त्य पुनर् आयातः मम स्थानम् स्मरः तदा ॥ आसीत् मार-गणः अगर्वः अहर्षः मे पि पुर-स्थितः ॥ ५८ ॥
nivṛttya punar āyātaḥ mama sthānam smaraḥ tadā .. āsīt māra-gaṇaḥ agarvaḥ aharṣaḥ me pi pura-sthitaḥ .. 58 ..
कामः प्रोवाच मां तात प्रणम्य च निरुत्सवः ॥ स्थित्वा मम पुरोऽगर्वो मारैश्च मधुना तदा ॥ ५९॥
कामः प्रोवाच माम् तात प्रणम्य च निरुत्सवः ॥ स्थित्वा मम पुरस् अगर्वः मारैः च मधुना तदा ॥ ५९॥
kāmaḥ provāca mām tāta praṇamya ca nirutsavaḥ .. sthitvā mama puras agarvaḥ māraiḥ ca madhunā tadā .. 59..
कृतं पूर्वादधिकतः कर्म तन्मोहने विधे ॥ नाभवत्तस्य मोहोपि कश्चिद्ध्यानरतात्मनः ॥ 2.2.9.६० ॥
कृतम् पूर्वात् अधिकतः कर्म तद्-मोहने विधे ॥ न अभवत् तस्य मोहः अपि कश्चिद् ध्यान-रत-आत्मनः ॥ २।२।९।६० ॥
kṛtam pūrvāt adhikataḥ karma tad-mohane vidhe .. na abhavat tasya mohaḥ api kaścid dhyāna-rata-ātmanaḥ .. 2.2.9.60 ..
न दग्धा मे तनुश्चैव तत्र तेन दयालुना ॥ कारणं पूर्वपुण्यं च निर्विकारी स वै प्रभुः ॥ ६१ ॥
न दग्धा मे तनुः च एव तत्र तेन दयालुना ॥ कारणम् पूर्व-पुण्यम् च निर्विकारी स वै प्रभुः ॥ ६१ ॥
na dagdhā me tanuḥ ca eva tatra tena dayālunā .. kāraṇam pūrva-puṇyam ca nirvikārī sa vai prabhuḥ .. 61 ..
चेद्वरस्ते हरो भार्यां गृह्णीयादिति पद्मज ॥ परोपायं कुरु तदा विगर्व इति मे मतिः ॥ ६२ ॥
चेद् वरः ते हरः भार्याम् गृह्णीयात् इति पद्मज ॥ पर-उपायम् कुरु तदा विगर्वः इति मे मतिः ॥ ६२ ॥
ced varaḥ te haraḥ bhāryām gṛhṇīyāt iti padmaja .. para-upāyam kuru tadā vigarvaḥ iti me matiḥ .. 62 ..
ब्रह्मोवाच ।।
इत्युक्त्वा सपरीवारो ययौ कामस्स्वमाश्रमम् ॥ प्रणम्य मां स्मरन् शंभुं गर्वदं दीनवत्सलम् ॥ ६३॥
इति उक्त्वा स परीवारः ययौ कामः स्वम् आश्रमम् ॥ प्रणम्य माम् स्मरन् शंभुम् गर्व-दम् दीन-वत्सलम् ॥ ६३॥
iti uktvā sa parīvāraḥ yayau kāmaḥ svam āśramam .. praṇamya mām smaran śaṃbhum garva-dam dīna-vatsalam .. 63..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सतीखंडे सत्युपाख्याने कामप्रभावमारगणोत्पत्तिवर्णनो नाम नवमोऽध्यायः ॥ ९॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् सतीखण्डे सत्युपाख्याने कामप्रभावमारगणोत्पत्तिवर्णनः नाम नवमः अध्यायः ॥ ९॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām satīkhaṇḍe satyupākhyāne kāmaprabhāvamāragaṇotpattivarṇanaḥ nāma navamaḥ adhyāyaḥ .. 9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In