| |
|

This overlay will guide you through the buttons:

नारद उवाच।।
ब्रह्मन्प्रजापते तात धन्यस्त्वं शिवसक्तधीः ॥ एतदेव पुनस्सम्यग्ब्रूहि मे विस्तराद्विधे ॥ १ ॥
ब्रह्मन् प्रजापते तात धन्यः त्वम् शिव-सक्त-धीः ॥ एतत् एव पुनर् सम्यक् ब्रूहि मे विस्तरात् विधे ॥ १ ॥
brahman prajāpate tāta dhanyaḥ tvam śiva-sakta-dhīḥ .. etat eva punar samyak brūhi me vistarāt vidhe .. 1 ..
ब्रह्मोवाच ।।
एकस्मिन्समये तात ऋषीनाहूय सर्वतः ॥ निर्जरांश्चाऽवदं प्रीत्या सुवचः पद्मसंभवः ॥ २ ॥
एकस्मिन् समये तातः ऋषीन् आहूय सर्वतस् ॥ निर्जरान् च अवदम् प्रीत्या सु वचः पद्मसंभवः ॥ २ ॥
ekasmin samaye tātaḥ ṛṣīn āhūya sarvatas .. nirjarān ca avadam prītyā su vacaḥ padmasaṃbhavaḥ .. 2 ..
यदि नित्यसुखे श्रद्धा यदि सिद्धेश्च कामुकाः ॥ आगंतव्यं मया सार्द्धं तीरं क्षीरपयोनिधेः ॥ ३ ॥
यदि नित्य-सुखे श्रद्धा यदि सिद्धेः च कामुकाः ॥ आगंतव्यम् मया सार्द्धम् तीरम् क्षीर-पयोनिधेः ॥ ३ ॥
yadi nitya-sukhe śraddhā yadi siddheḥ ca kāmukāḥ .. āgaṃtavyam mayā sārddham tīram kṣīra-payonidheḥ .. 3 ..
इत्येतद्वचनं श्रुत्वा गतास्ते हि मया सह ॥ यत्रास्ते भगवान्विष्णुस्सर्वेषां हितकारकः ॥ ४ ॥
इति एतत् वचनम् श्रुत्वा गताः ते हि मया सह ॥ यत्र आस्ते भगवान् विष्णुः सर्वेषाम् हित-कारकः ॥ ४ ॥
iti etat vacanam śrutvā gatāḥ te hi mayā saha .. yatra āste bhagavān viṣṇuḥ sarveṣām hita-kārakaḥ .. 4 ..
तत्र गत्वा जगन्नाथं देवदेवं जनार्द्दनम् ॥ उपतस्थुस्सुरा नत्वा सुकृतांजलयोः मुने ॥ ९ ॥
तत्र गत्वा जगन्नाथम् देवदेवम् जनार्द्दनम् ॥ उपतस्थुः सुराः नत्वा सुकृत-अंजलयोः मुने ॥ ९ ॥
tatra gatvā jagannātham devadevam janārddanam .. upatasthuḥ surāḥ natvā sukṛta-aṃjalayoḥ mune .. 9 ..
तान्दृष्ट्वा च तदा विष्णुर्ब्रह्माद्यानमरान्स्थितान् ॥ स्मरञ्छिवपदांभोजमब्रवीत्परमं वचः ॥ ६॥
तान् दृष्ट्वा च तदा विष्णुः ब्रह्म-आद्यान् अमरान् स्थितान् ॥ स्मरन् शिव-पद-अंभोजम् अब्रवीत् परमम् वचः ॥ ६॥
tān dṛṣṭvā ca tadā viṣṇuḥ brahma-ādyān amarān sthitān .. smaran śiva-pada-aṃbhojam abravīt paramam vacaḥ .. 6..
विष्णुरुवाच ।।
किमर्थमागता यूयं ब्रह्माद्याश्च सुरर्षयः ॥ सर्वं वदत तत्प्रीत्या किं कार्यं विद्यतेऽधुना ॥ ७ ॥
किमर्थम् आगताः यूयम् ब्रह्म-आद्याः च सुरर्षयः ॥ सर्वम् वदत तद्-प्रीत्या किम् कार्यम् विद्यते अधुना ॥ ७ ॥
kimartham āgatāḥ yūyam brahma-ādyāḥ ca surarṣayaḥ .. sarvam vadata tad-prītyā kim kāryam vidyate adhunā .. 7 ..
ब्रह्मोवाच ।।
इति पृष्टास्तदा तेन विष्णुना च मया सुराः ॥ पुनः प्रणम्य तं प्रीत्या किं कार्यं विद्यतेऽधुना ॥
इति पृष्टाः तदा तेन विष्णुना च मया सुराः ॥ पुनर् प्रणम्य तम् प्रीत्या किम् कार्यम् विद्यते अधुना ॥
iti pṛṣṭāḥ tadā tena viṣṇunā ca mayā surāḥ .. punar praṇamya tam prītyā kim kāryam vidyate adhunā ..
विनिवेदयितुं कार्यं ह्यब्रुवन्वचनं शुभम् ॥ ८ ॥
विनिवेदयितुम् कार्यम् हि अब्रुवन् वचनम् शुभम् ॥ ८ ॥
vinivedayitum kāryam hi abruvan vacanam śubham .. 8 ..
देवा ऊचुः ।।
नित्यं सेवा तु कस्यैव कार्या दुःखपहारिणी ॥ ९ ॥
नित्यम् सेवा तु कस्य एव कार्या दुःख-अपहारिणी ॥ ९ ॥
nityam sevā tu kasya eva kāryā duḥkha-apahāriṇī .. 9 ..
इत्येतद्वचनं श्रुत्वा भगवान्भक्तवत्सलः ॥ सामरस्य मम प्रीत्या कृपया वाक्यमब्रवीत् ॥ 2.1.12.१०॥
इति एतत् वचनम् श्रुत्वा भगवान् भक्त-वत्सलः ॥ स अमरस्य मम प्रीत्या कृपया वाक्यम् अब्रवीत् ॥ २।१।१२।१०॥
iti etat vacanam śrutvā bhagavān bhakta-vatsalaḥ .. sa amarasya mama prītyā kṛpayā vākyam abravīt .. 2.1.12.10..
श्रीभगवानुवाच ।।
ब्रह्मञ्च्छृणु सुरैस्सम्यक्श्रुतं च भवता पुरा ॥ तथापि कथ्यते तुभ्यं देवेभ्यश्च तथा पुनः ॥ ११॥
ब्रह्मन् शृणु सुरैः सम्यक् श्रुतम् च भवता पुरा ॥ तथा अपि कथ्यते तुभ्यम् देवेभ्यः च तथा पुनर् ॥ ११॥
brahman śṛṇu suraiḥ samyak śrutam ca bhavatā purā .. tathā api kathyate tubhyam devebhyaḥ ca tathā punar .. 11..
दृष्टं च दृश्यतेऽद्यैव किं पुनः पृच्छ्यते ऽधुना ॥ ब्रह्मन्देवैस्समस्तैश्च बहुधा कार्यतत्परैः ॥ १२ ॥
दृष्टम् च दृश्यते अद्य एव किम् पुनर् पृच्छ्यते अधुना ॥ ब्रह्मन् देवैः समस्तैः च बहुधा कार्य-तत्परैः ॥ १२ ॥
dṛṣṭam ca dṛśyate adya eva kim punar pṛcchyate adhunā .. brahman devaiḥ samastaiḥ ca bahudhā kārya-tatparaiḥ .. 12 ..
सेव्यसेव्यस्सदा देवश्शंकरस्सर्वदुःखहा ॥ ममापि कथितं तेन ब्रह्म णोऽपि विशेषतः ॥ १३ ॥
सेव्य-सेव्यः सदा देवः शंकरः सर्व-दुःख-हा ॥ मम अपि कथितम् तेन ब्रह्म विशेषतः ॥ १३ ॥
sevya-sevyaḥ sadā devaḥ śaṃkaraḥ sarva-duḥkha-hā .. mama api kathitam tena brahma viśeṣataḥ .. 13 ..
प्रस्तुतं चैव दृष्टं वस्सर्वं दृष्टांतमद्भुतम् ॥ त्याज्यं तदर्चनं नैव कदापि सुखमीप्सुभिः ॥ १४ ॥
प्रस्तुतम् च एव दृष्टम् वः सर्वम् दृष्टांतम् अद्भुतम् ॥ त्याज्यम् तद्-अर्चनम् ना एव कदापि सुखम् ईप्सुभिः ॥ १४ ॥
prastutam ca eva dṛṣṭam vaḥ sarvam dṛṣṭāṃtam adbhutam .. tyājyam tad-arcanam nā eva kadāpi sukham īpsubhiḥ .. 14 ..
संत्यज्य देवदेवेशं लिंगमूर्तिं महेश्वरम् ॥ तारपुत्रास्तथैवैते नष्टास्तेऽपि सबांधवाः ॥ १५ ॥
संत्यज्य देवदेवेशम् लिंग-मूर्तिम् महेश्वरम् ॥ तार-पुत्राः तथा एव एते नष्टाः ते अपि स बांधवाः ॥ १५ ॥
saṃtyajya devadeveśam liṃga-mūrtim maheśvaram .. tāra-putrāḥ tathā eva ete naṣṭāḥ te api sa bāṃdhavāḥ .. 15 ..
मया च मोहितास्ते वै मायया दूरतः कृताः ॥ सर्वे विनष्टाः प्रध्वस्ताः शिवेन रहिता यदा ॥ १६॥
मया च मोहिताः ते वै मायया दूरतस् कृताः ॥ सर्वे विनष्टाः प्रध्वस्ताः शिवेन रहिताः यदा ॥ १६॥
mayā ca mohitāḥ te vai māyayā dūratas kṛtāḥ .. sarve vinaṣṭāḥ pradhvastāḥ śivena rahitāḥ yadā .. 16..
तस्मात्सदा पूजनीयो लिंगमूर्तिधरी हरः ॥ सेवनीयो विशेषेण श्रद्धया देवसत्तमः ॥ १७ ॥
तस्मात् सदा पूजनीयः लिंग-मूर्ति-धरी हरः ॥ सेवनीयः विशेषेण श्रद्धया देव-सत्तमः ॥ १७ ॥
tasmāt sadā pūjanīyaḥ liṃga-mūrti-dharī haraḥ .. sevanīyaḥ viśeṣeṇa śraddhayā deva-sattamaḥ .. 17 ..
शर्वलिङ्गार्चनादेव देवा दैत्याश्च सत्तमाः ॥ अहं त्वं च तथा ब्रह्मन्कथं तद्विस्मृतं त्वया ॥ ।०॥ ।
शर्व-लिङ्ग-अर्चनात् एव देवाः दैत्याः च सत्तमाः ॥ अहम् त्वम् च तथा ब्रह्मन् कथम् तत् विस्मृतम् त्वया ॥ ।०॥ ।
śarva-liṅga-arcanāt eva devāḥ daityāḥ ca sattamāḥ .. aham tvam ca tathā brahman katham tat vismṛtam tvayā .. .0.. .
तल्लिङ्गमर्चयेन्नित्यं येन केनापि हेतुना ॥ तस्मात् ब्रह्मन्सुरः शर्वः सर्वकामफलेप्सया ॥ १९॥
तत् लिङ्गम् अर्चयेत् नित्यम् येन केन अपि हेतुना ॥ तस्मात् ब्रह्मन् सुरः शर्वः सर्व-काम-फल-ईप्सया ॥ १९॥
tat liṅgam arcayet nityam yena kena api hetunā .. tasmāt brahman suraḥ śarvaḥ sarva-kāma-phala-īpsayā .. 19..
सा हनिस्तन्महाछिद्रं सान्धता सा च मुग्धता ॥ यन्मुहूर्त्तं क्षणं वापि शिवं नैव समर्चयेत् ॥ 2.1.12.२० ॥
सा हनिः तत् महा-छिद्रम् सा अन्ध-ता सा च मुग्ध-ता ॥ यत् मुहूर्त्तम् क्षणम् वा अपि शिवम् ना एव समर्चयेत् ॥ २।१।१२।२० ॥
sā haniḥ tat mahā-chidram sā andha-tā sā ca mugdha-tā .. yat muhūrttam kṣaṇam vā api śivam nā eva samarcayet .. 2.1.12.20 ..
भवभक्तिपरा ये च भवप्रणतचेतसः ॥ भवसंस्मरणा ये च न ते दुःखस्यभाजनाः ॥ २१ ॥
भव-भक्ति-पराः ये च भव-प्रणत-चेतसः ॥ भव-संस्मरणाः ये च न ते दुःखस्य अभाजनाः ॥ २१ ॥
bhava-bhakti-parāḥ ye ca bhava-praṇata-cetasaḥ .. bhava-saṃsmaraṇāḥ ye ca na te duḥkhasya abhājanāḥ .. 21 ..
भवनानि मनोज्ञानि मनोज्ञाभरणाः स्त्रियः ॥ धनं च तुष्टिपर्यंतं पुत्रपौत्रादिसंततिः ॥ २२॥
भवनानि मनोज्ञानि मनोज्ञ-आभरणाः स्त्रियः ॥ धनम् च तुष्टि-पर्यंतम् पुत्र-पौत्र-आदि-संततिः ॥ २२॥
bhavanāni manojñāni manojña-ābharaṇāḥ striyaḥ .. dhanam ca tuṣṭi-paryaṃtam putra-pautra-ādi-saṃtatiḥ .. 22..
आरोग्यं च शरीरं च प्रतिष्ठां चाप्यलौकिकीम् ॥ ये वांछंति महाभागाः सुखं वा त्रिदशालयम् ॥ २३ ॥
आरोग्यम् च शरीरम् च प्रतिष्ठाम् च अपि अलौकिकीम् ॥ ये वांछंति महाभागाः सुखम् वा त्रिदशालयम् ॥ २३ ॥
ārogyam ca śarīram ca pratiṣṭhām ca api alaukikīm .. ye vāṃchaṃti mahābhāgāḥ sukham vā tridaśālayam .. 23 ..
अंते मुक्तिफलं चैव भक्तिं वा परमेशितुः ॥ पूर्वपुण्यातिरेकेण तेऽर्चयंति सदाशिवम् ॥ २४ ॥
अन्ते मुक्ति-फलम् च एव भक्तिम् वा परमेशितुः ॥ पूर्व-पुण्य-अतिरेकेण ते अर्चयन्ति सदाशिवम् ॥ २४ ॥
ante mukti-phalam ca eva bhaktim vā parameśituḥ .. pūrva-puṇya-atirekeṇa te arcayanti sadāśivam .. 24 ..
योऽर्चयेच्छिवलिंगं वै नित्यं भक्तिपरायणः ॥ तस्य वै सफला सिद्धिर्न स पापैः प्रयुज्यते ॥ २५ ॥
यः अर्चयेत् शिव-लिंगम् वै नित्यम् भक्ति-परायणः ॥ तस्य वै सफला सिद्धिः न स पापैः प्रयुज्यते ॥ २५ ॥
yaḥ arcayet śiva-liṃgam vai nityam bhakti-parāyaṇaḥ .. tasya vai saphalā siddhiḥ na sa pāpaiḥ prayujyate .. 25 ..
ब्रह्मोवाच ।।
इत्युक्ताश्च तदा देवाः प्रणिपत्य हरिं स्वयम् ॥ लिंगानि प्रार्थयामासुस्सर्वकामाप्तये नृणाम् ॥ २६ ॥
इति उक्ताः च तदा देवाः प्रणिपत्य हरिम् स्वयम् ॥ लिंगानि प्रार्थयामासुः सर्व-काम-आप्तये नृणाम् ॥ २६ ॥
iti uktāḥ ca tadā devāḥ praṇipatya harim svayam .. liṃgāni prārthayāmāsuḥ sarva-kāma-āptaye nṛṇām .. 26 ..
तच्छ्रुत्वा च तदा विष्णु विश्वकर्माणमब्रवीत ॥ अहं च मुनिशार्दूल जीवोद्धारपरायणः ॥ २७ ॥
तत् श्रुत्वा च तदा विष्णु विश्वकर्माणम् अब्रवीत ॥ अहम् च मुनि-शार्दूल जीव-उद्धार-परायणः ॥ २७ ॥
tat śrutvā ca tadā viṣṇu viśvakarmāṇam abravīta .. aham ca muni-śārdūla jīva-uddhāra-parāyaṇaḥ .. 27 ..
विश्वकर्मन्यथा शंभोः कल्पयित्वा शुभानि च॥ लिंगानि सर्वदेवेभ्यो देयानि वचनान्मम ॥ २८ ॥
विश्वकर्मन् यथा शंभोः कल्पयित्वा शुभानि च॥ लिंगानि सर्व-देवेभ्यः देयानि वचनात् मम ॥ २८ ॥
viśvakarman yathā śaṃbhoḥ kalpayitvā śubhāni ca.. liṃgāni sarva-devebhyaḥ deyāni vacanāt mama .. 28 ..
ब्रह्मोवाच ।।
लिंगानि कल्पयित्वेवमधिकारानुरूपतः ॥ विश्वकर्मा ददौ तेभ्यो नियोगान्मम वा हरेः॥ २९॥
लिंगानि कल्पयित्वा एवम् अधिकार-अनुरूपतः ॥ विश्वकर्मा ददौ तेभ्यः नियोगात् मम वा हरेः॥ २९॥
liṃgāni kalpayitvā evam adhikāra-anurūpataḥ .. viśvakarmā dadau tebhyaḥ niyogāt mama vā hareḥ.. 29..
तदेव कथयाम्यद्य श्रूयतामृषिसत्तम॥ पद्मरागमयं शक्रो हेम विश्र वसस्सुतः॥ 2.1.12.३०॥
तत् एव कथयामि अद्य श्रूयताम् ऋषि-सत्तम॥ पद्मराग-मयम् शक्रः हेम वसः-सुतः॥ २।१।१२।३०॥
tat eva kathayāmi adya śrūyatām ṛṣi-sattama.. padmarāga-mayam śakraḥ hema vasaḥ-sutaḥ.. 2.1.12.30..
पीतं मणिमयं धर्मो वरुणश्श्यामलं शिवम् ॥ इन्द्रनीलमयं विष्णुर्ब्रह्मा हेममयं तथा॥ ३१॥
पीतम् मणि-मयम् धर्मः वरुणः श्यामलम् शिवम् ॥ इन्द्रनील-मयम् विष्णुः ब्रह्मा हेम-मयम् तथा॥ ३१॥
pītam maṇi-mayam dharmaḥ varuṇaḥ śyāmalam śivam .. indranīla-mayam viṣṇuḥ brahmā hema-mayam tathā.. 31..
विश्वेदेवास्तथा रौप्यं वसवश्च तथैव च ॥ आरकूटमयं वापि पार्थिवं ह्यश्विनौ मुने ॥ ३२॥
विश्वेदेवाः तथा रौप्यम् वसवः च तथा एव च ॥ आरकूट-मयम् वा अपि पार्थिवम् हि अश्विनौ मुने ॥ ३२॥
viśvedevāḥ tathā raupyam vasavaḥ ca tathā eva ca .. ārakūṭa-mayam vā api pārthivam hi aśvinau mune .. 32..
लक्ष्मीश्च स्फाटिकं देवी ह्यादित्यास्ताम्रनिर्मितम् ॥ मौक्तिकं सोमराजो वै वज्रलिंगं विभावसुः ॥ ३३॥
लक्ष्मीः च स्फाटिकम् देवी हि आदित्याः ताम्र-निर्मितम् ॥ मौक्तिकम् सोमराजः वै वज्रलिंगम् विभावसुः ॥ ३३॥
lakṣmīḥ ca sphāṭikam devī hi ādityāḥ tāmra-nirmitam .. mauktikam somarājaḥ vai vajraliṃgam vibhāvasuḥ .. 33..
मृण्मयं चैव विप्रेंद्रा विप्रपत्न्यस्तथैव च ॥ चांदनं च मयो नागाः प्रवालमयमादरात् ॥ ३४॥
मृण्मयम् च एव विप्र-इंद्राः विप्र-पत्न्यः तथा एव च ॥ चांदनम् च मयः नागाः प्रवाल-मयम् आदरात् ॥ ३४॥
mṛṇmayam ca eva vipra-iṃdrāḥ vipra-patnyaḥ tathā eva ca .. cāṃdanam ca mayaḥ nāgāḥ pravāla-mayam ādarāt .. 34..
नवनीतमयं देवी योगी भस्ममयं तथा॥ यक्षा दधिमयं लिंगं छाया पिष्टमयं तथा ॥ ३५॥
नवनीत-मयम् देवी योगी भस्म-मयम् तथा॥ यक्षा दधि-मयम् लिंगम् छाया पिष्ट-मयम् तथा ॥ ३५॥
navanīta-mayam devī yogī bhasma-mayam tathā.. yakṣā dadhi-mayam liṃgam chāyā piṣṭa-mayam tathā .. 35..
शिवलिंगं च ब्रह्माणी रत्नं पूजयति ध्रुवम्॥ पारदं पार्थिवं बाणस्समर्चति परेऽपि वा ॥ ३६॥
शिव-लिंगम् च ब्रह्माणी रत्नम् पूजयति ध्रुवम्॥ पारदम् पार्थिवम् बाणः समर्चति परे अपि वा ॥ ३६॥
śiva-liṃgam ca brahmāṇī ratnam pūjayati dhruvam.. pāradam pārthivam bāṇaḥ samarcati pare api vā .. 36..
एवं विधानि लिंगानि दत्तानि विश्वकर्मणा ॥ ते पूजयंति सर्वे वै देवा ऋषिगणा स्तथा ॥ ३७॥
एवंविधानि लिंगानि दत्तानि विश्वकर्मणा ॥ ते पूजयंति सर्वे वै देवाः ऋषि-गणाः स्तथा ॥ ३७॥
evaṃvidhāni liṃgāni dattāni viśvakarmaṇā .. te pūjayaṃti sarve vai devāḥ ṛṣi-gaṇāḥ stathā .. 37..
विष्णुर्दत्त्वा च लिंगानि देवेभ्यो हितकाम्यया॥ पूजाविधिं समाचष्ट ब्रह्मणे मे पिनाकिनः ॥ ३८॥
विष्णुः दत्त्वा च लिंगानि देवेभ्यः हित-काम्यया॥ पूजा-विधिम् समाचष्ट ब्रह्मणे मे पिनाकिनः ॥ ३८॥
viṣṇuḥ dattvā ca liṃgāni devebhyaḥ hita-kāmyayā.. pūjā-vidhim samācaṣṭa brahmaṇe me pinākinaḥ .. 38..
तच्छ्रुत्वा वचनं तस्य ब्रह्माहं देवसत्तमैः ॥ आगच्छं च स्वकं धाम हर्षनिर्भरमानसः ॥ ३९॥
तत् श्रुत्वा वचनम् तस्य ब्रह्मा अहम् देव-सत्तमैः ॥ आगच्छम् च स्वकम् धाम हर्ष-निर्भर-मानसः ॥ ३९॥
tat śrutvā vacanam tasya brahmā aham deva-sattamaiḥ .. āgaccham ca svakam dhāma harṣa-nirbhara-mānasaḥ .. 39..
तत्रागत्य ऋषीन्सर्वान्देवांश्चाहं तथा मुने॥ शिवपूजाविधिं सम्यगब्रुवं सकलेष्टदम् ॥ 2.1.12.४०॥
तत्र आगत्य ऋषीन् सर्वान् देवान् च अहम् तथा मुने॥ शिव-पूजा-विधिम् सम्यक् अब्रुवम् सकल-इष्ट-दम् ॥ २।१।१२।४०॥
tatra āgatya ṛṣīn sarvān devān ca aham tathā mune.. śiva-pūjā-vidhim samyak abruvam sakala-iṣṭa-dam .. 2.1.12.40..
ब्रह्मोवाच।।
श्रूयतामृषयः सर्वे सामराः प्रेमतत्पराः ॥ शिवपूजाविधिं प्रीत्या कथये भुक्तिमुक्तिदम् ॥ ४१ ॥
श्रूयताम् ऋषयः सर्वे स अमराः प्रेम-तत्पराः ॥ शिव-पूजा-विधिम् प्रीत्या कथये भुक्ति-मुक्ति-दम् ॥ ४१ ॥
śrūyatām ṛṣayaḥ sarve sa amarāḥ prema-tatparāḥ .. śiva-pūjā-vidhim prītyā kathaye bhukti-mukti-dam .. 41 ..
मानुषं जन्म संप्राप्य दुर्लभं सर्वजंतुषु ॥ तत्रापि सत्कुले देवा दुष्प्राप्यं च मुनीश्वराः ॥ ४२॥
मानुषम् जन्म संप्राप्य दुर्लभम् सर्व-जंतुषु ॥ तत्र अपि सत्-कुले देवाः दुष्प्राप्यम् च मुनि-ईश्वराः ॥ ४२॥
mānuṣam janma saṃprāpya durlabham sarva-jaṃtuṣu .. tatra api sat-kule devāḥ duṣprāpyam ca muni-īśvarāḥ .. 42..
अव्यंगं चैव विप्रेषु साचारेषु सपुण्यतः ॥ शिवसंतोषहेतोश्च कर्मस्वोक्तं समाचरेत् ॥ ४३ ॥
अव्यंगम् च एव विप्रेषु स आचारेषु स पुण्यतः ॥ शिव-संतोष-हेतोः च कर्मसु ओक्तम् समाचरेत् ॥ ४३ ॥
avyaṃgam ca eva vipreṣu sa ācāreṣu sa puṇyataḥ .. śiva-saṃtoṣa-hetoḥ ca karmasu oktam samācaret .. 43 ..
यद्यज्जातिसमुद्दिष्टं तत्तत्कर्म न लंघयेत् ॥ यावद्दानस्य संपत्तिस्तावत्कर्म समावहेत् ॥ ४४ ॥
यत् यत् जाति-समुद्दिष्टम् तत् तत् कर्म न लंघयेत् ॥ यावत् दानस्य संपत्तिः तावत् कर्म समावहेत् ॥ ४४ ॥
yat yat jāti-samuddiṣṭam tat tat karma na laṃghayet .. yāvat dānasya saṃpattiḥ tāvat karma samāvahet .. 44 ..
कर्मयज्ञसहस्रेभ्यस्तपोयज्ञो विशिष्यते ॥ तपोयज्ञसहस्रेभ्यो जपयज्ञो विशिष्यते ॥ ४५॥
कर्म-यज्ञ-सहस्रेभ्यः तपः-यज्ञः विशिष्यते ॥ तपः-यज्ञ-सहस्रेभ्यः जप-यज्ञः विशिष्यते ॥ ४५॥
karma-yajña-sahasrebhyaḥ tapaḥ-yajñaḥ viśiṣyate .. tapaḥ-yajña-sahasrebhyaḥ japa-yajñaḥ viśiṣyate .. 45..
ध्यानयज्ञात्परं नास्ति ध्यानं ज्ञानस्य साधनम् ॥ यतस्समरसं स्वेष्टं यागी ध्यानेन पश्यति ॥ ४६ ॥
ध्यान-यज्ञात् परम् न अस्ति ध्यानम् ज्ञानस्य साधनम् ॥ यतस् समरसम् स्व-इष्टम् यागी ध्यानेन पश्यति ॥ ४६ ॥
dhyāna-yajñāt param na asti dhyānam jñānasya sādhanam .. yatas samarasam sva-iṣṭam yāgī dhyānena paśyati .. 46 ..
ध्यानयज्ञरतस्यास्य सदा संनिहितश्शिवः ॥ नास्ति विज्ञानिनां किंचित्प्रायश्चित्तादिशोधनम् ॥ ४७ ॥
ध्यान-यज्ञ-रतस्य अस्य सदा संनिहितः शिवः ॥ न अस्ति विज्ञानिनाम् किंचिद् प्रायश्चित्त-आदि-शोधनम् ॥ ४७ ॥
dhyāna-yajña-ratasya asya sadā saṃnihitaḥ śivaḥ .. na asti vijñāninām kiṃcid prāyaścitta-ādi-śodhanam .. 47 ..
विशुद्धा विद्यया ये च ब्रह्मन्ब्रह्मविदो जनाः ॥ नास्ति क्रिया च तेषां वै सुखं दुखं विचारतः ॥ ४८ ॥
विशुद्धाः विद्यया ये च ब्रह्मन् ब्रह्म-विदः जनाः ॥ ना अस्ति क्रिया च तेषाम् वै सुखम् दुखम् विचारतः ॥ ४८ ॥
viśuddhāḥ vidyayā ye ca brahman brahma-vidaḥ janāḥ .. nā asti kriyā ca teṣām vai sukham dukham vicārataḥ .. 48 ..
धर्माधर्मौ जपो होमो ध्यानं ध्यानविधिस्तथा ॥ सर्वदा निर्विकारास्ते विद्यया च तयामराः ॥ ४९ ॥
धर्म-अधर्मौ जपः होमः ध्यानम् ध्यान-विधिः तथा ॥ सर्वदा निर्विकाराः ते विद्यया च तया अमराः ॥ ४९ ॥
dharma-adharmau japaḥ homaḥ dhyānam dhyāna-vidhiḥ tathā .. sarvadā nirvikārāḥ te vidyayā ca tayā amarāḥ .. 49 ..
परानंदकरं लिंगं विशुद्धं शिवमक्षरम् ॥ निष्कलं सर्वगं ज्ञेयं योगिनां हृदि संस्थितम् ॥ 2.1.12.५०॥
पर-आनन्द-करम् लिंगम् विशुद्धम् शिवम् अक्षरम् ॥ निष्कलम् सर्व-गम् ज्ञेयम् योगिनाम् हृदि संस्थितम् ॥ २।१।१२।५०॥
para-ānanda-karam liṃgam viśuddham śivam akṣaram .. niṣkalam sarva-gam jñeyam yoginām hṛdi saṃsthitam .. 2.1.12.50..
लिंगं द्विविधं प्रोक्तं बाह्यमाभ्यंतरं द्विजाः ॥ बाह्यं स्थूलं समुद्दिष्टं सूक्ष्ममाभ्यंतरं मतम्॥ ५१॥
लिंगम् द्विविधम् प्रोक्तम् बाह्यम् आभ्यंतरम् द्विजाः ॥ बाह्यम् स्थूलम् समुद्दिष्टम् सूक्ष्मम् आभ्यंतरम् मतम्॥ ५१॥
liṃgam dvividham proktam bāhyam ābhyaṃtaram dvijāḥ .. bāhyam sthūlam samuddiṣṭam sūkṣmam ābhyaṃtaram matam.. 51..
कर्मयज्ञरता ये च स्थूललिंगार्चने रताः ॥ असतां भावनार्थाय सूक्ष्मेण स्थूलविग्रहाः ॥ ५२ ॥
कर्म-यज्ञ-रताः ये च स्थूललिंग-अर्चने रताः ॥ असताम् भावना-अर्थाय सूक्ष्मेण स्थूल-विग्रहाः ॥ ५२ ॥
karma-yajña-ratāḥ ye ca sthūlaliṃga-arcane ratāḥ .. asatām bhāvanā-arthāya sūkṣmeṇa sthūla-vigrahāḥ .. 52 ..
आध्यात्मिकं यल्लिंगं प्रत्यक्षं यस्य नो भवेत् ॥ स तल्लिंगे तथा स्थूले कल्पयेच्च न चान्यथा ॥ ५३ ॥
आध्यात्मिकम् यत् लिंगम् प्रत्यक्षम् यस्य नो भवेत् ॥ स तद्-लिंगे तथा स्थूले कल्पयेत् च न च अन्यथा ॥ ५३ ॥
ādhyātmikam yat liṃgam pratyakṣam yasya no bhavet .. sa tad-liṃge tathā sthūle kalpayet ca na ca anyathā .. 53 ..
ज्ञानिनां सूक्ष्मममलं भावात्प्रत्यक्षमव्ययम् ॥ यथा स्थूलमयुक्तानामुत्कृष्टादौ प्रकल्पितम् ॥ ५४ ॥
ज्ञानिनाम् सूक्ष्मम् अमलम् भावात् प्रत्यक्षम् अव्ययम् ॥ यथा स्थूलम् अयुक्तानाम् उत्कृष्ट-आदौ प्रकल्पितम् ॥ ५४ ॥
jñāninām sūkṣmam amalam bhāvāt pratyakṣam avyayam .. yathā sthūlam ayuktānām utkṛṣṭa-ādau prakalpitam .. 54 ..
अहो विचारतो नास्ति ह्यन्यत्तत्वार्थवादिनः ॥ निष्कलं सकलं चित्ते सर्वं शिवमयं जगत् ॥ ५५ ॥
अहो विचारतः ना अस्ति हि अन्यत् तत्व-अर्थ-वादिनः ॥ निष्कलम् सकलम् चित्ते सर्वम् शिव-मयम् जगत् ॥ ५५ ॥
aho vicārataḥ nā asti hi anyat tatva-artha-vādinaḥ .. niṣkalam sakalam citte sarvam śiva-mayam jagat .. 55 ..
एवं ज्ञानविमुक्तानां नास्ति दोष विकल्पना ॥ विधिश्चैव तथा नास्ति विहिताविहिते तथा ॥ ५६ ॥
एवम् ज्ञान-विमुक्तानाम् ना अस्ति दोष विकल्पना ॥ विधिः च एव तथा ना अस्ति विहित-अ विहिते तथा ॥ ५६ ॥
evam jñāna-vimuktānām nā asti doṣa vikalpanā .. vidhiḥ ca eva tathā nā asti vihita-a vihite tathā .. 56 ..
यथा जलेषु कमलं सलिलैर्नावलिप्यते ॥ तथा ज्ञानी गृहे तिष्ठन्कर्मणा नावबध्यते ॥ ५७ ॥
यथा जलेषु कमलम् सलिलैः न अवलिप्यते ॥ तथा ज्ञानी गृहे तिष्ठन् कर्मणा न अवबध्यते ॥ ५७ ॥
yathā jaleṣu kamalam salilaiḥ na avalipyate .. tathā jñānī gṛhe tiṣṭhan karmaṇā na avabadhyate .. 57 ..
इति ज्ञानं समुत्पन्नं यावन्नैव नरस्य वै ॥ तावच्च कर्मणा देवं शिवमाराधयेन्नरः ॥ ५८ ॥
इति ज्ञानम् समुत्पन्नम् यावत् ना एव नरस्य वै ॥ तावत् च कर्मणा देवम् शिवम् आराधयेत् नरः ॥ ५८ ॥
iti jñānam samutpannam yāvat nā eva narasya vai .. tāvat ca karmaṇā devam śivam ārādhayet naraḥ .. 58 ..
प्रत्ययार्थं च जगतामेकस्थोऽपि दिवाकरः॥ एकोऽपि बहुधा दृष्टो जलाधारादिवस्तुषु ॥ ५९ ॥
प्रत्यय-अर्थम् च जगताम् एकस्थः अपि दिवाकरः॥ एकः अपि बहुधा दृष्टः जल-आधार-आदि-वस्तुषु ॥ ५९ ॥
pratyaya-artham ca jagatām ekasthaḥ api divākaraḥ.. ekaḥ api bahudhā dṛṣṭaḥ jala-ādhāra-ādi-vastuṣu .. 59 ..
दृश्यते श्रूयते लोके यद्यत्सदसदात्मकम् ॥ तत्तत्सर्वं सुरा वित्त परं ब्रह्म शिवात्मकम् ॥ 2.1.12.६० ॥
दृश्यते श्रूयते लोके यत् यत् सत्-असत्-आत्मकम् ॥ तत् तत् सर्वम् सुराः वित्त परम् ब्रह्म शिव-आत्मकम् ॥ २।१।१२।६० ॥
dṛśyate śrūyate loke yat yat sat-asat-ātmakam .. tat tat sarvam surāḥ vitta param brahma śiva-ātmakam .. 2.1.12.60 ..
भेदो जलानां लोकेऽस्मिन्प्रतिभावे विचारतः ॥ एवमाहुस्तथा चान्ये सर्वे वेदार्थतत्त्वगाः ॥ ६१॥
भेदः जलानाम् लोके अस्मिन् प्रतिभावे विचारतः ॥ एवम् आहुः तथा च अन्ये सर्वे वेद-अर्थ-तत्त्व-गाः ॥ ६१॥
bhedaḥ jalānām loke asmin pratibhāve vicārataḥ .. evam āhuḥ tathā ca anye sarve veda-artha-tattva-gāḥ .. 61..
हृदि संसारिणः साक्षात्सकलः परमेश्वरः ॥ इति विज्ञानयुक्तस्य किं तस्य प्रतिमादिभिः॥ ६२ऽ॥
हृदि संसारिणः साक्षात् सकलः परमेश्वरः ॥ इति विज्ञान-युक्तस्य किम् तस्य प्रतिमा-आदिभिः॥ ६२॥
hṛdi saṃsāriṇaḥ sākṣāt sakalaḥ parameśvaraḥ .. iti vijñāna-yuktasya kim tasya pratimā-ādibhiḥ.. 62..
इति विज्ञानहीनस्य प्रतिमाकल्पना शुभा ॥ पदमुच्चैस्समारोढुं पुंसो ह्यालम्बनं स्मृतम् ॥ ६३ ॥
इति विज्ञान-हीनस्य प्रतिमा-कल्पना शुभा ॥ पदम् उच्चैस् समारोढुम् पुंसः हि आलम्बनम् स्मृतम् ॥ ६३ ॥
iti vijñāna-hīnasya pratimā-kalpanā śubhā .. padam uccais samāroḍhum puṃsaḥ hi ālambanam smṛtam .. 63 ..
आलम्बनं विना तस्य पदमुच्चैः सुदुष्करम् ॥ निर्गुणप्राप्तये नॄणां प्रतिमालम्बनं स्मृतम् ॥ ६४ ॥
आलम्बनम् विना तस्य पदम् उच्चैस् सु दुष्करम् ॥ निर्गुण-प्राप्तये नॄणाम् प्रतिमा आलम्बनम् स्मृतम् ॥ ६४ ॥
ālambanam vinā tasya padam uccais su duṣkaram .. nirguṇa-prāptaye nṝṇām pratimā ālambanam smṛtam .. 64 ..
सगुणानिर्गुणा प्राप्तिर्भवती सुनिश्चितम् ॥ एवं च सर्वदेवानां प्रतिमा प्रत्ययावहा ॥ ६५॥
स गुण-अ निर्गुणा प्राप्तिः भवती सु निश्चितम् ॥ एवम् च सर्व-देवानाम् प्रतिमा प्रत्यय-आवहा ॥ ६५॥
sa guṇa-a nirguṇā prāptiḥ bhavatī su niścitam .. evam ca sarva-devānām pratimā pratyaya-āvahā .. 65..
देवश्चायं महीयान्वै तस्यार्थे पूजनं त्विदम् ॥ गंधचन्दनपुष्पादि किमर्थं प्रतिमां विना ॥ ६६॥
देवः च अयम् महीयान् वै तस्य अर्थे पूजनम् तु इदम् ॥ गंध-चन्दन-पुष्प-आदि किमर्थम् प्रतिमाम् विना ॥ ६६॥
devaḥ ca ayam mahīyān vai tasya arthe pūjanam tu idam .. gaṃdha-candana-puṣpa-ādi kimartham pratimām vinā .. 66..
तावच्च प्रतिमा पूज्य यावद्विज्ञानसंभवः ॥ ज्ञानाभावेन पूज्येत पतनं तस्य निश्चितम् ॥ ६७ ॥
तावत् च प्रतिमा पूज्य यावत् विज्ञान-संभवः ॥ ज्ञान-अभावेन पूज्येत पतनम् तस्य निश्चितम् ॥ ६७ ॥
tāvat ca pratimā pūjya yāvat vijñāna-saṃbhavaḥ .. jñāna-abhāvena pūjyeta patanam tasya niścitam .. 67 ..
एवस्मात्कारणाद्विप्राः श्रूयतां परमार्थतः॥ स्वजात्युक्तं तु यत्कर्म कर्तव्यं तत्प्रयत्नतः ॥ ६८ ॥
एवस्मात् कारणात् विप्राः श्रूयताम् परमार्थतः॥ स्व-जाति-उक्तम् तु यत् कर्म कर्तव्यम् तत् प्रयत्नतः ॥ ६८ ॥
evasmāt kāraṇāt viprāḥ śrūyatām paramārthataḥ.. sva-jāti-uktam tu yat karma kartavyam tat prayatnataḥ .. 68 ..
यत्र यत्र यथा भक्तिः कर्तव्यं पूजनादिकम् ॥ विना पूजनदानादि पातकं न च दूरतः ॥ ६९॥
यत्र यत्र यथा भक्तिः कर्तव्यम् पूजन-आदिकम् ॥ विना पूजन-दान-आदि पातकम् न च दूरतस् ॥ ६९॥
yatra yatra yathā bhaktiḥ kartavyam pūjana-ādikam .. vinā pūjana-dāna-ādi pātakam na ca dūratas .. 69..
यावच्च पातकं देहे तावत्सिद्धिर्न जायते ॥ गते च पातके तस्य सर्वं च सफलं भवेत् ॥ 2.1.12.७०॥
यावत् च पातकम् देहे तावत् सिद्धिः न जायते ॥ गते च पातके तस्य सर्वम् च सफलम् भवेत् ॥ २।१।१२।७०॥
yāvat ca pātakam dehe tāvat siddhiḥ na jāyate .. gate ca pātake tasya sarvam ca saphalam bhavet .. 2.1.12.70..
तथा च मलिने वस्त्रे रंगः शुभतरो न हि ॥ क्षालने हि कृते शुद्धे सर्वो रंगः प्रसज्जते ॥ ७१ ॥
तथा च मलिने वस्त्रे रंगः शुभतरः न हि ॥ क्षालने हि कृते शुद्धे सर्वः रंगः प्रसज्जते ॥ ७१ ॥
tathā ca maline vastre raṃgaḥ śubhataraḥ na hi .. kṣālane hi kṛte śuddhe sarvaḥ raṃgaḥ prasajjate .. 71 ..
तथा च निर्मले देहे देवानां सम्यगर्चया ॥ ज्ञानरंगः प्रजायेत तदा विज्ञानसंभवः ॥ ७२ ॥
तथा च निर्मले देहे देवानाम् सम्यक् अर्चया ॥ ज्ञान-रंगः प्रजायेत तदा विज्ञान-संभवः ॥ ७२ ॥
tathā ca nirmale dehe devānām samyak arcayā .. jñāna-raṃgaḥ prajāyeta tadā vijñāna-saṃbhavaḥ .. 72 ..
विज्ञानस्य च सन्मूलं भक्तिरव्यभिचारिणी ॥ ज्ञानस्यापि च सन्मूलं भक्तिरेवाऽभिधीयते ॥ ७३ ॥
विज्ञानस्य च सत्-मूलम् भक्तिः अव्यभिचारिणी ॥ ज्ञानस्य अपि च सत्-मूलम् भक्तिः एव अभिधीयते ॥ ७३ ॥
vijñānasya ca sat-mūlam bhaktiḥ avyabhicāriṇī .. jñānasya api ca sat-mūlam bhaktiḥ eva abhidhīyate .. 73 ..
भक्तेर्मूलं तु सत्कर्म स्वेष्टदेवादिपूजनम् ॥ तन्मूलं सद्गुरुः प्रोक्तस्तन्मूलं संगतिः सताम् ॥ ७४ ।'
भक्तेः मूलम् तु सत्कर्म स्व-इष्टदेव-आदि-पूजनम् ॥ तद्-मूलम् सत्-गुरुः प्रोक्तः तद्-मूलम् संगतिः सताम् ॥ ७४ ।
bhakteḥ mūlam tu satkarma sva-iṣṭadeva-ādi-pūjanam .. tad-mūlam sat-guruḥ proktaḥ tad-mūlam saṃgatiḥ satām .. 74 .
संगत्या गुरुराप्येत गुरोर्मंत्रादि पूजनम् ॥ पूजनाज्जायते भक्तिर्भक्त्या ज्ञानं प्रजायते ॥ ७४॥ ।
संगत्या गुरुः आप्येत गुरोः मंत्र-आदि पूजनम् ॥ पूजनात् जायते भक्तिः भक्त्या ज्ञानम् प्रजायते ॥ ७४॥ ।
saṃgatyā guruḥ āpyeta guroḥ maṃtra-ādi pūjanam .. pūjanāt jāyate bhaktiḥ bhaktyā jñānam prajāyate .. 74.. .
विज्ञानं जायते ज्ञानात्परब्रह्मप्रकाशकम् ॥ विज्ञानं च यदा जातं तदा भेदो निवर्तते ॥ ७६॥
विज्ञानम् जायते ज्ञानात् पर-ब्रह्म-प्रकाशकम् ॥ विज्ञानम् च यदा जातम् तदा भेदः निवर्तते ॥ ७६॥
vijñānam jāyate jñānāt para-brahma-prakāśakam .. vijñānam ca yadā jātam tadā bhedaḥ nivartate .. 76..
भेदे निवृत्ते सकले द्वंद्वदुःखविहीनता ॥ द्वंद्वदुःखविहीनस्तु शिवरूपो भवत्यसौ ॥ ७७॥
भेदे निवृत्ते सकले द्वंद्व-दुःख-विहीन-ता ॥ द्वंद्व-दुःख-विहीनः तु शिव-रूपः भवति असौ ॥ ७७॥
bhede nivṛtte sakale dvaṃdva-duḥkha-vihīna-tā .. dvaṃdva-duḥkha-vihīnaḥ tu śiva-rūpaḥ bhavati asau .. 77..
द्वंद्वाप्राप्तौ न जायेतां सुखदुःखे विजानतः ॥ विहिताविहिते तस्य न स्यातां च सुरर्षयः ॥ ७८ ॥
द्वंद्व-अप्राप्तौ न जायेताम् सुख-दुःखे विजानतः ॥ विहित-अ विहिते तस्य न स्याताम् च सुर-ऋषयः ॥ ७८ ॥
dvaṃdva-aprāptau na jāyetām sukha-duḥkhe vijānataḥ .. vihita-a vihite tasya na syātām ca sura-ṛṣayaḥ .. 78 ..
ईदृशो विरलो लोके गृहाश्रमविवर्जितः ॥ यदि लोके भवत्यस्मिन्दर्शनात्पापहारकः ॥ ७९॥
ईदृशः विरलः लोके गृह-आश्रम-विवर्जितः ॥ यदि लोके भवति अस्मिन् दर्शनात् पाप-हारकः ॥ ७९॥
īdṛśaḥ viralaḥ loke gṛha-āśrama-vivarjitaḥ .. yadi loke bhavati asmin darśanāt pāpa-hārakaḥ .. 79..
तीर्थानि श्लाघयंतीह तादृशं ज्ञानवित्तमम् ॥ देवाश्च मुनयस्सर्वे परब्रह्मात्मकं शिवम् ॥ 2.1.12.८०॥
तीर्थानि श्लाघयंति इह तादृशम् ज्ञान-वित्तमम् ॥ देवाः च मुनयः सर्वे पर-ब्रह्म-आत्मकम् शिवम् ॥ २।१।१२।८०॥
tīrthāni ślāghayaṃti iha tādṛśam jñāna-vittamam .. devāḥ ca munayaḥ sarve para-brahma-ātmakam śivam .. 2.1.12.80..
तादृशानि न तीर्थानि न देवा मृच्छिलामयाः ॥ ते पुनंत्युरुकालेन विज्ञानी दर्शनादपि ॥ ८१॥
तादृशानि न तीर्थानि न देवाः मृद्-शिला-मयाः ॥ ते पुनंति उरु-कालेन विज्ञानी दर्शनात् अपि ॥ ८१॥
tādṛśāni na tīrthāni na devāḥ mṛd-śilā-mayāḥ .. te punaṃti uru-kālena vijñānī darśanāt api .. 81..
यावद्गृहाश्रमे तिष्ठेत्तावदाकारपूजनम् ॥ कुर्याच्छ्रेष्ठस्य सप्रीत्या सुरेषु खलु पंचसु ॥ ८२ ॥
यावत् गृह-आश्रमे तिष्ठेत् तावत्-आकार-पूजनम् ॥ कुर्यात् श्रेष्ठस्य स प्रीत्या सुरेषु खलु पंचसु ॥ ८२ ॥
yāvat gṛha-āśrame tiṣṭhet tāvat-ākāra-pūjanam .. kuryāt śreṣṭhasya sa prītyā sureṣu khalu paṃcasu .. 82 ..
अथवा च शिवः पूज्यो मूलमेकं विशिष्यते ॥ मूले सिक्ते तथा शाखास्तृप्तास्सत्यखिलास्सुराः॥ ८३ ॥
अथवा च शिवः पूज्यः मूलम् एकम् विशिष्यते ॥ मूले सिक्ते तथा शाखाः तृप्ताः सति अखिलाः सुराः॥ ८३ ॥
athavā ca śivaḥ pūjyaḥ mūlam ekam viśiṣyate .. mūle sikte tathā śākhāḥ tṛptāḥ sati akhilāḥ surāḥ.. 83 ..
शाखासु च सुतृप्तासु मूलं तृप्तं न कर्हिचित् ॥ एवं सर्वेषु तृप्तेषु सुरेषु मुनिसत्तमाः ॥ ८४॥
शाखासु च सु तृप्तासु मूलम् तृप्तम् न कर्हिचित् ॥ एवम् सर्वेषु तृप्तेषु सुरेषु मुनि-सत्तमाः ॥ ८४॥
śākhāsu ca su tṛptāsu mūlam tṛptam na karhicit .. evam sarveṣu tṛpteṣu sureṣu muni-sattamāḥ .. 84..
सर्वथा शिवतृप्तिर्नो विज्ञेया सूक्ष्मबुद्धिभिः ॥ शिवे च पूजिते देवाः पूजितास्सर्व एव हि॥ ८५॥
सर्वथा शिव-तृप्तिः नः विज्ञेया सूक्ष्म-बुद्धिभिः ॥ शिवे च पूजिते देवाः पूजिताः सर्वे एव हि॥ ८५॥
sarvathā śiva-tṛptiḥ naḥ vijñeyā sūkṣma-buddhibhiḥ .. śive ca pūjite devāḥ pūjitāḥ sarve eva hi.. 85..
तस्माच्च पूजयेद्देवं शंकरं लोकशंकरम् ॥ सर्वकामफलावाप्त्यै सर्वभूतहिते रतः ॥ ८६ ॥
तस्मात् च पूजयेत् देवम् शंकरम् लोक-शंकरम् ॥ सर्व-काम-फल-अवाप्त्यै सर्व-भूत-हिते रतः ॥ ८६ ॥
tasmāt ca pūjayet devam śaṃkaram loka-śaṃkaram .. sarva-kāma-phala-avāptyai sarva-bhūta-hite rataḥ .. 86 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्र संहितायां प्रथमखण्डे सृष्ट्युपाख्याने पूजाविधिवर्णने सारासारविचारवर्णनो नाम द्वादशोऽध्यायः ॥ १२ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्र-संहितायाम् प्रथम-खण्डे सृष्ट्युपाख्याने पूजाविधिवर्णने सारासारविचारवर्णनः नाम द्वादशः अध्यायः ॥ १२ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudra-saṃhitāyām prathama-khaṇḍe sṛṣṭyupākhyāne pūjāvidhivarṇane sārāsāravicāravarṇanaḥ nāma dvādaśaḥ adhyāyaḥ .. 12 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In