| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
विधे विधे महाभाग धन्यस्त्वं सुरसत्तम ॥ श्राविताद्याद्भुता शैवकथा परमपावनी ॥ १ ॥
विधे विधे महाभाग धन्यः त्वम् सुर-सत्तम ॥ श्राविता आद्या अद्भुता शैव-कथा परम-पावनी ॥ १ ॥
vidhe vidhe mahābhāga dhanyaḥ tvam sura-sattama .. śrāvitā ādyā adbhutā śaiva-kathā parama-pāvanī .. 1 ..
तत्राद्भुता महादिव्या लिंगोत्पत्तिः श्रुता शुभा ॥ श्रुत्वा यस्याः प्रभावं च दुःखनाशो भवेदिह ॥ २ ॥
तत्र अद्भुता महा-दिव्या लिंग-उत्पत्तिः श्रुता शुभा ॥ श्रुत्वा यस्याः प्रभावम् च दुःख-नाशः भवेत् इह ॥ २ ॥
tatra adbhutā mahā-divyā liṃga-utpattiḥ śrutā śubhā .. śrutvā yasyāḥ prabhāvam ca duḥkha-nāśaḥ bhavet iha .. 2 ..
अनंतरं च यज्जातं माहात्म्यं चरितं तथा ॥ सृष्टेश्चैव प्रकारं च कथय त्वं विशेषतः ॥ ३ ॥
अनंतरम् च यत् जातम् माहात्म्यम् चरितम् तथा ॥ सृष्टेः च एव प्रकारम् च कथय त्वम् विशेषतः ॥ ३ ॥
anaṃtaram ca yat jātam māhātmyam caritam tathā .. sṛṣṭeḥ ca eva prakāram ca kathaya tvam viśeṣataḥ .. 3 ..
ब्रह्मोवाच ।।
सम्यक् पृष्टे च भवता यज्जातं तदनंतरम् ॥ कथयिष्यामि संक्षेपाद्यथा पूर्वं श्रुतं मया ॥ ४ ॥
सम्यक् पृष्टे च भवता यत् जातम् तत् अनंतरम् ॥ कथयिष्यामि संक्षेपात् यथा पूर्वम् श्रुतम् मया ॥ ४ ॥
samyak pṛṣṭe ca bhavatā yat jātam tat anaṃtaram .. kathayiṣyāmi saṃkṣepāt yathā pūrvam śrutam mayā .. 4 ..
अंतर्हिते तदा देवे शिवरूपे सनातने ॥ अहं विष्णुश्च विप्रेन्द्र अधिकं सुखमाप्तवान् ॥ ५॥
अंतर्हिते तदा देवे शिव-रूपे सनातने ॥ अहम् विष्णुः च विप्र-इन्द्र अधिकम् सुखम् आप्तवान् ॥ ५॥
aṃtarhite tadā deve śiva-rūpe sanātane .. aham viṣṇuḥ ca vipra-indra adhikam sukham āptavān .. 5..
मया च विष्णुना रूपं हंसवाराहयोस्तदा ॥ संवृतं तु ततस्ताभ्यां लोकसर्गावनेच्छया ॥ ६॥
मया च विष्णुना रूपम् हंस-वाराहयोः तदा ॥ संवृतम् तु ततस् ताभ्याम् लोक-सर्गौ अन-इच्छया ॥ ६॥
mayā ca viṣṇunā rūpam haṃsa-vārāhayoḥ tadā .. saṃvṛtam tu tatas tābhyām loka-sargau ana-icchayā .. 6..
नारद उवाच ।।
विधे ब्रह्मन् महाप्राज्ञ संशयो हृदि मे महान् ॥ कृपां कृत्वातुलां शीघ्रं तं नाशयितुमर्हसि ॥ ७ ॥
विधे ब्रह्मन् महा-प्राज्ञ संशयः हृदि मे महान् ॥ कृपाम् कृत्वा अतुलाम् शीघ्रम् तम् नाशयितुम् अर्हसि ॥ ७ ॥
vidhe brahman mahā-prājña saṃśayaḥ hṛdi me mahān .. kṛpām kṛtvā atulām śīghram tam nāśayitum arhasi .. 7 ..
हंसवाराहयो रूपं युवाभ्यां च धृतं कथम् ॥ अन्यद्रूपं विहायैव किमत्र वद कारणम् ॥ ८ ॥
हंस-वाराहयोः रूपम् युवाभ्याम् च धृतम् कथम् ॥ अन्यत् रूपम् विहाय एव किम् अत्र वद कारणम् ॥ ८ ॥
haṃsa-vārāhayoḥ rūpam yuvābhyām ca dhṛtam katham .. anyat rūpam vihāya eva kim atra vada kāraṇam .. 8 ..
सूत उवाच ।।
इत्येतद्वचनं श्रुत्वा नारदस्य महात्मनः ॥ स्मृत्वा शिवपदांभोजं ब्रह्मा सादरमब्रवीत् ॥ ९ ॥
इति एतत् वचनम् श्रुत्वा नारदस्य महात्मनः ॥ स्मृत्वा शिव-पद-अंभोजम् ब्रह्मा सादरम् अब्रवीत् ॥ ९ ॥
iti etat vacanam śrutvā nāradasya mahātmanaḥ .. smṛtvā śiva-pada-aṃbhojam brahmā sādaram abravīt .. 9 ..
ब्रह्मोवाच ।।
हंसस्य चोर्द्ध्वगमने गतिर्भवति निश्चला ॥ तत्त्वातत्त्वविवेकोऽस्ति जलदुग्धविभागवत् ॥ 2.1.15.१० ॥
हंसस्य च ऊर्द्ध्व-गमने गतिः भवति निश्चला ॥ तत्त्व-अतत्त्व-विवेकः अस्ति जल-दुग्ध-विभाग-वत् ॥ २।१।१५।१० ॥
haṃsasya ca ūrddhva-gamane gatiḥ bhavati niścalā .. tattva-atattva-vivekaḥ asti jala-dugdha-vibhāga-vat .. 2.1.15.10 ..
अज्ञानज्ञानयोस्तत्त्वं विवेचयति हंसकः॥ हंसरूपं धृतं तेन ब्रह्मणा सृष्टिकारिणा ॥ ११ ॥
अज्ञान-ज्ञानयोः तत्त्वम् विवेचयति हंसकः॥ हंस-रूपम् धृतम् तेन ब्रह्मणा सृष्टि-कारिणा ॥ ११ ॥
ajñāna-jñānayoḥ tattvam vivecayati haṃsakaḥ.. haṃsa-rūpam dhṛtam tena brahmaṇā sṛṣṭi-kāriṇā .. 11 ..
विवेको नैव लब्धश्च यतो हंसो व्यलीयत ॥ शिवस्वरूपतत्त्वस्य ज्योतिरूपस्य नारद ॥ १२ ॥
विवेकः ना एव लब्धः च यतस् हंसः व्यलीयत ॥ शिव-स्व-रूप-तत्त्वस्य ज्योतिः-रूपस्य नारद ॥ १२ ॥
vivekaḥ nā eva labdhaḥ ca yatas haṃsaḥ vyalīyata .. śiva-sva-rūpa-tattvasya jyotiḥ-rūpasya nārada .. 12 ..
सृष्टिप्रवृत्तिकामस्य कथं ज्ञानं प्रजायते ॥ यतो लब्धो विवेकोऽपि न मया हंसरूपिणा ॥ १३ ॥
सृष्टि-प्रवृत्ति-कामस्य कथम् ज्ञानम् प्रजायते ॥ यतस् लब्धः विवेकः अपि न मया हंस-रूपिणा ॥ १३ ॥
sṛṣṭi-pravṛtti-kāmasya katham jñānam prajāyate .. yatas labdhaḥ vivekaḥ api na mayā haṃsa-rūpiṇā .. 13 ..
गमनेऽधो वराहस्य गतिर्भवति निश्चला ॥ धृतं वाराहरूपं हि विष्णुना वनचारिणा ॥ १४ ॥
गमने अधस् वराहस्य गतिः भवति निश्चला ॥ धृतम् वाराह-रूपम् हि विष्णुना वन-चारिणा ॥ १४ ॥
gamane adhas varāhasya gatiḥ bhavati niścalā .. dhṛtam vārāha-rūpam hi viṣṇunā vana-cāriṇā .. 14 ..
अथवा भवकल्पार्थं तद्रूपं हि प्रकल्पितम् ॥ विष्णुना च वराहस्य भुवनावनकारिणा ॥ १५ ॥
अथवा भव-कल्प-अर्थम् तत् रूपम् हि प्रकल्पितम् ॥ विष्णुना च वराहस्य भुवन-अवन-कारिणा ॥ १५ ॥
athavā bhava-kalpa-artham tat rūpam hi prakalpitam .. viṣṇunā ca varāhasya bhuvana-avana-kāriṇā .. 15 ..
यद्दिनं हि समारभ्य तद्रूपं धृतवान्हरिः ॥ तद्दिनं प्रति कल्पोऽसौ कल्पो वाराहसंज्ञकः ॥ १६ ॥
यद्-दिनम् हि समारभ्य तद्-रूपम् धृतवान् हरिः ॥ तद्-दिनम् प्रति कल्पः असौ कल्पः वाराह-संज्ञकः ॥ १६ ॥
yad-dinam hi samārabhya tad-rūpam dhṛtavān hariḥ .. tad-dinam prati kalpaḥ asau kalpaḥ vārāha-saṃjñakaḥ .. 16 ..
तदिच्छा वा यदा जाता ताभ्यां रूपं हि धारणे ॥ तद्दिनं प्रतिकल्पोऽसौ कल्पो वाराहसंज्ञक् ॥ १७ ॥
तद्-इच्छा वा यदा जाता ताभ्याम् रूपम् हि धारणे ॥ तद्-दिनम् प्रतिकल्पः असौ कल्पः वाराह-संज्ञक् ॥ १७ ॥
tad-icchā vā yadā jātā tābhyām rūpam hi dhāraṇe .. tad-dinam pratikalpaḥ asau kalpaḥ vārāha-saṃjñak .. 17 ..
इति प्रश्नोत्तरं दत्तं प्रस्तुतं शृणु नारद ॥ स्मृत्वा शिवपदांभोजं वक्ष्ये सृष्टिविधिं मुने ॥ १८ ॥
इति प्रश्न-उत्तरम् दत्तम् प्रस्तुतम् शृणु नारद ॥ स्मृत्वा शिव-पद-अम्भोजम् वक्ष्ये सृष्टि-विधिम् मुने ॥ १८ ॥
iti praśna-uttaram dattam prastutam śṛṇu nārada .. smṛtvā śiva-pada-ambhojam vakṣye sṛṣṭi-vidhim mune .. 18 ..
अंतर्हिते महादेवे त्वहं लोकपितामहः ॥ तदीयं वचनं कर्तुमध्यायन्ध्यानतत्परः ॥ १९ ॥
अंतर्हिते महादेवे तु अहम् लोकपितामहः ॥ तदीयम् वचनम् कर्तुम् अध्यायन् ध्यान-तत्परः ॥ १९ ॥
aṃtarhite mahādeve tu aham lokapitāmahaḥ .. tadīyam vacanam kartum adhyāyan dhyāna-tatparaḥ .. 19 ..
नमस्कृत्य तदा शंभुं ज्ञानं प्राप्य हरेस्तदा ॥ आनंदं परमं गत्वा सृष्टिं कर्तुं मनो दधे ॥ 2.1.15.२० ॥
नमस्कृत्य तदा शंभुम् ज्ञानम् प्राप्य हरेः तदा ॥ आनंदम् परमम् गत्वा सृष्टिम् कर्तुम् मनः दधे ॥ २।१।१५।२० ॥
namaskṛtya tadā śaṃbhum jñānam prāpya hareḥ tadā .. ānaṃdam paramam gatvā sṛṣṭim kartum manaḥ dadhe .. 2.1.15.20 ..
विष्णुश्चापि तदा तत्र प्रणिपत्य सदाशिवम् ॥ उपदिश्य च मां तात ह्यंतर्धानमुपागतः ॥ २१ ॥
विष्णुः च अपि तदा तत्र प्रणिपत्य सदाशिवम् ॥ उपदिश्य च माम् तात हि अंतर्धानम् उपागतः ॥ २१ ॥
viṣṇuḥ ca api tadā tatra praṇipatya sadāśivam .. upadiśya ca mām tāta hi aṃtardhānam upāgataḥ .. 21 ..
ब्रह्माण्डाच्च बहिर्गत्वा प्राप्य शम्भोरनुग्रहम् ॥ वैकुंठनगरं गत्वा तत्रोवास हरिस्सदा ॥ २२ ॥
ब्रह्माण्डात् च बहिस् गत्वा प्राप्य शम्भोः अनुग्रहम् ॥ वैकुंठ-नगरम् गत्वा तत्र उवास हरिः सदा ॥ २२ ॥
brahmāṇḍāt ca bahis gatvā prāpya śambhoḥ anugraham .. vaikuṃṭha-nagaram gatvā tatra uvāsa hariḥ sadā .. 22 ..
अहं स्मृत्वा शिवं तत्र विष्णुं वै सृष्टिकाम्यया ॥ पूर्वं सृष्टं जलं यच्च तत्रांजलिमुदाक्षिपम् ॥ २३॥
अहम् स्मृत्वा शिवम् तत्र विष्णुम् वै सृष्टि-काम्यया ॥ पूर्वम् सृष्टम् जलम् यत् च तत्र अंजलिम् उदाक्षिपम् ॥ २३॥
aham smṛtvā śivam tatra viṣṇum vai sṛṣṭi-kāmyayā .. pūrvam sṛṣṭam jalam yat ca tatra aṃjalim udākṣipam .. 23..
अतोऽण्डमभवत्तत्र चतुर्विंशतिसंज्ञ कम् ॥ विराड्रूपमभूद्विप्र जलरूपमपश्यतः ॥ २४ ॥
अतस् अण्डम् अभवत् तत्र चतुर्विंशति-संज्ञकम् ॥ विराज्-रूपम् अभूत् विप्र जल-रूपम् अपश्यतः ॥ २४ ॥
atas aṇḍam abhavat tatra caturviṃśati-saṃjñakam .. virāj-rūpam abhūt vipra jala-rūpam apaśyataḥ .. 24 ..
ततस्संशयमापन्नस्तपस्तेपे सुदारुणम् ॥ द्वादशाब्दमहं तत्र विष्णुध्यानपरायणः ॥ २५ ॥
ततस् संशयम् आपन्नः तपः तेपे सु दारुणम् ॥ द्वादश-अब्दम् अहम् तत्र विष्णु-ध्यान-परायणः ॥ २५ ॥
tatas saṃśayam āpannaḥ tapaḥ tepe su dāruṇam .. dvādaśa-abdam aham tatra viṣṇu-dhyāna-parāyaṇaḥ .. 25 ..
तस्मिंश्च समये तात प्रादुर्भूतो हरिस्स्वयम् ॥ मामुवाच महाप्रीत्या मदंगं संस्पृशन्मुदा ॥ २६ ॥
तस्मिन् च समये तात प्रादुर्भूतः हरिः स्वयम् ॥ माम् उवाच महा-प्रीत्या मद्-अंगम् संस्पृशन् मुदा ॥ २६ ॥
tasmin ca samaye tāta prādurbhūtaḥ hariḥ svayam .. mām uvāca mahā-prītyā mad-aṃgam saṃspṛśan mudā .. 26 ..
।। विष्णुरुवाच ।। ।।
वरं ब्रूहि प्रसन्नोऽस्मि नादेयो विद्यते तव ॥ ब्रह्मञ्छंभुप्रसादेन सर्वं दातुं समर्थकः ॥ २७ ॥
वरम् ब्रूहि प्रसन्नः अस्मि न आदेयः विद्यते तव ॥ ब्रह्मन् शंभु-प्रसादेन सर्वम् दातुम् समर्थकः ॥ २७ ॥
varam brūhi prasannaḥ asmi na ādeyaḥ vidyate tava .. brahman śaṃbhu-prasādena sarvam dātum samarthakaḥ .. 27 ..
ब्रह्मोवाच ।। ।।
युक्तमेतन्महाभाग दत्तोऽहं शंभुना च ते ॥ तदुक्तं याचते मेऽद्य देहि विष्णो नमोऽस्तु ते ॥ २८ ॥
युक्तम् एतत् महाभाग दत्तः अहम् शंभुना च ते ॥ तत् उक्तम् याचते मे अद्य देहि विष्णो नमः अस्तु ते ॥ २८ ॥
yuktam etat mahābhāga dattaḥ aham śaṃbhunā ca te .. tat uktam yācate me adya dehi viṣṇo namaḥ astu te .. 28 ..
विराड्रूपमिदं ह्यंडं चतुर्विंशतिसंज्ञकम् ॥ न चैतन्यं भवत्यादौ जडीभूतं प्रदृश्यते ॥ २९ ॥
विराज्-रूपम् इदम् हि अंडम् चतुर्विंशति-संज्ञकम् ॥ न चैतन्यम् भवति आदौ जडीभूतम् प्रदृश्यते ॥ २९ ॥
virāj-rūpam idam hi aṃḍam caturviṃśati-saṃjñakam .. na caitanyam bhavati ādau jaḍībhūtam pradṛśyate .. 29 ..
प्रादुर्भूतो भवानद्य शिवानुग्रहतो हरे ॥ प्राप्तं शंकरसंभूत्या ह्यण्डं चैतन्यमावह ॥ 2.1.15.३० ॥
प्रादुर्भूतः भवान् अद्य शिव-अनुग्रहतः हरे ॥ प्राप्तम् शंकर-संभूत्या हि अण्डम् चैतन्यम् आवह ॥ २।१।१५।३० ॥
prādurbhūtaḥ bhavān adya śiva-anugrahataḥ hare .. prāptam śaṃkara-saṃbhūtyā hi aṇḍam caitanyam āvaha .. 2.1.15.30 ..
इत्युक्ते च महाविष्णुश्शंभोराज्ञापरायणः ॥ अनंतरूपमास्थाय प्रविवेश तदंडकम् ॥ ॥ ३१ ॥
इति उक्ते च महा-विष्णुः शंभोः आज्ञा-परायणः ॥ अनन्त-रूपम् आस्थाय प्रविवेश तत् अंडकम् ॥ ॥ ३१ ॥
iti ukte ca mahā-viṣṇuḥ śaṃbhoḥ ājñā-parāyaṇaḥ .. ananta-rūpam āsthāya praviveśa tat aṃḍakam .. .. 31 ..
सहस्रशीर्षा पुरुषस्सहस्राक्षः सहस्रपात् ॥ स भूमिं सर्वतस्पृत्वा तदण्डं व्याप्तवानिति ॥ ३२ ॥
सहस्र-शीर्षा पुरुषः सहस्र-अक्षः सहस्र-पाद् ॥ स भूमिम् सर्वतस् स्पृत्वा तत् अण्डम् व्याप्तवान् इति ॥ ३२ ॥
sahasra-śīrṣā puruṣaḥ sahasra-akṣaḥ sahasra-pād .. sa bhūmim sarvatas spṛtvā tat aṇḍam vyāptavān iti .. 32 ..
प्रविष्टे विष्णुना तस्मिन्नण्डे सम्यक्स्तुतेन मे ॥ सचेतनमभूदण्डं चतुर्विंशतिसंज्ञकम् ॥ ३३ ॥
प्रविष्टे विष्णुना तस्मिन् अण्डे सम्यक् स्तुतेन मे ॥ स चेतनम् अभूत् अण्डम् चतुर्विंशति-संज्ञकम् ॥ ३३ ॥
praviṣṭe viṣṇunā tasmin aṇḍe samyak stutena me .. sa cetanam abhūt aṇḍam caturviṃśati-saṃjñakam .. 33 ..
पातालादि समारभ्य सप्तलोकाधिपः स्वयम् ॥ राजते स्म हरिस्तत्र वैराजः पुरुषः प्रभुः ॥ ३४ ॥
पाताल-आदि समारभ्य सप्त-लोक-अधिपः स्वयम् ॥ राजते स्म हरिः तत्र वैराजः पुरुषः प्रभुः ॥ ३४ ॥
pātāla-ādi samārabhya sapta-loka-adhipaḥ svayam .. rājate sma hariḥ tatra vairājaḥ puruṣaḥ prabhuḥ .. 34 ..
कैलासनगरं रम्यं सर्वोपरि विराजितम् ॥ निवासार्थं निजस्यैव पंचवक्त्र श्चकार ह ॥ ३५॥
कैलास-नगरम् रम्यम् सर्व-उपरि विराजितम् ॥ निवास-अर्थम् निजस्य एव पंचवक्त्रः श्चकार ह ॥ ३५॥
kailāsa-nagaram ramyam sarva-upari virājitam .. nivāsa-artham nijasya eva paṃcavaktraḥ ścakāra ha .. 35..
ब्रह्मांडस्य तथा नाशे वैकुण्ठस्य च तस्य च ॥ कदाचिदेव देवर्षे नाशो नास्ति तयोरिह ॥ ३६ ॥
ब्रह्मांडस्य तथा नाशे वैकुण्ठस्य च तस्य च ॥ कदाचिद् एव देव-ऋषे नाशः ना अस्ति तयोः इह ॥ ३६ ॥
brahmāṃḍasya tathā nāśe vaikuṇṭhasya ca tasya ca .. kadācid eva deva-ṛṣe nāśaḥ nā asti tayoḥ iha .. 36 ..
सत्यं पदमुपाश्रित्य स्थितोऽहं मुनिसत्तम ॥ सृष्टिकामोऽभवं तात महादेवाज्ञया ह्यहम् ॥ ३७॥
सत्यम् पदम् उपाश्रित्य स्थितः अहम् मुनि-सत्तम ॥ सृष्टि-कामः अभवम् तात महादेव-आज्ञया हि अहम् ॥ ३७॥
satyam padam upāśritya sthitaḥ aham muni-sattama .. sṛṣṭi-kāmaḥ abhavam tāta mahādeva-ājñayā hi aham .. 37..
सिसृक्षोरथ मे प्रादुरभवत्पापसर्गकः।अविद्यापंचकस्तात बुद्धिपूर्वस्तमोपमः ॥ ३८ ॥
सिसृक्षोः अथ मे प्रादुरभवत् पाप-सर्गकः।अविद्या-पंचकः तात बुद्धि-पूर्वः तमः-उपमः ॥ ३८ ॥
sisṛkṣoḥ atha me prādurabhavat pāpa-sargakaḥ.avidyā-paṃcakaḥ tāta buddhi-pūrvaḥ tamaḥ-upamaḥ .. 38 ..
ततः प्रसन्नचित्तोऽहमसृजं स्थावराभिधम् ॥ मुख्यसर्गं च निस्संगमध्यायं शंभुशासनात् ॥ ३९ ॥
ततस् प्रसन्न-चित्तः अहम् असृजम् स्थावर-अभिधम् ॥ मुख्य-सर्गम् च निस्संगम् अध्यायम् शंभु-शासनात् ॥ ३९ ॥
tatas prasanna-cittaḥ aham asṛjam sthāvara-abhidham .. mukhya-sargam ca nissaṃgam adhyāyam śaṃbhu-śāsanāt .. 39 ..
तं दृष्ट्वा मे सिसृक्षोश्च ज्ञात्वा साधकमात्मनः ॥ सर्गोऽवर्तत दुःखाढ्यस्तिर्यक्स्रोता न साधकः ॥ 2.1.15.४० ॥
तम् दृष्ट्वा मे सिसृक्षोः च ज्ञात्वा साधकम् आत्मनः ॥ सर्गः अवर्तत दुःख-आढ्यः तिर्यक्स्रोताः न साधकः ॥ २।१।१५।४० ॥
tam dṛṣṭvā me sisṛkṣoḥ ca jñātvā sādhakam ātmanaḥ .. sargaḥ avartata duḥkha-āḍhyaḥ tiryaksrotāḥ na sādhakaḥ .. 2.1.15.40 ..
तं चासाधकमाज्ञाय पुनश्चिंतयतश्च मे ॥ अभवत्सात्त्विकस्सर्ग ऊर्ध्वस्रोता इति द्रुतम् ॥ ४१ ॥
तम् च असाधकम् आज्ञाय पुनर् चिंतयतः च मे ॥ अभवत् सात्त्विकः सर्गः ऊर्ध्वस्रोताः इति द्रुतम् ॥ ४१ ॥
tam ca asādhakam ājñāya punar ciṃtayataḥ ca me .. abhavat sāttvikaḥ sargaḥ ūrdhvasrotāḥ iti drutam .. 41 ..
देवसर्गः प्रतिख्यातस्सत्योऽतीव सुखावहः ॥ तमप्यसाधकं मत्वाऽचिंतयं प्रभुमात्मनः ॥ ४२ ॥
देव-सर्गः प्रतिख्यातः सत्यः अतीव सुख-आवहः ॥ तम् अपि असाधकम् मत्वा अचिंतयम् प्रभुम् आत्मनः ॥ ४२ ॥
deva-sargaḥ pratikhyātaḥ satyaḥ atīva sukha-āvahaḥ .. tam api asādhakam matvā aciṃtayam prabhum ātmanaḥ .. 42 ..
प्रादुरासीत्ततस्सर्गो राजसः शंकराज्ञया ॥ अवाक्स्रोता इति ख्यातो मानुषः परसाधकः ॥ ४३ ॥
प्रादुरासीत् ततस् सर्गः राजसः शंकर-आज्ञया ॥ अवाक्स्रोताः इति ख्यातः मानुषः पर-साधकः ॥ ४३ ॥
prādurāsīt tatas sargaḥ rājasaḥ śaṃkara-ājñayā .. avāksrotāḥ iti khyātaḥ mānuṣaḥ para-sādhakaḥ .. 43 ..
महादेवाज्ञया सर्गस्ततो भूतादिकोऽभवत् ॥ इति पंचविधा सृष्टिः प्रवृत्ता वै कृता मया ॥ ४४ ॥
महादेव-आज्ञया सर्गः ततस् भूत-आदिकः अभवत् ॥ इति पंचविधा सृष्टिः प्रवृत्ता वै कृता मया ॥ ४४ ॥
mahādeva-ājñayā sargaḥ tatas bhūta-ādikaḥ abhavat .. iti paṃcavidhā sṛṣṭiḥ pravṛttā vai kṛtā mayā .. 44 ..
त्रयस्सर्गाः प्रकृत्याश्च ब्रह्मणः परिकीर्तिताः ॥ तत्राद्यो महतस्सर्गो द्वितीयः सूक्ष्मभौतिकः ॥ ४५॥
त्रयः सर्गाः प्रकृत्याः च ब्रह्मणः परिकीर्तिताः ॥ तत्र आद्यः महतः सर्गः द्वितीयः सूक्ष्मभौतिकः ॥ ४५॥
trayaḥ sargāḥ prakṛtyāḥ ca brahmaṇaḥ parikīrtitāḥ .. tatra ādyaḥ mahataḥ sargaḥ dvitīyaḥ sūkṣmabhautikaḥ .. 45..
वैकारिकस्तृतीयश्च इत्येते प्रकृतास्त्रयः ॥ एवं चाष्टविधास्सर्गाः प्रकृतेर्वेकृतैः सह ॥ ४६॥
वैकारिकः तृतीयः च इति एते प्रकृताः त्रयः ॥ एवम् च अष्टविधाः सर्गाः प्रकृतेः वेकृतैः सह ॥ ४६॥
vaikārikaḥ tṛtīyaḥ ca iti ete prakṛtāḥ trayaḥ .. evam ca aṣṭavidhāḥ sargāḥ prakṛteḥ vekṛtaiḥ saha .. 46..
कौमारो नवमः प्रोक्तः प्राकृतो वैकृतश्च सः ॥ एषामवांतरो भेदो मया वक्तुं न शक्यते ॥ ४७ ॥
कौमारः नवमः प्रोक्तः प्राकृतः वैकृतः च सः ॥ एषाम् अवांतरः भेदः मया वक्तुम् न शक्यते ॥ ४७ ॥
kaumāraḥ navamaḥ proktaḥ prākṛtaḥ vaikṛtaḥ ca saḥ .. eṣām avāṃtaraḥ bhedaḥ mayā vaktum na śakyate .. 47 ..
अल्पत्वादुपयोगस्य वच्मि सर्गं द्विजात्मकम् ॥ कौमारः सनकादीनां यत्र सर्गो महानभूत् ॥ ४८ ॥
अल्प-त्वात् उपयोगस्य वच्मि सर्गम् द्विज-आत्मकम् ॥ कौमारः सनक-आदीनाम् यत्र सर्गः महान् अभूत् ॥ ४८ ॥
alpa-tvāt upayogasya vacmi sargam dvija-ātmakam .. kaumāraḥ sanaka-ādīnām yatra sargaḥ mahān abhūt .. 48 ..
सनकाद्याः सुता मे हि मानसा ब्रह्मसंमिताः ॥ महावैराग्यसंपन्ना अभवन्पंच सुव्रताः ॥ ४९ ॥
सनक-आद्याः सुताः मे हि मानसाः ब्रह्म-संमिताः ॥ महा-वैराग्य-संपन्नाः अभवन् पंच सुव्रताः ॥ ४९ ॥
sanaka-ādyāḥ sutāḥ me hi mānasāḥ brahma-saṃmitāḥ .. mahā-vairāgya-saṃpannāḥ abhavan paṃca suvratāḥ .. 49 ..
मयाज्ञप्ता अपि च ते संसारविमुखा बुधाः ॥ शिवध्यानैकमनसो न सृष्टौ चक्रिरे मतिम् ॥ 2.1.15.५० ॥
मया आज्ञप्ताः अपि च ते संसार-विमुखाः बुधाः ॥ शिव-ध्यान-एक-मनसः न सृष्टौ चक्रिरे मतिम् ॥ २।१।१५।५० ॥
mayā ājñaptāḥ api ca te saṃsāra-vimukhāḥ budhāḥ .. śiva-dhyāna-eka-manasaḥ na sṛṣṭau cakrire matim .. 2.1.15.50 ..
प्रत्युत्तरं च तदनु श्रुत्वाहं मुनिसत्तम ॥ अकार्षं क्रोधमत्युग्रं मोहमाप्तश्च नारद ॥ ५१॥
प्रत्युत्तरम् च तदनु श्रुत्वा अहम् मुनि-सत्तम ॥ अकार्षम् क्रोधम् अति उग्रम् मोहम् आप्तः च नारद ॥ ५१॥
pratyuttaram ca tadanu śrutvā aham muni-sattama .. akārṣam krodham ati ugram moham āptaḥ ca nārada .. 51..
कुद्धस्य मोहितस्याथ विह्वलस्य मुने मम ॥ क्रोधेन खलु नेत्राभ्यां प्रापतन्नश्रुबिंदवः ॥ ॥ ५२॥
कुद्धस्य मोहितस्य अथ विह्वलस्य मुने मम ॥ क्रोधेन खलु नेत्राभ्याम् प्रापतन् अश्रु-बिंदवः ॥ ॥ ५२॥
kuddhasya mohitasya atha vihvalasya mune mama .. krodhena khalu netrābhyām prāpatan aśru-biṃdavaḥ .. .. 52..
तस्मिन्नवसरे तत्र स्मृतेन मनसा मया ॥ प्रबोधितोहं त्वरितमागतेना हि विष्णुना ॥ ५३॥
तस्मिन् अवसरे तत्र स्मृतेन मनसा मया ॥ प्रबोधिता उहम् हि विष्णुना ॥ ५३॥
tasmin avasare tatra smṛtena manasā mayā .. prabodhitā uham hi viṣṇunā .. 53..
तपः कुरु शिवस्येति हरिणा शिक्षितोऽप्यहम् ॥ तपोकारी महद्घोरं परमं मुनिसत्तम ॥ ५४ ॥
तपः कुरु शिवस्य इति हरिणा शिक्षितः अपि अहम् ॥ तपः-कारी महत् घोरम् परमम् मुनि-सत्तम ॥ ५४ ॥
tapaḥ kuru śivasya iti hariṇā śikṣitaḥ api aham .. tapaḥ-kārī mahat ghoram paramam muni-sattama .. 54 ..
तपस्यतश्च सृष्ट्यर्थं भ्रुवोर्घ्राणस्य मध्यतः ॥ अविमुक्ताभिधाद्देशात्स्वकीयान्मे विशेषतः ॥ ५५॥
तपस्यतः च सृष्टि-अर्थम् भ्रुवोः घ्राणस्य मध्यतस् ॥ अविमुक्त-अभिधात् देशात् स्वकीयात् मे विशेषतः ॥ ५५॥
tapasyataḥ ca sṛṣṭi-artham bhruvoḥ ghrāṇasya madhyatas .. avimukta-abhidhāt deśāt svakīyāt me viśeṣataḥ .. 55..
त्रिमूर्तीनां महेशस्य प्रादुरासीद्घृणानिधिः ॥ आर्द्धनारीश्वरो भूत्वा पूर्णाशस्सकलेश्वरः ॥ ५६ ॥
त्रिमूर्तीनाम् महेशस्य प्रादुरासीत् घृणा-निधिः ॥ आर्द्धनारीश्वरः भूत्वा पूर्णाशः सकल-ईश्वरः ॥ ५६ ॥
trimūrtīnām maheśasya prādurāsīt ghṛṇā-nidhiḥ .. ārddhanārīśvaraḥ bhūtvā pūrṇāśaḥ sakala-īśvaraḥ .. 56 ..
तमजं शंकरं साक्षात्तेजोराशिमुमापतिम् ॥ सर्वज्ञं सर्वकर्तारं नीललोहितसंज्ञकम् ॥ ५७ ॥
तम् अजम् शंकरम् साक्षात् तेजः-राशिम् उमापतिम् ॥ सर्वज्ञम् सर्व-कर्तारम् नीललोहित-संज्ञकम् ॥ ५७ ॥
tam ajam śaṃkaram sākṣāt tejaḥ-rāśim umāpatim .. sarvajñam sarva-kartāram nīlalohita-saṃjñakam .. 57 ..
दृष्ट्वा नत्वा महाभक्त्या स्तुत्वाहं तु प्रहर्षितः ॥ अवोचं देवदेवेशं सृज त्वं विविधाः प्रजाः॥ ५८॥
दृष्ट्वा नत्वा महा-भक्त्या स्तुत्वा अहम् तु प्रहर्षितः ॥ अवोचम् देवदेवेशम् सृज त्वम् विविधाः प्रजाः॥ ५८॥
dṛṣṭvā natvā mahā-bhaktyā stutvā aham tu praharṣitaḥ .. avocam devadeveśam sṛja tvam vividhāḥ prajāḥ.. 58..
श्रुत्वा मम वचस्सोथ देवदेवो महेश्वरः ॥ ससर्ज स्वात्मनस्तुल्यान्रुद्रो रुद्रगणान्बहून ॥ ५९ ॥
श्रुत्वा मम वचः सोथ देवदेवः महेश्वरः ॥ ससर्ज स्व-आत्मनः तुल्यान् रुद्रः रुद्र-गणान् बहून् ॥ ५९ ॥
śrutvā mama vacaḥ sotha devadevaḥ maheśvaraḥ .. sasarja sva-ātmanaḥ tulyān rudraḥ rudra-gaṇān bahūn .. 59 ..
अवोचं पुनरेवेशं महारुद्रं महेश्वरम् ॥ जन्ममृत्युभयाविष्टास्सृज देव प्रजा इति ॥ 2.1.15.६० ॥
अवोचम् पुनर् एव ईशम् महारुद्रम् महेश्वरम् ॥ जन्म-मृत्यु-भय-आविष्टाः सृज देव प्रजाः इति ॥ २।१।१५।६० ॥
avocam punar eva īśam mahārudram maheśvaram .. janma-mṛtyu-bhaya-āviṣṭāḥ sṛja deva prajāḥ iti .. 2.1.15.60 ..
एवं श्रुत्वा महादेवो मद्वचः करुणानिधिः ॥ प्रहस्योवाच मां सद्यः प्रहस्य मुनिसत्तम ॥ ६१ ॥
एवम् श्रुत्वा महादेवः मद्-वचः करुणा-निधिः ॥ प्रहस्य उवाच माम् सद्यस् प्रहस्य मुनि-सत्तम ॥ ६१ ॥
evam śrutvā mahādevaḥ mad-vacaḥ karuṇā-nidhiḥ .. prahasya uvāca mām sadyas prahasya muni-sattama .. 61 ..
महादेव उवाच ।।
जन्ममृत्युभयाविष्टा नाहं स्रक्ष्ये प्रजा विधे ॥ अशोभनाः कर्मवशा विमग्ना दुःखवारिधौ ॥ ६२ ॥
जन्म-मृत्यु-भय-आविष्टाः न अहम् स्रक्ष्ये प्रजाः विधे ॥ अशोभनाः कर्म-वशाः विमग्नाः दुःख-वारिधौ ॥ ६२ ॥
janma-mṛtyu-bhaya-āviṣṭāḥ na aham srakṣye prajāḥ vidhe .. aśobhanāḥ karma-vaśāḥ vimagnāḥ duḥkha-vāridhau .. 62 ..
अहं दुःखोदधौ मग्ना उद्धरिष्यामि च प्रजाः ॥ सम्यक्ज्ञानप्रदानेन गुरुमूर्तिपरिग्रहः ॥ ६३ ॥
अहम् दुःख-उदधौ मग्ना उद्धरिष्यामि च प्रजाः ॥ सम्यक् ज्ञान-प्रदानेन गुरु-मूर्ति-परिग्रहः ॥ ६३ ॥
aham duḥkha-udadhau magnā uddhariṣyāmi ca prajāḥ .. samyak jñāna-pradānena guru-mūrti-parigrahaḥ .. 63 ..
त्वमेव सृज दुःखाढ्याः प्रजास्सर्वाः प्रजापते ॥ मदाज्ञया न बद्धस्त्वं मायया संभविष्यसि ॥ ६४ ॥
त्वम् एव सृज दुःख-आढ्याः प्रजाः सर्वाः प्रजापते ॥ मद्-आज्ञया न बद्धः त्वम् मायया संभविष्यसि ॥ ६४ ॥
tvam eva sṛja duḥkha-āḍhyāḥ prajāḥ sarvāḥ prajāpate .. mad-ājñayā na baddhaḥ tvam māyayā saṃbhaviṣyasi .. 64 ..
ब्रह्मोवाच ।।
इत्युक्त्वा मां स भगवान्सुश्रीमान्नीललोहितः ॥ सगणः पश्यतो मे हि द्रुतमंतर्दधे हरः ॥ ६५॥
इति उक्त्वा माम् स भगवान् सुश्रीमान् नीललोहितः ॥ स गणः पश्यतः मे हि द्रुतम् अंतर्दधे हरः ॥ ६५॥
iti uktvā mām sa bhagavān suśrīmān nīlalohitaḥ .. sa gaṇaḥ paśyataḥ me hi drutam aṃtardadhe haraḥ .. 65..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनो नाम पञ्चदशोऽध्यायः॥ ॥ १५ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् प्रथम-खंडे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनः नाम पञ्चदशः अध्यायः॥ ॥ १५ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām prathama-khaṃḍe sṛṣṭyupakrame rudrāvatārāvirbhāvavarṇanaḥ nāma pañcadaśaḥ adhyāyaḥ.. .. 15 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In