| |
|

This overlay will guide you through the buttons:

अतः परं प्रवक्ष्यामि पूजाविधिमनुत्तमम् ॥ श्रूयतामृषयो देवास्सर्वकामसुखावहम् ॥ १ ॥
अतस् परम् प्रवक्ष्यामि पूजा-विधिम् अनुत्तमम् ॥ श्रूयताम् ऋषयः देवाः सर्व-काम-सुख-आवहम् ॥ १ ॥
atas param pravakṣyāmi pūjā-vidhim anuttamam .. śrūyatām ṛṣayaḥ devāḥ sarva-kāma-sukha-āvaham .. 1 ..
ब्राह्मे मुहूर्ते चोत्थाय संस्मरेत्सांबकं शिवम् ॥ कुर्यात्तत्प्रार्थनां भक्त्या सांजलिर्नतमस्तकः ॥ २ ॥
ब्राह्मे मुहूर्ते च उत्थाय संस्मरेत् स अंबकम् शिवम् ॥ कुर्यात् तद्-प्रार्थनाम् भक्त्या स अंजलिः नत-मस्तकः ॥ २ ॥
brāhme muhūrte ca utthāya saṃsmaret sa aṃbakam śivam .. kuryāt tad-prārthanām bhaktyā sa aṃjaliḥ nata-mastakaḥ .. 2 ..
उत्तिष्ठोत्तिष्ठ देवेश उत्तिष्ठ हृदयेशय ॥ उत्तिष्ठ त्वमुमास्वामिन्ब्रह्माण्डे मंगलं कुरु ॥ ३ ॥
उत्तिष्ठ उत्तिष्ठ देवेशः उत्तिष्ठ हृदयेशय ॥ उत्तिष्ठ त्वम् उमास्वामिन् ब्रह्माण्डे मंगलम् कुरु ॥ ३ ॥
uttiṣṭha uttiṣṭha deveśaḥ uttiṣṭha hṛdayeśaya .. uttiṣṭha tvam umāsvāmin brahmāṇḍe maṃgalam kuru .. 3 ..
जानामि धर्मं न च मे प्रवृत्तिर्जानाम्यधर्मं न च मे निवृत्तिः ॥ त्वया महादेव हृदिस्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥ ४ ॥
जानामि धर्मम् न च मे प्रवृत्तिः जानामि अधर्मम् न च मे निवृत्तिः ॥ त्वया महादेव हृदिस्थितेन यथा नियुक्तः अस्मि तथा करोमि ॥ ४ ॥
jānāmi dharmam na ca me pravṛttiḥ jānāmi adharmam na ca me nivṛttiḥ .. tvayā mahādeva hṛdisthitena yathā niyuktaḥ asmi tathā karomi .. 4 ..
इत्युक्त्वा वचनं भक्त्या स्मृत्वा च गुरुपादके ॥ बहिर्गच्छेद्दक्षिणाशां त्यागार्थं मलमूत्रयोः ॥ ५ ॥
इति उक्त्वा वचनम् भक्त्या स्मृत्वा च गुरु-पादके ॥ बहिस् गच्छेत् दक्षिण-आशाम् त्याग-अर्थम् मल-मूत्रयोः ॥ ५ ॥
iti uktvā vacanam bhaktyā smṛtvā ca guru-pādake .. bahis gacchet dakṣiṇa-āśām tyāga-artham mala-mūtrayoḥ .. 5 ..
देहशुद्धिं ततः कृत्वा स मृज्जलविशोधनैः ॥ हस्तौ पादौ च प्रक्षाल्य दंतधावनमाचरेत् ॥ ६ ॥
देह-शुद्धिम् ततस् कृत्वा स मृद्-जल-विशोधनैः ॥ हस्तौ पादौ च प्रक्षाल्य दन्तधावनम् आचरेत् ॥ ६ ॥
deha-śuddhim tatas kṛtvā sa mṛd-jala-viśodhanaiḥ .. hastau pādau ca prakṣālya dantadhāvanam ācaret .. 6 ..
दिवानाथे त्वनुदिते कृत्वा वै दंतधावनम्॥ मुखं षोडशवारं तु प्रक्षाल्यांजलिभिस्तथा ॥ ७ ॥
दिवानाथे तु अनुदिते कृत्वा वै दंतधावनम्॥ मुखम् षोडश-वारम् तु प्रक्षाल्य अंजलिभिः तथा ॥ ७ ॥
divānāthe tu anudite kṛtvā vai daṃtadhāvanam.. mukham ṣoḍaśa-vāram tu prakṣālya aṃjalibhiḥ tathā .. 7 ..
षष्ठ्याद्यमाश्च तिथयो नवम्यर्कदिने तथा ॥ वर्ज्यास्सुरर्षयो यत्नाद्भक्तेन रदधावने ॥ ८॥
षष्ठ्यात् यमाः च तिथयः नवमी-अर्क-दिने तथा ॥ वर्ज्याः सुर-ऋषयः यत्नात् भक्तेन रद-धावने ॥ ८॥
ṣaṣṭhyāt yamāḥ ca tithayaḥ navamī-arka-dine tathā .. varjyāḥ sura-ṛṣayaḥ yatnāt bhaktena rada-dhāvane .. 8..
यथावकाशं सुस्नायान्नद्यादिष्वथवा गृहे ॥ देशकालाविरुद्धं च स्नानं कार्यं नरेण च ॥ ९॥
यथावकाशम् सुस्नायात् नदी-आदिषु अथवा गृहे ॥ देश-काल-अविरुद्धम् च स्नानम् कार्यम् नरेण च ॥ ९॥
yathāvakāśam susnāyāt nadī-ādiṣu athavā gṛhe .. deśa-kāla-aviruddham ca snānam kāryam nareṇa ca .. 9..
रवेर्दिने तथा श्राद्धे संक्रान्तौ ग्रहणे तथा ॥ महादाने तथा तीर्थे ह्युपवासदिने तथा॥ 2.1.13.१०॥
रवेः दिने तथा श्राद्धे संक्रान्तौ ग्रहणे तथा ॥ महा-दाने तथा तीर्थे हि उपवास-दिने तथा॥ २।१।१३।१०॥
raveḥ dine tathā śrāddhe saṃkrāntau grahaṇe tathā .. mahā-dāne tathā tīrthe hi upavāsa-dine tathā.. 2.1.13.10..
अशौचेप्यथवा प्राप्ते न स्नायादुष्णवारिणा ॥ यथा साभिमुखंस्नायात्तीर्थादौ भक्तिमान्नरः ॥ ११ ॥
अशौचे इपि अथवा प्राप्ते न स्नायात् उष्ण-वारिणा ॥ यथा स अभिमुखम् स्नायात् तीर्थ-आदौ भक्तिमान् नरः ॥ ११ ॥
aśauce ipi athavā prāpte na snāyāt uṣṇa-vāriṇā .. yathā sa abhimukham snāyāt tīrtha-ādau bhaktimān naraḥ .. 11 ..
तैलाभ्यंगं च कुर्वीत वारान्दृष्ट्वा क्रमेण च ॥ नित्यमभ्यंगके चैव वासितं वा न दूषितम्॥ १२॥
तैल-अभ्यंगम् च कुर्वीत वारान् दृष्ट्वा क्रमेण च ॥ नित्यम् अभ्यंगके च एव वासितम् वा न दूषितम्॥ १२॥
taila-abhyaṃgam ca kurvīta vārān dṛṣṭvā krameṇa ca .. nityam abhyaṃgake ca eva vāsitam vā na dūṣitam.. 12..
श्राद्धे च ग्रहणे चैवोपवासे प्रतिपद्दिने ॥ अथवा सार्षपं तैलं न दुष्येद्ग्रहणं विना ॥ १३॥
श्राद्धे च ग्रहणे च एव उपवासे प्रतिपद्-दिने ॥ अथवा सार्षपम् तैलम् न दुष्येत् ग्रहणम् विना ॥ १३॥
śrāddhe ca grahaṇe ca eva upavāse pratipad-dine .. athavā sārṣapam tailam na duṣyet grahaṇam vinā .. 13..
देशं कालं विचार्यैवं स्नानं कुर्याद्यथा विधि ॥ उत्तराभिमुखश्चैव प्राङ्मुखोप्यथवा पुनः॥ १४ ॥
देशम् कालम् विचार्य एवम् स्नानम् कुर्यात् यथा विधि ॥ उत्तर-अभिमुखः च एव प्राच्-मुखः अपि अथवा पुनर्॥ १४ ॥
deśam kālam vicārya evam snānam kuryāt yathā vidhi .. uttara-abhimukhaḥ ca eva prāc-mukhaḥ api athavā punar.. 14 ..
उच्छिष्टेनैव वस्त्रेण न स्नायात्स कदाचन ॥ शुद्धवस्त्रेण संस्नायात्तद्देवस्मरपूर्वकम् ॥ १५ ॥
उच्छिष्टेन एव वस्त्रेण न स्नायात् स कदाचन ॥ शुद्ध-वस्त्रेण संस्नायात् तत् देव-स्मर-पूर्वकम् ॥ १५ ॥
ucchiṣṭena eva vastreṇa na snāyāt sa kadācana .. śuddha-vastreṇa saṃsnāyāt tat deva-smara-pūrvakam .. 15 ..
परधार्य्यं च नोच्छिष्टं रात्रौ च विधृतं च यत् ॥ तेन स्नानं तथा कार्यं क्षालितं च परित्यजेत् ॥ १६ ॥
पर-धार्य्यम् च न उच्छिष्टम् रात्रौ च विधृतम् च यत् ॥ तेन स्नानम् तथा कार्यम् क्षालितम् च परित्यजेत् ॥ १६ ॥
para-dhāryyam ca na ucchiṣṭam rātrau ca vidhṛtam ca yat .. tena snānam tathā kāryam kṣālitam ca parityajet .. 16 ..
तर्पणं च ततः कार्यं देवर्षिपितृतृप्तिदम् ॥ धौतवस्त्रं ततो धार्यं पुनराचमनं चरेत् ॥ १७॥
तर्पणम् च ततस् कार्यम् देव-ऋषि-पितृ-तृप्ति-दम् ॥ धौत-वस्त्रम् ततस् धार्यम् पुनर् आचमनम् चरेत् ॥ १७॥
tarpaṇam ca tatas kāryam deva-ṛṣi-pitṛ-tṛpti-dam .. dhauta-vastram tatas dhāryam punar ācamanam caret .. 17..
शुचौ देशे ततो गत्वा गोमयाद्युपमार्जिते ॥ आसनं च शुभं तत्र रचनीयं द्विजोत्तमाः ॥ १८ ॥
शुचौ देशे ततस् गत्वा गोमय-आदि-उपमार्जिते ॥ आसनम् च शुभम् तत्र रचनीयम् द्विजोत्तमाः ॥ १८ ॥
śucau deśe tatas gatvā gomaya-ādi-upamārjite .. āsanam ca śubham tatra racanīyam dvijottamāḥ .. 18 ..
शुद्धकाष्ठसमुत्पन्नं पूर्णं स्तरितमेव वा ॥ चित्रासनं तथा कुर्यात्सर्वकामफलप्र दम् ॥ १९॥
शुद्ध-काष्ठ-समुत्पन्नम् पूर्णम् स्तरितम् एव वा ॥ चित्रासनम् तथा कुर्यात् सर्व-काम-फल-प्र-दम् ॥ १९॥
śuddha-kāṣṭha-samutpannam pūrṇam staritam eva vā .. citrāsanam tathā kuryāt sarva-kāma-phala-pra-dam .. 19..
यथायोग्यं पुनर्ग्राह्यं मृगचर्मादिकं च यत् ॥ तत्रोपविश्य कुर्वीत त्रिपुंड्रं भस्मना सुधीः ॥ 2.1.13.२०॥
यथायोग्यम् पुनर् ग्राह्यम् मृग-चर्म-आदिकम् च यत् ॥ तत्र उपविश्य कुर्वीत त्रिपुंड्रम् भस्मना सुधीः ॥ २।१।१३।२०॥
yathāyogyam punar grāhyam mṛga-carma-ādikam ca yat .. tatra upaviśya kurvīta tripuṃḍram bhasmanā sudhīḥ .. 2.1.13.20..
जपस्तपस्तथा दानं त्रिपुण्ड्रात्सफलं भवेत् ॥ अभावे भस्मनस्तत्र जलस्यादि प्रकीर्तितम् ॥ २१॥
जपः तपः तथा दानम् त्रिपुण्ड्रात् सफलम् भवेत् ॥ अभावे भस्मनः तत्र जलस्य आदि प्रकीर्तितम् ॥ २१॥
japaḥ tapaḥ tathā dānam tripuṇḍrāt saphalam bhavet .. abhāve bhasmanaḥ tatra jalasya ādi prakīrtitam .. 21..
एवं कृत्वा त्रिपुंड्रं च रुद्राक्षान्धारयेन्नरः ॥ संपाद्य च स्वकं कर्म पुनराराधयेच्छिवम् ॥ २२ ॥
एवम् कृत्वा त्रिपुंड्रम् च रुद्राक्षान् धारयेत् नरः ॥ संपाद्य च स्वकम् कर्म पुनर् आराधयेत् शिवम् ॥ २२ ॥
evam kṛtvā tripuṃḍram ca rudrākṣān dhārayet naraḥ .. saṃpādya ca svakam karma punar ārādhayet śivam .. 22 ..
पुनराचमनं कृत्वा त्रिवारं मंत्रपूर्वकम् ॥ एकं वाथ प्रकुर्याच्च गंगाबिन्दुरिति ब्रुवन्॥ २३॥
पुनर् आचमनम् कृत्वा त्रि-वारम् मंत्र-पूर्वकम् ॥ एकम् वा अथ प्रकुर्यात् च गंगाबिन्दुः इति ब्रुवन्॥ २३॥
punar ācamanam kṛtvā tri-vāram maṃtra-pūrvakam .. ekam vā atha prakuryāt ca gaṃgābinduḥ iti bruvan.. 23..
अन्नोदकं तथा तत्र शिवपूजार्थमाहरेत् ॥ अन्यद्वस्तु च यत्किंचिद्यथाशक्ति समीपगम् ॥ २४॥
अन्न-उदकम् तथा तत्र शिव-पूजा-अर्थम् आहरेत् ॥ अन्यत् वस्तु च यत् किंचिद् यथाशक्ति समीप-गम् ॥ २४॥
anna-udakam tathā tatra śiva-pūjā-artham āharet .. anyat vastu ca yat kiṃcid yathāśakti samīpa-gam .. 24..
कृत्वा स्थेयं च तत्रैव धैर्यमास्थाय वै पुनः ॥ अर्घं पात्रं तथा चैकं जलगंधाक्षतैर्युतम् ॥ २५ ॥
कृत्वा स्थेयम् च तत्र एव धैर्यम् आस्थाय वै पुनर् ॥ अर्घम् पात्रम् तथा च एकम् जल-गंध-अक्षतैः युतम् ॥ २५ ॥
kṛtvā stheyam ca tatra eva dhairyam āsthāya vai punar .. argham pātram tathā ca ekam jala-gaṃdha-akṣataiḥ yutam .. 25 ..
दक्षिणांसे तथा स्थाप्यमुपचारस्य क्लृप्तये ॥ गुरोश्च स्मरणं कृत्वा तदनुज्ञामवाप्य च ॥ २६ ॥
दक्षिण-अंसे तथा स्थाप्यम् उपचारस्य क्लृप्तये ॥ गुरोः च स्मरणम् कृत्वा तद्-अनुज्ञाम् अवाप्य च ॥ २६ ॥
dakṣiṇa-aṃse tathā sthāpyam upacārasya klṛptaye .. guroḥ ca smaraṇam kṛtvā tad-anujñām avāpya ca .. 26 ..
संकल्पं विधिवत्कृत्वा कामनां च नियुज्य वै ॥ पूजयेत्परया भक्त्या शिवं सपरिवारकम् ॥ २७॥
संकल्पम् विधिवत् कृत्वा कामनाम् च नियुज्य वै ॥ पूजयेत् परया भक्त्या शिवम् स परिवारकम् ॥ २७॥
saṃkalpam vidhivat kṛtvā kāmanām ca niyujya vai .. pūjayet parayā bhaktyā śivam sa parivārakam .. 27..
मुद्रामेकां प्रदर्श्यैव पूजयेद्विघ्नहारकम्॥ सिंदुरादिपदार्थैश्च सिद्धिबुद्धिसमन्वितम् ॥ २८॥
मुद्राम् एकाम् प्रदर्श्य एव पूजयेत् विघ्न-हारकम्॥ सिंदुर-आदि-पदार्थैः च सिद्धि-बुद्धि-समन्वितम् ॥ २८॥
mudrām ekām pradarśya eva pūjayet vighna-hārakam.. siṃdura-ādi-padārthaiḥ ca siddhi-buddhi-samanvitam .. 28..
लक्षलाभयुतं तत्र पूजयित्वा नमेत्पुनः॥ चतुर्थ्यंतैर्नामपदैर्नमोन्तैः प्रणवादिभिः ॥ २९॥
लक्ष-लाभ-युतम् तत्र पूजयित्वा नमेत् पुनर्॥ चतुर्थी-अंतैः नाम-पदैः नमः-न्तैः प्रणव-आदिभिः ॥ २९॥
lakṣa-lābha-yutam tatra pūjayitvā namet punar.. caturthī-aṃtaiḥ nāma-padaiḥ namaḥ-ntaiḥ praṇava-ādibhiḥ .. 29..
क्षमाप्यैनं तदा देवं भ्रात्रा चैव समन्वितम् ॥ पूजयेत्परया भक्त्या नमस्कुर्यात्पुनः पुनः ॥ 2.1.13.३० ॥
क्षमाप्य एनम् तदा देवम् भ्रात्रा च एव समन्वितम् ॥ पूजयेत् परया भक्त्या नमस्कुर्यात् पुनर् पुनर् ॥ २।१।१३।३० ॥
kṣamāpya enam tadā devam bhrātrā ca eva samanvitam .. pūjayet parayā bhaktyā namaskuryāt punar punar .. 2.1.13.30 ..
द्वारपालं सदा द्वारि तिष्ठंतं च महोदरम् ॥ पूजयित्वा ततः पश्चात्पूजयेद्गिरिजां सतीम् ॥ ३१॥
द्वारपालम् सदा द्वारि तिष्ठन्तम् च महोदरम् ॥ पूजयित्वा ततस् पश्चात् पूजयेत् गिरिजाम् सतीम् ॥ ३१॥
dvārapālam sadā dvāri tiṣṭhantam ca mahodaram .. pūjayitvā tatas paścāt pūjayet girijām satīm .. 31..
चंदनैः कुंकुमैश्चैव धूपैर्दीपैरनेकशः ॥ नैवेद्यैर्विविधैश्चैव पूजयित्वा ततश्शिवम्॥ ३२॥
चंदनैः कुंकुमैः च एव धूपैः दीपैः अनेकशस् ॥ नैवेद्यैः विविधैः च एव पूजयित्वा ततस् शिवम्॥ ३२॥
caṃdanaiḥ kuṃkumaiḥ ca eva dhūpaiḥ dīpaiḥ anekaśas .. naivedyaiḥ vividhaiḥ ca eva pūjayitvā tatas śivam.. 32..
नमस्कृत्य पुनस्तत्र गच्छेच्च शिवसन्निधौ॥ यदि गेहे पार्थिवीं वा हैमीं वा राजतीं तथा ॥ ३३ ॥
नमस्कृत्य पुनर् तत्र गच्छेत् च शिव-सन्निधौ॥ यदि गेहे पार्थिवीम् वा हैमीम् वा राजतीम् तथा ॥ ३३ ॥
namaskṛtya punar tatra gacchet ca śiva-sannidhau.. yadi gehe pārthivīm vā haimīm vā rājatīm tathā .. 33 ..
धातुजन्यां तथैवान्यां पारदां वा प्रकल्पयेत् ॥ नमस्कृत्य पुनस्तां च पूजयेद्भक्तितत्परः ॥ ३४॥
धातु-जन्याम् तथा एव अन्याम् पारदाम् वा प्रकल्पयेत् ॥ नमस्कृत्य पुनर् ताम् च पूजयेत् भक्ति-तत्परः ॥ ३४॥
dhātu-janyām tathā eva anyām pāradām vā prakalpayet .. namaskṛtya punar tām ca pūjayet bhakti-tatparaḥ .. 34..
तस्यां तु पूजितायां वै सर्वे स्युः पूजितास्तदा ॥ स्थापयेच्च मृदा लिंगं विधाय विधिपूर्वकम् ॥ ३५॥
तस्याम् तु पूजितायाम् वै सर्वे स्युः पूजिताः तदा ॥ स्थापयेत् च मृदा लिंगम् विधाय विधि-पूर्वकम् ॥ ३५॥
tasyām tu pūjitāyām vai sarve syuḥ pūjitāḥ tadā .. sthāpayet ca mṛdā liṃgam vidhāya vidhi-pūrvakam .. 35..
कर्तव्यं सर्वथा तत्र नियमास्स्वगृहे स्थितैः ॥ प्राणप्रतिष्ठां कुर्वीत भूतशुद्धिं विधाय च ॥ ३६॥
कर्तव्यम् सर्वथा तत्र नियमाः स्व-गृहे स्थितैः ॥ प्राण-प्रतिष्ठाम् कुर्वीत भूतशुद्धिम् विधाय च ॥ ३६॥
kartavyam sarvathā tatra niyamāḥ sva-gṛhe sthitaiḥ .. prāṇa-pratiṣṭhām kurvīta bhūtaśuddhim vidhāya ca .. 36..
दिक्पालान्पूजयेत्तत्र स्थापयित्वा शिवालये ॥ गृहे शिवस्सदा पूज्यो मूलमंत्राभियोगतः ॥ ३७॥
दिक्पालान् पूजयेत् तत्र स्थापयित्वा शिवालये ॥ गृहे शिवः सदा पूज्यः मूलमंत्र-अभियोगतः ॥ ३७॥
dikpālān pūjayet tatra sthāpayitvā śivālaye .. gṛhe śivaḥ sadā pūjyaḥ mūlamaṃtra-abhiyogataḥ .. 37..
तत्र तु द्वारपालानां नियमो नास्ति सर्वथा ॥ गृहे लिंगं च यत्पूज्यं तस्मिन्सर्वं प्रतिष्ठितम् ॥ ३८ ॥
तत्र तु द्वारपालानाम् नियमः ना अस्ति सर्वथा ॥ गृहे लिंगम् च यत् पूज्यम् तस्मिन् सर्वम् प्रतिष्ठितम् ॥ ३८ ॥
tatra tu dvārapālānām niyamaḥ nā asti sarvathā .. gṛhe liṃgam ca yat pūjyam tasmin sarvam pratiṣṭhitam .. 38 ..
पूजाकाले च सांगं वै परिवारेण संयुतम् ॥ आवाह्य पूजयेद्देवं नियमोऽत्र न विद्यते ॥ ३९ ॥
पूजा-काले च स अंगम् वै परिवारेण संयुतम् ॥ आवाह्य पूजयेत् देवम् नियमः अत्र न विद्यते ॥ ३९ ॥
pūjā-kāle ca sa aṃgam vai parivāreṇa saṃyutam .. āvāhya pūjayet devam niyamaḥ atra na vidyate .. 39 ..
शिवस्य संनिधिं कृत्वा स्वासनं परिकल्पयेत् ॥ उदङ्मुखस्तदा स्थित्वा पुनराचमनं चरेत् ॥ 2.1.13.४० ॥
शिवस्य संनिधिम् कृत्वा स्व-आसनम् परिकल्पयेत् ॥ उदक्-मुखः तदा स्थित्वा पुनर् आचमनम् चरेत् ॥ २।१।१३।४० ॥
śivasya saṃnidhim kṛtvā sva-āsanam parikalpayet .. udak-mukhaḥ tadā sthitvā punar ācamanam caret .. 2.1.13.40 ..
प्रक्षाल्य हस्तौ पश्चाद्वै प्राणायामं प्रकल्पयेत् ॥ मूलमंत्रेण तत्रैव दशावर्तं नयेन्नरः ॥ ४१ ॥
प्रक्षाल्य हस्तौ पश्चात् वै प्राणायामम् प्रकल्पयेत् ॥ मूलमंत्रेण तत्र एव दश-आवर्तम् नयेत् नरः ॥ ४१ ॥
prakṣālya hastau paścāt vai prāṇāyāmam prakalpayet .. mūlamaṃtreṇa tatra eva daśa-āvartam nayet naraḥ .. 41 ..
पंचमुद्राः प्रकर्तव्याः पूजावश्यं करेप्सिताः ॥ एता मुद्राः प्रदर्श्यैव चरेत्पूजाविधिं नरः ॥ ४२॥
पंचमुद्राः प्रकर्तव्याः पूजा-वश्यम् कर-ईप्सिताः ॥ एताः मुद्राः प्रदर्श्य एव चरेत् पूजा-विधिम् नरः ॥ ४२॥
paṃcamudrāḥ prakartavyāḥ pūjā-vaśyam kara-īpsitāḥ .. etāḥ mudrāḥ pradarśya eva caret pūjā-vidhim naraḥ .. 42..
दीपं कृत्वा तदा तत्र नमस्कारं गुरोरथ ॥ बध्वा पद्मासनं तत्र भद्रासनमथापि वा ॥ ४३ ॥
दीपम् कृत्वा तदा तत्र नमस्कारम् गुरोः अथ ॥ बध्वा पद्मासनम् तत्र भद्रासनम् अथ अपि वा ॥ ४३ ॥
dīpam kṛtvā tadā tatra namaskāram guroḥ atha .. badhvā padmāsanam tatra bhadrāsanam atha api vā .. 43 ..
उत्तानासनकं कृत्वा पर्यंकासनकं तथा ॥ यथासुखं तथा स्थित्वा प्रयोगं पुनरेव च ॥ ४४॥
उत्तान-आसनकम् कृत्वा पर्यंक-आसनकम् तथा ॥ यथासुखम् तथा स्थित्वा प्रयोगम् पुनर् एव च ॥ ४४॥
uttāna-āsanakam kṛtvā paryaṃka-āsanakam tathā .. yathāsukham tathā sthitvā prayogam punar eva ca .. 44..
कृत्वा पूजां पुराजातां वट्टकेनैव तारयेत् ॥ यदि वा स्वयमेवेह गृहे न नियमोऽस्ति च ॥ ४५॥
कृत्वा पूजाम् पुरा जाताम् वट्टकेन एव तारयेत् ॥ यदि वा स्वयम् एवा इह गृहे न नियमः अस्ति च ॥ ४५॥
kṛtvā pūjām purā jātām vaṭṭakena eva tārayet .. yadi vā svayam evā iha gṛhe na niyamaḥ asti ca .. 45..
पश्चाच्चैवार्घपात्रेण क्षारयेल्लिंगमुत्तमम् ॥ अनन्यमानसो भूत्वा पूजाद्रव्यं निधाय च ॥ ४६॥
पश्चात् च एव अर्घपात्रेण क्षारयेत् लिंगम् उत्तमम् ॥ अन् अन्य-मानसः भूत्वा पूजा-द्रव्यम् निधाय च ॥ ४६॥
paścāt ca eva arghapātreṇa kṣārayet liṃgam uttamam .. an anya-mānasaḥ bhūtvā pūjā-dravyam nidhāya ca .. 46..
पश्चाच्चावाहयेद्देवं मंत्रेणानेन वै नरः ॥ कैलासशिखरस्थं च पार्वतीपतिमुत्तमम् ॥ ४७ ॥
पश्चात् च आवाहयेत् देवम् मंत्रेण अनेन वै नरः ॥ कैलास-शिखर-स्थम् च पार्वतीपतिम् उत्तमम् ॥ ४७ ॥
paścāt ca āvāhayet devam maṃtreṇa anena vai naraḥ .. kailāsa-śikhara-stham ca pārvatīpatim uttamam .. 47 ..
यथोक्तरूपिणं शंभुं निर्गुणं गुणरूपिणम् ॥ पंचवक्त्रं दशभुजं त्रिनेत्रं वृषभध्वजम् ॥ ४८ ॥
यथा उक्त-रूपिणम् शंभुम् निर्गुणम् गुण-रूपिणम् ॥ पंचवक्त्रम् दश-भुजम् त्रिनेत्रम् वृषभध्वजम् ॥ ४८ ॥
yathā ukta-rūpiṇam śaṃbhum nirguṇam guṇa-rūpiṇam .. paṃcavaktram daśa-bhujam trinetram vṛṣabhadhvajam .. 48 ..
कर्पूरगौरं दिव्यांगं चन्द्रमौलिं कपर्दिनम् ॥ व्याघ्रचर्मोत्तरीयं च गजचर्माम्बरं शुभम् ॥ ४९ ॥
कर्पूर-गौरम् दिव्य-अंगम् चन्द्रमौलिम् कपर्दिनम् ॥ व्याघ्र-चर्म-उत्तरीयम् च गज-चर्म-अम्बरम् शुभम् ॥ ४९ ॥
karpūra-gauram divya-aṃgam candramaulim kapardinam .. vyāghra-carma-uttarīyam ca gaja-carma-ambaram śubham .. 49 ..
वासुक्यादिपरीतांगं पिनाकाद्यायुधान्वितम् ॥ ।सिद्धयोऽष्टौ च यस्याग्रे नृत्यंतीह निरंतरम् ॥ 2.1.13.५० ॥
वासुकि-आदि-परीत-अंगम् पिनाक-आदि-आयुध-अन्वितम् ॥ ।सिद्धयः अष्टौ च यस्य अग्रे नृत्यंति इह निरंतरम् ॥ २।१।१३।५० ॥
vāsuki-ādi-parīta-aṃgam pināka-ādi-āyudha-anvitam .. .siddhayaḥ aṣṭau ca yasya agre nṛtyaṃti iha niraṃtaram .. 2.1.13.50 ..
जयजयेति शब्दश्च सेवितं भक्त पूजकैः ॥ तेजसा दुःसहेनैव दुर्लक्ष्यं देवसेवितम् ॥ ५१ ॥
जय जय इति शब्दः च सेवितम् भक्त-पूजकैः ॥ तेजसा दुःसहेन एव दुर्लक्ष्यम् देव-सेवितम् ॥ ५१ ॥
jaya jaya iti śabdaḥ ca sevitam bhakta-pūjakaiḥ .. tejasā duḥsahena eva durlakṣyam deva-sevitam .. 51 ..
शरण्यं सर्वसत्त्वानां प्रसन्नमुखपंकजम् ॥ वेदैश्शास्त्रैर्यथा गीतं विष्णुब्रह्मनुतं सदा ॥ ५२ ॥
शरण्यम् सर्व-सत्त्वानाम् प्रसन्न-मुख-पंकजम् ॥ वेदैः शास्त्रैः यथा गीतम् विष्णु-ब्रह्म-नुतम् सदा ॥ ५२ ॥
śaraṇyam sarva-sattvānām prasanna-mukha-paṃkajam .. vedaiḥ śāstraiḥ yathā gītam viṣṇu-brahma-nutam sadā .. 52 ..
भक्तवत्सलमानंदं शिवमावाहयाम्यहम्॥ एवं ध्वात्वा शिवं साम्बमासनं परिकल्पयेत् ॥ ५३॥
भक्त-वत्सलम् आनंदम् शिवम् आवाहयामि अहम्॥ एवम् ध्वात्वा शिवम् स अम्बम् आसनम् परिकल्पयेत् ॥ ५३॥
bhakta-vatsalam ānaṃdam śivam āvāhayāmi aham.. evam dhvātvā śivam sa ambam āsanam parikalpayet .. 53..
चतुर्थ्यंतपदेनैव सर्वं कुर्याद्यथाक्रमम् ॥ ततः पाद्यं प्रदद्याद्वै ततोर्घ्यं शंकराय च ॥ ५४॥
चतुर्थी-अंत-पदेन एव सर्वम् कुर्यात् यथाक्रमम् ॥ ततस् पाद्यम् प्रदद्यात् वै ततस् अर्घ्यम् शंकराय च ॥ ५४॥
caturthī-aṃta-padena eva sarvam kuryāt yathākramam .. tatas pādyam pradadyāt vai tatas arghyam śaṃkarāya ca .. 54..
ततश्चाचमनं कृत्वा शंभवे परमात्मने ॥ पश्चाच्च पंचभिर्द्रव्यैः स्नापयेच्छंकरं मुदा ॥ ५५॥
ततस् च आचमनम् कृत्वा शंभवे परमात्मने ॥ पश्चात् च पंचभिः द्रव्यैः स्नापयेत् शंकरम् मुदा ॥ ५५॥
tatas ca ācamanam kṛtvā śaṃbhave paramātmane .. paścāt ca paṃcabhiḥ dravyaiḥ snāpayet śaṃkaram mudā .. 55..
वेदमंत्रैर्यथायोग्यं नामभिर्वा समंत्रकैः ॥ चतुर्थ्यंतपदैर्भक्त्या द्रव्याण्येवार्पयेत्तदा ॥ ५६॥
वेद-मंत्रैः यथायोग्यम् नामभिः वा स मंत्रकैः ॥ चतुर्थी-अंत-पदैः भक्त्या द्रव्याणि एव अर्पयेत् तदा ॥ ५६॥
veda-maṃtraiḥ yathāyogyam nāmabhiḥ vā sa maṃtrakaiḥ .. caturthī-aṃta-padaiḥ bhaktyā dravyāṇi eva arpayet tadā .. 56..
तथाभिलषितं द्रव्यमर्पयेच्छंकरोपरि ॥ ततश्च वारुणं स्नानं करणीयं शिवाय वै ॥ ५७॥
तथा अभिलषितम् द्रव्यम् अर्पयेत् शंकर-उपरि ॥ ततस् च वारुणम् स्नानम् करणीयम् शिवाय वै ॥ ५७॥
tathā abhilaṣitam dravyam arpayet śaṃkara-upari .. tatas ca vāruṇam snānam karaṇīyam śivāya vai .. 57..
सुगंधं चंदनं दद्यादन्यलेपानि यत्नतः ॥ ससुगंधजलेनैव जलधारां प्रकल्पयेत् ॥ ५८॥
सुगंधम् चंदनम् दद्यात् अन्य-लेपानि यत्नतः ॥ स सुगंध-जलेन एव जल-धाराम् प्रकल्पयेत् ॥ ५८॥
sugaṃdham caṃdanam dadyāt anya-lepāni yatnataḥ .. sa sugaṃdha-jalena eva jala-dhārām prakalpayet .. 58..
वेदमंत्रैः षडंगैर्वा नामभी रुद्रसंख्यया ॥ यथावकाशं तां दत्वा वस्त्रेण मार्जयेत्ततः ॥ ५९ ॥
वेद-मंत्रैः षष्-अंगैः वा नामभिः रुद्र-संख्यया ॥ यथावकाशम् ताम् द-त्वा वस्त्रेण मार्जयेत् ततस् ॥ ५९ ॥
veda-maṃtraiḥ ṣaṣ-aṃgaiḥ vā nāmabhiḥ rudra-saṃkhyayā .. yathāvakāśam tām da-tvā vastreṇa mārjayet tatas .. 59 ..
पश्चादाचमनं दद्यात्ततो वस्त्रं समर्पयेत ॥ तिलाश्चैव जवा वापि गोधूमा मुद्गमाषकाः ॥ 2.1.13.६०॥
पश्चात् आचमनम् दद्यात् ततस् वस्त्रम् समर्पयेत ॥ तिलाः च एव जवाः वा अपि गोधूमाः मुद्ग-माषकाः ॥ २।१।१३।६०॥
paścāt ācamanam dadyāt tatas vastram samarpayeta .. tilāḥ ca eva javāḥ vā api godhūmāḥ mudga-māṣakāḥ .. 2.1.13.60..
अर्पणीयाः शिवायैव मंत्रैर्नानाविधैरपि॥ ततः पुष्पाणि देयानि पंचास्याय महात्मने ॥ ६१ ॥
अर्पणीयाः शिवाय एव मंत्रैः नानाविधैः अपि॥ ततस् पुष्पाणि देयानि पंचास्याय महात्मने ॥ ६१ ॥
arpaṇīyāḥ śivāya eva maṃtraiḥ nānāvidhaiḥ api.. tatas puṣpāṇi deyāni paṃcāsyāya mahātmane .. 61 ..
प्रतिवक्त्रं यथाध्यानं यथायोग्याभिलाषतः ॥ कमलैश्शतपत्रैश्च शंखपुष्पैः परैस्तथा ॥ ६२॥
प्रतिवक्त्रम् यथाध्यानम् यथायोग्य-अभिलाषतः ॥ कमलैः शतपत्रैः च शंख-पुष्पैः परैः तथा ॥ ६२॥
prativaktram yathādhyānam yathāyogya-abhilāṣataḥ .. kamalaiḥ śatapatraiḥ ca śaṃkha-puṣpaiḥ paraiḥ tathā .. 62..
कुशपुष्पैश्च धत्तूरैर्मंदारैर्द्रोणसंभवैः ॥ तथा च तुलसीपत्रैर्बिल्वपत्रैर्विशेषतः ॥ ६३॥
कुश-पुष्पैः च धत्तूरैः मंदारैः द्रोण-संभवैः ॥ तथा च तुलसी-पत्रैः बिल्व-पत्रैः विशेषतः ॥ ६३॥
kuśa-puṣpaiḥ ca dhattūraiḥ maṃdāraiḥ droṇa-saṃbhavaiḥ .. tathā ca tulasī-patraiḥ bilva-patraiḥ viśeṣataḥ .. 63..
पूजयेत्परया भक्त्या शंकरं भक्तवत्सलम् ॥ सर्वाभावे बिल्वपत्रमपर्णीयं शिवाय वै ॥ ६४॥
पूजयेत् परया भक्त्या शंकरम् भक्त-वत्सलम् ॥ सर्व-अभावे बिल्व-पत्रम् अपर्णीयम् शिवाय वै ॥ ६४॥
pūjayet parayā bhaktyā śaṃkaram bhakta-vatsalam .. sarva-abhāve bilva-patram aparṇīyam śivāya vai .. 64..
बिल्वपत्रार्पणेनैव सर्वपूजा प्रसिध्यति ॥ ततस्सुगंधचूर्णं वै वासितं तैलमुत्तमम् ॥ ६५ ॥
बिल्व-पत्र-अर्पणेन एव सर्व-पूजा प्रसिध्यति ॥ ततस् सुगंध-चूर्णम् वै वासितम् तैलम् उत्तमम् ॥ ६५ ॥
bilva-patra-arpaṇena eva sarva-pūjā prasidhyati .. tatas sugaṃdha-cūrṇam vai vāsitam tailam uttamam .. 65 ..
अर्पणीयं च विविधं शिवाय परया मुदा ॥ ततो धूपं प्रकर्तव्यो गुग्गुलागुरुभिर्मुदा ॥ ६६॥
अर्पणीयम् च विविधम् शिवाय परया मुदा ॥ ततस् धूपम् प्रकर्तव्यः गुग्गुल-अगुरुभिः मुदा ॥ ६६॥
arpaṇīyam ca vividham śivāya parayā mudā .. tatas dhūpam prakartavyaḥ guggula-agurubhiḥ mudā .. 66..
दीपो देयस्ततस्तस्मै शंकराय घृतप्लुतः ॥ अर्घं दद्यात्पुनस्तस्मै मंत्रेणानेन भक्तितः ॥ ६७॥
दीपः देयः ततस् तस्मै शंकराय घृत-प्लुतः ॥ अर्घम् दद्यात् पुनर् तस्मै मंत्रेण अनेन भक्तितः ॥ ६७॥
dīpaḥ deyaḥ tatas tasmai śaṃkarāya ghṛta-plutaḥ .. argham dadyāt punar tasmai maṃtreṇa anena bhaktitaḥ .. 67..
कारयेद्भावतो भक्त्या वस्त्रेण मुखमार्जनम् ॥ रूपं देहि यशो देहि भोगं देहि च शंकर॥ ६८॥
कारयेत् भावतः भक्त्या वस्त्रेण मुख-मार्जनम् ॥ रूपम् देहि यशः देहि भोगम् देहि च शंकर॥ ६८॥
kārayet bhāvataḥ bhaktyā vastreṇa mukha-mārjanam .. rūpam dehi yaśaḥ dehi bhogam dehi ca śaṃkara.. 68..
भुक्तिमुक्तिफलं देहि गृहीत्वार्घं नमोस्तु ते॥ ततो देयं शिवायैव नैवेद्यं विविधं शुभम्॥ ६९॥
भुक्ति-मुक्ति-फलम् देहि गृहीत्वा अर्घम् नमः अस्तु ते॥ ततस् देयम् शिवाय एव नैवेद्यम् विविधम् शुभम्॥ ६९॥
bhukti-mukti-phalam dehi gṛhītvā argham namaḥ astu te.. tatas deyam śivāya eva naivedyam vividham śubham.. 69..
तत आचमनं प्रीत्या कारयेद्वा विलम्बतः ॥ ततश्शिवाय ताम्बूलं सांगोपाङ्गं विधाय च ॥ 2.1.13.७०॥
ततस् आचमनम् प्रीत्या कारयेत् वा विलम्बतः ॥ ततस् शिवाय ताम्बूलम् स अंग-उपाङ्गम् विधाय च ॥ २।१।१३।७०॥
tatas ācamanam prītyā kārayet vā vilambataḥ .. tatas śivāya tāmbūlam sa aṃga-upāṅgam vidhāya ca .. 2.1.13.70..
कुर्यादारार्तिकं पञ्चवर्तिकामनुसंख्यया ॥ पादयोश्च चतुर्वारं द्विःकृत्वो नाभिमण्डले ॥ ७१ ॥
कुर्यात् आरार्तिकम् पञ्च-वर्तिकाम् अनुसंख्यया ॥ पादयोः च चतुर्-वारम् द्विस् कृत्वस् नाभि-मण्डले ॥ ७१ ॥
kuryāt ārārtikam pañca-vartikām anusaṃkhyayā .. pādayoḥ ca catur-vāram dvis kṛtvas nābhi-maṇḍale .. 71 ..
एककृत्वे मुखे सप्तकृत्वः सर्वाङ्गं एव हि ॥ ततो ध्यानं यथोक्तं वै कृत्वा मंत्रमुदीरयेत् ॥ ७२ ॥
एक-कृत्वे मुखे सप्त-कृत्वस् सर्व-अङ्गम् एव हि ॥ ततस् ध्यानम् यथोक्तम् वै कृत्वा मंत्रम् उदीरयेत् ॥ ७२ ॥
eka-kṛtve mukhe sapta-kṛtvas sarva-aṅgam eva hi .. tatas dhyānam yathoktam vai kṛtvā maṃtram udīrayet .. 72 ..
यथासंख्यं यथाज्ञानं कुर्यान्मंत्रविधिन्नरः ॥ गुरूपदिष्टमार्गेण कृत्वा मंत्रजपं सुधीः ॥ ७३ ॥
यथासंख्यम् यथाज्ञानम् कुर्यात् मंत्र-विधिन् नरः ॥ गुरु-उपदिष्ट-मार्गेण कृत्वा मंत्र-जपम् सुधीः ॥ ७३ ॥
yathāsaṃkhyam yathājñānam kuryāt maṃtra-vidhin naraḥ .. guru-upadiṣṭa-mārgeṇa kṛtvā maṃtra-japam sudhīḥ .. 73 ..
गुरूपदिष्टमार्गेण कृत्वा मन्त्रमुदीरयेत् ॥ यथासंख्यं यथाज्ञानं कुर्यान्मंत्रविधिन्नरः ॥ ७४ ॥
गुरु-उपदिष्ट-मार्गेण कृत्वा मन्त्रम् उदीरयेत् ॥ यथासंख्यम् यथाज्ञानम् कुर्यात् मंत्र-विधिन् नरः ॥ ७४ ॥
guru-upadiṣṭa-mārgeṇa kṛtvā mantram udīrayet .. yathāsaṃkhyam yathājñānam kuryāt maṃtra-vidhin naraḥ .. 74 ..
स्तोत्रैर्नानाविधैः प्रीत्या स्तुवीत वृषभध्वजम् ॥ ततः प्रदक्षिणां कुर्याच्छिवस्य च शनैश्शनैः ॥ ७५ ॥
स्तोत्रैः नानाविधैः प्रीत्या स्तुवीत वृषभध्वजम् ॥ ततस् प्रदक्षिणाम् कुर्यात् शिवस्य च शनैस् शनैस् ॥ ७५ ॥
stotraiḥ nānāvidhaiḥ prītyā stuvīta vṛṣabhadhvajam .. tatas pradakṣiṇām kuryāt śivasya ca śanais śanais .. 75 ..
नमस्कारांस्ततः कुर्यात्साष्टांगं विधिवत्पुमान् ॥ ततः पुष्पांजलिदेंयो मंत्रेणानेन भक्तितः॥ ७६॥
नमस्कारान् ततस् कुर्यात् स अष्टांगम् विधिवत् पुमान् ॥ ततस् पुष्प-अंजलि-देंयः मंत्रेण अनेन भक्तितः॥ ७६॥
namaskārān tatas kuryāt sa aṣṭāṃgam vidhivat pumān .. tatas puṣpa-aṃjali-deṃyaḥ maṃtreṇa anena bhaktitaḥ.. 76..
शंकराय परेशाय शिवसंतोषहेतवे॥ अज्ञानाद्यदि वा ज्ञानाद्यद्यत्पूजादिकं मया ॥ ७७ ॥
शंकराय परेशाय शिव-संतोष-हेतवे॥ अज्ञानात् यदि वा ज्ञानात् यत् यत् पूजा-आदिकम् मया ॥ ७७ ॥
śaṃkarāya pareśāya śiva-saṃtoṣa-hetave.. ajñānāt yadi vā jñānāt yat yat pūjā-ādikam mayā .. 77 ..
कृतं तदस्तु सफलं कृपया तव शंकर ॥ तावकस्त्वद्गतप्राण त्वच्चित्तोहं सदा मृड ॥ ७८ ॥
कृतम् तत् अस्तु सफलम् कृपया तव शंकर ॥ तावकः त्वद्-गत-प्राण त्वद्-चित्तः ऊहम् सदा मृड ॥ ७८ ॥
kṛtam tat astu saphalam kṛpayā tava śaṃkara .. tāvakaḥ tvad-gata-prāṇa tvad-cittaḥ ūham sadā mṛḍa .. 78 ..
इति विज्ञाय गौरीश भूतनाथ प्रसीद मे ॥ भूमौ स्खलितवादानां भूमिरेवावलंबनम् ॥ ७९॥
इति विज्ञाय गौरीश भूतनाथ प्रसीद मे ॥ भूमौ स्खलित-वादानाम् भूमिः एव अवलंबनम् ॥ ७९॥
iti vijñāya gaurīśa bhūtanātha prasīda me .. bhūmau skhalita-vādānām bhūmiḥ eva avalaṃbanam .. 79..
त्वयि जातापराधानां त्वमेव शरणं प्रभो ॥ इत्यादि बहु विज्ञप्तिं कृत्वा सम्यग्विधानतः ॥ 2.1.13.८०॥
त्वयि जात-अपराधानाम् त्वम् एव शरणम् प्रभो ॥ इत्यादि बहु विज्ञप्तिम् कृत्वा सम्यक् विधानतः ॥ २।१।१३।८०॥
tvayi jāta-aparādhānām tvam eva śaraṇam prabho .. ityādi bahu vijñaptim kṛtvā samyak vidhānataḥ .. 2.1.13.80..
पुष्पांजलिं समर्प्यैव पुनः कुर्यान्नतिं मुहुः॥ स्वस्थानं गच्छ देवेश परिवारयुतः प्रभो॥ ७१॥
पुष्प-अंजलिम् समर्प्य एव पुनर् कुर्यात् नतिम् मुहुर्॥ स्व-स्थानम् गच्छ देवेश परिवार-युतः प्रभो॥ ७१॥
puṣpa-aṃjalim samarpya eva punar kuryāt natim muhur.. sva-sthānam gaccha deveśa parivāra-yutaḥ prabho.. 71..
पूजाकाले पुनर्नाथ त्वया गंतव्यमादरात्॥ इति संप्रार्थ्य वहुशश्शंकरं भक्तवत्सलम्॥ ८२॥
पूजा-काले पुनर् नाथ त्वया गंतव्यम् आदरात्॥ इति संप्रार्थ्य वहुशस् शंकरम् भक्त-वत्सलम्॥ ८२॥
pūjā-kāle punar nātha tvayā gaṃtavyam ādarāt.. iti saṃprārthya vahuśas śaṃkaram bhakta-vatsalam.. 82..
विसर्जयेत्स्वहृदये तदपो मूर्ध्नि विन्यसेत्॥ इति प्रोक्तमशेषेण मुनयः शिवपूजनम् ॥ भुक्तिमुक्तिप्रदं चैव किमन्यच्छ्रोतुमर्हथ ॥ ८३॥
विसर्जयेत् स्व-हृदये तत् अपः मूर्ध्नि विन्यसेत्॥ इति प्रोक्तम् अशेषेण मुनयः शिव-पूजनम् ॥ भुक्ति-मुक्ति-प्रदम् च एव किम् अन्यत् श्रोतुम् अर्हथ ॥ ८३॥
visarjayet sva-hṛdaye tat apaḥ mūrdhni vinyaset.. iti proktam aśeṣeṇa munayaḥ śiva-pūjanam .. bhukti-mukti-pradam ca eva kim anyat śrotum arhatha .. 83..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने शिवपूजन वर्णनो नाम त्रयोदशोध्यायः ॥ १३ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् प्रथम-खंडे सृष्ट्युपाख्याने शिवपूजन-वर्णनः नाम त्रयोदशः उध्यायः ॥ १३ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām prathama-khaṃḍe sṛṣṭyupākhyāne śivapūjana-varṇanaḥ nāma trayodaśaḥ udhyāyaḥ .. 13 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In