| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
सूतसूत महाभाग व्यासशिष्य नमोस्तु ते ॥ श्राविताद्याद्भुता शैवकथा परमपावनी ॥ १ ॥
सूत-सूत महाभाग व्यास-शिष्य नमः अस्तु ते ॥ श्राविता आद्या अद्भुता शैव-कथा परम-पावनी ॥ १ ॥
sūta-sūta mahābhāga vyāsa-śiṣya namaḥ astu te .. śrāvitā ādyā adbhutā śaiva-kathā parama-pāvanī .. 1 ..
तत्राद्भुता महादिव्या लिंगोत्पत्तिः श्रुता शुभा ॥ श्रुत्वा यस्याः प्रभावं च दुःखनाशो भवेदिह॥ २॥
तत्र अद्भुता महा-दिव्या लिंग-उत्पत्तिः श्रुता शुभा ॥ श्रुत्वा यस्याः प्रभावम् च दुःख-नाशः भवेत् इह॥ २॥
tatra adbhutā mahā-divyā liṃga-utpattiḥ śrutā śubhā .. śrutvā yasyāḥ prabhāvam ca duḥkha-nāśaḥ bhavet iha.. 2..
ब्रह्मनारदसंवादमनुसृत्य दयानिधे॥ शिवार्चनविधिं ब्रूहि येन तुष्टो भवेच्छिवः ॥ ३॥
ब्रह्म-नारद-संवादम् अनुसृत्य दया-निधे॥ शिव-अर्चन-विधिम् ब्रूहि येन तुष्टः भवेत् शिवः ॥ ३॥
brahma-nārada-saṃvādam anusṛtya dayā-nidhe.. śiva-arcana-vidhim brūhi yena tuṣṭaḥ bhavet śivaḥ .. 3..
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैर्वा पूज्यते शिवः॥ कथं कार्यं च तद् ब्रूहि यथा व्यासमुखाच्छ्रुतम् ॥ ४ ॥
ब्राह्मणैः क्षत्रियैः वैश्यैः शूद्रैः वा पूज्यते शिवः॥ कथम् कार्यम् च तत् ब्रूहि यथा व्यास-मुखात् श्रुतम् ॥ ४ ॥
brāhmaṇaiḥ kṣatriyaiḥ vaiśyaiḥ śūdraiḥ vā pūjyate śivaḥ.. katham kāryam ca tat brūhi yathā vyāsa-mukhāt śrutam .. 4 ..
तच्छ्रुत्वा वचनं तेषां शर्मदं श्रुतिसंमतम्॥ उवाच सकलं प्रीत्या मुनि प्रश्नानुसारतः ॥ ५ ॥
तत् श्रुत्वा वचनम् तेषाम् शर्म-दम् श्रुति-संमतम्॥ उवाच सकलम् प्रीत्या मुनि प्रश्न-अनुसारतः ॥ ५ ॥
tat śrutvā vacanam teṣām śarma-dam śruti-saṃmatam.. uvāca sakalam prītyā muni praśna-anusārataḥ .. 5 ..
सूत उवाच ।।
साधु पृष्टं भवद्भिश्च तद्रहस्यं मुनीश्वराः ॥ तदहं कथयाम्यद्य यथाबुद्धि यथाश्रुतम् ॥ ६ ॥
साधु पृष्टम् भवद्भिः च तत् रहस्यम् मुनि-ईश्वराः ॥ तत् अहम् कथयामि अद्य यथाबुद्धि यथाश्रुतम् ॥ ६ ॥
sādhu pṛṣṭam bhavadbhiḥ ca tat rahasyam muni-īśvarāḥ .. tat aham kathayāmi adya yathābuddhi yathāśrutam .. 6 ..
भवद्भिः पृच्छयते तद्वत्तथा व्यासेन वै पुरा॥ पृष्टं सनत्कुमाराय तच्छ्रुतं ह्युपमन्युना ॥ ७॥
भवद्भिः तद्वत् तथा व्यासेन वै पुरा॥ पृष्टम् सनत्कुमाराय तत् श्रुतम् हि उपमन्युना ॥ ७॥
bhavadbhiḥ tadvat tathā vyāsena vai purā.. pṛṣṭam sanatkumārāya tat śrutam hi upamanyunā .. 7..
ततो व्यासेन वै श्रुत्वा शिवपूजादिकं च यत् ॥ मह्यं च पाठितं तेन लोकानां हितकाम्यया ॥ ८ ॥
ततस् व्यासेन वै श्रुत्वा शिव-पूजा-आदिकम् च यत् ॥ मह्यम् च पाठितम् तेन लोकानाम् हित-काम्यया ॥ ८ ॥
tatas vyāsena vai śrutvā śiva-pūjā-ādikam ca yat .. mahyam ca pāṭhitam tena lokānām hita-kāmyayā .. 8 ..
तच्छ्रुतं चैव कृष्णेन ह्युपमन्योर्महात्मनः ॥ तदहं कथयिष्यामि यथा ब्रह्मावदत्पुरा॥ ९॥
तत् श्रुतम् च एव कृष्णेन हि उपमन्योः महात्मनः ॥ तत् अहम् कथयिष्यामि यथा ब्रह्मा अवदत् पुरा॥ ९॥
tat śrutam ca eva kṛṣṇena hi upamanyoḥ mahātmanaḥ .. tat aham kathayiṣyāmi yathā brahmā avadat purā.. 9..
शृणु नारद वक्ष्यामि संक्षेपाल्लिंगपूजनम् ॥ वक्तुं वर्षशतेनापि न शक्यं विस्तरान्मुने ॥ 2.1.11.१०॥
शृणु नारद वक्ष्यामि संक्षेपात् लिंग-पूजनम् ॥ वक्तुम् वर्ष-शतेन अपि न शक्यम् विस्तरात् मुने ॥ २।१।११।१०॥
śṛṇu nārada vakṣyāmi saṃkṣepāt liṃga-pūjanam .. vaktum varṣa-śatena api na śakyam vistarāt mune .. 2.1.11.10..
एवं तु शांकरं रूपं मुखं स्वच्छं सनातनम् ॥ पूजयेत्परया भक्त्या सर्वकामफलाप्तये ॥ ११॥
एवम् तु शांकरम् रूपम् मुखम् स्वच्छम् सनातनम् ॥ पूजयेत् परया भक्त्या सर्व-काम-फल-आप्तये ॥ ११॥
evam tu śāṃkaram rūpam mukham svaccham sanātanam .. pūjayet parayā bhaktyā sarva-kāma-phala-āptaye .. 11..
दारिद्र्यं रोगदुःखं च पीडनं शत्रुसंभवम् ॥ पापं चतुर्विधं तावद्यावन्नार्चयते शिवम् ॥ १२॥
दारिद्र्यम् रोग-दुःखम् च पीडनम् शत्रु-संभवम् ॥ पापम् चतुर्विधम् तावत् यावत् न अर्चयते शिवम् ॥ १२॥
dāridryam roga-duḥkham ca pīḍanam śatru-saṃbhavam .. pāpam caturvidham tāvat yāvat na arcayate śivam .. 12..
सम्पूजिते शिवे देवे सर्वदुःखं विलीयते ॥ संपद्यते सुखं सर्वं पश्चान्मुक्तिरवाप्यते ॥ १३॥
सम्पूजिते शिवे देवे सर्व-दुःखम् विलीयते ॥ संपद्यते सुखम् सर्वम् पश्चात् मुक्तिः अवाप्यते ॥ १३॥
sampūjite śive deve sarva-duḥkham vilīyate .. saṃpadyate sukham sarvam paścāt muktiḥ avāpyate .. 13..
ये वै मानुष्यमाश्रित्य मुख्यं संतानतस्सुखम् ॥ तेन पूज्यो महादेवः सर्वकार्यार्थसाधकः ॥ १४॥
ये वै मानुष्यम् आश्रित्य मुख्यम् संतानतः सुखम् ॥ तेन पूज्यः महादेवः सर्व-कार्य-अर्थ-साधकः ॥ १४॥
ye vai mānuṣyam āśritya mukhyam saṃtānataḥ sukham .. tena pūjyaḥ mahādevaḥ sarva-kārya-artha-sādhakaḥ .. 14..
ब्राह्मणाः क्षत्रिया वैश्याश्शूद्राश्च विधिवत्क्रमात् ॥ शंकरार्चां प्रकुर्वंतु सर्वकामार्थसिद्धये॥ १५॥
ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राः च विधिवत् क्रमात् ॥ शंकर-अर्चाम् प्रकुर्वंतु सर्व-काम-अर्थ-सिद्धये॥ १५॥
brāhmaṇāḥ kṣatriyāḥ vaiśyāḥ śūdrāḥ ca vidhivat kramāt .. śaṃkara-arcām prakurvaṃtu sarva-kāma-artha-siddhaye.. 15..
प्रातःकाले समुत्थाय मुहूर्ते ब्रह्मसंज्ञके॥ गुरोश्च स्मरणं कृत्वा शंभोश्चैव तथा पुनः ॥ १६॥
प्रातःकाले समुत्थाय मुहूर्ते ब्रह्म-संज्ञके॥ गुरोः च स्मरणम् कृत्वा शंभोः च एव तथा पुनर् ॥ १६॥
prātaḥkāle samutthāya muhūrte brahma-saṃjñake.. guroḥ ca smaraṇam kṛtvā śaṃbhoḥ ca eva tathā punar .. 16..
तीर्थानां स्मरणं कृत्वा ध्यानं चैव हरेरपि ॥ ममापि निर्जराणां वै मुन्यादीनां तथा मुने।१७॥
तीर्थानाम् स्मरणम् कृत्वा ध्यानम् च एव हरेः अपि ॥ मम अपि निर्जराणाम् वै मुनि-आदीनाम् तथा मुने।१७॥
tīrthānām smaraṇam kṛtvā dhyānam ca eva hareḥ api .. mama api nirjarāṇām vai muni-ādīnām tathā mune.17..
ततः स्तोत्रं शुभं नाम गृह्णीयाद्विधिपूर्वकम् ॥ ततोत्थाय मलोत्सर्गं दक्षिणस्यां चरेद्दिशि ॥ १८ ॥
ततस् स्तोत्रम् शुभम् नाम गृह्णीयात् विधि-पूर्वकम् ॥ ततस् उत्थाय मल-उत्सर्गम् दक्षिणस्याम् चरेत् दिशि ॥ १८ ॥
tatas stotram śubham nāma gṛhṇīyāt vidhi-pūrvakam .. tatas utthāya mala-utsargam dakṣiṇasyām caret diśi .. 18 ..
एकान्ते तु विधिं कुर्यान्मलोत्सर्गस्स यच्छ्रुतम् ॥ तदेव कथयाम्यद्य शृण्वाधाय मनो मुने॥ १९॥
एकान्ते तु विधिम् कुर्यात् मल-उत्सर्गः स यत् श्रुतम् ॥ तत् एव कथयामि अद्य शृणु आधाय मनः मुने॥ १९॥
ekānte tu vidhim kuryāt mala-utsargaḥ sa yat śrutam .. tat eva kathayāmi adya śṛṇu ādhāya manaḥ mune.. 19..
शुद्धां मृदं द्विजो लिप्यात्पंचवारं विशुद्धये ॥ क्षत्रियश्च चतुर्वारं वैश्यो वरत्रयं तथा ॥ 2.1.11.२०॥
शुद्धाम् मृदम् द्विजः लिप्यात् पंच-वारम् विशुद्धये ॥ क्षत्रियः च चतुर्-वारम् वैश्यः वर-त्रयम् तथा ॥ २।१।११।२०॥
śuddhām mṛdam dvijaḥ lipyāt paṃca-vāram viśuddhaye .. kṣatriyaḥ ca catur-vāram vaiśyaḥ vara-trayam tathā .. 2.1.11.20..
शूद्रो द्विवारं च मृदं गृह्णीयाद्विधिशुद्धये ॥ गुदे वाथ सकृल्लिंगे वारमेकं प्रयत्नतः ॥ २१ ॥
शूद्रः द्वि-वारम् च मृदम् गृह्णीयात् विधि-शुद्धये ॥ गुदे वा अथ सकृत् लिंगे वारम् एकम् प्रयत्नतः ॥ २१ ॥
śūdraḥ dvi-vāram ca mṛdam gṛhṇīyāt vidhi-śuddhaye .. gude vā atha sakṛt liṃge vāram ekam prayatnataḥ .. 21 ..
दशवारं वामहस्ते सप्तवारं द्वयोस्तथा ॥ प्रत्येकम्पादयोस्तात त्रिवारं करयोः पुनः ॥ २२ ॥
दश-वारम् वाम-हस्ते सप्त-वारम् द्वयोः तथा ॥ प्रत्येकम् पादयोः तात त्रि-वारम् करयोः पुनर् ॥ २२ ॥
daśa-vāram vāma-haste sapta-vāram dvayoḥ tathā .. pratyekam pādayoḥ tāta tri-vāram karayoḥ punar .. 22 ..
स्त्रीभिश्च शूद्रवत्कार्यं मृदाग्रहणमुत्तमम्॥ हस्तौ पादौ च प्रक्षाल्य पूर्ववन्मृदमाहरेत् ॥ २३॥
स्त्रीभिः च शूद्र-वत् कार्यम् मृदा ग्रहणम् उत्तमम्॥ हस्तौ पादौ च प्रक्षाल्य पूर्ववत् मृदम् आहरेत् ॥ २३॥
strībhiḥ ca śūdra-vat kāryam mṛdā grahaṇam uttamam.. hastau pādau ca prakṣālya pūrvavat mṛdam āharet .. 23..
दंतकाष्ठं ततः कुर्यात्स्ववर्णक्रमतो नरः ॥ २४॥
दन्तकाष्ठम् ततस् कुर्यात् स्व-वर्ण-क्रमतः नरः ॥ २४॥
dantakāṣṭham tatas kuryāt sva-varṇa-kramataḥ naraḥ .. 24..
विप्रः कुर्याद्दंतकाष्ठं द्वादशांगुलमानतः॥ एकादशांगुलं राजा वैश्यः कुर्याद्दशांगुलम् ॥ २५॥
विप्रः कुर्यात् दन्तकाष्ठम् द्वादश-अङ्गुल-मानतः॥ एकादश-अंगुलम् राजा वैश्यः कुर्यात् दश-अंगुलम् ॥ २५॥
vipraḥ kuryāt dantakāṣṭham dvādaśa-aṅgula-mānataḥ.. ekādaśa-aṃgulam rājā vaiśyaḥ kuryāt daśa-aṃgulam .. 25..
शूद्रो नवागुलं कुर्यादिति मानमिदं स्मृतम् ॥ कालदोषं विचार्य्यैव मनुदृष्टं विवर्जयेत् ॥ २६॥
शूद्रः नव-अगुलम् कुर्यात् इति मानम् इदम् स्मृतम् ॥ काल-दोषम् विचार्य्य एव मनु-दृष्टम् विवर्जयेत् ॥ २६॥
śūdraḥ nava-agulam kuryāt iti mānam idam smṛtam .. kāla-doṣam vicāryya eva manu-dṛṣṭam vivarjayet .. 26..
षष्ट्याद्यामाश्च नवमी व्रतमस्तं रवेर्दिनम्॥ तथा श्राद्धदिनं तात निषिद्धं रदधावने ॥ २७ ॥
षष्टि-आदि-आमाः च नवमी व्रतम् अस्तम् रवेः दिनम्॥ तथा श्राद्ध-दिनम् तात निषिद्धम् रद-धावने ॥ २७ ॥
ṣaṣṭi-ādi-āmāḥ ca navamī vratam astam raveḥ dinam.. tathā śrāddha-dinam tāta niṣiddham rada-dhāvane .. 27 ..
स्नानं तु विधिवत्कार्यं तीर्थादिषु क्रमेण तु ॥ देशकालविशेषेण स्नानं कार्यं समंत्रकम् ॥ २८ ॥
स्नानम् तु विधिवत् कार्यम् तीर्थ-आदिषु क्रमेण तु ॥ देश-काल-विशेषेण स्नानम् कार्यम् स मंत्रकम् ॥ २८ ॥
snānam tu vidhivat kāryam tīrtha-ādiṣu krameṇa tu .. deśa-kāla-viśeṣeṇa snānam kāryam sa maṃtrakam .. 28 ..
आचम्य प्रथमं तत्र धौतवस्त्रेण चाधरेत् ॥ एकान्ते सुस्थले स्थित्वा संध्याविधिमथाचरेत् ॥ २९ ॥
आचम्य प्रथमम् तत्र धौत-वस्त्रेण च आधरेत् ॥ एकान्ते सुस्थले स्थित्वा संध्या-विधिम् अथ आचरेत् ॥ २९ ॥
ācamya prathamam tatra dhauta-vastreṇa ca ādharet .. ekānte susthale sthitvā saṃdhyā-vidhim atha ācaret .. 29 ..
यथायोग्यं विधिं कृत्वा पूजाविधिमथारभेत् ॥ मनस्तु सुस्थिरं कृत्वा पूजागारं प्रविश्य च ॥ 2.1.11.३०॥
यथायोग्यम् विधिम् कृत्वा पूजा-विधिम् अथ आरभेत् ॥ मनः तु सु स्थिरम् कृत्वा पूजा-आगारम् प्रविश्य च ॥ २।१।११।३०॥
yathāyogyam vidhim kṛtvā pūjā-vidhim atha ārabhet .. manaḥ tu su sthiram kṛtvā pūjā-āgāram praviśya ca .. 2.1.11.30..
पूजाविधिं समादाय स्वासने ह्युपविश्य वै ॥ न्यासादिकं विधायादौ पूजयेत्क्रमशो हरम्॥ ३१॥
पूजा-विधिम् समादाय स्व-आसने हि उपविश्य वै ॥ न्यास-आदिकम् विधाय आदौ पूजयेत् क्रमशस् हरम्॥ ३१॥
pūjā-vidhim samādāya sva-āsane hi upaviśya vai .. nyāsa-ādikam vidhāya ādau pūjayet kramaśas haram.. 31..
प्रथमं च गणाधीशं द्वारपालांस्तथैव च ॥ दिक्पालांश्च सुसंपूज्य पश्चात्पीठं प्रकल्पयेत् ॥ ३२ ॥
प्रथमम् च गणाधीशम् द्वारपालान् तथा एव च ॥ दिक्पालान् च सु संपूज्य पश्चात् पीठम् प्रकल्पयेत् ॥ ३२ ॥
prathamam ca gaṇādhīśam dvārapālān tathā eva ca .. dikpālān ca su saṃpūjya paścāt pīṭham prakalpayet .. 32 ..
अथ वाऽष्टदलं कृत्वा पूजाद्रव्यं समीपतः ॥ उपविश्य ततस्तत्र उपवेश्य शिवम् प्रभुम् ॥ ३३॥
अथ वा अष्टदलम् कृत्वा पूजा-द्रव्यम् समीपतस् ॥ उपविश्य ततस् तत्र उपवेश्य शिवम् प्रभुम् ॥ ३३॥
atha vā aṣṭadalam kṛtvā pūjā-dravyam samīpatas .. upaviśya tatas tatra upaveśya śivam prabhum .. 33..
आचमनत्रयं कृत्वा प्रक्षाल्य च पुनः करौ ॥ प्राणायामत्रयं कृत्वा मध्ये ध्यायेच्च त्र्यम्बकम् ॥ ३४ ॥
आचमन-त्रयम् कृत्वा प्रक्षाल्य च पुनर् करौ ॥ प्राणायाम-त्रयम् कृत्वा मध्ये ध्यायेत् च त्र्यम्बकम् ॥ ३४ ॥
ācamana-trayam kṛtvā prakṣālya ca punar karau .. prāṇāyāma-trayam kṛtvā madhye dhyāyet ca tryambakam .. 34 ..
पंचवक्त्रं दशभुजं शुद्धस्फटिकसन्निभम् ॥ सर्वाभरणसंयुक्तं व्याघ्रचर्मोत्तरीयकम् ॥ ३५ ॥
पंचवक्त्रम् दश-भुजम् शुद्ध-स्फटिक-सन्निभम् ॥ सर्व-आभरण-संयुक्तम् व्याघ्र-चर्म-उत्तरीयकम् ॥ ३५ ॥
paṃcavaktram daśa-bhujam śuddha-sphaṭika-sannibham .. sarva-ābharaṇa-saṃyuktam vyāghra-carma-uttarīyakam .. 35 ..
तस्य सारूप्यतां स्मृत्वा दहेत्पापं नरस्सदा ॥ शिवं ततः समुत्थाप्य पूजयेत्परमेश्वरम् ॥ ३६॥
तस्य सारूप्य-ताम् स्मृत्वा दहेत् पापम् नरः सदा ॥ शिवम् ततस् समुत्थाप्य पूजयेत् परमेश्वरम् ॥ ३६॥
tasya sārūpya-tām smṛtvā dahet pāpam naraḥ sadā .. śivam tatas samutthāpya pūjayet parameśvaram .. 36..
देहशुद्धिं ततः कृत्वा मूल मंत्रं न्यसेत्क्रमात् ॥ सर्वत्र प्रणवेनैव षडंगन्यासमाचरेत्॥ ३७॥
देह-शुद्धिम् ततस् कृत्वा मूल-मंत्रम् न्यसेत् क्रमात् ॥ सर्वत्र प्रणवेन एव षडंगन्यासम् आचरेत्॥ ३७॥
deha-śuddhim tatas kṛtvā mūla-maṃtram nyaset kramāt .. sarvatra praṇavena eva ṣaḍaṃganyāsam ācaret.. 37..
कृत्वा हृदि प्रयोगं च ततः पूजां समारभेत् ॥ पाद्यार्घाचमनार्थं च पात्राणि च प्रकल्पयेत्॥ ३८॥
कृत्वा हृदि प्रयोगम् च ततस् पूजाम् समारभेत् ॥ पाद्य-अर्घ-आचमन-अर्थम् च पात्राणि च प्रकल्पयेत्॥ ३८॥
kṛtvā hṛdi prayogam ca tatas pūjām samārabhet .. pādya-argha-ācamana-artham ca pātrāṇi ca prakalpayet.. 38..
स्थापयेद्विविधान्कुंभान्नव धीमान्यथाविधि॥ दर्भैराच्छाद्य तैरेव संस्थाप्याभ्युक्ष्य वारिणा ॥ ३९॥
स्थापयेत् विविधान् कुंभान् नव धीमान् यथाविधि॥ दर्भैः आच्छाद्य तैः एव संस्थाप्य अभ्युक्ष्य वारिणा ॥ ३९॥
sthāpayet vividhān kuṃbhān nava dhīmān yathāvidhi.. darbhaiḥ ācchādya taiḥ eva saṃsthāpya abhyukṣya vāriṇā .. 39..
तेषु तेषु च सर्वेषु क्षिपेत्तोयं सुशीतलम्॥ प्रणवेन क्षिपेत्तेषु द्रव्याण्यालोक्य बुद्धिमान् ॥ 2.1.11.४०॥
तेषु तेषु च सर्वेषु क्षिपेत् तोयम् सुशीतलम्॥ प्रणवेन क्षिपेत् तेषु द्रव्याणि आलोक्य बुद्धिमान् ॥ २।१।११।४०॥
teṣu teṣu ca sarveṣu kṣipet toyam suśītalam.. praṇavena kṣipet teṣu dravyāṇi ālokya buddhimān .. 2.1.11.40..
उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ॥ जातीकं कोलकर्पूरवटमूल तमालकम् ॥ ४१॥
उशीरम् चन्दनम् च एव पाद्ये तु परिकल्पयेत् ॥ जातीकम् तमालकम् ॥ ४१॥
uśīram candanam ca eva pādye tu parikalpayet .. jātīkam tamālakam .. 41..
चूर्णयित्वा यथान्यायं क्षिपेदाचमनीयके ॥ एतत्सर्वेषु पात्रेषु दापयेच्चन्दनान्वितम् ॥ ४२॥
चूर्णयित्वा यथान्यायम् क्षिपेत् आचमनीयके ॥ एतत् सर्वेषु पात्रेषु दापयेत् चन्दन-अन्वितम् ॥ ४२॥
cūrṇayitvā yathānyāyam kṣipet ācamanīyake .. etat sarveṣu pātreṣu dāpayet candana-anvitam .. 42..
पार्श्वयोर्देवदेवस्य नंदीशं तु समर्चयेत् ॥ गंधैर्धूपैस्तथा दीपैर्विविधैः पूजयेच्छिवम्॥ ४३॥
पार्श्वयोः देवदेवस्य नंदीशम् तु समर्चयेत् ॥ गंधैः धूपैः तथा दीपैः विविधैः पूजयेत् शिवम्॥ ४३॥
pārśvayoḥ devadevasya naṃdīśam tu samarcayet .. gaṃdhaiḥ dhūpaiḥ tathā dīpaiḥ vividhaiḥ pūjayet śivam.. 43..
लिंगशुद्धिं ततः कृत्वा मुदा युक्तो नरस्तदा ॥ यथोचितं तु मंत्रौघैः प्रणवादिर्नमोंतकैः ॥ ४४॥
लिंग-शुद्धिम् ततस् कृत्वा मुदा युक्तः नरः तदा ॥ यथोचितम् तु मंत्र-ओघैः प्रणव-आदिः नमः-ओंतकैः ॥ ४४॥
liṃga-śuddhim tatas kṛtvā mudā yuktaḥ naraḥ tadā .. yathocitam tu maṃtra-oghaiḥ praṇava-ādiḥ namaḥ-oṃtakaiḥ .. 44..
कल्पयेदासनं स्वस्तिपद्मादि प्रणवेन तु ॥ तस्मात्पूर्वदिशं साक्षादणिमामयमक्षरम् ॥ ४५ ॥
कल्पयेत् आसनम् स्वस्ति-पद्म-आदि प्रणवेन तु ॥ तस्मात् पूर्व-दिशम् साक्षात् अणिमा मयम् अक्षरम् ॥ ४५ ॥
kalpayet āsanam svasti-padma-ādi praṇavena tu .. tasmāt pūrva-diśam sākṣāt aṇimā mayam akṣaram .. 45 ..
लघिमा दक्षिणं चैव महिमा पश्चिमं तथा ॥ प्राप्तिश्चैवोत्तरं पत्रं प्राकाम्यं पावकस्य च॥ ४६॥
लघिमा दक्षिणम् च एव महिमा पश्चिमम् तथा ॥ प्राप्तिः च एव उत्तरम् पत्रम् प्राकाम्यम् पावकस्य च॥ ४६॥
laghimā dakṣiṇam ca eva mahimā paścimam tathā .. prāptiḥ ca eva uttaram patram prākāmyam pāvakasya ca.. 46..
ईशित्वं नैर्ऋतं पत्रं वशित्वं वायुगोचरे॥ सर्वज्ञत्वं तथैशान्यं कर्णिका सोम उच्यते ॥ ४७ ॥
ईशित्वम् नैरृतम् पत्रम् वशित्वम् वायुगोचरे॥ सर्वज्ञ-त्वम् तथा ऐशान्यम् कर्णिका सोमः उच्यते ॥ ४७ ॥
īśitvam nairṛtam patram vaśitvam vāyugocare.. sarvajña-tvam tathā aiśānyam karṇikā somaḥ ucyate .. 47 ..
सोमस्याधस्तथा सूर्यस्तस्याधः पावकस्त्वयम्॥ धर्मादीनपि तस्याधो भवतः कल्पयेत् क्रमात् ॥ ४८ ॥
सोमस्य अधस् तथा सूर्यः तस्य अधस् पावकः तु अयम्॥ धर्म-आदीन् अपि तस्य अधस् भवतः कल्पयेत् क्रमात् ॥ ४८ ॥
somasya adhas tathā sūryaḥ tasya adhas pāvakaḥ tu ayam.. dharma-ādīn api tasya adhas bhavataḥ kalpayet kramāt .. 48 ..
अव्यक्तादि चतुर्दिक्षु सोमस्यांते गुणत्रयम् ॥ सद्योजातं प्रवक्ष्यामीत्यावाह्य परमेश्वरम् ॥ ४९ ॥
अव्यक्त-आदि चतुर्-दिक्षु सोमस्य अन्ते गुणत्रयम् ॥ सद्योजातम् प्रवक्ष्यामि इति आवाह्य परमेश्वरम् ॥ ४९ ॥
avyakta-ādi catur-dikṣu somasya ante guṇatrayam .. sadyojātam pravakṣyāmi iti āvāhya parameśvaram .. 49 ..
वामदेवेन मंत्रेण तिष्ठेच्चैवासनोपरि ॥ सान्निध्यं रुद्रगायत्र्या अघोरेण निरोधयेत् ॥ 2.1.11.५० ॥
वामदेवेन मंत्रेण तिष्ठेत् च एव आसन-उपरि ॥ सान्निध्यम् रुद्र-गायत्र्याः अघोरेण निरोधयेत् ॥ २।१।११।५० ॥
vāmadevena maṃtreṇa tiṣṭhet ca eva āsana-upari .. sānnidhyam rudra-gāyatryāḥ aghoreṇa nirodhayet .. 2.1.11.50 ..
ईशानं सर्वविद्यानामिति मंत्रेण पूजयेत्॥ पाद्यमाचनीयं च विधायार्घ्यं प्रदापयेत्॥ ५१॥
ईशानम् सर्व-विद्यानाम् इति मंत्रेण पूजयेत्॥ पाद्य-माचनीयम् च विधाय अर्घ्यम् प्रदापयेत्॥ ५१॥
īśānam sarva-vidyānām iti maṃtreṇa pūjayet.. pādya-mācanīyam ca vidhāya arghyam pradāpayet.. 51..
स्थापयेद्विधिना रुद्रं गंधचंदनवारिणा ॥ पञ्चागव्यविधानेन गृह्यपात्रेऽभिमंत्र्य च॥ ॥ ५२॥
स्थापयेत् विधिना रुद्रम् गंध-चंदन-वारिणा ॥ पञ्चागव्य-विधानेन गृह्य-पात्रे अभिमंत्र्य च॥ ॥ ५२॥
sthāpayet vidhinā rudram gaṃdha-caṃdana-vāriṇā .. pañcāgavya-vidhānena gṛhya-pātre abhimaṃtrya ca.. .. 52..
प्रणवेनैव गव्येन स्नापयेत्पयसा च तम् ॥ दध्ना च मधुना चैव तथा चेक्षुरसेन तु॥ ५३॥
प्रणवेन एव गव्येन स्नापयेत् पयसा च तम् ॥ दध्ना च मधुना च एव तथा च इक्षु-रसेन तु॥ ५३॥
praṇavena eva gavyena snāpayet payasā ca tam .. dadhnā ca madhunā ca eva tathā ca ikṣu-rasena tu.. 53..
घृतेन तु यथा पूज्य सर्वकामहितावहम् ॥ पुण्यैर्द्रव्यैर्महादेवं प्रणवेनाभिषेचयेत्॥ ५४ ॥
घृतेन तु यथा पूज्य सर्व-काम-हित-आवहम् ॥ पुण्यैः द्रव्यैः महादेवम् प्रणवेन अभिषेचयेत्॥ ५४ ॥
ghṛtena tu yathā pūjya sarva-kāma-hita-āvaham .. puṇyaiḥ dravyaiḥ mahādevam praṇavena abhiṣecayet.. 54 ..
पवित्रजलभाण्डेषु मंत्रैः तोयं क्षिपेत्ततः ॥ शुद्धीकृत्य यथान्यायं सितवस्त्रेण साधकः ॥ ५५॥ ।
पवित्र-जल-भाण्डेषु मंत्रैः तोयम् क्षिपेत् ततस् ॥ शुद्धीकृत्य यथान्यायम् सित-वस्त्रेण साधकः ॥ ५५॥ ।
pavitra-jala-bhāṇḍeṣu maṃtraiḥ toyam kṣipet tatas .. śuddhīkṛtya yathānyāyam sita-vastreṇa sādhakaḥ .. 55.. .
तावद्दूरं न कर्तव्यं न यावच्चन्दनं क्षिपेत् ॥ तंदुलैस्सुन्दरैस्तत्र पूजयेच्छंकरम्मुदा ॥ ५६ ॥
तावत् दूरम् न कर्तव्यम् न यावत् चन्दनम् क्षिपेत् ॥ तंदुलैः सुन्दरैः तत्र पूजयेत् शंकरम् मुदा ॥ ५६ ॥
tāvat dūram na kartavyam na yāvat candanam kṣipet .. taṃdulaiḥ sundaraiḥ tatra pūjayet śaṃkaram mudā .. 56 ..
कुशापामार्गकर्पूर जातिचंपकपाटलैः ॥ करवीरैस्सितैश्चैव मल्लिकाकमलोत्पलैः ॥ ५७॥
कुश-अपामार्ग-कर्पूर-जाति-चंपक-पाटलैः ॥ करवीरैः सितैः च एव मल्लिका-कमल-उत्पलैः ॥ ५७॥
kuśa-apāmārga-karpūra-jāti-caṃpaka-pāṭalaiḥ .. karavīraiḥ sitaiḥ ca eva mallikā-kamala-utpalaiḥ .. 57..
अपूर्वपुष्पैर्विविधैश्चन्दनाद्यैस्तथैव च ॥ जलेन जलधाराञ्च कल्पयेत्परमेश्वरे ॥ ५८ ॥
अपूर्व-पुष्पैः विविधैः चन्दन-आद्यैः तथा एव च ॥ जलेन जल-धारान् च कल्पयेत् परमेश्वरे ॥ ५८ ॥
apūrva-puṣpaiḥ vividhaiḥ candana-ādyaiḥ tathā eva ca .. jalena jala-dhārān ca kalpayet parameśvare .. 58 ..
पात्रैश्च विविधैर्देवं स्नापयेच्च महेश्वरम् ॥ मंत्रपूर्वं प्रकर्तव्या पूजा सर्वफलप्रदा ॥ ५९ ॥
पात्रैः च विविधैः देवम् स्नापयेत् च महेश्वरम् ॥ मंत्र-पूर्वम् प्रकर्तव्या पूजा सर्व-फल-प्रदा ॥ ५९ ॥
pātraiḥ ca vividhaiḥ devam snāpayet ca maheśvaram .. maṃtra-pūrvam prakartavyā pūjā sarva-phala-pradā .. 59 ..
मंत्राँश्च तुभ्यं ताँस्तात सर्वकामार्थसिद्धये ॥ प्रवक्ष्यामि समासेन सावधानतया शृणु ॥ 2.1.11.६० ॥
मंत्रान् च तुभ्यम् तान् तात सर्व-काम-अर्थ-सिद्धये ॥ प्रवक्ष्यामि समासेन सावधान-तया शृणु ॥ २।१।११।६० ॥
maṃtrān ca tubhyam tān tāta sarva-kāma-artha-siddhaye .. pravakṣyāmi samāsena sāvadhāna-tayā śṛṇu .. 2.1.11.60 ..
पाठयमानेन मंत्रेण तथा वाङ्मयकेन च॥ रुद्रेण नीलरुद्रेण सुशुक्लेन सुभेन च ॥ ६१॥
पाठयमानेन मंत्रेण तथा वाङ्मयकेन च॥ रुद्रेण नील-रुद्रेण सु शुक्लेन सुभेन च ॥ ६१॥
pāṭhayamānena maṃtreṇa tathā vāṅmayakena ca.. rudreṇa nīla-rudreṇa su śuklena subhena ca .. 61..
होतारेण तथा शीर्ष्णा शुभेनाथर्वणेन च ॥ शांत्या वाथ पुनश्शांत्यामारुणेनारुणेन च ॥ ६२ ॥
होतारेण तथा शीर्ष्णा शुभेन आथर्वणेन च ॥ शांत्या वा अथ पुनर् शांत्याम् आरुणेन अरुणेन च ॥ ६२ ॥
hotāreṇa tathā śīrṣṇā śubhena ātharvaṇena ca .. śāṃtyā vā atha punar śāṃtyām āruṇena aruṇena ca .. 62 ..
रथांतरेण पुष्पेण सूक्तेन युक्तेन च ॥ मृत्युंजयेन मंत्रेण तथा पंचाक्षरेण च ॥ ६४ ॥
रथ-अंतरेण पुष्पेण सूक्तेन युक्तेन च ॥ मृत्युंजयेन मंत्रेण तथा पंचाक्षरेण च ॥ ६४ ॥
ratha-aṃtareṇa puṣpeṇa sūktena yuktena ca .. mṛtyuṃjayena maṃtreṇa tathā paṃcākṣareṇa ca .. 64 ..
जलधाराः सहस्रेण शतेनैकोत्तरेण वा ॥ कर्तव्या वेदमार्गेण नामभिर्वाथ वा पुनः ॥ ६५ ॥
जल-धाराः सहस्रेण शतेन एक-उत्तरेण वा ॥ कर्तव्याः वेद-मार्गेण नामभिः वा अथ वा पुनर् ॥ ६५ ॥
jala-dhārāḥ sahasreṇa śatena eka-uttareṇa vā .. kartavyāḥ veda-mārgeṇa nāmabhiḥ vā atha vā punar .. 65 ..
ततश्चंदनपुष्पादि रोपणीयं शिवोपरि ॥ दापयेत्प्रणवेनैव मुखवासादिकं तथा ॥ ६६ ॥
ततस् चंदन-पुष्प-आदि रोपणीयम् शिव-उपरि ॥ दापयेत् प्रणवेन एव मुख-वास-आदिकम् तथा ॥ ६६ ॥
tatas caṃdana-puṣpa-ādi ropaṇīyam śiva-upari .. dāpayet praṇavena eva mukha-vāsa-ādikam tathā .. 66 ..
ततः स्फटिकसंकाशं देवं निष्कलमक्षयम् ॥ कारणं सर्वलोकानां सर्वलोकमयं परम् ॥ ६७ ॥
ततस् स्फटिक-संकाशम् देवम् निष्कलम् अक्षयम् ॥ कारणम् सर्व-लोकानाम् सर्व-लोक-मयम् परम् ॥ ६७ ॥
tatas sphaṭika-saṃkāśam devam niṣkalam akṣayam .. kāraṇam sarva-lokānām sarva-loka-mayam param .. 67 ..
ब्रह्मेन्द्रोपेन्द्रविष्ण्वाद्यैरपि देवैरगोचरम् ॥ वेदविद्भिर्हि वेदांते त्वगोचर मिति स्मृतम् ॥ ६८ ॥
ब्रह्म-इन्द्र-उपेन्द्र-विष्णु-आद्यैः अपि देवैः अगोचरम् ॥ वेद-हि वेदांते तु अगोचर मिति स्मृतम् ॥ ६८ ॥
brahma-indra-upendra-viṣṇu-ādyaiḥ api devaiḥ agocaram .. veda-hi vedāṃte tu agocara miti smṛtam .. 68 ..
आदिमध्यान्तरहितं भेषजं सर्वरोगिणाम् ॥ शिवतत्त्वमिति ख्यातं शिवलिंगं व्यवस्थितम् ॥ ६९ ॥
आदि-मध्य-अन्त-रहितम् भेषजम् सर्व-रोगिणाम् ॥ शिवतत्त्वम् इति ख्यातम् शिव-लिंगम् व्यवस्थितम् ॥ ६९ ॥
ādi-madhya-anta-rahitam bheṣajam sarva-rogiṇām .. śivatattvam iti khyātam śiva-liṃgam vyavasthitam .. 69 ..
प्रणवेनैव मंत्रेण पूजयेल्लिंगमूर्द्धनि ॥ धूपैर्दीपैश्च नैवैद्यैस्ताम्बूलैः सुन्दरैस्तथा ॥ 2.1.11.७० ॥
प्रणवेन एव मंत्रेण पूजयेत् लिंग-मूर्द्धनि ॥ धूपैः दीपैः च नैवैद्यैः ताम्बूलैः सुन्दरैः तथा ॥ २।१।११।७० ॥
praṇavena eva maṃtreṇa pūjayet liṃga-mūrddhani .. dhūpaiḥ dīpaiḥ ca naivaidyaiḥ tāmbūlaiḥ sundaraiḥ tathā .. 2.1.11.70 ..
नीराजनेन रम्येण यथोक्तविधिना ततः ॥ नमस्कारैः स्तवैश्चान्यैर्मंत्रैर्नानाविधैरपि ॥ ७१ ॥
नीराजनेन रम्येण यथा उक्त-विधिना ततस् ॥ नमस्कारैः स्तवैः च अन्यैः मंत्रैः नानाविधैः अपि ॥ ७१ ॥
nīrājanena ramyeṇa yathā ukta-vidhinā tatas .. namaskāraiḥ stavaiḥ ca anyaiḥ maṃtraiḥ nānāvidhaiḥ api .. 71 ..
अर्घ्यं दत्त्वा तु पुष्पाणि पादयोस्सुविकीर्य च ॥ प्रणिपत्य च देवेशमात्मनाराधयेच्छिवम् ॥ ७२॥
अर्घ्यम् दत्त्वा तु पुष्पाणि पादयोः सु विकीर्य च ॥ प्रणिपत्य च देवेशम् आत्मना आराधयेत् शिवम् ॥ ७२॥
arghyam dattvā tu puṣpāṇi pādayoḥ su vikīrya ca .. praṇipatya ca deveśam ātmanā ārādhayet śivam .. 72..
हस्ते गृहीत्वा पुष्पाणि समुत्थाय कृतांजलिः ॥ प्रार्थयेत्पुनरीशानं मंत्रेणानेन शंकरम् ॥ ७३ ॥
हस्ते गृहीत्वा पुष्पाणि समुत्थाय कृतांजलिः ॥ प्रार्थयेत् पुनर् ईशानम् मंत्रेण अनेन शंकरम् ॥ ७३ ॥
haste gṛhītvā puṣpāṇi samutthāya kṛtāṃjaliḥ .. prārthayet punar īśānam maṃtreṇa anena śaṃkaram .. 73 ..
अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया ॥ कृतं तदस्तु सफलं कृपया तव शंकर ॥ ७४॥
अज्ञानात् यदि वा ज्ञानात् जप-पूजा-आदिकम् मया ॥ कृतम् तत् अस्तु सफलम् कृपया तव शंकर ॥ ७४॥
ajñānāt yadi vā jñānāt japa-pūjā-ādikam mayā .. kṛtam tat astu saphalam kṛpayā tava śaṃkara .. 74..
पठित्वैवं च पुष्पाणि शिवोपरि मुदा न्यसेत् ॥ स्वस्त्ययनं ततः कृत्वा ह्याशिषो विविधास्तथा ॥ ७५॥
पठित्वा एवम् च पुष्पाणि शिव-उपरि मुदा न्यसेत् ॥ स्वस्त्ययनम् ततस् कृत्वा हि आशिषः विविधाः तथा ॥ ७५॥
paṭhitvā evam ca puṣpāṇi śiva-upari mudā nyaset .. svastyayanam tatas kṛtvā hi āśiṣaḥ vividhāḥ tathā .. 75..
मार्जनं तु ततः कार्यं शिवस्योपरि वै पुनः ॥ नमस्कारं ततः क्षांतिं पुनराचमनाय च ॥ ७६
मार्जनम् तु ततस् कार्यम् शिवस्य उपरि वै पुनर् ॥ नमस्कारम् ततस् क्षांतिम् पुनर् आचमनाय च ॥ ७६
mārjanam tu tatas kāryam śivasya upari vai punar .. namaskāram tatas kṣāṃtim punar ācamanāya ca .. 76
अघोच्चारणमुच्चार्य नमस्कारं प्रकल्पयेत् ॥ प्रार्थयेच्च पुनस्तत्र सर्वभावसमन्वितः ॥ ७७॥
अघ-उच्चारणम् उच्चार्य नमस्कारम् प्रकल्पयेत् ॥ प्रार्थयेत् च पुनर् तत्र सर्व-भाव-समन्वितः ॥ ७७॥
agha-uccāraṇam uccārya namaskāram prakalpayet .. prārthayet ca punar tatra sarva-bhāva-samanvitaḥ .. 77..
शिवे भक्तिश्शिवे भक्तिश्शिवे भक्तिर्भवे भवे ॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम ॥ ७८॥
शिवे भक्तिः शिवे भक्तिः शिवे भक्तिः भवे भवे ॥ अन्यथा शरणम् ना अस्ति त्वम् एव शरणम् मम ॥ ७८॥
śive bhaktiḥ śive bhaktiḥ śive bhaktiḥ bhave bhave .. anyathā śaraṇam nā asti tvam eva śaraṇam mama .. 78..
इति संप्रार्थ्य देवेशं सर्वसिद्धिप्रदायकम् ॥ पूजयेत्परया भक्त्या गलनादैर्विशेषतः ॥ ७९ ॥
इति संप्रार्थ्य देवेशम् सर्व-सिद्धि-प्रदायकम् ॥ पूजयेत् परया भक्त्या गलनादैः विशेषतः ॥ ७९ ॥
iti saṃprārthya deveśam sarva-siddhi-pradāyakam .. pūjayet parayā bhaktyā galanādaiḥ viśeṣataḥ .. 79 ..
नमस्कारं ततः कृत्वा परिवारगणैस्सह ॥ प्रहर्षमतुलं लब्ध्वा कार्यं कुर्याद्यथासुखम् ॥ 2.1.11.८० ॥
नमस्कारम् ततस् कृत्वा परिवार-गणैः सह ॥ प्रहर्षम् अतुलम् लब्ध्वा कार्यम् कुर्यात् यथासुखम् ॥ २।१।११।८० ॥
namaskāram tatas kṛtvā parivāra-gaṇaiḥ saha .. praharṣam atulam labdhvā kāryam kuryāt yathāsukham .. 2.1.11.80 ..
एवं यः पूजयेन्नित्यं शिवभक्तिपरायणः ॥ तस्य वै सकला सिद्धिर्जायते तु पदे पदे ॥ ८१ ॥
एवम् यः पूजयेत् नित्यम् शिव-भक्ति-परायणः ॥ तस्य वै सकला सिद्धिः जायते तु पदे पदे ॥ ८१ ॥
evam yaḥ pūjayet nityam śiva-bhakti-parāyaṇaḥ .. tasya vai sakalā siddhiḥ jāyate tu pade pade .. 81 ..
वाग्मी स जायते तस्य मनोभी ष्टफलं ध्रुवम् ॥ रोगं दुःखं च शोकं च ह्युद्वेगं कृत्रिमं तथा ॥ ८२ ॥
वाग्मी स जायते तस्य मनोभिः ष्ट-फलम् ध्रुवम् ॥ रोगम् दुःखम् च शोकम् च हि उद्वेगम् कृत्रिमम् तथा ॥ ८२ ॥
vāgmī sa jāyate tasya manobhiḥ ṣṭa-phalam dhruvam .. rogam duḥkham ca śokam ca hi udvegam kṛtrimam tathā .. 82 ..
कौटिल्यं च गरं चैव यद्यदुःखमुपस्थितम् ॥ तद्दुःखं नाश यत्येव शिवः शिवकरः परः ॥ ८३॥
कौटिल्यम् च गरम् च एव यद्-यदुःखम् उपस्थितम् ॥ तत् दुःखम् शिवः शिव-करः परः ॥ ८३॥
kauṭilyam ca garam ca eva yad-yaduḥkham upasthitam .. tat duḥkham śivaḥ śiva-karaḥ paraḥ .. 83..
कल्याणं जायते तस्य शुक्लपक्षे यथा शशी ॥ वर्द्धते सद्गुणस्तत्र ध्रुवं शंकरपूजनात् ॥ ८४॥
कल्याणम् जायते तस्य शुक्लपक्षे यथा शशी ॥ वर्द्धते सत्-गुणः तत्र ध्रुवम् शंकर-पूजनात् ॥ ८४॥
kalyāṇam jāyate tasya śuklapakṣe yathā śaśī .. varddhate sat-guṇaḥ tatra dhruvam śaṃkara-pūjanāt .. 84..
इति पूजाविधिश्शंभोः प्रोक्तस्ते मुनिसत्तम ॥ अतः परं च शुश्रूषुः किं प्रष्टासि च नारद ॥ ८५ ॥
इति पूजा-विधिः शंभोः प्रोक्तः ते मुनि-सत्तम ॥ अतस् परम् च शुश्रूषुः किम् प्रष्टासि च नारद ॥ ८५ ॥
iti pūjā-vidhiḥ śaṃbhoḥ proktaḥ te muni-sattama .. atas param ca śuśrūṣuḥ kim praṣṭāsi ca nārada .. 85 ..
इति श्रीशिवमहापुराणे द्विती यायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शिवपूजाविधिवर्णनो नामैकादशोऽध्यायः ॥ ११ ॥
इति श्री-शिव-महापुराणे रुद्रसंहितायाम् प्रथम-खण्डे सृष्ट्युपाख्याने शिवपूजाविधिवर्णनः नाम एकादशः अध्यायः ॥ ११ ॥
iti śrī-śiva-mahāpurāṇe rudrasaṃhitāyām prathama-khaṇḍe sṛṣṭyupākhyāne śivapūjāvidhivarṇanaḥ nāma ekādaśaḥ adhyāyaḥ .. 11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In