| |
|

This overlay will guide you through the buttons:

श्रीगणेशायः नमः ॥
श्री-गणेशाय नमः ॥
śrī-gaṇeśāya namaḥ ..
॥ श्रीगौरीशंकराभ्यां नमः ॥
॥ श्री-गौरी-शंकराभ्याम् नमः ॥
.. śrī-gaurī-śaṃkarābhyām namaḥ ..
अथ द्वितीया रुद्रसंहिता प्रारभ्यते ॥
अथ द्वितीया रुद्र-संहिता प्रारभ्यते ॥
atha dvitīyā rudra-saṃhitā prārabhyate ..
विश्वोद्भवस्थितिलयादिषु हेतुमेकं गौरीपर्तिविदिततत्त्वमनन्तकीर्तिम् ॥ मायाश्रयम्विगतमायमचिंत्यरूपम्बोधस्वरूपममलं हि शिवन्नमामि ॥ १ ॥
विश्व-उद्भव-स्थिति-लय-आदिषु हेतुम् एकम् गौरी-पर्ति-विदित-तत्त्वम् अनन्त-कीर्तिम् ॥ माया-आश्रयम् विगत-मायम् अचिंत्य-रूपम् बोध-स्वरूपम् अमलम् हि शिवन् नमामि ॥ १ ॥
viśva-udbhava-sthiti-laya-ādiṣu hetum ekam gaurī-parti-vidita-tattvam ananta-kīrtim .. māyā-āśrayam vigata-māyam aciṃtya-rūpam bodha-svarūpam amalam hi śivan namāmi .. 1 ..
वन्दे शिवन्तम्प्रकृतेरनादिम्प्रशान्तमेकम्पुरुषोत्तमं हि ॥ स्वमायया कृत्स्नमिदं हि सृष्ट्वा नभोवदन्तर्बहिरास्थितो यः ॥ २ ॥
वन्दे शिवन्तम् तम् प्रकृतेः अनादिम् प्रशान्तम् एकम् पुरुषोत्तमम् हि ॥ स्व-मायया कृत्स्नम् इदम् हि सृष्ट्वा नभः-वत् अन्तर् बहिस् आस्थितः यः ॥ २ ॥
vande śivantam tam prakṛteḥ anādim praśāntam ekam puruṣottamam hi .. sva-māyayā kṛtsnam idam hi sṛṣṭvā nabhaḥ-vat antar bahis āsthitaḥ yaḥ .. 2 ..
वन्देतरस्थं निजगूढरूपं शिवंस्वतस्स्रष्टुमिदम्विचष्टे ॥ जगन्ति नित्यम्परितो भ्रमंति यत्सन्निधौ चुम्बकलोहवत्तम् ॥ ३ ॥
वन्द इतर-स्थम् निज-गूढ-रूपम् शिवम् स्वतस् स्रष्टुम् इदम् विचष्टे ॥ जगन्ति नित्यम् परितस् भ्रमंति यद्-सन्निधौ चुम्बक-लोह-वत् तम् ॥ ३ ॥
vanda itara-stham nija-gūḍha-rūpam śivam svatas sraṣṭum idam vicaṣṭe .. jaganti nityam paritas bhramaṃti yad-sannidhau cumbaka-loha-vat tam .. 3 ..
व्यास उवाच ।।
जगतः पितरं शम्भुञ्जगतो मातरं शिवाम् ॥ तत्पुत्रश्च गणाधीशन्नत्वैतद्वर्णयामहे ॥ ४॥
जगतः पितरम् शम्भुन् जगतः मातरम् शिवाम् ॥ तद्-पुत्रः च गणाधीशन् नत्वा एतत् वर्णयामहे ॥ ४॥
jagataḥ pitaram śambhun jagataḥ mātaram śivām .. tad-putraḥ ca gaṇādhīśan natvā etat varṇayāmahe .. 4..
एकदा मुनयस्सर्वे नैमिषारण्य वासिनः ॥ पप्रच्छुर्वरया भक्त्या सूतन्ते शौनकादयः ॥ ५ ॥
एकदा मुनयः सर्वे नैमिष-अरण्य-वासिनः ॥ पप्रच्छुः वरया भक्त्या सूत-न्ते शौनक-आदयः ॥ ५ ॥
ekadā munayaḥ sarve naimiṣa-araṇya-vāsinaḥ .. papracchuḥ varayā bhaktyā sūta-nte śaunaka-ādayaḥ .. 5 ..
ऋषय ऊचुः ।।
विद्येश्वरसंहितायाः श्रुता सा सत्कथा शुभा ॥ साध्यसाधनखंडा ख्या रम्याद्या भक्तवत्सला ॥ ६॥
विद्येश्वर-संहितायाः श्रुता सा सत्-कथा शुभा ॥ ॥ ६॥
vidyeśvara-saṃhitāyāḥ śrutā sā sat-kathā śubhā .. .. 6..
सूत सूत महाभाग चिरञ्जीव सुखी भव ॥ यच्छ्रावयसि नस्तात शांकरीं परमां कथाम् ॥ ७ ॥
सूत सूत महाभाग चिरञ्जीव सुखी भव ॥ यत् श्रावयसि नः तात शांकरीम् परमाम् कथाम् ॥ ७ ॥
sūta sūta mahābhāga cirañjīva sukhī bhava .. yat śrāvayasi naḥ tāta śāṃkarīm paramām kathām .. 7 ..
पिबन्तस्त्वन्मुखाम्भोजच्युतं ज्ञानामृतम्वयम्॥ अवितृप्ताः पुनः किंचित्प्रष्टुमिच्छामहेऽनघ ॥ ८॥
पिबन्तः त्वद्-मुख-अम्भोज-च्युतम् ज्ञान-अमृतम् वयम्॥ अ वितृप्ताः पुनर् किंचिद् प्रष्टुम् इच्छामहे अनघ ॥ ८॥
pibantaḥ tvad-mukha-ambhoja-cyutam jñāna-amṛtam vayam.. a vitṛptāḥ punar kiṃcid praṣṭum icchāmahe anagha .. 8..
व्यासप्रसादात्सर्वज्ञो प्राप्तोऽसि कृतकृत्यताम् ॥ नाज्ञातम्विद्यते किंचिद्भूतं भब्यं भवच्च यत्॥ ९॥
व्यास-प्रसादात् सर्वज्ञो प्राप्तः असि कृतकृत्य-ताम् ॥ न अज्ञातम् विद्यते किंचिद् भूतम् भब्यम् भवत् च यत्॥ ९॥
vyāsa-prasādāt sarvajño prāptaḥ asi kṛtakṛtya-tām .. na ajñātam vidyate kiṃcid bhūtam bhabyam bhavat ca yat.. 9..
गुरोर्व्यासस्य सद्भक्त्या समासाद्य कृपां पराम् ॥ सर्वं ज्ञातं विशेषेण सर्वं सार्थं कृतं जनुः ॥ 2.1.1.१०॥
गुरोः व्यासस्य सत्-भक्त्या समासाद्य कृपाम् पराम् ॥ सर्वम् ज्ञातम् विशेषेण सर्वम् सार्थम् कृतम् जनुः ॥ २।१।१।१०॥
guroḥ vyāsasya sat-bhaktyā samāsādya kṛpām parām .. sarvam jñātam viśeṣeṇa sarvam sārtham kṛtam januḥ .. 2.1.1.10..
इदानीं कथय प्राज्ञ शिवरूपमनुत्तमम् ॥ दिव्यानि वै चरित्राणि शिवयोरप्यशेषतः ॥ ११॥
इदानीम् कथय प्राज्ञ शिव-रूपम् अनुत्तमम् ॥ दिव्यानि वै चरित्राणि शिवयोः अपि अशेषतस् ॥ ११॥
idānīm kathaya prājña śiva-rūpam anuttamam .. divyāni vai caritrāṇi śivayoḥ api aśeṣatas .. 11..
अगुणो गुणतां याति कथं लोके महेश्वरः ॥ शिवतत्त्वं वयं सर्वे न जानीमो विचारतः ॥ १२॥
अगुणः गुणताम् याति कथम् लोके महेश्वरः ॥ शिवतत्त्वम् वयम् सर्वे न जानीमः विचारतः ॥ १२॥
aguṇaḥ guṇatām yāti katham loke maheśvaraḥ .. śivatattvam vayam sarve na jānīmaḥ vicārataḥ .. 12..
सृष्टेः पूर्वं कथं शंभुस्स्वरूपेणावतिष्ठते ॥ सृष्टिमध्ये स हि कथं क्रीडन्संवर्त्तते प्रभुः ॥ १३॥
सृष्टेः पूर्वम् कथम् शंभुः स्व-रूपेण अवतिष्ठते ॥ सृष्टि-मध्ये स हि कथम् क्रीडन् संवर्त्तते प्रभुः ॥ १३॥
sṛṣṭeḥ pūrvam katham śaṃbhuḥ sva-rūpeṇa avatiṣṭhate .. sṛṣṭi-madhye sa hi katham krīḍan saṃvarttate prabhuḥ .. 13..
तदन्ते च कथन्देवस्स तिष्ठति महेश्वरः ॥ कथम्प्रसन्नतां याति शंकरो लोकशंकरः॥ १४॥
तद्-अन्ते च कथन् देवः स तिष्ठति महेश्वरः ॥ कथम् प्रसन्न-ताम् याति शंकरः लोक-शंकरः॥ १४॥
tad-ante ca kathan devaḥ sa tiṣṭhati maheśvaraḥ .. katham prasanna-tām yāti śaṃkaraḥ loka-śaṃkaraḥ.. 14..
स प्रसन्नो महेशानः किं प्रयच्छति सत्फलम् ॥ स्वभक्तेभ्यः परेभ्यश्च तत्सर्वं कथयस्व नः ॥ १५॥
स प्रसन्नः महेशानः किम् प्रयच्छति सत्-फलम् ॥ स्व-भक्तेभ्यः परेभ्यः च तत् सर्वम् कथयस्व नः ॥ १५॥
sa prasannaḥ maheśānaḥ kim prayacchati sat-phalam .. sva-bhaktebhyaḥ parebhyaḥ ca tat sarvam kathayasva naḥ .. 15..
सद्यः प्रसन्नो भगवान्भवतीत्यनुशश्रुम॥ भक्तप्रयासं स महान्न पश्यति दयापरः॥ १६॥
सद्यस् प्रसन्नः भगवान् भवति इति अनुशश्रुम॥ भक्त-प्रयासम् स महान् न पश्यति दया-परः॥ १६॥
sadyas prasannaḥ bhagavān bhavati iti anuśaśruma.. bhakta-prayāsam sa mahān na paśyati dayā-paraḥ.. 16..
ब्रह्माविष्णुर्महेशश्च त्रयो देवाश्शिवांगजाः ॥ महेशस्तत्र पूर्णांशस्स्वयमेव शिवोऽपरः ॥ १७ ॥
ब्रह्मा अ विष्णुः महेशः च त्रयः देवाः शिव-अंगजाः ॥ महेशः तत्र पूर्ण-अंशः स्वयम् एव शिवः अपरः ॥ १७ ॥
brahmā a viṣṇuḥ maheśaḥ ca trayaḥ devāḥ śiva-aṃgajāḥ .. maheśaḥ tatra pūrṇa-aṃśaḥ svayam eva śivaḥ aparaḥ .. 17 ..
तस्याविर्भावमाख्याहि चरितानि विशेषतः ॥ उमाविर्भावमाख्याहि तद्विवाहं तथा प्रभो ॥ १८ ॥
तस्य आविर्भावम् आख्याहि चरितानि विशेषतः ॥ उमा-आविर्भावम् आख्याहि तद्-विवाहम् तथा प्रभो ॥ १८ ॥
tasya āvirbhāvam ākhyāhi caritāni viśeṣataḥ .. umā-āvirbhāvam ākhyāhi tad-vivāham tathā prabho .. 18 ..
तद्गार्हस्थ्यं विशेषेण तथा लीलाः परा अपि ॥ एतत्सर्वं तदन्यच्च कथनीयं त्वयाऽनघ ॥ १९॥
तत् गार्हस्थ्यम् विशेषेण तथा लीलाः पराः अपि ॥ एतत् सर्वम् तत् अन्यत् च कथनीयम् त्वया अनघ ॥ १९॥
tat gārhasthyam viśeṣeṇa tathā līlāḥ parāḥ api .. etat sarvam tat anyat ca kathanīyam tvayā anagha .. 19..
व्यास उवाच॥ इति पृष्टस्तदा तैस्तु सूतो हर्षसमन्वितः।
व्यासः उवाच॥ इति पृष्टः तदा तैः तु सूतः हर्ष-समन्वितः।
vyāsaḥ uvāca.. iti pṛṣṭaḥ tadā taiḥ tu sūtaḥ harṣa-samanvitaḥ.
स्मृत्वा शंभुपदांभोजम्प्रत्युवाच मुनीश्वरान् ॥ 2.1.1.२०॥
स्मृत्वा शंभु-पद-अंभोजम् प्रत्युवाच मुनि-ईश्वरान् ॥ २।१।१।२०॥
smṛtvā śaṃbhu-pada-aṃbhojam pratyuvāca muni-īśvarān .. 2.1.1.20..
सूत उवाच ।।
सम्यक्पृष्टं भवद्भिश्च धन्या यूयं मुनीश्वराः॥ सदाशिवकथायां वो यज्जाता नैष्ठिकी मतिः ॥ २१॥
सम्यक् पृष्टम् भवद्भिः च धन्याः यूयम् मुनि-ईश्वराः॥ सदाशिव-कथायाम् वः यत् जाता नैष्ठिकी मतिः ॥ २१॥
samyak pṛṣṭam bhavadbhiḥ ca dhanyāḥ yūyam muni-īśvarāḥ.. sadāśiva-kathāyām vaḥ yat jātā naiṣṭhikī matiḥ .. 21..
सदाशिवकथाप्रश्नः पुरुषांस्त्रीन्पुनाति हि ॥ वक्तारं पृच्छकं श्रोतॄञ्जाह्नवीसलिलं यथा ॥ २२ ॥
सदाशिव-कथा-प्रश्नः पुरुषान् त्रीन् पुनाति हि ॥ वक्तारम् पृच्छकम् श्रोतॄन् जाह्नवी-सलिलम् यथा ॥ २२ ॥
sadāśiva-kathā-praśnaḥ puruṣān trīn punāti hi .. vaktāram pṛcchakam śrotṝn jāhnavī-salilam yathā .. 22 ..
शंभोर्गुणानुवादात्को विरज्येत पुमान्द्विजाः ।विना पशुघ्नं त्रिविधजनानन्दकरात्सदा॥ २३॥
शंभोः गुण-अनुवादात् कः विरज्येत पुमान् द्विजाः ।विना पशु-घ्नम् त्रिविध-जन-आनन्द-करात् सदा॥ २३॥
śaṃbhoḥ guṇa-anuvādāt kaḥ virajyeta pumān dvijāḥ .vinā paśu-ghnam trividha-jana-ānanda-karāt sadā.. 23..
गीयमानो वितृष्णैश्च भवरोगौषधोऽपि हि ॥ मनःश्रोत्राभिरामश्च यत्तस्सर्वार्थदस्स वै ॥ २४॥
गीयमानः वितृष्णैः च भव-रोग-औषधः अपि हि ॥ मनः-श्रोत्र-अभिरामः च यत्तः सर्व-अर्थ-दः स वै ॥ २४॥
gīyamānaḥ vitṛṣṇaiḥ ca bhava-roga-auṣadhaḥ api hi .. manaḥ-śrotra-abhirāmaḥ ca yattaḥ sarva-artha-daḥ sa vai .. 24..
कथयामि यथाबुद्धि भवत्प्रश्नानुसारतः ॥ शिवलीलां प्रयत्नेन द्विजास्तां शृणुतादरात् ॥ २५ ॥
कथयामि यथाबुद्धि भवत्-प्रश्न-अनुसारतः ॥ शिव-लीलाम् प्रयत्नेन द्विजाः ताम् शृणुत आदरात् ॥ २५ ॥
kathayāmi yathābuddhi bhavat-praśna-anusārataḥ .. śiva-līlām prayatnena dvijāḥ tām śṛṇuta ādarāt .. 25 ..
भवद्भिः पृच्छ्यते यद्वत्तत्तथा नारदेन वै ॥ पृष्टं पित्रे प्रेरितेन हरिणा शिवरूपिणा ॥ २६ ॥
भवद्भिः पृच्छ्यते यद्वत् तत् तथा नारदेन वै ॥ पृष्टम् पित्रे प्रेरितेन हरिणा शिव-रूपिणा ॥ २६ ॥
bhavadbhiḥ pṛcchyate yadvat tat tathā nāradena vai .. pṛṣṭam pitre preritena hariṇā śiva-rūpiṇā .. 26 ..
ब्रह्मा श्रुत्वा सुतवचश्शिवभक्तः प्रसन्नधीः ॥ जगौ शिवयशः प्रीत्या हर्षयन्मुनिसत्तमम् ॥ २७ ॥
ब्रह्मा श्रुत्वा सुत-वचः शिव-भक्तः प्रसन्न-धीः ॥ जगौ शिव-यशः प्रीत्या हर्षयन् मुनि-सत्तमम् ॥ २७ ॥
brahmā śrutvā suta-vacaḥ śiva-bhaktaḥ prasanna-dhīḥ .. jagau śiva-yaśaḥ prītyā harṣayan muni-sattamam .. 27 ..
व्यास उवाच ।।
सूतोक्तमिति तद्वाक्यमाकर्ण्य द्विजसत्तमाः ॥
सूत-उक्तम् इति तत् वाक्यम् आकर्ण्य द्विजसत्तमाः ॥
sūta-uktam iti tat vākyam ākarṇya dvijasattamāḥ ..
पप्रच्छुस्तत्सुसंवादं कुतूहलसमन्विताः ॥ २८ ॥
पप्रच्छुः तद्-सुसंवादम् कुतूहल-समन्विताः ॥ २८ ॥
papracchuḥ tad-susaṃvādam kutūhala-samanvitāḥ .. 28 ..
ऋषय ऊचुः ।।
सूत सूत महाभाग शैवोत्तम महामते ॥ श्रुत्वा तव वचो रम्यं चेतो नस्सकुतूहलम् ॥ २९ ॥
सूत सूत महाभाग शैव-उत्तम महामते ॥ श्रुत्वा तव वचः रम्यम् चेतः नः स कुतूहलम् ॥ २९ ॥
sūta sūta mahābhāga śaiva-uttama mahāmate .. śrutvā tava vacaḥ ramyam cetaḥ naḥ sa kutūhalam .. 29 ..
कदा बभूव सुखकृद्विधिनारदयोर्महान् ॥ संवादो यत्र गिरिशसु लीला भवमोचिनी ॥ 2.1.1.३०॥
कदा बभूव सुख-कृत् विधि-नारदयोः महान् ॥ संवादः यत्र गिरिश-सु लीला भव-मोचिनी ॥ २।१।१।३०॥
kadā babhūva sukha-kṛt vidhi-nāradayoḥ mahān .. saṃvādaḥ yatra giriśa-su līlā bhava-mocinī .. 2.1.1.30..
विधिनारदसंवादपूर्वकं शांकरं यशः ॥ ब्रूहि नस्तात तत्प्रीत्या तत्तत्प्रश्नानुसारतः ॥ ३१॥
विधि-नारद-संवाद-पूर्वकम् शांकरम् यशः ॥ ब्रूहि नः तात तद्-प्रीत्या तद्-तद्-प्रश्न-अनुसारतः ॥ ३१॥
vidhi-nārada-saṃvāda-pūrvakam śāṃkaram yaśaḥ .. brūhi naḥ tāta tad-prītyā tad-tad-praśna-anusārataḥ .. 31..
इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् ॥ सूतः प्रोवाच सुप्रीतस्तत्संवादानुसारतः ॥ ३२ ॥
इति आकर्ण्य वचः तेषाम् मुनीनाम् भावितात्मनाम् ॥ सूतः प्रोवाच सु प्रीतः तद्-संवाद-अनुसारतः ॥ ३२ ॥
iti ākarṇya vacaḥ teṣām munīnām bhāvitātmanām .. sūtaḥ provāca su prītaḥ tad-saṃvāda-anusārataḥ .. 32 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने मुनिप्रश्नवर्णनो नाम प्रथमोऽध्यायः ॥ १ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् प्रथम-खंडे सृष्ट्युपाख्याने मुनिप्रश्नवर्णनः नाम प्रथमः अध्यायः ॥ १ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām prathama-khaṃḍe sṛṣṭyupākhyāne munipraśnavarṇanaḥ nāma prathamaḥ adhyāyaḥ .. 1 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In