| |
|

This overlay will guide you through the buttons:

परमेश्वर उवाच ।।
अन्यच्छृणु हरे विष्णो शासनं मम सुव्रत॥ सदा सर्वेषु लोकेषु मान्यः पूज्यो भविष्यसि॥ १ ॥
अन्यत् शृणु हरे विष्णो शासनम् मम सुव्रत॥ सदा सर्वेषु लोकेषु मान्यः पूज्यः भविष्यसि॥ १ ॥
anyat śṛṇu hare viṣṇo śāsanam mama suvrata.. sadā sarveṣu lokeṣu mānyaḥ pūjyaḥ bhaviṣyasi.. 1 ..
ब्रह्मणा निर्मिते लोके यदा दुखं प्रजायते ॥ तदा त्वं सर्वदुःखानां नाशाय तत्परो भव ॥ २ ॥
ब्रह्मणा निर्मिते लोके यदा दुखम् प्रजायते ॥ तदा त्वम् सर्व-दुःखानाम् नाशाय तत्परः भव ॥ २ ॥
brahmaṇā nirmite loke yadā dukham prajāyate .. tadā tvam sarva-duḥkhānām nāśāya tatparaḥ bhava .. 2 ..
सहायं ते करिष्यामि सर्वकार्ये च दुस्सहे ॥ तव शत्रून्हनिष्यामि दुस्साध्यान्परमोत्कटान् ॥ ३ ॥
सहायम् ते करिष्यामि सर्व-कार्ये च दुस्सहे ॥ तव शत्रून् हनिष्यामि दुस्साध्यान् परम-उत्कटान् ॥ ३ ॥
sahāyam te kariṣyāmi sarva-kārye ca dussahe .. tava śatrūn haniṣyāmi dussādhyān parama-utkaṭān .. 3 ..
विविधानवतारांश्च गृहीत्वा कीर्तिमुत्तमाम् ॥ विस्तारय हरे लोके तारणाय परो भव ॥ ४ ॥
विविधान् अवतारान् च गृहीत्वा कीर्तिम् उत्तमाम् ॥ विस्तारय हरे लोके तारणाय परः भव ॥ ४ ॥
vividhān avatārān ca gṛhītvā kīrtim uttamām .. vistāraya hare loke tāraṇāya paraḥ bhava .. 4 ..
गुणरूपो ह्ययं रुद्रो ह्यनेन वपुषा सदा ॥ कार्यं करिष्ये लोकानां तवाशक्यं न संशयः ॥ ५ ॥
गुण-रूपः हि अयम् रुद्रः हि अनेन वपुषा सदा ॥ कार्यम् करिष्ये लोकानाम् तव अशक्यम् न संशयः ॥ ५ ॥
guṇa-rūpaḥ hi ayam rudraḥ hi anena vapuṣā sadā .. kāryam kariṣye lokānām tava aśakyam na saṃśayaḥ .. 5 ..
रुद्रध्येयो भवांश्चैव भवद्ध्येयो हरस्तथा ॥ युवयोरन्तरन्नैव तव रुद्रस्य किंचन ॥ ६ ॥
रुद्र-ध्येयः भवान् च एव भवत्-ध्येयः हरः तथा ॥ युवयोः अन्तरत् न एव तव रुद्रस्य किंचन ॥ ६ ॥
rudra-dhyeyaḥ bhavān ca eva bhavat-dhyeyaḥ haraḥ tathā .. yuvayoḥ antarat na eva tava rudrasya kiṃcana .. 6 ..
वस्तुतश्चापि चैकत्वं वरतोऽपि तथैव च ॥ लीलयापि महाविष्णो सत्यं सत्यं न संशयः ॥ ७ ॥
वस्तुतस् च अपि च एकत्वम् वरतः अपि तथा एव च ॥ लीलया अपि महा-विष्णो सत्यम् सत्यम् न संशयः ॥ ७ ॥
vastutas ca api ca ekatvam varataḥ api tathā eva ca .. līlayā api mahā-viṣṇo satyam satyam na saṃśayaḥ .. 7 ..
रुद्रभक्तो नरो यस्तु तव निंदां करिष्यति ॥ तस्य पुण्यं च निखिलं द्रुतं भस्म भविष्यति ॥ ८ ॥
रुद्र-भक्तः नरः यः तु तव निंदाम् करिष्यति ॥ तस्य पुण्यम् च निखिलम् द्रुतम् भस्म भविष्यति ॥ ८ ॥
rudra-bhaktaḥ naraḥ yaḥ tu tava niṃdām kariṣyati .. tasya puṇyam ca nikhilam drutam bhasma bhaviṣyati .. 8 ..
नरके पतनं तस्य त्वद्द्वेषात्पुरुषोत्तम ॥ मदाज्ञया भवेद्विष्णो सत्यं सत्यं न संशयः ॥ ९ ॥
नरके पतनम् तस्य त्वद्-द्वेषात् पुरुषोत्तम ॥ मद्-आज्ञया भवेत् विष्णो सत्यम् सत्यम् न संशयः ॥ ९ ॥
narake patanam tasya tvad-dveṣāt puruṣottama .. mad-ājñayā bhavet viṣṇo satyam satyam na saṃśayaḥ .. 9 ..
लोकेऽस्मिन्मुक्तिदो नॄणां भुक्तिदश्च विशेषतः ॥ ध्येयः पूज्यश्च भक्तानां निग्रहानुग्रहौ कुरु ॥ 2.1.10.१० ॥
लोके अस्मिन् मुक्ति-दः नॄणाम् भुक्ति-दः च विशेषतः ॥ ध्येयः पूज्यः च भक्तानाम् निग्रह-अनुग्रहौ कुरु ॥ २।१।१०।१० ॥
loke asmin mukti-daḥ nṝṇām bhukti-daḥ ca viśeṣataḥ .. dhyeyaḥ pūjyaḥ ca bhaktānām nigraha-anugrahau kuru .. 2.1.10.10 ..
इत्युक्त्वा मां च धातारं हस्ते धृत्वा स्वयं हरिम् ॥ कथयामास दुःखेषु सहायो भव सर्वदा ॥ ११ ॥
इति उक्त्वा माम् च धातारम् हस्ते धृत्वा स्वयम् हरिम् ॥ कथयामास दुःखेषु सहायः भव सर्वदा ॥ ११ ॥
iti uktvā mām ca dhātāram haste dhṛtvā svayam harim .. kathayāmāsa duḥkheṣu sahāyaḥ bhava sarvadā .. 11 ..
सर्वाध्यक्षश्च सर्वेषु भुक्तिमुक्तिप्रदायकः ॥ भव त्वं सर्वथा श्रेष्ठस्सर्वकामप्रसाधकः ॥ १२ ॥
सर्व-अध्यक्षः च सर्वेषु भुक्ति-मुक्ति-प्रदायकः ॥ भव त्वम् सर्वथा श्रेष्ठः सर्व-काम-प्रसाधकः ॥ १२ ॥
sarva-adhyakṣaḥ ca sarveṣu bhukti-mukti-pradāyakaḥ .. bhava tvam sarvathā śreṣṭhaḥ sarva-kāma-prasādhakaḥ .. 12 ..
सर्वेषां प्राणरूपश्च भव त्वं च ममाज्ञया ॥ संकटे भजनीयो हि स रुद्रो मत्तनुर्हरे ॥ १३ ॥
सर्वेषाम् प्राण-रूपः च भव त्वम् च मम आज्ञया ॥ संकटे भजनीयः हि स रुद्रः मद्-तनुः हरे ॥ १३ ॥
sarveṣām prāṇa-rūpaḥ ca bhava tvam ca mama ājñayā .. saṃkaṭe bhajanīyaḥ hi sa rudraḥ mad-tanuḥ hare .. 13 ..
त्वां यस्समाश्रितो नूनं मामेव स समाश्रितः॥ अंतरं यश्च जानाति निरये पतति ध्रुवम् ॥ १४ ॥
त्वाम् यः समाश्रितः नूनम् माम् एव स समाश्रितः॥ अंतरम् यः च जानाति निरये पतति ध्रुवम् ॥ १४ ॥
tvām yaḥ samāśritaḥ nūnam mām eva sa samāśritaḥ.. aṃtaram yaḥ ca jānāti niraye patati dhruvam .. 14 ..
आयुर्बलं शृणुष्वाद्य त्रिदेवानां विशेषतः ॥ संदेहोऽत्र न कर्त्तव्यो ब्रह्मविष्णु हरात्मनाम् ॥ १५ ॥
आयुः-बलम् शृणुष्व अद्य त्रिदेवानाम् विशेषतः ॥ संदेहः अत्र न कर्त्तव्यः ब्रह्म-विष्णु-हर-आत्मनाम् ॥ १५ ॥
āyuḥ-balam śṛṇuṣva adya tridevānām viśeṣataḥ .. saṃdehaḥ atra na karttavyaḥ brahma-viṣṇu-hara-ātmanām .. 15 ..
चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ॥ रात्रिश्च तावती तस्य मानमेतत्क्रमेण ह ॥ १६ ॥
चतुर्युग-सहस्राणि ब्रह्मणः दिनम् उच्यते ॥ रात्रिः च तावती तस्य मानम् एतत् क्रमेण ह ॥ १६ ॥
caturyuga-sahasrāṇi brahmaṇaḥ dinam ucyate .. rātriḥ ca tāvatī tasya mānam etat krameṇa ha .. 16 ..
तेषां त्रिंशद्दिनेर्मासो द्वादशैस्तैश्च वत्सरः॥ शतवर्षप्रमाणेन ब्रह्मायुः परिकीर्तितम्॥ १७॥
तेषाम् त्रिंशत्-दिनेः मासः द्वादशैः तैः च वत्सरः॥ शत-वर्ष-प्रमाणेन ब्रह्म-आयुः परिकीर्तितम्॥ १७॥
teṣām triṃśat-dineḥ māsaḥ dvādaśaiḥ taiḥ ca vatsaraḥ.. śata-varṣa-pramāṇena brahma-āyuḥ parikīrtitam.. 17..
ब्रह्मणो वर्षमात्रेण दिनं वैष्णवमुच्यते ॥ सोऽपि वर्षशतं यावदात्ममानेन जीवति॥ १८॥
ब्रह्मणः वर्ष-मात्रेण दिनम् वैष्णवम् उच्यते ॥ सः अपि वर्ष-शतम् यावत् आत्म-मानेन जीवति॥ १८॥
brahmaṇaḥ varṣa-mātreṇa dinam vaiṣṇavam ucyate .. saḥ api varṣa-śatam yāvat ātma-mānena jīvati.. 18..
वैष्णवेन तु वर्षेण दिनं रौद्रं भवेद्ध्रुवम्॥ हरो वर्षशते याते नररूपेण संस्थितः॥ १९॥
वैष्णवेन तु वर्षेण दिनम् रौद्रम् भवेत् ध्रुवम्॥ हरः वर्ष-शते याते नर-रूपेण संस्थितः॥ १९॥
vaiṣṇavena tu varṣeṇa dinam raudram bhavet dhruvam.. haraḥ varṣa-śate yāte nara-rūpeṇa saṃsthitaḥ.. 19..
यावदुच्छ्वसितं वक्त्रे सदाशिवसमुद्भवम् ॥ पश्चाच्छक्तिं समभ्येति यावन्निश्वसितं भवेत् ॥ 2.1.10.२० ॥
यावत् उच्छ्वसितम् वक्त्रे सदाशिव-समुद्भवम् ॥ पश्चात् शक्तिम् समभ्येति यावत् निश्वसितम् भवेत् ॥ २।१।१०।२० ॥
yāvat ucchvasitam vaktre sadāśiva-samudbhavam .. paścāt śaktim samabhyeti yāvat niśvasitam bhavet .. 2.1.10.20 ..
निःश्वासोच्छ्वसितानां च सर्वेषामेव देहिनाम् ॥ ब्रह्मविष्णुहराणां च गंधर्वोरगरक्षसाम् ॥ २१॥
निःश्वास-उच्छ्वसितानाम् च सर्वेषाम् एव देहिनाम् ॥ ब्रह्म-विष्णु-हराणाम् च गंधर्व-उरग-रक्षसाम् ॥ २१॥
niḥśvāsa-ucchvasitānām ca sarveṣām eva dehinām .. brahma-viṣṇu-harāṇām ca gaṃdharva-uraga-rakṣasām .. 21..
एकविंशसहस्राणि शतैः षड्भिश्शतानि च॥ अहोरात्राणि चोक्तानि प्रमाणं सुरसत्तमौ ॥ २२॥
एकविंश-सहस्राणि शतैः षड्भिः शतानि च॥ अहोरात्राणि च उक्तानि प्रमाणम् सुर-सत्तमौ ॥ २२॥
ekaviṃśa-sahasrāṇi śataiḥ ṣaḍbhiḥ śatāni ca.. ahorātrāṇi ca uktāni pramāṇam sura-sattamau .. 22..
षड्भिच्छवासनिश्वासैः पलमेकं प्रवर्तितम् ॥ घटी षष्टि पलाः प्रोक्ता सा षष्ट्या च दिनं निशा ॥ २३॥
षड्भिः शवास-निश्वासैः पलम् एकम् प्रवर्तितम् ॥ घटी प्रोक्ता सा षष्ट्या च दिनम् निशा ॥ २३॥
ṣaḍbhiḥ śavāsa-niśvāsaiḥ palam ekam pravartitam .. ghaṭī proktā sā ṣaṣṭyā ca dinam niśā .. 23..
निश्वासोच्छ्वासितानां च परिसंख्या न विद्यते ॥ सदाशिवसमुत्थानमेतस्मात्सोऽक्षयः स्मृतः ॥ २४ ॥
निश्वास-उच्छ्वासितानाम् च परिसंख्या न विद्यते ॥ सदाशिव-समुत्थानम् एतस्मात् सः अक्षयः स्मृतः ॥ २४ ॥
niśvāsa-ucchvāsitānām ca parisaṃkhyā na vidyate .. sadāśiva-samutthānam etasmāt saḥ akṣayaḥ smṛtaḥ .. 24 ..
इत्थं रूपं त्वया तावद्रक्षणीयं ममाज्ञया ॥ तावत्सृष्टेश्च कार्यं वै कर्तव्यं विविधैर्गुणैः ॥ २५॥
इत्थम् रूपम् त्वया तावत् रक्षणीयम् मम आज्ञया ॥ तावत् सृष्टेः च कार्यम् वै कर्तव्यम् विविधैः गुणैः ॥ २५॥
ittham rūpam tvayā tāvat rakṣaṇīyam mama ājñayā .. tāvat sṛṣṭeḥ ca kāryam vai kartavyam vividhaiḥ guṇaiḥ .. 25..
ब्रह्मोवाच।।
इत्याकर्ण्य वचश्शंभोर्मया च भगवान्हरिः॥ प्रणिपत्य च विश्वेशं प्राह मंदतरं वशी ॥ २६ ॥
इति आकर्ण्य वचः शंभोः मया च भगवान् हरिः॥ प्रणिपत्य च विश्वेशम् प्राह मंदतरम् वशी ॥ २६ ॥
iti ākarṇya vacaḥ śaṃbhoḥ mayā ca bhagavān hariḥ.. praṇipatya ca viśveśam prāha maṃdataram vaśī .. 26 ..
विष्णुरुवाच ।।
शंकर श्रूयतामेतत्कृपासिंधो जगत्पते ॥ सर्वमेतत्करिष्यामि भवदाज्ञावशानुगः ॥ २७ ॥
शंकर श्रूयताम् एतत् कृपा-सिंधो जगत्पते ॥ सर्वम् एतत् करिष्यामि भवत्-आज्ञा-वश-अनुगः ॥ २७ ॥
śaṃkara śrūyatām etat kṛpā-siṃdho jagatpate .. sarvam etat kariṣyāmi bhavat-ājñā-vaśa-anugaḥ .. 27 ..
मम ध्येयस्सदा त्वं च भविष्यसि न चान्यथा ॥ भवतस्सर्वसामर्थ्यं लब्धं चैव पुरा मया ॥ २८ ॥
मम ध्येयः सदा त्वम् च भविष्यसि न च अन्यथा ॥ भवतः सर्व-सामर्थ्यम् लब्धम् च एव पुरा मया ॥ २८ ॥
mama dhyeyaḥ sadā tvam ca bhaviṣyasi na ca anyathā .. bhavataḥ sarva-sāmarthyam labdham ca eva purā mayā .. 28 ..
क्षणमात्रमपि स्वामिंस्तव ध्यानं परं मम ॥ चेतसो दूरतो नैव निर्गच्छतु कदाचन ॥ २९ ॥
क्षण-मात्रम् अपि स्वामिन् तव ध्यानम् परम् मम ॥ चेतसः दूरतस् ना एव निर्गच्छतु कदाचन ॥ २९ ॥
kṣaṇa-mātram api svāmin tava dhyānam param mama .. cetasaḥ dūratas nā eva nirgacchatu kadācana .. 29 ..
मम भक्तश्च यः स्वामिँस्तव निंदा करिष्यति ॥ तस्य वै निरये वासं प्रयच्छ नियतं ध्रुवम् ॥ 2.1.10.३० ॥
मम भक्तः च यः स्वामिन् तव निंदा करिष्यति ॥ तस्य वै निरये वासम् प्रयच्छ नियतम् ध्रुवम् ॥ २।१।१०।३० ॥
mama bhaktaḥ ca yaḥ svāmin tava niṃdā kariṣyati .. tasya vai niraye vāsam prayaccha niyatam dhruvam .. 2.1.10.30 ..
त्वद्भक्तो यो भवेत्स्वामिन्मम प्रियतरो हि सः ॥ एवं वै यो विजानाति तस्य मुक्तिर्न दुर्लभा ॥ ३१ ॥
त्वद्-भक्तः यः भवेत् स्वामिन् मम प्रियतरः हि सः ॥ एवम् वै यः विजानाति तस्य मुक्तिः न दुर्लभा ॥ ३१ ॥
tvad-bhaktaḥ yaḥ bhavet svāmin mama priyataraḥ hi saḥ .. evam vai yaḥ vijānāti tasya muktiḥ na durlabhā .. 31 ..
महिमा च मदीयोद्य वर्द्धितो भवता ध्रुवम् ॥ कदाचिदगुणश्चैव जायते क्षम्यतामिति ॥ ३२ ॥
महिमा च मदीया उद्य वर्द्धितः भवता ध्रुवम् ॥ कदाचिद् अगुणः च एव जायते क्षम्यताम् इति ॥ ३२ ॥
mahimā ca madīyā udya varddhitaḥ bhavatā dhruvam .. kadācid aguṇaḥ ca eva jāyate kṣamyatām iti .. 32 ..
ब्रह्मोवाच ।।
तदा शंभुस्तदीयं हि श्रुत्वा वचनमुत्तमम् ॥ उवाच विष्णुं सुप्रीत्या क्षम्या तेऽगुणता मया ॥ ३३ ॥
तदा शंभुः तदीयम् हि श्रुत्वा वचनम् उत्तमम् ॥ उवाच विष्णुम् सु प्रीत्या क्षम्या ते अगुण-ता मया ॥ ३३ ॥
tadā śaṃbhuḥ tadīyam hi śrutvā vacanam uttamam .. uvāca viṣṇum su prītyā kṣamyā te aguṇa-tā mayā .. 33 ..
एवमुक्त्वा हरिं नौ स कराभ्यां परमेश्वरः ॥ पस्पर्श सकलांगेषु कृपया तु कृपानिधिः ॥ ३४॥
एवम् उक्त्वा हरिम् नौ स कराभ्याम् परमेश्वरः ॥ पस्पर्श सकल-अंगेषु कृपया तु कृपा-निधिः ॥ ३४॥
evam uktvā harim nau sa karābhyām parameśvaraḥ .. pasparśa sakala-aṃgeṣu kṛpayā tu kṛpā-nidhiḥ .. 34..
आदिश्य विविधान्धर्मान्सर्वदुःखहरो हरः ॥ ददौ वराननेकांश्चावयोर्हितचिकीर्षया॥ ३५ ॥
आदिश्य विविधान् धर्मान् सर्व-दुःख-हरः हरः ॥ ददौ वरान् अनेकान् च आवयोः हित-चिकीर्षया॥ ३५ ॥
ādiśya vividhān dharmān sarva-duḥkha-haraḥ haraḥ .. dadau varān anekān ca āvayoḥ hita-cikīrṣayā.. 35 ..
ततस्स भगवाञ्छंभुः कृपया भक्तवत्सलः ॥ दृष्टया संपश्यतो शीघ्रं तत्रैवांतरधीयतः ॥ ३६ ॥
ततस् स भगवान् शंभुः कृपया भक्त-वत्सलः ॥ दृष्टया संपश्यतः शीघ्रम् तत्र एव अंतरधीयतः ॥ ३६ ॥
tatas sa bhagavān śaṃbhuḥ kṛpayā bhakta-vatsalaḥ .. dṛṣṭayā saṃpaśyataḥ śīghram tatra eva aṃtaradhīyataḥ .. 36 ..
तदा प्रकृति लोकेऽस्मिँल्लिंगपूजाविधिः स्मृतः ॥ लिंगे प्रतिष्ठितश्शंभुर्भुक्तिमुक्तिप्रदायकः ॥ ३७ ॥
तदा प्रकृति लोके अस्मिन् लिंग-पूजा-विधिः स्मृतः ॥ ॥ ३७ ॥
tadā prakṛti loke asmin liṃga-pūjā-vidhiḥ smṛtaḥ .. .. 37 ..
लिंगवेदिर्महादेवी लिंगं साक्षान्महेश्वरः ॥ लयनाल्लिंगमित्युक्तं तत्रैव निखिलं जगत् ॥ ३८ ॥
लिंग-वेदिः महादेवी लिंगम् साक्षात् महेश्वरः ॥ लयनात् लिंगम् इति उक्तम् तत्र एव निखिलम् जगत् ॥ ३८ ॥
liṃga-vediḥ mahādevī liṃgam sākṣāt maheśvaraḥ .. layanāt liṃgam iti uktam tatra eva nikhilam jagat .. 38 ..
यस्तु लैंगं पठेन्नित्यमाख्यानं लिंगसन्निधौ ॥ षण्मासाच्छिवरूपो वै नात्र कार्या विचारणा ॥ ३९ ॥
यः तु लैंगम् पठेत् नित्यम् आख्यानम् लिंग-सन्निधौ ॥ षष्-मासात् शिव-रूपः वै न अत्र कार्या विचारणा ॥ ३९ ॥
yaḥ tu laiṃgam paṭhet nityam ākhyānam liṃga-sannidhau .. ṣaṣ-māsāt śiva-rūpaḥ vai na atra kāryā vicāraṇā .. 39 ..
यस्तु लिंगसमीपे तु कार्यं किंचित्करोति च ॥ तस्य पुण्यफलं वक्तुं न शक्नोमि महामुने ॥ 2.1.10.४० ॥
यः तु लिंग-समीपे तु कार्यम् किंचिद् करोति च ॥ तस्य पुण्य-फलम् वक्तुम् न शक्नोमि महा-मुने ॥ २।१।१०।४० ॥
yaḥ tu liṃga-samīpe tu kāryam kiṃcid karoti ca .. tasya puṇya-phalam vaktum na śaknomi mahā-mune .. 2.1.10.40 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं नाम दशमोऽध्यायः ॥ १० ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् प्रथम-खंडे सृष्ट्युपाख्याने परम-शिवतत्त्ववर्णनम् नाम दशमः अध्यायः ॥ १० ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām prathama-khaṃḍe sṛṣṭyupākhyāne parama-śivatattvavarṇanam nāma daśamaḥ adhyāyaḥ .. 10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In