| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।। ।।
व्यासशिष्य महाभाग कथय त्वं प्रमाणतः ॥ कैः पुष्पैः पूजितश्शंभुः किं किं यच्छति वै फलम् ॥ १॥
व्यास-शिष्य महाभाग कथय त्वम् प्रमाणतः ॥ कैः पुष्पैः पूजितः शंभुः किम् किम् यच्छति वै फलम् ॥ १॥
vyāsa-śiṣya mahābhāga kathaya tvam pramāṇataḥ .. kaiḥ puṣpaiḥ pūjitaḥ śaṃbhuḥ kim kim yacchati vai phalam .. 1..
।। सूत उवाच ।। ।।
शौनकाद्याश्च ऋषयः शृणुतादरतोऽखिलम् ॥ कथयाम्यद्य सुप्रीत्या पुष्पार्पणविनिर्णयम् ॥ २॥
शौनक-आद्याः च ऋषयः शृणुत आदरतः अखिलम् ॥ कथयामि अद्य सु प्रीत्या पुष्प-अर्पण-विनिर्णयम् ॥ २॥
śaunaka-ādyāḥ ca ṛṣayaḥ śṛṇuta ādarataḥ akhilam .. kathayāmi adya su prītyā puṣpa-arpaṇa-vinirṇayam .. 2..
एष एव विधिः पृष्टो नारदेन महर्षिणा ॥ प्रोवाच परमप्रीत्या पुष्पार्पणविनिर्णयम् ॥ ३॥
एषः एव विधिः पृष्टः नारदेन महा-ऋषिणा ॥ प्रोवाच परम-प्रीत्या पुष्प-अर्पण-विनिर्णयम् ॥ ३॥
eṣaḥ eva vidhiḥ pṛṣṭaḥ nāradena mahā-ṛṣiṇā .. provāca parama-prītyā puṣpa-arpaṇa-vinirṇayam .. 3..
ब्रह्मोवाच।।
कमलैर्बिल्वपत्रैश्च शतपत्रैस्तथा पुनः ॥ शंखपुष्पैस्तथा देवं लक्ष्मीकामोऽर्चयेच्छिवम् ॥ ४॥
कमलैः बिल्व-पत्रैः च शतपत्रैः तथा पुनर् ॥ शंख-पुष्पैः तथा देवम् लक्ष्मी-कामः अर्चयेत् शिवम् ॥ ४॥
kamalaiḥ bilva-patraiḥ ca śatapatraiḥ tathā punar .. śaṃkha-puṣpaiḥ tathā devam lakṣmī-kāmaḥ arcayet śivam .. 4..
एतैश्च लक्षसंख्याकैः पूजितश्चेद्भवेच्छिवः ॥ पापहानिस्तथा विप्र लक्ष्मीस्स्यान्नात्र संशयः ॥ ५॥
एतैः च लक्ष-संख्याकैः पूजितः चेद् भवेत् शिवः ॥ पाप-हानिः तथा विप्र लक्ष्मीः स्यात् न अत्र संशयः ॥ ५॥
etaiḥ ca lakṣa-saṃkhyākaiḥ pūjitaḥ ced bhavet śivaḥ .. pāpa-hāniḥ tathā vipra lakṣmīḥ syāt na atra saṃśayaḥ .. 5..
विंशतिः कमलानां तु प्रस्थमेकमुदाहृतम् ॥ बिल्वो दलसहस्रेण प्रस्थार्द्धं परिभाषितम् ॥ ६ ॥
विंशतिः कमलानाम् तु प्रस्थम् एकम् उदाहृतम् ॥ बिल्वः दल-सहस्रेण प्रस्थ-अर्द्धम् परिभाषितम् ॥ ६ ॥
viṃśatiḥ kamalānām tu prastham ekam udāhṛtam .. bilvaḥ dala-sahasreṇa prastha-arddham paribhāṣitam .. 6 ..
शतपत्रसहस्रेण प्रस्थार्द्धं परिभाषितम् ॥ पलैः षोडशभिः प्रत्थः पलं टंकदशस्मृतः ॥ ७ ॥
शत-पत्र-सहस्रेण प्रस्थ-अर्द्धम् परिभाषितम् ॥ ॥ ७ ॥
śata-patra-sahasreṇa prastha-arddham paribhāṣitam .. .. 7 ..
अनेनैव तु मानेन तुलामारोपयेद्यदा॥ सर्वान्कामानवाप्नोति निष्कामश्चेच्छिवो भवेत् ॥ ८॥
अनेन एव तु मानेन तुलाम् आरोपयेत् यदा॥ सर्वान् कामान् अवाप्नोति निष्कामः चेद् शिवः भवेत् ॥ ८॥
anena eva tu mānena tulām āropayet yadā.. sarvān kāmān avāpnoti niṣkāmaḥ ced śivaḥ bhavet .. 8..
राज्यस्य कामुको यो वै पार्थिवानां च पूजया ॥ तोषयेच्छंकरं देवं दशकोष्ट्या मुनीश्वराः ॥ ९ ॥
राज्यस्य कामुकः यः वै पार्थिवानाम् च पूजया ॥ तोषयेत् शंकरम् देवम् दश-कोष्ट्या मुनि-ईश्वराः ॥ ९ ॥
rājyasya kāmukaḥ yaḥ vai pārthivānām ca pūjayā .. toṣayet śaṃkaram devam daśa-koṣṭyā muni-īśvarāḥ .. 9 ..
लिंगं शिवं तथा पुष्पमखण्डं तंदुलं तथा ॥ चर्चितं चंदनेनैव जलधारां तथा पुनः ॥ 2.1.14.१० ॥
लिंगम् शिवम् तथा पुष्पम् अखण्डम् तंदुलम् तथा ॥ चर्चितम् चंदनेन एव जल-धाराम् तथा पुनर् ॥ २।१।१४।१० ॥
liṃgam śivam tathā puṣpam akhaṇḍam taṃdulam tathā .. carcitam caṃdanena eva jala-dhārām tathā punar .. 2.1.14.10 ..
प्रतिरूपं तथा मंत्रं बिल्वीदलमनुत्तमम् ॥ अथवा शतपत्रं च कमलं वा तथा पुनः ॥ ११॥
प्रतिरूपम् तथा मंत्रम् बिल्वी-दलम् अनुत्तमम् ॥ अथवा शतपत्रम् च कमलम् वा तथा पुनर् ॥ ११॥
pratirūpam tathā maṃtram bilvī-dalam anuttamam .. athavā śatapatram ca kamalam vā tathā punar .. 11..
शंखपुष्पैस्तथा प्रोक्तं विशेषेण पुरातनैः ॥ सर्वकामफलं दिव्यं परत्रेहापि सर्वथा ॥ १२॥
शंखपुष्पैः तथा प्रोक्तम् विशेषेण पुरातनैः ॥ सर्व-काम-फलम् दिव्यम् परत्र इह अपि सर्वथा ॥ १२॥
śaṃkhapuṣpaiḥ tathā proktam viśeṣeṇa purātanaiḥ .. sarva-kāma-phalam divyam paratra iha api sarvathā .. 12..
धूपं दीपं च नैवेद्यमर्घं चारार्तिक तथा ॥ प्रदक्षिणां नमस्कारं क्षमापनविसर्जने ॥ ३३ ॥
धूपम् दीपम् च नैवेद्यम् अर्घम् च आरार्तिक तथा ॥ प्रदक्षिणाम् नमस्कारम् क्षमापन-विसर्जने ॥ ३३ ॥
dhūpam dīpam ca naivedyam argham ca ārārtika tathā .. pradakṣiṇām namaskāram kṣamāpana-visarjane .. 33 ..
कृत्वा सांगं तथा भोज्यं कृतं येन भवेदिह ॥ तस्य वै सर्वथा राज्यं शंकरः प्रददाति च ॥ १४ ॥
कृत्वा स अंगम् तथा भोज्यम् कृतम् येन भवेत् इह ॥ तस्य वै सर्वथा राज्यम् शंकरः प्रददाति च ॥ १४ ॥
kṛtvā sa aṃgam tathā bhojyam kṛtam yena bhavet iha .. tasya vai sarvathā rājyam śaṃkaraḥ pradadāti ca .. 14 ..
प्रधान्यकामुको यो वै तदर्द्धेनार्चयेत्पुमान् ॥ कारागृहगतो यो वै लक्षेनैवार्चयेद्धनम् ॥ १५॥
प्रधान्य-कामुकः यः वै तद्-अर्द्धेन अर्चयेत् पुमान् ॥ कारा-गृह-गतः यः वै लक्षेन एव अर्चयेत् धनम् ॥ १५॥
pradhānya-kāmukaḥ yaḥ vai tad-arddhena arcayet pumān .. kārā-gṛha-gataḥ yaḥ vai lakṣena eva arcayet dhanam .. 15..
रोगग्रस्तो यदा स्याद्वै तदर्द्धेनार्चयेच्छिवम् ॥ कन्याकामो भवेद्यो वै तदर्द्धेन शिवं पुनः॥ १६॥
रोग-ग्रस्तः यदा स्यात् वै तद्-अर्द्धेन अर्चयेत् शिवम् ॥ कन्या-कामः भवेत् यः वै तद्-अर्द्धेन शिवम् पुनर्॥ १६॥
roga-grastaḥ yadā syāt vai tad-arddhena arcayet śivam .. kanyā-kāmaḥ bhavet yaḥ vai tad-arddhena śivam punar.. 16..
विद्याकामस्तथा यः स्यात्तदर्द्धेनार्चयेच्छिवम् ॥ वाणीकामो भवेद्यो वै घृतेनैवार्चयेच्छिवम् ॥ १७ ॥
विद्या-कामः तथा यः स्यात् तद्-अर्द्धेन अर्चयेत् शिवम् ॥ वाणी-कामः भवेत् यः वै घृतेन एव अर्चयेत् शिवम् ॥ १७ ॥
vidyā-kāmaḥ tathā yaḥ syāt tad-arddhena arcayet śivam .. vāṇī-kāmaḥ bhavet yaḥ vai ghṛtena eva arcayet śivam .. 17 ..
उच्चाटनार्थं शत्रूणां तन्मितेनैव पूजनम् ॥ मारणे वै तु लक्षेण मोहने तु तदर्धतः ॥ १८ ॥
उच्चाटन-अर्थम् शत्रूणाम् तत् मितेन एव पूजनम् ॥ मारणे वै तु लक्षेण मोहने तु तद्-अर्धतः ॥ १८ ॥
uccāṭana-artham śatrūṇām tat mitena eva pūjanam .. māraṇe vai tu lakṣeṇa mohane tu tad-ardhataḥ .. 18 ..
सामंतानां जये चैव कोटिपूजा प्रशस्यते ॥ राज्ञामयुतसंख्यं च वशीकरणकर्मणि ॥ १९॥
सामंतानाम् जये च एव कोटि-पूजा प्रशस्यते ॥ राज्ञाम् अयुत-संख्यम् च वशीकरण-कर्मणि ॥ १९॥
sāmaṃtānām jaye ca eva koṭi-pūjā praśasyate .. rājñām ayuta-saṃkhyam ca vaśīkaraṇa-karmaṇi .. 19..
यशसे च तथा संख्या वाहनाद्यैः सहस्रिका ॥ मुक्तिकामोर्चयेच्छंभुं पंचकोट्या सुभक्तितः ॥ 2.1.14.२० ॥
यशसे च तथा संख्या वाहन-आद्यैः सहस्रिका ॥ मुक्ति-कामा उर्चयेत् शंभुम् पंच-कोट्या सु भक्तितः ॥ २।१।१४।२० ॥
yaśase ca tathā saṃkhyā vāhana-ādyaiḥ sahasrikā .. mukti-kāmā urcayet śaṃbhum paṃca-koṭyā su bhaktitaḥ .. 2.1.14.20 ..
ज्ञानार्थी पूजयेत्कोट्या शंकरं लोक शंकरम् ॥ शिवदर्शनकामो वै तदर्धेन प्रपूजयेत् ॥ २१ ॥
ज्ञान-अर्थी पूजयेत् कोट्या शंकरम् लोक शंकरम् ॥ शिव-दर्शन-कामः वै तद्-अर्धेन प्रपूजयेत् ॥ २१ ॥
jñāna-arthī pūjayet koṭyā śaṃkaram loka śaṃkaram .. śiva-darśana-kāmaḥ vai tad-ardhena prapūjayet .. 21 ..
तथा मृत्युंजयो जाप्यः कामनाफलरूपतः ॥ पंचलक्षा जपा यर्हि प्रत्यक्षं तु भवेच्छिवः ॥ २२ ॥
तथा मृत्युंजयः जाप्यः कामना-फल-रूपतः ॥ पंच-लक्षाः जपाः यर्हि प्रत्यक्षम् तु भवेत् शिवः ॥ २२ ॥
tathā mṛtyuṃjayaḥ jāpyaḥ kāmanā-phala-rūpataḥ .. paṃca-lakṣāḥ japāḥ yarhi pratyakṣam tu bhavet śivaḥ .. 22 ..
लक्षेण भजते कश्चिद्द्वितीये जातिसंभवः ॥ तृतीये कामनालाभश्चतुर्थे तं प्रपश्यति ॥ २३ ॥
लक्षेण भजते कश्चिद् द्वितीये जाति-संभवः ॥ तृतीये कामना-लाभः चतुर्थे तम् प्रपश्यति ॥ २३ ॥
lakṣeṇa bhajate kaścid dvitīye jāti-saṃbhavaḥ .. tṛtīye kāmanā-lābhaḥ caturthe tam prapaśyati .. 23 ..
पंचमं च यदा लक्षं फलं यच्छत्यसंशयम् ॥ अनेनैव तु मंत्रेण दशलक्षे फलं भवेत् ॥ २४ ॥
पंचमम् च यदा लक्षम् फलम् यच्छति असंशयम् ॥ अनेन एव तु मंत्रेण दश-लक्षे फलम् भवेत् ॥ २४ ॥
paṃcamam ca yadā lakṣam phalam yacchati asaṃśayam .. anena eva tu maṃtreṇa daśa-lakṣe phalam bhavet .. 24 ..
मुक्तिकामो भवेद्यो वै दर्भैश्च पूजनं चरेत् ॥ लक्षसंख्या तु सर्वत्र ज्ञातव्या ऋषिसत्तम ॥ २५ ॥
मुक्ति-कामः भवेत् यः वै दर्भैः च पूजनम् चरेत् ॥ लक्ष-संख्या तु सर्वत्र ज्ञातव्या ऋषि-सत्तम ॥ २५ ॥
mukti-kāmaḥ bhavet yaḥ vai darbhaiḥ ca pūjanam caret .. lakṣa-saṃkhyā tu sarvatra jñātavyā ṛṣi-sattama .. 25 ..
आयुष्कामो भवेद्यो वै दूर्वाभिः पूजनश्चरेत् ॥ पुत्रकामो भवेद्यो वै धत्तूरकुसुमैश्चरेत् ॥ २६॥
आयुष्कामः भवेत् यः वै दूर्वाभिः पूजनः चरेत् ॥ पुत्र-कामः भवेत् यः वै धत्तूर-कुसुमैः चरेत् ॥ २६॥
āyuṣkāmaḥ bhavet yaḥ vai dūrvābhiḥ pūjanaḥ caret .. putra-kāmaḥ bhavet yaḥ vai dhattūra-kusumaiḥ caret .. 26..
रक्तदण्डश्च धत्तूरः पूजने शुभदः स्मृतः ॥ अगस्त्यकुसुमैश्चैव पूजकस्य महद्यशः ॥ २७॥
रक्तदण्डः च धत्तूरः पूजने शुभ-दः स्मृतः ॥ अगस्त्य-कुसुमैः च एव पूजकस्य महत् यशः ॥ २७॥
raktadaṇḍaḥ ca dhattūraḥ pūjane śubha-daḥ smṛtaḥ .. agastya-kusumaiḥ ca eva pūjakasya mahat yaśaḥ .. 27..
भुक्तिमुक्तिफलं तस्य तुलस्याः पूजयेद्यदि ॥ अर्कपुष्पैः प्रतापश्च कुब्जकल्हारकैस्तथा ॥ २८ ॥
भुक्ति-मुक्ति-फलम् तस्य तुलस्याः पूजयेत् यदि ॥ अर्क-पुष्पैः प्रतापः च कुब्ज-कल्हारकैः तथा ॥ २८ ॥
bhukti-mukti-phalam tasya tulasyāḥ pūjayet yadi .. arka-puṣpaiḥ pratāpaḥ ca kubja-kalhārakaiḥ tathā .. 28 ..
जपाकुसुमपूजा तु शत्रूणां मृत्युदा स्मृता ॥ रोगोच्चाटनकानीह करवीराणि वै क्रमात् ॥ २९॥
जपा-कुसुम-पूजा तु शत्रूणाम् मृत्यु-दा स्मृता ॥ रोग-उच्चाटनकानि इह करवीराणि वै क्रमात् ॥ २९॥
japā-kusuma-pūjā tu śatrūṇām mṛtyu-dā smṛtā .. roga-uccāṭanakāni iha karavīrāṇi vai kramāt .. 29..
बंधुकैर्भूषणावाप्तिर्जात्यावाहान्न संशयः ॥ अतसीपुष्पकैर्देवं विष्णुवल्लभतामियात्॥ ॥ 2.1.14.३०॥
बंधुकैः भूषण-अवाप्तिः जाति-आवाहात् न संशयः ॥ अतसी-पुष्पकैः देवम् विष्णु-वल्लभ-ताम् इयात्॥ ॥ २।१।१४।३०॥
baṃdhukaiḥ bhūṣaṇa-avāptiḥ jāti-āvāhāt na saṃśayaḥ .. atasī-puṣpakaiḥ devam viṣṇu-vallabha-tām iyāt.. .. 2.1.14.30..
शमीपत्रैस्तथा मुक्तिः प्राप्यते पुरुषेण च ॥ मल्लिकाकुसुमैर्दत्तैः स्त्रियं शुभतरां शिवः ॥ ३१॥
शमी-पत्रैः तथा मुक्तिः प्राप्यते पुरुषेण च ॥ मल्लिका-कुसुमैः दत्तैः स्त्रियम् शुभतराम् शिवः ॥ ३१॥
śamī-patraiḥ tathā muktiḥ prāpyate puruṣeṇa ca .. mallikā-kusumaiḥ dattaiḥ striyam śubhatarām śivaḥ .. 31..
यूथिकाकुसुमैश्शस्यैर्गृहं नैव विमुच्यते ॥ कर्णिकारैस्तथा वस्त्रसंपत्तिर्जायते नृणाम् ॥ ३२॥
यूथिका-कुसुमैः शस्यैः गृहम् ना एव विमुच्यते ॥ कर्णिकारैः तथा वस्त्र-संपत्तिः जायते नृणाम् ॥ ३२॥
yūthikā-kusumaiḥ śasyaiḥ gṛham nā eva vimucyate .. karṇikāraiḥ tathā vastra-saṃpattiḥ jāyate nṛṇām .. 32..
निर्गुण्डीकुसुमैर्लोके मनो निर्मलतां व्रजेत् ॥ बिल्वपत्रैस्तथा लक्षैः सर्वान्कामानवाप्नुयात् ॥ ३३॥
निर्गुण्डी-कुसुमैः लोके मनः निर्मल-ताम् व्रजेत् ॥ बिल्व-पत्रैः तथा लक्षैः सर्वान् कामान् अवाप्नुयात् ॥ ३३॥
nirguṇḍī-kusumaiḥ loke manaḥ nirmala-tām vrajet .. bilva-patraiḥ tathā lakṣaiḥ sarvān kāmān avāpnuyāt .. 33..
शृङ्गारहारपुष्पैस्तु वर्द्धते सुख सम्पदा ॥ ऋतुजातानि पुष्पाणि मुक्तिदानि न संशयः ॥ ३४ ॥
शृङ्गार-हार-पुष्पैः तु वर्द्धते सुख-सम्पदा ॥ ऋतु-जातानि पुष्पाणि मुक्ति-दानि न संशयः ॥ ३४ ॥
śṛṅgāra-hāra-puṣpaiḥ tu varddhate sukha-sampadā .. ṛtu-jātāni puṣpāṇi mukti-dāni na saṃśayaḥ .. 34 ..
राजिकाकुसुमानीह शत्रूणां मृत्युदानि च ॥ एषां लक्षं शिवे दद्याद्दद्याच्च विपुलं फलम् ॥ ३५॥
राजिका-कुसुमानि इह शत्रूणाम् मृत्यु-दानि च ॥ एषाम् लक्षम् शिवे दद्यात् दद्यात् च विपुलम् फलम् ॥ ३५॥
rājikā-kusumāni iha śatrūṇām mṛtyu-dāni ca .. eṣām lakṣam śive dadyāt dadyāt ca vipulam phalam .. 35..
विद्यते कुसुमं तन्न यन्नैव शिववल्लभम्॥ चंपकं केतकं हित्वा त्वन्यत्सर्वं समर्पयेत् ॥ ३६॥
विद्यते कुसुमम् तत् न यत् ना एव शिव-वल्लभम्॥ चंपकम् केतकम् हित्वा तु अन्यत् सर्वम् समर्पयेत् ॥ ३६॥
vidyate kusumam tat na yat nā eva śiva-vallabham.. caṃpakam ketakam hitvā tu anyat sarvam samarpayet .. 36..
अतः परं च धान्यानां पूजने शंकरस्य च ॥ प्रमाणं च फलं सर्वं प्रीत्या शृणु च सत्तम ॥ ३७ ॥
अतस् परम् च धान्यानाम् पूजने शंकरस्य च ॥ प्रमाणम् च फलम् सर्वम् प्रीत्या शृणु च सत्तम ॥ ३७ ॥
atas param ca dhānyānām pūjane śaṃkarasya ca .. pramāṇam ca phalam sarvam prītyā śṛṇu ca sattama .. 37 ..
तंदुलारोपणे नॄणां लक्ष्मी वृद्धिः प्रजायते ॥ अखण्डितविधौ विप्र सम्यग्भक्त्या शिवोपरि ॥ ३८॥
तंदुल-आरोपणे नॄणाम् लक्ष्मी वृद्धिः प्रजायते ॥ अखण्डित-विधौ विप्र सम्यक् भक्त्या शिव-उपरि ॥ ३८॥
taṃdula-āropaṇe nṝṇām lakṣmī vṛddhiḥ prajāyate .. akhaṇḍita-vidhau vipra samyak bhaktyā śiva-upari .. 38..
षट्केनैव तु प्रस्थानां तदर्धेन तथा पुनः ॥ पलद्वयं तथा लक्षमानेन समदाहृतम् ॥ ३९॥
षट्केन एव तु प्रस्थानाम् तद्-अर्धेन तथा पुनर् ॥ पल-द्वयम् तथा लक्ष-मानेन समदाहृतम् ॥ ३९॥
ṣaṭkena eva tu prasthānām tad-ardhena tathā punar .. pala-dvayam tathā lakṣa-mānena samadāhṛtam .. 39..
पूजां रुद्रप्रधानेन कृत्वा वस्त्रं सुसुन्दरम् ॥ शिवोपरि न्यसेत्तत्र तंदुलार्पणमुत्तमम् ॥ 2.1.14.४०
पूजाम् रुद्र-प्रधानेन कृत्वा वस्त्रम् सु सुन्दरम् ॥ शिव-उपरि न्यसेत् तत्र तंदुल-अर्पणम् उत्तमम् ॥ २।१।१४।४०
pūjām rudra-pradhānena kṛtvā vastram su sundaram .. śiva-upari nyaset tatra taṃdula-arpaṇam uttamam .. 2.1.14.40
उपरि श्रीफलं त्वेकं गंधपुष्पादिभिस्तथा ॥ रोपयित्वा च धूपादि कृत्वा पूजाफलं भवेत्॥ ॥ ४१ ॥
उपरि श्रीफलम् तु एकम् गंध-पुष्प-आदिभिः तथा ॥ रोपयित्वा च धूप-आदि कृत्वा पूजा-फलम् भवेत्॥ ॥ ४१ ॥
upari śrīphalam tu ekam gaṃdha-puṣpa-ādibhiḥ tathā .. ropayitvā ca dhūpa-ādi kṛtvā pūjā-phalam bhavet.. .. 41 ..
प्रजापत्यद्वयं रौप्यमासंख्या च दक्षिणा ॥ देया तदुपदेष्ट्रे हि शक्त्या वा दक्षिणा मता ॥ ४२ ॥
प्रजापत्य-द्वयम् रौप्यम् आसंख्या च दक्षिणा ॥ देया तद्-उपदेष्ट्रे हि शक्त्या वा दक्षिणा मता ॥ ४२ ॥
prajāpatya-dvayam raupyam āsaṃkhyā ca dakṣiṇā .. deyā tad-upadeṣṭre hi śaktyā vā dakṣiṇā matā .. 42 ..
आदित्यसंख्यया तत्र ब्राह्मणान्भोजयेत्ततः ॥ लक्षपूजा तथा जाता साङ्गश्च मन्त्रपूर्वकम् ॥ ४३ ॥
आदित्य-संख्यया तत्र ब्राह्मणान् भोजयेत् ततस् ॥ लक्ष-पूजा तथा जाता स अङ्गः च मन्त्र-पूर्वकम् ॥ ४३ ॥
āditya-saṃkhyayā tatra brāhmaṇān bhojayet tatas .. lakṣa-pūjā tathā jātā sa aṅgaḥ ca mantra-pūrvakam .. 43 ..
शतमष्टोत्तरं तत्र मंत्रे विधिरुदाहृतः॥ तिलानां च पलं लक्षं महापातकनाशनम् ॥ ४४ ॥
शतम् अष्ट-उत्तरम् तत्र मंत्रे विधिः उदाहृतः॥ तिलानाम् च पलम् लक्षम् महापातक-नाशनम् ॥ ४४ ॥
śatam aṣṭa-uttaram tatra maṃtre vidhiḥ udāhṛtaḥ.. tilānām ca palam lakṣam mahāpātaka-nāśanam .. 44 ..
एकादशपलैरेव लक्षमानमुदाहृतम् ॥ पूर्ववत्पूजनं तत्र कर्तव्यं हितकाम्यया ॥ ४५ ॥
एकादश-पलैः एव लक्ष-मानम् उदाहृतम् ॥ पूर्ववत् पूजनम् तत्र कर्तव्यम् हित-काम्यया ॥ ४५ ॥
ekādaśa-palaiḥ eva lakṣa-mānam udāhṛtam .. pūrvavat pūjanam tatra kartavyam hita-kāmyayā .. 45 ..
भोज्या वै ब्राह्मणास्तस्मादत्र कार्या नरेण हि ॥ महापातकजं दुखं तत्क्षणान्नश्यति ध्रुवम् ॥ ४६ ॥
भोज्याः वै ब्राह्मणाः तस्मात् अत्र कार्याः नरेण हि ॥ महापातक-जम् दुखम् तद्-क्षणात् नश्यति ध्रुवम् ॥ ४६ ॥
bhojyāḥ vai brāhmaṇāḥ tasmāt atra kāryāḥ nareṇa hi .. mahāpātaka-jam dukham tad-kṣaṇāt naśyati dhruvam .. 46 ..
यवपूजा तथा प्रोक्ता लक्षेण परमा शिवे ॥ प्रस्थानामष्टकं चैव तथा प्रस्थार्द्धकं पुनः ॥ ४७ ॥
यव-पूजा तथा प्रोक्ता लक्षेण परमा शिवे ॥ प्रस्थानाम् अष्टकम् च एव तथा प्रस्थ-अर्द्धकम् पुनर् ॥ ४७ ॥
yava-pūjā tathā proktā lakṣeṇa paramā śive .. prasthānām aṣṭakam ca eva tathā prastha-arddhakam punar .. 47 ..
पलद्वययुतं तत्र मानमेतत्पुरातनम् ॥ यवपूजा च मुनिभिः स्वर्गसौख्यविवर्द्धिनी ॥ ४८ ॥
पल-द्वय-युतम् तत्र मानम् एतत् पुरातनम् ॥ यव-पूजा च मुनिभिः स्वर्ग-सौख्य-विवर्द्धिनी ॥ ४८ ॥
pala-dvaya-yutam tatra mānam etat purātanam .. yava-pūjā ca munibhiḥ svarga-saukhya-vivarddhinī .. 48 ..
प्राजापत्यं ब्राह्मणानां कर्तव्यं च फलेप्सुभिः ॥ गोधूमान्नैस्तथा पूजा प्रशस्ता शंकरस्य वै ॥ ४९ ॥
प्राजापत्यम् ब्राह्मणानाम् कर्तव्यम् च फल-ईप्सुभिः ॥ गोधूम-अन्नैः तथा पूजा प्रशस्ता शंकरस्य वै ॥ ४९ ॥
prājāpatyam brāhmaṇānām kartavyam ca phala-īpsubhiḥ .. godhūma-annaiḥ tathā pūjā praśastā śaṃkarasya vai .. 49 ..
संततिर्वर्द्धते तस्य यदि लक्षावधिः कृता ॥ द्रोणार्द्धेन भवेल्लक्षं विधानं विधिपूर्वकम् ॥ 2.1.14.५० ॥
संततिः वर्द्धते तस्य यदि लक्ष-अवधिः कृता ॥ भवेत् ॥ २।१।१४।५० ॥
saṃtatiḥ varddhate tasya yadi lakṣa-avadhiḥ kṛtā .. bhavet .. 2.1.14.50 ..
मुद्गानां पूजने देवः शिवो यच्छति वै सुखम् ॥ प्रस्थानां सप्तकेनैव प्रस्थार्द्धेनाथवा पुनः ॥ ५१॥
मुद्गानाम् पूजने देवः शिवः यच्छति वै सुखम् ॥ प्रस्थानाम् सप्तकेन एव प्रस्थ-अर्द्धेन अथवा पुनर् ॥ ५१॥
mudgānām pūjane devaḥ śivaḥ yacchati vai sukham .. prasthānām saptakena eva prastha-arddhena athavā punar .. 51..
पलद्वययुतेनैव लक्षमुक्तं पुरातनैः ॥ ब्राह्मणाश्च तथा भोज्या रुद्रसंख्याप्रमाणतः ॥ ५२ ॥
पल-द्वय-युतेन एव लक्षम् उक्तम् पुरातनैः ॥ ब्राह्मणाः च तथा भोज्याः रुद्र-संख्या-प्रमाणतः ॥ ५२ ॥
pala-dvaya-yutena eva lakṣam uktam purātanaiḥ .. brāhmaṇāḥ ca tathā bhojyāḥ rudra-saṃkhyā-pramāṇataḥ .. 52 ..
प्रियंगुपूजनादेव धर्माध्यक्षे परात्मनि ॥ धर्मार्थकामा वर्द्धंते पूजा सर्वसुखावहा ॥ ५३ ॥
प्रियंगु-पूजनात् एव धर्म-अध्यक्षे परात्मनि ॥ धर्म-अर्थ-कामाः वर्द्धंते पूजा सर्व-सुख-आवहा ॥ ५३ ॥
priyaṃgu-pūjanāt eva dharma-adhyakṣe parātmani .. dharma-artha-kāmāḥ varddhaṃte pūjā sarva-sukha-āvahā .. 53 ..
प्रस्थैकेन च तस्योक्तं लक्षमेकं पुरातनैः॥ ब्रह्मभोजं तथा प्रोक्तमर्कसंख्याप्रमाणतः॥ ५४॥
प्रस्थ-एकेन च तस्य उक्तम् लक्षम् एकम् पुरातनैः॥ ब्रह्मभोजम् तथा प्रोक्तम् अर्क-संख्या-प्रमाणतः॥ ५४॥
prastha-ekena ca tasya uktam lakṣam ekam purātanaiḥ.. brahmabhojam tathā proktam arka-saṃkhyā-pramāṇataḥ.. 54..
राजिकापूजनं शंभोश्शत्रोर्मृत्युकरं स्मृतम्॥ सार्षपानां तथा लक्षं पलैर्विशतिसंख्यया ॥ ५५॥
राजिका-पूजनम् शंभोः शत्रोः मृत्यु-करम् स्मृतम्॥ सार्षपानाम् तथा लक्षम् पलैः विशति-संख्यया ॥ ५५॥
rājikā-pūjanam śaṃbhoḥ śatroḥ mṛtyu-karam smṛtam.. sārṣapānām tathā lakṣam palaiḥ viśati-saṃkhyayā .. 55..
तेषां च पूजनादेव शत्रोर्मृत्युरुदाहृतः ॥ आढकीनां दलैश्चैव शोभयित्वार्चयेच्छिवम्॥ ५६॥
तेषाम् च पूजनात् एव शत्रोः मृत्युः उदाहृतः ॥ आढकीनाम् दलैः च एव शोभयित्वा अर्चयेत् शिवम्॥ ५६॥
teṣām ca pūjanāt eva śatroḥ mṛtyuḥ udāhṛtaḥ .. āḍhakīnām dalaiḥ ca eva śobhayitvā arcayet śivam.. 56..
वृता गौश्च प्रदातव्या बलीवर्दस्तथैव च ॥ मरीचिसंभवा पूजा शत्रोर्नाशकरी स्मृता ॥ ५७ ॥
वृता गौः च प्रदातव्या बलीवर्दः तथा एव च ॥ मरीचि-संभवा पूजा शत्रोः नाश-करी स्मृता ॥ ५७ ॥
vṛtā gauḥ ca pradātavyā balīvardaḥ tathā eva ca .. marīci-saṃbhavā pūjā śatroḥ nāśa-karī smṛtā .. 57 ..
आढकीनां दलैश्चैव रंजयि त्वार्चयेच्छिवम् ॥ नानासुखकरी ह्येषा पूजा सर्वफलप्रदा ॥ ५८॥
आढकीनाम् दलैः च एव रंजयि त्वा अर्चयेत् शिवम् ॥ नाना सुख-करी हि एषा पूजा सर्व-फल-प्रदा ॥ ५८॥
āḍhakīnām dalaiḥ ca eva raṃjayi tvā arcayet śivam .. nānā sukha-karī hi eṣā pūjā sarva-phala-pradā .. 58..
धान्यमानमिति प्रोक्तं मया ते मुनिसत्तम ॥ लक्षमानं तु पुष्पाणां शृणु प्रीत्या मुनीश्वर ॥ ५९॥
धान्य-मानम् इति प्रोक्तम् मया ते मुनि-सत्तम ॥ लक्ष-मानम् तु पुष्पाणाम् शृणु प्रीत्या मुनि-ईश्वर ॥ ५९॥
dhānya-mānam iti proktam mayā te muni-sattama .. lakṣa-mānam tu puṣpāṇām śṛṇu prītyā muni-īśvara .. 59..
प्रस्थानां च तथा चैकं शंखपुष्पसमुद्भवम् ॥ प्रोक्तं व्यासेन लक्षं हि सूक्ष्ममानप्रदर्शिना ॥ 2.1.14.६०॥
प्रस्थानाम् च तथा च एकम् शंख-पुष्प-समुद्भवम् ॥ प्रोक्तम् व्यासेन लक्षम् हि सूक्ष्म-मान-प्रदर्शिना ॥ २।१।१४।६०॥
prasthānām ca tathā ca ekam śaṃkha-puṣpa-samudbhavam .. proktam vyāsena lakṣam hi sūkṣma-māna-pradarśinā .. 2.1.14.60..
प्रस्थैरेकादशैर्जातिलक्षमानं प्रकीर्तितम् ॥ यूथिकायास्तथा मानं राजिकायास्तदर्द्धकम् ॥ ६१ ॥
प्रस्थैः एकादशैः जाति-लक्ष-मानम् प्रकीर्तितम् ॥ यूथिकायाः तथा मानम् राजिकायाः तद्-अर्द्धकम् ॥ ६१ ॥
prasthaiḥ ekādaśaiḥ jāti-lakṣa-mānam prakīrtitam .. yūthikāyāḥ tathā mānam rājikāyāḥ tad-arddhakam .. 61 ..
प्रस्थैर्विंशतिकैश्चैव मल्लिकामान मुत्तमम् ॥ तिलपुष्पैस्तथा मानं प्रस्थान्न्यूनं तथैव च ॥ ६२॥
प्रस्थैः विंशतिकैः च एव मल्लिका-मानम् उत्तमम् ॥ तिल-पुष्पैः तथा मानम् प्रस्थात् न्यूनम् तथा एव च ॥ ६२॥
prasthaiḥ viṃśatikaiḥ ca eva mallikā-mānam uttamam .. tila-puṣpaiḥ tathā mānam prasthāt nyūnam tathā eva ca .. 62..
ततश्च द्विगुणं मानं करवीरभवे स्मृतम् ॥ निर्गुंडीकुसुमे मानं तथैव कथितं बुधैः ॥ ६३ ॥
ततस् च द्विगुणम् मानम् करवीर-भवे स्मृतम् ॥ निर्गुंडी-कुसुमे मानम् तथा एव कथितम् बुधैः ॥ ६३ ॥
tatas ca dviguṇam mānam karavīra-bhave smṛtam .. nirguṃḍī-kusume mānam tathā eva kathitam budhaiḥ .. 63 ..
कर्णिकारे तथा मानं शिरीषकुसुमे पुनः ॥ बंधुजीवे तथा मानं प्रस्थानं दशकेन च ॥ ६४॥
कर्णिकारे तथा मानम् शिरीष-कुसुमे पुनर् ॥ बंधुजीवे तथा मानम् प्रस्थानम् दशकेन च ॥ ६४॥
karṇikāre tathā mānam śirīṣa-kusume punar .. baṃdhujīve tathā mānam prasthānam daśakena ca .. 64..
इत्याद्यैर्विविधै मानं दृष्ट्वा कुर्याच्छिवार्चनम् ॥ सर्वकामसमृध्यर्थं मुक्त्यर्थं कामनोज्झितः ॥ ६५ ॥
इत्याद्यैः विविधैः मानम् दृष्ट्वा कुर्यात् शिव-अर्चनम् ॥ सर्व-काम-समृधि-अर्थम् मुक्ति-अर्थम् कामना-उज्झितः ॥ ६५ ॥
ityādyaiḥ vividhaiḥ mānam dṛṣṭvā kuryāt śiva-arcanam .. sarva-kāma-samṛdhi-artham mukti-artham kāmanā-ujjhitaḥ .. 65 ..
अतः परं प्रवक्ष्यामि धारापूजाफलं महत् ॥ यस्य श्रवणमात्रेण कल्याणं जायते नृणाम् ॥ ६६ ॥
अतस् परम् प्रवक्ष्यामि धारा-पूजा-फलम् महत् ॥ यस्य श्रवण-मात्रेण कल्याणम् जायते नृणाम् ॥ ६६ ॥
atas param pravakṣyāmi dhārā-pūjā-phalam mahat .. yasya śravaṇa-mātreṇa kalyāṇam jāyate nṛṇām .. 66 ..
विधानपूर्वकं पूजां कृत्वा भक्त्या शिवस्य वै ॥ पश्चाच्च जलधारा हि कर्तव्या भक्तितत्परैः ॥ ६७ ॥
विधान-पूर्वकम् पूजाम् कृत्वा भक्त्या शिवस्य वै ॥ पश्चात् च जल-धारा हि कर्तव्या भक्ति-तत्परैः ॥ ६७ ॥
vidhāna-pūrvakam pūjām kṛtvā bhaktyā śivasya vai .. paścāt ca jala-dhārā hi kartavyā bhakti-tatparaiḥ .. 67 ..
ज्वरप्रलापशांत्यर्थं जल धारा शुभावहा ॥ शतरुद्रियमंत्रेण रुद्रस्यैकादशेन तु ॥ ६८ ॥
ज्वर-प्रलाप-शांति-अर्थम् जल धारा शुभ-आवहा ॥ शतरुद्रिय-मंत्रेण रुद्रस्य एकादशेन तु ॥ ६८ ॥
jvara-pralāpa-śāṃti-artham jala dhārā śubha-āvahā .. śatarudriya-maṃtreṇa rudrasya ekādaśena tu .. 68 ..
रुद्रजाप्येन वा तत्र सूक्तेन् पौरुषेण वा ॥ षडंगेनाथ वा तत्र महामृत्युंजयेन च ॥ ६९ ॥
रुद्र-जाप्येन वा तत्र सूक्तेन पौरुषेण वा ॥ षडंगेन अथ वा तत्र महा-मृत्युंजयेन च ॥ ६९ ॥
rudra-jāpyena vā tatra sūktena pauruṣeṇa vā .. ṣaḍaṃgena atha vā tatra mahā-mṛtyuṃjayena ca .. 69 ..
गायत्र्या वा नमोंतैश्च नामभिः प्रणवादिभिः ॥ मंत्रैवाथागमोक्तैश्च जलधारादिकं तथा ॥ 2.1.14.७०॥
गायत्र्या वा नमः-ॐ तैः च नामभिः प्रणव-आदिभिः ॥ मंत्र-एव अथ आगम-उक्तैः च जल-धारा-आदिकम् तथा ॥ २।१।१४।७०॥
gāyatryā vā namaḥ-oṃ taiḥ ca nāmabhiḥ praṇava-ādibhiḥ .. maṃtra-eva atha āgama-uktaiḥ ca jala-dhārā-ādikam tathā .. 2.1.14.70..
सुखसंतानवृद्ध्यर्थं धारापूजनमुत्तमम् ॥ नानाद्रव्यैः शुभैर्दिव्यैः प्रीत्या सद्भस्मधारिणा ॥ ७१ ॥
सुख-संतान-वृद्धि-अर्थम् धारा-पूजनम् उत्तमम् ॥ नाना द्रव्यैः शुभैः दिव्यैः प्रीत्या सत्-भस्म-धारिणा ॥ ७१ ॥
sukha-saṃtāna-vṛddhi-artham dhārā-pūjanam uttamam .. nānā dravyaiḥ śubhaiḥ divyaiḥ prītyā sat-bhasma-dhāriṇā .. 71 ..
घृतधारा शिवे कार्या यावन्मंत्रसहस्रकम् ॥ तदा वंशस्य विस्तारो जायते नात्र संशयः ॥ ॥ ७२ ॥
घृत-धारा शिवे कार्या यावत् मंत्र-सहस्रकम् ॥ तदा वंशस्य विस्तारः जायते न अत्र संशयः ॥ ॥ ७२ ॥
ghṛta-dhārā śive kāryā yāvat maṃtra-sahasrakam .. tadā vaṃśasya vistāraḥ jāyate na atra saṃśayaḥ .. .. 72 ..
एवं मदुक्तमंत्रेण कार्यं वै शिवपूजनम् ॥ ब्रह्मभोज्यं तथा प्रोक्तं प्राजापत्यं मुनीश्वरैः ॥ ७३ ॥
एवम् मद्-उक्त-मंत्रेण कार्यम् वै शिव-पूजनम् ॥ ब्रह्म-भोज्यम् तथा प्रोक्तम् प्राजापत्यम् मुनि-ईश्वरैः ॥ ७३ ॥
evam mad-ukta-maṃtreṇa kāryam vai śiva-pūjanam .. brahma-bhojyam tathā proktam prājāpatyam muni-īśvaraiḥ .. 73 ..
केवलं दुग्धधारा च तदा कार्या विशेषतः ॥ शर्करामिश्रिता तत्र यदा बुद्धिजडो भवेत् ॥ ७४ ॥
केवलम् दुग्ध-धारा च तदा कार्या विशेषतः ॥ शर्करा-मिश्रिता तत्र यदा बुद्धि-जडः भवेत् ॥ ७४ ॥
kevalam dugdha-dhārā ca tadā kāryā viśeṣataḥ .. śarkarā-miśritā tatra yadā buddhi-jaḍaḥ bhavet .. 74 ..
तस्या संजायते जीवसदृशी बुद्धिरुत्तमा ॥ यावन्मंत्रायुतं न स्यात्तावद्धाराप्रपूजनम् ॥ ७५ ॥
संजायते जीव-सदृशी बुद्धिः उत्तमा ॥ यावत् मंत्र-अयुतम् न स्यात् तावत् धारा-प्रपूजनम् ॥ ७५ ॥
saṃjāyate jīva-sadṛśī buddhiḥ uttamā .. yāvat maṃtra-ayutam na syāt tāvat dhārā-prapūjanam .. 75 ..
यदा चोच्चाटनं देहे जायते कारणं विना ॥ यत्र कुत्रापि वा प्रेम दुःखं च परिवर्द्धितम् ॥ ७६ ॥
यदा च उच्चाटनम् देहे जायते कारणम् विना ॥ यत्र कुत्र अपि वा प्रेम दुःखम् च परिवर्द्धितम् ॥ ७६ ॥
yadā ca uccāṭanam dehe jāyate kāraṇam vinā .. yatra kutra api vā prema duḥkham ca parivarddhitam .. 76 ..
स्वगृहे कलहो नित्यं यदा चैव प्रजायते ॥ तद्धारायां कृतायां वै सर्वं दुःखं विलीयते ॥ ७७ ॥
स्व-गृहे कलहः नित्यम् यदा च एव प्रजायते ॥ तद्-धारायाम् कृतायाम् वै सर्वम् दुःखम् विलीयते ॥ ७७ ॥
sva-gṛhe kalahaḥ nityam yadā ca eva prajāyate .. tad-dhārāyām kṛtāyām vai sarvam duḥkham vilīyate .. 77 ..
शत्रूणां तापनार्थं वै तैलधारा शिवोपरि ॥ कर्तव्या सुप्रयत्नेन कार्यसिद्धिर्धुवं भवेत् ॥ ७८ ॥
शत्रूणाम् तापन-अर्थम् वै तैल-धारा शिव-उपरि ॥ कर्तव्या सु प्रयत्नेन कार्य-सिद्धिः धुवम् भवेत् ॥ ७८ ॥
śatrūṇām tāpana-artham vai taila-dhārā śiva-upari .. kartavyā su prayatnena kārya-siddhiḥ dhuvam bhavet .. 78 ..
मासि तेनैव तैलेन भोगवृद्धिः प्रजायते ॥ सार्षपेनैव तैलेन शत्रुनाशो -भवेद्ध्रुवम् ॥ ७९ ॥
मासि तेन एव तैलेन भोग-वृद्धिः प्रजायते ॥ सार्षपेन एव तैलेन शत्रु-नाशः भवेत् ध्रुवम् ॥ ७९ ॥
māsi tena eva tailena bhoga-vṛddhiḥ prajāyate .. sārṣapena eva tailena śatru-nāśaḥ bhavet dhruvam .. 79 ..
मधुना यक्षराजो वै गच्छेच्च शिवपूजनात ॥ धारा चेक्षुरसस्यापि सर्वानन्दकरी शिवे ॥ 2.1.14.८० ॥
मधुना यक्षराजः वै गच्छेत् च शिव-पूजनात् ॥ धारा च इक्षु-रसस्य अपि सर्व-आनन्द-करी शिवे ॥ २।१।१४।८० ॥
madhunā yakṣarājaḥ vai gacchet ca śiva-pūjanāt .. dhārā ca ikṣu-rasasya api sarva-ānanda-karī śive .. 2.1.14.80 ..
धारा गंगाजलस्यैव भुक्तिमुक्तिफलप्रदा ॥ एतास्सर्वाश्च याः प्रोक्ता मृत्यंजयसमुद्भवाः ॥ ८१ ॥
धारा गंगा-जलस्य एव भुक्ति-मुक्ति-फल-प्रदा ॥ एताः सर्वाः च याः प्रोक्ताः मृत्यंजय-समुद्भवाः ॥ ८१ ॥
dhārā gaṃgā-jalasya eva bhukti-mukti-phala-pradā .. etāḥ sarvāḥ ca yāḥ proktāḥ mṛtyaṃjaya-samudbhavāḥ .. 81 ..
तत्राऽयुतप्रमाणं हि कर्तव्यं तद्विधानतः ॥ कर्तव्यं ब्राह्मणानां च भोज्यं वै रुद्रसंख्यया ॥ ८२ ॥
तत्र अयुत-प्रमाणम् हि कर्तव्यम् तद्-विधानतः ॥ कर्तव्यम् ब्राह्मणानाम् च भोज्यम् वै रुद्र-संख्यया ॥ ८२ ॥
tatra ayuta-pramāṇam hi kartavyam tad-vidhānataḥ .. kartavyam brāhmaṇānām ca bhojyam vai rudra-saṃkhyayā .. 82 ..
एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं मुनीश्वर ॥ एतद्वै सफलं लोके सर्वकामहितावहम् ॥ ८३ ॥
एतत् ते सर्वम् आख्यातम् यत् पृष्टः अहम् मुनि-ईश्वर ॥ एतत् वै सफलम् लोके सर्व-काम-हित-आवहम् ॥ ८३ ॥
etat te sarvam ākhyātam yat pṛṣṭaḥ aham muni-īśvara .. etat vai saphalam loke sarva-kāma-hita-āvaham .. 83 ..
स्कंदोमासहितं शंभुं संपूज्य विधिना सह ॥ यत्फलं लभते भक्त्या तद्वदामि यथाश्रुतम् ॥ ८४ ॥
स्कंद-उमा-सहितम् शंभुम् संपूज्य विधिना सह ॥ यत् फलम् लभते भक्त्या तत् वदामि यथाश्रुतम् ॥ ८४ ॥
skaṃda-umā-sahitam śaṃbhum saṃpūjya vidhinā saha .. yat phalam labhate bhaktyā tat vadāmi yathāśrutam .. 84 ..
अत्र भुक्त्वाखिलं सौख्यं पुत्रपौत्रादिभिः शुभम् ॥ ततो याति महेशस्य लोकं सर्वसुखावहम् ॥ ८५॥ ।
अत्र भुक्त्वा अखिलम् सौख्यम् पुत्र-पौत्र-आदिभिः शुभम् ॥ ततस् याति महेशस्य लोकम् सर्व-सुख-आवहम् ॥ ८५॥ ।
atra bhuktvā akhilam saukhyam putra-pautra-ādibhiḥ śubham .. tatas yāti maheśasya lokam sarva-sukha-āvaham .. 85.. .
सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामगैः ॥ रुद्रकन्यासमाकीर्णैर्गेयवाद्यसमन्वितैः ॥ ८६॥
सूर्य-कोटि-प्रतीकाशैः विमानैः सर्व-कामगैः ॥ रुद्र-कन्या-समाकीर्णैः गेय-वाद्य-समन्वितैः ॥ ८६॥
sūrya-koṭi-pratīkāśaiḥ vimānaiḥ sarva-kāmagaiḥ .. rudra-kanyā-samākīrṇaiḥ geya-vādya-samanvitaiḥ .. 86..
क्रीडते शिवभूतश्च यावदाभूतसंप्लवम् ॥ ततो मोक्षमवाप्नोति विज्ञानं प्राप्य चाव्ययम् ॥ ८७ ॥
क्रीडते शिव-भूतः च यावत् आभूतसंप्लवम् ॥ ततस् मोक्षम् अवाप्नोति विज्ञानम् प्राप्य च अव्ययम् ॥ ८७ ॥
krīḍate śiva-bhūtaḥ ca yāvat ābhūtasaṃplavam .. tatas mokṣam avāpnoti vijñānam prāpya ca avyayam .. 87 ..
इति श्रीशिवमहापुराणे प्रथम खंडे द्वितीयायां रुद्रसंहितायां सृष्ट्युपाख्याने शिवपूजाविधानवर्णनो नाम चतुर्दशोऽध्यायः ॥ १४ ॥
इति श्री-शिव-महापुराणे प्रथम-खण्डे द्वितीयायाम् रुद्रसंहितायाम् सृष्ट्युपाख्याने शिवपूजाविधानवर्णनः नाम चतुर्दशः अध्यायः ॥ १४ ॥
iti śrī-śiva-mahāpurāṇe prathama-khaṇḍe dvitīyāyām rudrasaṃhitāyām sṛṣṭyupākhyāne śivapūjāvidhānavarṇanaḥ nāma caturdaśaḥ adhyāyaḥ .. 14 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In