| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
एतस्मिन्समये विप्रा नारदो मुनिसत्तमः ॥ ब्रह्मपुत्रो विनीतात्मा तपोर्थं मन आदधे॥ १॥
एतस्मिन् समये विप्राः नारदः मुनि-सत्तमः ॥ ब्रह्म-पुत्रः विनीत-आत्मा तपः-र्थम् मनः आदधे॥ १॥
etasmin samaye viprāḥ nāradaḥ muni-sattamaḥ .. brahma-putraḥ vinīta-ātmā tapaḥ-rtham manaḥ ādadhe.. 1..
हिमशैलगुहा काचिदेका परमशोभना ॥ यत्समीपे सुरनदी सदा वहति वेगतः॥ २॥
हिमशैल-गुहा काचिद् एका परम-शोभना ॥ यद्-समीपे सुर-नदी सदा वहति वेगतः॥ २॥
himaśaila-guhā kācid ekā parama-śobhanā .. yad-samīpe sura-nadī sadā vahati vegataḥ.. 2..
तत्राश्रमो महादिव्यो नानाशोभासमन्वितः ॥ तपोर्थं स ययौ तत्र नारदो दिव्यदर्शनः ॥ ३ ॥
तत्र आश्रमः महा-दिव्यः नाना शोभा-समन्वितः ॥ तपः-र्थम् स ययौ तत्र नारदः दिव्य-दर्शनः ॥ ३ ॥
tatra āśramaḥ mahā-divyaḥ nānā śobhā-samanvitaḥ .. tapaḥ-rtham sa yayau tatra nāradaḥ divya-darśanaḥ .. 3 ..
तां दृष्ट्वा मुनिशार्दूलस्तेपे स सुचिरं तपः ॥ बध्वासनं दृढं मौनी प्राणानायम्य शुद्धधीः ॥ ४ ॥
ताम् दृष्ट्वा मुनि-शार्दूलः तेपे स सु चिरम् तपः ॥ बध्वा आसनम् दृढम् मौनी प्राणान् आयम्य शुद्ध-धीः ॥ ४ ॥
tām dṛṣṭvā muni-śārdūlaḥ tepe sa su ciram tapaḥ .. badhvā āsanam dṛḍham maunī prāṇān āyamya śuddha-dhīḥ .. 4 ..
चक्रे मुनिस्समाधिं तमहम्ब्रह्मेति यत्र ह ॥ विज्ञानं भवति ब्रह्मसाक्षात्कारकरं द्विजाः ॥ ५॥
चक्रे मुनिः समाधिम् तम् अहम् ब्रह्म इति यत्र ह ॥ विज्ञानम् भवति ब्रह्म-साक्षात्कार-करम् द्विजाः ॥ ५॥
cakre muniḥ samādhim tam aham brahma iti yatra ha .. vijñānam bhavati brahma-sākṣātkāra-karam dvijāḥ .. 5..
इत्थं तपति तस्मिन्वै नारदे मुनिसत्तमे ॥ चकंपेऽथ शुनासीरो मनस्संतापविह्वलः ॥ ६ ॥
इत्थम् तपति तस्मिन् वै नारदे मुनि-सत्तमे ॥ चकंपे अथ शुनासीरः मनः-संताप-विह्वलः ॥ ६ ॥
ittham tapati tasmin vai nārade muni-sattame .. cakaṃpe atha śunāsīraḥ manaḥ-saṃtāpa-vihvalaḥ .. 6 ..
मनसीति विचिंत्यासौ मुनिर्मे राज्यमिच्छति ॥ तद्विघ्नकरणार्थं हि हरिर्यत्नमियेष सः ॥ ७ ॥
मनसि इति विचिंत्य असौ मुनिः मे राज्यम् इच्छति ॥ तद्-विघ्न-करण-अर्थम् हि हरिः यत्नम् इयेष सः ॥ ७ ॥
manasi iti viciṃtya asau muniḥ me rājyam icchati .. tad-vighna-karaṇa-artham hi hariḥ yatnam iyeṣa saḥ .. 7 ..
सस्मार स्मरं शक्रश्चेतसा देवनायकः ॥ आजगाम द्रुतं कामस्समधीर्महिषीसुतः ॥ ८॥
सस्मार स्मरम् शक्रः चेतसा देव-नायकः ॥ आजगाम द्रुतम् कामः सम-धीः महिषी-सुतः ॥ ८॥
sasmāra smaram śakraḥ cetasā deva-nāyakaḥ .. ājagāma drutam kāmaḥ sama-dhīḥ mahiṣī-sutaḥ .. 8..
अथागतं स्मरं दृष्ट्वा संबोध्य सुरराट् प्रभुः ॥ उवाच तं प्रपश्याशु स्वार्थे कुटिलशेमुषिः ॥ ९ ॥
अथ आगतम् स्मरम् दृष्ट्वा संबोध्य सुरराज् प्रभुः ॥ उवाच तम् प्रपश्य आशु स्व-अर्थे कुटिल-शेमुषिः ॥ ९ ॥
atha āgatam smaram dṛṣṭvā saṃbodhya surarāj prabhuḥ .. uvāca tam prapaśya āśu sva-arthe kuṭila-śemuṣiḥ .. 9 ..
इन्द्र उवाच ।।
मित्रवर्य्य महावीर सर्वदा हितकारक ॥ शृणु प्रीत्या वचो मे त्वं कुरु साहाय्यमात्मना ॥ 2.1.2.१० ॥
मित्र-वर्य्य महा-वीर सर्वदा हित-कारक ॥ शृणु प्रीत्या वचः मे त्वम् कुरु साहाय्यम् आत्मना ॥ २।१।२।१० ॥
mitra-varyya mahā-vīra sarvadā hita-kāraka .. śṛṇu prītyā vacaḥ me tvam kuru sāhāyyam ātmanā .. 2.1.2.10 ..
त्वद्बलान्मे बहूनाञ्च तपोगर्वो विनाशितः ॥ मद्राज्यस्थिरता मित्र त्वदनुग्रहतस्सदा ॥ ११ ॥
त्वद्-बलात् मे बहूनाम् च तपः-गर्वः विनाशितः ॥ मद्-राज्य-स्थिर-ता मित्र त्वद्-अनुग्रहतः सदा ॥ ११ ॥
tvad-balāt me bahūnām ca tapaḥ-garvaḥ vināśitaḥ .. mad-rājya-sthira-tā mitra tvad-anugrahataḥ sadā .. 11 ..
हिमशैलगुहायां हि मुनिस्तपति नारदः ॥ मनसोद्दिश्य विश्वेशं महासंयमवान्दृढः ॥ १२॥
हिमशैल-गुहायाम् हि मुनिः तपति नारदः ॥ मनसा उद्दिश्य विश्वेशम् महा-संयमवान् दृढः ॥ १२॥
himaśaila-guhāyām hi muniḥ tapati nāradaḥ .. manasā uddiśya viśveśam mahā-saṃyamavān dṛḍhaḥ .. 12..
याचेन्न विधितो राज्यं स ममेति विशंकितः॥ अद्यैव गच्छ तत्र त्वं तत्तपोविघ्नमाचर॥ १३॥
याचेत् न विधितः राज्यम् स मम इति विशंकितः॥ अद्या एव गच्छ तत्र त्वम् तद्-तपः-विघ्नम् आचर॥ १३॥
yācet na vidhitaḥ rājyam sa mama iti viśaṃkitaḥ.. adyā eva gaccha tatra tvam tad-tapaḥ-vighnam ācara.. 13..
इत्याज्ञप्तो महेन्द्रेण स कामस्समधु प्रियः॥ जगाम तत्स्थलं गर्वादुपायं स्वञ्चकार ह॥ १४॥
इति आज्ञप्तः महा-इन्द्रेण स कामः समधु प्रियः॥ जगाम तत् स्थलम् गर्वात् उपायम् ह॥ १४॥
iti ājñaptaḥ mahā-indreṇa sa kāmaḥ samadhu priyaḥ.. jagāma tat sthalam garvāt upāyam ha.. 14..
रचयामास तत्राशु स्वकलास्सकला अपि ॥ वसंतोपि स्वप्रभावं चकार विविधं मदात् ॥ १५॥
रचयामास तत्र आशु स्व-कलाः सकलाः अपि ॥ वसंतः अपि स्व-प्रभावम् चकार विविधम् मदात् ॥ १५॥
racayāmāsa tatra āśu sva-kalāḥ sakalāḥ api .. vasaṃtaḥ api sva-prabhāvam cakāra vividham madāt .. 15..
न बभूव मुनेश्चेतो विकृतं मुनिसत्तमाः ॥ भ्रष्टो बभूव तद्गर्वो महेशानुग्रहेण ह ॥ १६ ॥
न बभूव मुनेः चेतः विकृतम् मुनि-सत्तमाः ॥ भ्रष्टः बभूव तद्-गर्वः महेश-अनुग्रहेण ह ॥ १६ ॥
na babhūva muneḥ cetaḥ vikṛtam muni-sattamāḥ .. bhraṣṭaḥ babhūva tad-garvaḥ maheśa-anugraheṇa ha .. 16 ..
शृणुतादरतस्तत्र कारणं शौनकादयः ॥ ईश्वरानुग्रहेणात्र न प्रभावः स्मरस्य हि ॥ १७॥
शृणुत आदरतः तत्र कारणम् शौनक-आदयः ॥ ईश्वर-अनुग्रहेण अत्र न प्रभावः स्मरस्य हि ॥ १७॥
śṛṇuta ādarataḥ tatra kāraṇam śaunaka-ādayaḥ .. īśvara-anugraheṇa atra na prabhāvaḥ smarasya hi .. 17..
अत्रैव शम्भुनाऽकारि सुतपश्च स्मरारिणा ॥ अत्रैव दग्धस्तेनाशु कामो मुनितपोपहः ॥ १८ ॥
अत्रा एव शम्भुना अकारि सु तपः च स्मरारिणा ॥ अत्रा एव दग्धः तेन आशु कामः मुनि-तप-उपहः ॥ १८ ॥
atrā eva śambhunā akāri su tapaḥ ca smarāriṇā .. atrā eva dagdhaḥ tena āśu kāmaḥ muni-tapa-upahaḥ .. 18 ..
कामजीवनहेतोर्हि रत्या संप्रार्थितैस्सुरैः ॥ सम्प्रार्थित उवाचेदं शंकरो लोकशंकरः ॥ १९ ॥
काम-जीवन-हेतोः हि रत्या संप्रार्थितैः सुरैः ॥ सम्प्रार्थितः उवाच इदम् शंकरः लोक-शंकरः ॥ १९ ॥
kāma-jīvana-hetoḥ hi ratyā saṃprārthitaiḥ suraiḥ .. samprārthitaḥ uvāca idam śaṃkaraḥ loka-śaṃkaraḥ .. 19 ..
कंचित्समयमासाद्य जीविष्यति सुराः स्मरः ॥ परं त्विह स्मरोपायश्चरिष्यति न कश्चन ॥ 2.1.2.२०॥
कंचिद् समयम् आसाद्य जीविष्यति सुराः स्मरः ॥ परम् तु इह स्मर-उपायः चरिष्यति न कश्चन ॥ २।१।२।२०॥
kaṃcid samayam āsādya jīviṣyati surāḥ smaraḥ .. param tu iha smara-upāyaḥ cariṣyati na kaścana .. 2.1.2.20..
इह यावद्दृश्यते भूर्जनैः स्थित्वाऽमरास्सदा ॥ कामबाणप्रभावोत्र न चलिष्यत्यसंशयम्॥ २१॥
इह यावत् दृश्यते भूः जनैः स्थित्वा अमराः सदा ॥ काम-बाण-प्रभावः उत्र न चलिष्यति असंशयम्॥ २१॥
iha yāvat dṛśyate bhūḥ janaiḥ sthitvā amarāḥ sadā .. kāma-bāṇa-prabhāvaḥ utra na caliṣyati asaṃśayam.. 21..
इति शंभूक्तितः कामो मिथ्यात्मगतिकस्तदा ॥ नारदे स जगामाशु दिवमिन्द्रसमीपतः ॥ २२ ॥
इति शंभु-उक्तितः कामः मिथ्या आत्मगतिकः तदा ॥ नारदे स जगाम आशु दिवम् इन्द्र-समीपतः ॥ २२ ॥
iti śaṃbhu-uktitaḥ kāmaḥ mithyā ātmagatikaḥ tadā .. nārade sa jagāma āśu divam indra-samīpataḥ .. 22 ..
आचख्यौ सर्ववृत्तांतं प्रभावं च मुनेः स्मरः ॥ तदाज्ञया ययौ स्थानं स्वकीयं स मधुप्रियः ॥ २३ ॥
आचख्यौ सर्व-वृत्तांतम् प्रभावम् च मुनेः स्मरः ॥ तद्-आज्ञया ययौ स्थानम् स्वकीयम् स मधुप्रियः ॥ २३ ॥
ācakhyau sarva-vṛttāṃtam prabhāvam ca muneḥ smaraḥ .. tad-ājñayā yayau sthānam svakīyam sa madhupriyaḥ .. 23 ..
विस्मितोभूत्सुराधीशः प्रशशंसाथ नारदम् ॥ तद्वृत्तांतानभिज्ञो हि मोहितश्शिवमायया ॥ २४ ॥
विस्मितः उभूत् सुर-अधीशः प्रशशंस अथ नारदम् ॥ तद्-वृत्तांत-अनभिज्ञः हि मोहितः शिव-मायया ॥ २४ ॥
vismitaḥ ubhūt sura-adhīśaḥ praśaśaṃsa atha nāradam .. tad-vṛttāṃta-anabhijñaḥ hi mohitaḥ śiva-māyayā .. 24 ..
दुर्ज्ञेया शांभवी माया सर्वेषां प्राणिनामिह ॥ भक्तं विनार्पितात्मानं तया संमोह्यते जगत् ॥ २५॥
दुर्ज्ञेया शांभवी माया सर्वेषाम् प्राणिनाम् इह ॥ भक्तम् विना अर्पित-आत्मानम् तया संमोह्यते जगत् ॥ २५॥
durjñeyā śāṃbhavī māyā sarveṣām prāṇinām iha .. bhaktam vinā arpita-ātmānam tayā saṃmohyate jagat .. 25..
नारदोऽपि चिरं तस्थौ तत्रेशानुग्रहेण ह ॥ पूर्णं मत्वा तपस्तत्स्वं विरराम ततो मुनिः ॥ २६ ॥
नारदः अपि चिरम् तस्थौ तत्र ईश-अनुग्रहेण ह ॥ पूर्णम् मत्वा तपः तत् स्वम् विरराम ततस् मुनिः ॥ २६ ॥
nāradaḥ api ciram tasthau tatra īśa-anugraheṇa ha .. pūrṇam matvā tapaḥ tat svam virarāma tatas muniḥ .. 26 ..
कामोप्यजेयं निजं मत्वा गर्वितोऽभून्मुनीश्वरः ॥ वृथैव विगतज्ञानश्शिवमायाविमोहितः ॥ २७ ॥
कामः उपि अजेयम् निजम् मत्वा गर्वितः अभूत् मुनि-ईश्वरः ॥ वृथा एव विगत-ज्ञानः शिव-माया-विमोहितः ॥ २७ ॥
kāmaḥ upi ajeyam nijam matvā garvitaḥ abhūt muni-īśvaraḥ .. vṛthā eva vigata-jñānaḥ śiva-māyā-vimohitaḥ .. 27 ..
धन्या धन्या महामाया शांभवी मुनिसत्तमाः ॥ तद्गतिं न हि पश्यंति विष्णुब्रह्मादयोपि हि ॥ २८ ॥
धन्या धन्या महामाया शांभवी मुनि-सत्तमाः ॥ तद्-गतिम् न हि पश्यंति विष्णु-ब्रह्म-आदयः अपि हि ॥ २८ ॥
dhanyā dhanyā mahāmāyā śāṃbhavī muni-sattamāḥ .. tad-gatim na hi paśyaṃti viṣṇu-brahma-ādayaḥ api hi .. 28 ..
तया संमोहितोतीव नारदो मुनिसत्तमः ॥ कैलासं प्रययौ शीघ्रं स्ववृत्तं गदितुं मदी ॥ २९॥
तया संमोहिता उतीव नारदः मुनि-सत्तमः ॥ कैलासम् प्रययौ शीघ्रम् स्व-वृत्तम् गदितुम् मदी ॥ २९॥
tayā saṃmohitā utīva nāradaḥ muni-sattamaḥ .. kailāsam prayayau śīghram sva-vṛttam gaditum madī .. 29..
रुद्रं नत्वाब्रवीत्सर्वं स्ववृत्तङ्गर्ववान्मुनिः ॥ मत्वात्मानं महात्मानं स्वप्रभुञ्च स्मरञ्जयम्॥ 2.1.2.३०॥
रुद्रम् नत्वा अब्रवीत् सर्वम् स्व-वृत्तम् गर्ववान् मुनिः ॥ मत्वा आत्मानम् महात्मानम् स्व-प्रभुं च स्मरन् जयम्॥ २।१।२।३०॥
rudram natvā abravīt sarvam sva-vṛttam garvavān muniḥ .. matvā ātmānam mahātmānam sva-prabhuṃ ca smaran jayam.. 2.1.2.30..
तच्छ्रुत्वा शंकरः प्राह नारदं भक्तवत्सलः ॥ स्वमायामोहितं हेत्वनभिज्ञं भ्रष्टचेतसम् ॥ ३१॥
तत् श्रुत्वा शंकरः प्राह नारदम् भक्त-वत्सलः ॥ स्व-माया-मोहितम् हेतु-अनभिज्ञम् भ्रष्ट-चेतसम् ॥ ३१॥
tat śrutvā śaṃkaraḥ prāha nāradam bhakta-vatsalaḥ .. sva-māyā-mohitam hetu-anabhijñam bhraṣṭa-cetasam .. 31..
रुद्र उवाच ।।
हे तात नारद प्राज्ञ धन्यस्त्वं शृणु मद्वचः॥ वाच्यमेवं न कुत्रापि हरेरग्रे विशेषतः॥ ३२॥
हे तात नारद प्राज्ञ धन्यः त्वम् शृणु मद्-वचः॥ वाच्यम् एवम् न कुत्र अपि हरेः अग्रे विशेषतः॥ ३२॥
he tāta nārada prājña dhanyaḥ tvam śṛṇu mad-vacaḥ.. vācyam evam na kutra api hareḥ agre viśeṣataḥ.. 32..
पृच्छमानोऽपि न ब्रूयाः स्ववृत्तं मे यदुक्तवान्॥ गोप्यं गोप्यं सर्वथा हि नैव वाच्यं कदाचन॥ ३३॥
पृच्छमानः अपि न ब्रूयाः स्व-वृत्तम् मे यत् उक्तवान्॥ गोप्यम् गोप्यम् सर्वथा हि ना एव वाच्यम् कदाचन॥ ३३॥
pṛcchamānaḥ api na brūyāḥ sva-vṛttam me yat uktavān.. gopyam gopyam sarvathā hi nā eva vācyam kadācana.. 33..
शास्म्यहं त्वां विशेषेण मम प्रियतमो भवान् ॥ विष्णुभक्तो यतस्त्वं हि तद्भक्तोतीव मेऽनुगः ॥ ३४॥
शास्मि अहम् त्वाम् विशेषेण मम प्रियतमः भवान् ॥ विष्णु-भक्तः यतस् त्वम् हि तद्-भक्त उतीव मे अनुगः ॥ ३४॥
śāsmi aham tvām viśeṣeṇa mama priyatamaḥ bhavān .. viṣṇu-bhaktaḥ yatas tvam hi tad-bhakta utīva me anugaḥ .. 34..
शास्तिस्मेत्थञ्च बहुशो रुद्रस्सूतिकरः प्रभुः ।नारदो न हितं मेने शिवमायाविमोहितः ॥ ३५॥
शास्ति स्म इत्थम् च बहुशस् रुद्रः सूति-करः प्रभुः ।नारदः न हितम् मेने शिव-माया-विमोहितः ॥ ३५॥
śāsti sma ittham ca bahuśas rudraḥ sūti-karaḥ prabhuḥ .nāradaḥ na hitam mene śiva-māyā-vimohitaḥ .. 35..
प्रबला भाविनी कर्म गतिर्ज्ञेया विचक्षणैः॥ न निवार्या जनैः कैश्चिदपीच्छा सैव शांकरी॥ ३६॥
प्रबला भाविनी कर्म गतिः ज्ञेया विचक्षणैः॥ न निवार्या जनैः कैश्चिद् अपि इच्छा सा एव शांकरी॥ ३६॥
prabalā bhāvinī karma gatiḥ jñeyā vicakṣaṇaiḥ.. na nivāryā janaiḥ kaiścid api icchā sā eva śāṃkarī.. 36..
ततस्स मुनिवर्यो हि ब्रह्मलोकं जगाम ह ॥ विधिं नत्वाऽब्रवीत्कामजयं स्वस्य तपोबलात् ॥ ३७॥
ततस् स मुनि-वर्यः हि ब्रह्म-लोकम् जगाम ह ॥ विधिम् नत्वा अब्रवीत् काम-जयम् स्वस्य तपः-बलात् ॥ ३७॥
tatas sa muni-varyaḥ hi brahma-lokam jagāma ha .. vidhim natvā abravīt kāma-jayam svasya tapaḥ-balāt .. 37..
तदाकर्ण्य विधिस्सोथ स्मृत्वा शम्भुपदाम्बुजम् ॥ ज्ञात्वा सर्वं कारणं तन्निषिषेध सुतं तदा ॥ ३८॥
तत् आकर्ण्य विधिः सः उथ स्मृत्वा शम्भु-पद-अम्बुजम् ॥ ज्ञात्वा सर्वम् कारणम् तत् निषिषेध सुतम् तदा ॥ ३८॥
tat ākarṇya vidhiḥ saḥ utha smṛtvā śambhu-pada-ambujam .. jñātvā sarvam kāraṇam tat niṣiṣedha sutam tadā .. 38..
मेने हितन्न विध्युक्तं नारदो ज्ञानिसत्तमः ॥ शिवमायामोहितश्च रूढचित्तमदांकुरः ॥ ३९॥
मेने हि तत् न विधि-उक्तम् नारदः ज्ञानि-सत्तमः ॥ शिव-माया-मोहितः च रूढ-चित्त-मद-अंकुरः ॥ ३९॥
mene hi tat na vidhi-uktam nāradaḥ jñāni-sattamaḥ .. śiva-māyā-mohitaḥ ca rūḍha-citta-mada-aṃkuraḥ .. 39..
शिवेच्छा यादृशी लोके भवत्येव हि सा तदा ॥ तदधीनं जगत्सर्वं वचस्तंत्यांत स्थितं यतः॥ 2.1.2.४०॥
शिव-इच्छा यादृशी लोके भवति एव हि सा तदा ॥ तद्-अधीनम् जगत् सर्वम् स्थितम् यतस्॥ २।१।२।४०॥
śiva-icchā yādṛśī loke bhavati eva hi sā tadā .. tad-adhīnam jagat sarvam sthitam yatas.. 2.1.2.40..
नारदोऽथ ययौ शीघ्रं विष्णुलोकं विनष्टधीः ॥ मदांकुरमना वृत्तं गदितुं स्वं तदग्रतः ॥ ४१॥
नारदः अथ ययौ शीघ्रम् विष्णु-लोकम् विनष्ट-धीः ॥ मद-अंकुर-मनाः वृत्तम् गदितुम् स्वम् तद्-अग्रतस् ॥ ४१॥
nāradaḥ atha yayau śīghram viṣṇu-lokam vinaṣṭa-dhīḥ .. mada-aṃkura-manāḥ vṛttam gaditum svam tad-agratas .. 41..
आगच्छंतं मुनिन्दृष्ट्वा नारदं विष्णुरादरात्॥ उत्थित्वाग्रे गतोऽरं तं शिश्लेषज्ञातहेतुकः ॥ ४२ ॥
आगच्छन् तम् मुनिन् दृष्ट्वा नारदम् विष्णुः आदरात्॥ उत्थित्वा अग्रे गतः अरम् तम् शिश्लेष-ज्ञात-हेतुकः ॥ ४२ ॥
āgacchan tam munin dṛṣṭvā nāradam viṣṇuḥ ādarāt.. utthitvā agre gataḥ aram tam śiśleṣa-jñāta-hetukaḥ .. 42 ..
स्वासने समुपावेश्य स्मृत्वा शिवपदाम्बुजम् ॥ हरिः प्राह वचस्तथ्यं नारदं मदनाशनम् ॥ ४३ ॥
स्व-आसने समुपावेश्य स्मृत्वा शिव-पद-अम्बुजम् ॥ हरिः प्राह वचः तथ्यम् नारदम् मद-नाशनम् ॥ ४३ ॥
sva-āsane samupāveśya smṛtvā śiva-pada-ambujam .. hariḥ prāha vacaḥ tathyam nāradam mada-nāśanam .. 43 ..
विष्णुरुवाच ।।
कुत आगम्यते तात किमर्थमिह चागतः ॥ धन्यस्त्वं मुनिशार्दूल तीर्थोऽहं तु तवागमात् ॥ ४४ ॥
कुतस् आगम्यते तात किमर्थम् इह च आगतः ॥ धन्यः त्वम् मुनि-शार्दूल तीर्थः अहम् तु तव आगमात् ॥ ४४ ॥
kutas āgamyate tāta kimartham iha ca āgataḥ .. dhanyaḥ tvam muni-śārdūla tīrthaḥ aham tu tava āgamāt .. 44 ..
विष्णुवाक्यमिति श्रुत्वा नारदो गर्वितो मुनिः ॥ स्ववृत्तं सर्वमाचष्ट समदं मदमोहितः ॥ ४५ ॥
विष्णु-वाक्यम् इति श्रुत्वा नारदः गर्वितः मुनिः ॥ स्व-वृत्तम् सर्वम् आचष्ट स मदम् मद-मोहितः ॥ ४५ ॥
viṣṇu-vākyam iti śrutvā nāradaḥ garvitaḥ muniḥ .. sva-vṛttam sarvam ācaṣṭa sa madam mada-mohitaḥ .. 45 ..
श्रुत्वा मुनिवचो विष्णुस्समदं कारणं ततः ॥ ज्ञातवानखिलं स्मृत्वा शिवपादाम्बुजं हृदि ॥ ४६॥
श्रुत्वा मुनि-वचः विष्णुः समदम् कारणम् ततस् ॥ ज्ञातवान् अखिलम् स्मृत्वा शिव-पाद-अम्बुजम् हृदि ॥ ४६॥
śrutvā muni-vacaḥ viṣṇuḥ samadam kāraṇam tatas .. jñātavān akhilam smṛtvā śiva-pāda-ambujam hṛdi .. 46..
तुष्टाव गिरिशं भक्त्या शिवात्मा शैवराड् हरिः॥ सांजलिर्विसुधीर्नम्रमस्तकः परमेश्वरम् ॥ ४७ ॥
तुष्टाव गिरिशम् भक्त्या शिव-आत्मा शैव-राज् हरिः॥ स अंजलिः विसुधीः नम्र-मस्तकः परमेश्वरम् ॥ ४७ ॥
tuṣṭāva giriśam bhaktyā śiva-ātmā śaiva-rāj hariḥ.. sa aṃjaliḥ visudhīḥ namra-mastakaḥ parameśvaram .. 47 ..
देवदेव महादेव प्रसीद परमेश्वर ॥ धन्यस्त्वं शिव धन्या ते माया सर्व विमोहिनी ॥ ४८ ॥
देवदेव महादेव प्रसीद परमेश्वर ॥ धन्यः त्वम् शिव धन्या ते माया सर्व विमोहिनी ॥ ४८ ॥
devadeva mahādeva prasīda parameśvara .. dhanyaḥ tvam śiva dhanyā te māyā sarva vimohinī .. 48 ..
इत्यादि स स्तुतिं कृत्वा शिवस्य परमात्मनः ॥ निमील्य नयने ध्यात्वा विरराम पदाम्बुजम् ॥ ४९॥
इत्यादि स स्तुतिम् कृत्वा शिवस्य परमात्मनः ॥ निमील्य नयने ध्यात्वा विरराम पद-अम्बुजम् ॥ ४९॥
ityādi sa stutim kṛtvā śivasya paramātmanaḥ .. nimīlya nayane dhyātvā virarāma pada-ambujam .. 49..
यत्कर्तव्यं शंकरस्य स ज्ञात्वा विश्वपालकः ॥ शिवशासनतः प्राह हृदाथ मुनिसत्तमम् ॥ 2.1.2.५० ॥
यत् कर्तव्यम् शंकरस्य स ज्ञात्वा विश्व-पालकः ॥ शिव-शासनतः प्राह हृदा अथ मुनि-सत्तमम् ॥ २।१।२।५० ॥
yat kartavyam śaṃkarasya sa jñātvā viśva-pālakaḥ .. śiva-śāsanataḥ prāha hṛdā atha muni-sattamam .. 2.1.2.50 ..
विष्णुरुवाच ।।
धन्यस्त्वं मुनिशार्दूल तपोनिधिरुदारधीः ॥ भक्तित्रिकं न यस्यास्ति काममोहादयो मुने ॥ ५१॥
धन्यः त्वम् मुनि-शार्दूल तपोनिधिः उदार-धीः ॥ भक्ति-त्रिकम् न यस्य अस्ति काम-मोह-आदयः मुने ॥ ५१॥
dhanyaḥ tvam muni-śārdūla taponidhiḥ udāra-dhīḥ .. bhakti-trikam na yasya asti kāma-moha-ādayaḥ mune .. 51..
विकारास्तस्य सद्यो वै भवंत्यखिलदुःखदाः ॥ नैष्ठिको ब्रह्मचारी त्वं ज्ञानवैराग्यवान्सदा ॥ ५२ ॥
विकाराः तस्य सद्यस् वै भवन्ति अखिल-दुःख-दाः ॥ नैष्ठिकः ब्रह्मचारी त्वम् ज्ञान-वैराग्यवान् सदा ॥ ५२ ॥
vikārāḥ tasya sadyas vai bhavanti akhila-duḥkha-dāḥ .. naiṣṭhikaḥ brahmacārī tvam jñāna-vairāgyavān sadā .. 52 ..
कथं कामविकारी स्या जन्मना विकृतस्सुधीः ॥ इत्याद्युक्तं वचो भूरि श्रुत्वा स मुनिसत्तमः ॥ ५३॥
कथम् काम-विकारी स्याः जन्मना विकृतः सुधीः ॥ इत्यादि उक्तम् वचः भूरि श्रुत्वा स मुनि-सत्तमः ॥ ५३॥
katham kāma-vikārī syāḥ janmanā vikṛtaḥ sudhīḥ .. ityādi uktam vacaḥ bhūri śrutvā sa muni-sattamaḥ .. 53..
विजहास हृदा नत्वा प्रत्युवाच वचो हरिम् ॥
विजहास हृदा नत्वा प्रत्युवाच वचः हरिम् ॥
vijahāsa hṛdā natvā pratyuvāca vacaḥ harim ..
नारद उवाच ।।
किं प्रभावः स्मरः स्वामिन्कृपा यद्यस्ति ते मयि ॥ ५४ ॥ इत्युक्त्वा हरिमानम्य ययौ यादृच्छिको मुनिः ॥ ५५॥
किम् प्रभावः स्मरः स्वामिन् कृपा यदि अस्ति ते मयि ॥ ५४ ॥ इति उक्त्वा हरिम् आनम्य ययौ यादृच्छिकः मुनिः ॥ ५५॥
kim prabhāvaḥ smaraḥ svāmin kṛpā yadi asti te mayi .. 54 .. iti uktvā harim ānamya yayau yādṛcchikaḥ muniḥ .. 55..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदतपोवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् प्रथम-खंडे सृष्ट्युपाख्याने नारदतपोवर्णनम् नाम द्वितीयः अध्यायः ॥ २ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām prathama-khaṃḍe sṛṣṭyupākhyāne nāradatapovarṇanam nāma dvitīyaḥ adhyāyaḥ .. 2 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In