| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
शब्दादीनि च भूतानि पंचीकृत्वाहमात्मना ॥ तेभ्यः स्थूलं नभो वायुं वह्निं चैव जलं महीम् ॥ १ ॥
शब्द-आदीनि च भूतानि पंचीकृत्वा अहम् आत्मना ॥ तेभ्यः स्थूलम् नभः वायुम् वह्निम् च एव जलम् महीम् ॥ १ ॥
śabda-ādīni ca bhūtāni paṃcīkṛtvā aham ātmanā .. tebhyaḥ sthūlam nabhaḥ vāyum vahnim ca eva jalam mahīm .. 1 ..
पर्वतांश्च समुद्रांश्च वृक्षादीनपि नारद ॥ कलादियुगपर्येतान्कालानन्यानवासृजम् ॥ २ ॥
पर्वतान् च समुद्रान् च वृक्ष-आदीन् अपि नारद ॥ कला-आदि-युग-परि एतान् कालान् अन्यान् अवासृजम् ॥ २ ॥
parvatān ca samudrān ca vṛkṣa-ādīn api nārada .. kalā-ādi-yuga-pari etān kālān anyān avāsṛjam .. 2 ..
सृष्ट्यंतानपरांश्चापि नाहं तुष्टोऽभव न्मुने ॥ ततो ध्यात्वा शिवं साम्बं साधकानसृजं मुने ॥ ३ ॥
सृष्टि-अंतान् अपरान् च अपि न अहम् तुष्टः अभवत् मुने ॥ ततस् ध्यात्वा शिवम् स अम्बम् साधकान् असृजम् मुने ॥ ३ ॥
sṛṣṭi-aṃtān aparān ca api na aham tuṣṭaḥ abhavat mune .. tatas dhyātvā śivam sa ambam sādhakān asṛjam mune .. 3 ..
मरीचिं च स्वनेत्राभ्यां हृदयाद्भृगुमेव च ॥ शिरसोऽगिरसं व्यानात्पुलहं मुनिसत्तमम् ॥ ४ ॥
मरीचिम् च स्व-नेत्राभ्याम् हृदयात् भृगुम् एव च ॥ शिरसः अगिरसम् व्यानात् पुलहम् मुनि-सत्तमम् ॥ ४ ॥
marīcim ca sva-netrābhyām hṛdayāt bhṛgum eva ca .. śirasaḥ agirasam vyānāt pulaham muni-sattamam .. 4 ..
उदानाच्च पुलस्त्यं हि वसिष्ठञ्च समानतः ॥ क्रतुं त्वपानाच्छ्रोत्राभ्यामत्रिं दक्षं च प्राणतः ॥ ५ ॥
उदानात् च पुलस्त्यम् हि वसिष्ठम् च समानतस् ॥ क्रतुम् तु अपानात् श्रोत्राभ्याम् अत्रिम् दक्षम् च प्राणतः ॥ ५ ॥
udānāt ca pulastyam hi vasiṣṭham ca samānatas .. kratum tu apānāt śrotrābhyām atrim dakṣam ca prāṇataḥ .. 5 ..
असृजं त्वां तदोत्संगाच्छायायाः कर्दमं मुनिम् ॥ संकल्पादसृजं धर्मं सर्वसाधनसाधनम् ॥ ६॥
असृजम् त्वाम् तदा उत्संगात् छायायाः कर्दमम् मुनिम् ॥ संकल्पात् असृजम् धर्मम् सर्व-साधन-साधनम् ॥ ६॥
asṛjam tvām tadā utsaṃgāt chāyāyāḥ kardamam munim .. saṃkalpāt asṛjam dharmam sarva-sādhana-sādhanam .. 6..
एवमेतानहं सृष्ट्वा कृतार्थस्साधकोत्तमान् ॥ अभवं मुनिशार्दूल महादेवप्रसादतः ॥ ७ ॥
एवम् एतान् अहम् सृष्ट्वा कृतार्थः साधक-उत्तमान् ॥ अभवम् मुनि-शार्दूल महादेव-प्रसादतः ॥ ७ ॥
evam etān aham sṛṣṭvā kṛtārthaḥ sādhaka-uttamān .. abhavam muni-śārdūla mahādeva-prasādataḥ .. 7 ..
ततो मदाज्ञया तात धर्मः संकल्पसंभवः ॥ मानवं रूपमापन्नस्साधकैस्तु प्रवर्तितः ॥ ८॥
ततस् मद्-आज्ञया तात धर्मः संकल्प-संभवः ॥ मानवम् रूपम् आपन्नः साधकैः तु प्रवर्तितः ॥ ८॥
tatas mad-ājñayā tāta dharmaḥ saṃkalpa-saṃbhavaḥ .. mānavam rūpam āpannaḥ sādhakaiḥ tu pravartitaḥ .. 8..
ततोऽसृजं स्वगात्रेभ्यो विविधेभ्योऽमितान्सुतान् ॥ सुरासुरादिकांस्तेभ्यो दत्त्वा तां तां तनुं मुने ॥ ९॥
ततस् असृजम् स्व-गात्रेभ्यः विविधेभ्यः अमितान् सुतान् ॥ सुर-असुर-आदिकान् तेभ्यः दत्त्वा ताम् ताम् तनुम् मुने ॥ ९॥
tatas asṛjam sva-gātrebhyaḥ vividhebhyaḥ amitān sutān .. sura-asura-ādikān tebhyaḥ dattvā tām tām tanum mune .. 9..
ततोऽहं शंकरेणाथ प्रेरितोंऽतर्गतेन ह ॥ द्विधा कृत्वात्मनो देहं द्विरूपश्चाभवं मुने ॥ 2.1.16.१० ॥
ततस् अहम् शंकरेण अथ प्रेरितः उं अतर्गतेन ह ॥ द्विधा कृत्वा आत्मनः देहम् द्वि-रूपः च अभवम् मुने ॥ २।१।१६।१० ॥
tatas aham śaṃkareṇa atha preritaḥ uṃ atargatena ha .. dvidhā kṛtvā ātmanaḥ deham dvi-rūpaḥ ca abhavam mune .. 2.1.16.10 ..
अर्द्धेन नारी पुरुषश्चार्द्धेन संततो मुने ।स तस्यामसृजद्द्वंद्वं सर्वसाधनमुत्तमम् ॥ ११॥
अर्द्धेन नारी पुरुषः च अर्द्धेन संततः मुने ।स तस्याम् असृजत् द्वंद्वम् सर्व-साधनम् उत्तमम् ॥ ११॥
arddhena nārī puruṣaḥ ca arddhena saṃtataḥ mune .sa tasyām asṛjat dvaṃdvam sarva-sādhanam uttamam .. 11..
स्वायंभुवो मनुस्तत्र पुरुषः परसाधनम् ॥ शतरूपाभिधा नारी योगिनी सा तपस्विनी ॥ १२ ॥
स्वायंभुवः मनुः तत्र पुरुषः पर-साधनम् ॥ शतरूपा-अभिधा नारी योगिनी सा तपस्विनी ॥ १२ ॥
svāyaṃbhuvaḥ manuḥ tatra puruṣaḥ para-sādhanam .. śatarūpā-abhidhā nārī yoginī sā tapasvinī .. 12 ..
सा पुनर्मनुना तेन गृहीतातीव शोभना ॥ विवाहविधिना ताताऽसृजत्सर्गं समैथुनम् ॥ १३ ॥
सा पुनर् मनुना तेन गृहीता अतीव शोभना ॥ विवाह-विधिना ताता असृजत् सर्गम् स मैथुनम् ॥ १३ ॥
sā punar manunā tena gṛhītā atīva śobhanā .. vivāha-vidhinā tātā asṛjat sargam sa maithunam .. 13 ..
तस्यां तेन समुत्पन्नस्तनयश्च प्रियव्रतः ॥ तथैवोत्तानपादश्च तथा कन्यात्रयं पुनः॥ १४॥
तस्याम् तेन समुत्पन्नः तनयः च प्रियव्रतः ॥ तथा एव उत्तानपादः च तथा कन्या-त्रयम् पुनर्॥ १४॥
tasyām tena samutpannaḥ tanayaḥ ca priyavrataḥ .. tathā eva uttānapādaḥ ca tathā kanyā-trayam punar.. 14..
आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ॥ आकूतिं रुचये प्रादात्कर्दमाय तु मध्यमाम् ॥ १५॥
आकूतिः देवहूतिः च प्रसूतिः इति विश्रुताः ॥ आकूतिम् रुचये प्रादात् कर्दमाय तु मध्यमाम् ॥ १५॥
ākūtiḥ devahūtiḥ ca prasūtiḥ iti viśrutāḥ .. ākūtim rucaye prādāt kardamāya tu madhyamām .. 15..
ददौ प्रसूतिं दक्षायोत्तानपादानुजां सुताः ॥ तासां प्रसूतिप्रसवैस्सर्वं व्याप्तं चराचरम् ॥ १६॥
ददौ प्रसूतिम् दक्षाय उत्तानपाद-अनुजाम् सुताः ॥ तासाम् प्रसूति-प्रसवैः सर्वम् व्याप्तम् चराचरम् ॥ १६॥
dadau prasūtim dakṣāya uttānapāda-anujām sutāḥ .. tāsām prasūti-prasavaiḥ sarvam vyāptam carācaram .. 16..
आकूत्यां च रुचेश्चाभूद्वंद्वं यज्ञश्च दक्षिणा ॥ यज्ञस्य जज्ञिरे पुत्रा दक्षिणायां च द्वादश ॥ १७ ॥
आकूत्याम् च रुचेः च अभूत् द्वंद्वम् यज्ञः च दक्षिणा ॥ यज्ञस्य जज्ञिरे पुत्राः दक्षिणायाम् च द्वादश ॥ १७ ॥
ākūtyām ca ruceḥ ca abhūt dvaṃdvam yajñaḥ ca dakṣiṇā .. yajñasya jajñire putrāḥ dakṣiṇāyām ca dvādaśa .. 17 ..
देवहूत्यां कर्दमाच्च बह्व्यो जातास्सुता मुने ॥ दशाज्जाताश्चतस्रश्च तथा पुत्र्यश्च विंशतिः ॥ १८ ॥
देवहूत्याम् कर्दमात् च बह्व्यः जाताः सुताः मुने ॥ दशात् जाताः चतस्रः च तथा पुत्र्यः च विंशतिः ॥ १८ ॥
devahūtyām kardamāt ca bahvyaḥ jātāḥ sutāḥ mune .. daśāt jātāḥ catasraḥ ca tathā putryaḥ ca viṃśatiḥ .. 18 ..
धर्माय दत्ता दक्षेण श्रद्धाद्यास्तु त्रयोदश ॥ शृणु तासां च नामानि धर्मस्त्रीणां मुनीश्वर॥ १९॥
धर्माय दत्ताः दक्षेण श्रद्धा-आद्याः तु त्रयोदश ॥ शृणु तासाम् च नामानि धर्म-स्त्रीणाम् मुनि-ईश्वर॥ १९॥
dharmāya dattāḥ dakṣeṇa śraddhā-ādyāḥ tu trayodaśa .. śṛṇu tāsām ca nāmāni dharma-strīṇām muni-īśvara.. 19..
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा तथा क्रिया ॥ वसुःर्बुद्धि लज्जा शांतिः सिद्धिः कीर्तिस्त्रयोदश ॥ 2.1.16.२०॥
श्रद्धा लक्ष्मीः धृतिः तुष्टिः पुष्टिः मेधा तथा क्रिया ॥ लज्जा शान्तिः सिद्धिः कीर्तिः त्रयोदश ॥ २।१।१६।२०॥
śraddhā lakṣmīḥ dhṛtiḥ tuṣṭiḥ puṣṭiḥ medhā tathā kriyā .. lajjā śāntiḥ siddhiḥ kīrtiḥ trayodaśa .. 2.1.16.20..
ताभ्यां शिष्टा यवीयस्य एकादश सुलोचनाः ॥ ख्यातिस्सत्पथसंभूतिः स्मृतिः प्रीतिः क्षमा तथा॥ २१॥
ताभ्याम् शिष्टाः यवीयस्यः एकादश सु लोचनाः ॥ ख्यातिः सत्-पथ-संभूतिः स्मृतिः प्रीतिः क्षमा तथा॥ २१॥
tābhyām śiṣṭāḥ yavīyasyaḥ ekādaśa su locanāḥ .. khyātiḥ sat-patha-saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā.. 21..
सन्नतिश्चानुरूपा च ऊर्जा स्वाहा स्वधा तथा ॥ भृगुर्भवो मरीचिश्च तथा चैवांगिरा मुनिः ॥ २२ ॥
सन्नतिः च अनुरूपा च ऊर्जा स्वाहा स्वधा तथा ॥ भृगुः भवः मरीचिः च तथा च एव अंगिराः मुनिः ॥ २२ ॥
sannatiḥ ca anurūpā ca ūrjā svāhā svadhā tathā .. bhṛguḥ bhavaḥ marīciḥ ca tathā ca eva aṃgirāḥ muniḥ .. 22 ..
पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा ॥ अत्रिर्वासिष्ठो वह्निश्च पितरश्च यथाक्रमम् ॥ २३ ॥
पुलस्त्यः पुलहः च एव क्रतुः च ऋषि-वरः तथा ॥ अत्रिः वासिष्ठः वह्निः च पितरः च यथाक्रमम् ॥ २३ ॥
pulastyaḥ pulahaḥ ca eva kratuḥ ca ṛṣi-varaḥ tathā .. atriḥ vāsiṣṭhaḥ vahniḥ ca pitaraḥ ca yathākramam .. 23 ..
ख्यातास्ता जगृहुः कन्या भृग्वाद्यास्साधका वराः ॥ ततस्संपूरितं सर्वं त्रैलोक्यं सचराचरम् ॥ २४ ॥
ख्याताः ताः जगृहुः कन्याः भृगु-आद्याः साधकाः वराः ॥ ततस् संपूरितम् सर्वम् त्रैलोक्यम् सचराचरम् ॥ २४ ॥
khyātāḥ tāḥ jagṛhuḥ kanyāḥ bhṛgu-ādyāḥ sādhakāḥ varāḥ .. tatas saṃpūritam sarvam trailokyam sacarācaram .. 24 ..
एवं कर्मानुरूपेण प्रणिनामंबिकापते॥ आज्ञया बहवो जाता असंख्याता द्विजर्षभाः ॥ २५॥
एवम् कर्म-अनुरूपेण प्रणिनाम् अंबिकापते॥ आज्ञया बहवः जाताः असंख्याताः द्विजर्षभाः ॥ २५॥
evam karma-anurūpeṇa praṇinām aṃbikāpate.. ājñayā bahavaḥ jātāḥ asaṃkhyātāḥ dvijarṣabhāḥ .. 25..
कल्पभेदेन दक्षस्य षष्टिः कन्याः प्रकीर्तिताः ॥ तासां दश च धर्माय शशिने सप्तविंशतिम् ॥ २६॥
कल्प-भेदेन दक्षस्य षष्टिः कन्याः प्रकीर्तिताः ॥ तासाम् दश च धर्माय शशिने सप्तविंशतिम् ॥ २६॥
kalpa-bhedena dakṣasya ṣaṣṭiḥ kanyāḥ prakīrtitāḥ .. tāsām daśa ca dharmāya śaśine saptaviṃśatim .. 26..
विधिना दत्तवान्दक्षः कश्यपाय त्रयोदश ॥ चतस्रः पररूपाय ददौ तार्क्ष्याय नारद॥ २७॥
विधिना दत्तवान् दक्षः कश्यपाय त्रयोदश ॥ चतस्रः पर-रूपाय ददौ तार्क्ष्याय नारद॥ २७॥
vidhinā dattavān dakṣaḥ kaśyapāya trayodaśa .. catasraḥ para-rūpāya dadau tārkṣyāya nārada.. 27..
भृग्वंगिरः कृशाश्वेभ्यो द्वे द्वे कन्ये च दत्तवान् ॥ ताभ्यस्तेभ्यस्तु संजाता बह्वी सृष्टिश्चराचरा ॥ २८॥
भृगु-अंगिरः कृश-अश्वेभ्यः द्वे द्वे कन्ये च दत्तवान् ॥ ताभ्यः तेभ्यः तु संजाता बह्वी सृष्टिः चराचरा ॥ २८॥
bhṛgu-aṃgiraḥ kṛśa-aśvebhyaḥ dve dve kanye ca dattavān .. tābhyaḥ tebhyaḥ tu saṃjātā bahvī sṛṣṭiḥ carācarā .. 28..
त्रयोदशमितास्तस्मै कश्यपाय महात्मने ॥ दत्ता दक्षेण याः कन्या विधिवन्मुनिसत्तम ॥ २९ ॥
त्रयोदश-मिताः तस्मै कश्यपाय महात्मने ॥ दत्ताः दक्षेण याः कन्याः विधिवत् मुनि-सत्तम ॥ २९ ॥
trayodaśa-mitāḥ tasmai kaśyapāya mahātmane .. dattāḥ dakṣeṇa yāḥ kanyāḥ vidhivat muni-sattama .. 29 ..
तासां प्रसूतिभिर्व्याप्तं त्रैलोक्यं सचराचरम् ॥ स्थावरं जंगमं चैव शून्य नैव तु किंचन ॥ 2.1.16.३० ॥
तासाम् प्रसूतिभिः व्याप्तम् त्रैलोक्यम् सचराचरम् ॥ स्थावरम् जंगमम् च एव शून्य न एव तु किंचन ॥ २।१।१६।३० ॥
tāsām prasūtibhiḥ vyāptam trailokyam sacarācaram .. sthāvaram jaṃgamam ca eva śūnya na eva tu kiṃcana .. 2.1.16.30 ..
देवाश्च ऋषयश्चैव दैत्याश्चैव प्रजज्ञिरे ॥ वृक्षाश्च पक्षिणश्चैव सर्वे पर्वतवीरुधः ॥ ३१ ॥
देवाः च ऋषयः च एव दैत्याः च एव प्रजज्ञिरे ॥ वृक्षाः च पक्षिणः च एव सर्वे पर्वत-वीरुधः ॥ ३१ ॥
devāḥ ca ṛṣayaḥ ca eva daityāḥ ca eva prajajñire .. vṛkṣāḥ ca pakṣiṇaḥ ca eva sarve parvata-vīrudhaḥ .. 31 ..
दक्षकन्याप्रसूतैश्च व्याप्तमेवं चराचरम् ॥ पातालतलमारभ्य सत्यलोकावधि ध्रुवम् ॥ ३२ ॥
दक्ष-कन्या-प्रसूतैः च व्याप्तम् एवम् चराचरम् ॥ पाताल-तलम् आरभ्य सत्य-लोक-अवधि ध्रुवम् ॥ ३२ ॥
dakṣa-kanyā-prasūtaiḥ ca vyāptam evam carācaram .. pātāla-talam ārabhya satya-loka-avadhi dhruvam .. 32 ..
ब्रह्मांडं सकलं व्याप्तं शून्यं नैव कदाचन ॥ एवं सृष्टिः कृता सम्यग्ब्रह्मणा शंभुशासनात् ॥ ३३ ॥
ब्रह्मांडम् सकलम् व्याप्तम् शून्यम् न एव कदाचन ॥ एवम् सृष्टिः कृता सम्यक् ब्रह्मणा शंभु-शासनात् ॥ ३३ ॥
brahmāṃḍam sakalam vyāptam śūnyam na eva kadācana .. evam sṛṣṭiḥ kṛtā samyak brahmaṇā śaṃbhu-śāsanāt .. 33 ..
सती नाम त्रिशूलाग्रे सदा रुद्रेण रक्षिता ॥ तपोर्थं निर्मिता पूर्वं शंभुना सर्वविष्णुना ॥ ३४ ॥
सती नाम त्रिशूल-अग्रे सदा रुद्रेण रक्षिता ॥ तपः-र्थम् निर्मिता पूर्वम् शंभुना सर्व-विष्णुना ॥ ३४ ॥
satī nāma triśūla-agre sadā rudreṇa rakṣitā .. tapaḥ-rtham nirmitā pūrvam śaṃbhunā sarva-viṣṇunā .. 34 ..
सैव दक्षात्समुद्भूता लोककार्यार्थमेव च ॥ लीलां चकार बहुशो भक्तोद्धरणहेतवे॥ ॥ ३५ ॥
सा एव दक्षात् समुद्भूता लोक-कार्य-अर्थम् एव च ॥ लीलाम् चकार बहुशस् भक्त-उद्धरण-हेतवे॥ ॥ ३५ ॥
sā eva dakṣāt samudbhūtā loka-kārya-artham eva ca .. līlām cakāra bahuśas bhakta-uddharaṇa-hetave.. .. 35 ..
वामांगो यस्य वैकुंठो दक्षिणांगोऽहमेव च ॥ रुद्रो हृदयजो यस्य त्रिविधस्तु शिवः स्मृतः॥ ३६ ॥
वाम-अंगः यस्य वैकुंठः दक्षिण-अंगः अहम् एव च ॥ रुद्रः हृदय-जः यस्य त्रिविधः तु शिवः स्मृतः॥ ३६ ॥
vāma-aṃgaḥ yasya vaikuṃṭhaḥ dakṣiṇa-aṃgaḥ aham eva ca .. rudraḥ hṛdaya-jaḥ yasya trividhaḥ tu śivaḥ smṛtaḥ.. 36 ..
अहं विष्णुश्च रुद्रश्च गुणास्त्रय उदाहृताः॥ स्वयं सदा निर्गुणश्च परब्रह्माव्ययश्शिवः ॥ ३७॥
अहम् विष्णुः च रुद्रः च गुणाः त्रयः उदाहृताः॥ स्वयम् सदा निर्गुणः च पर-ब्रह्म अव्ययः शिवः ॥ ३७॥
aham viṣṇuḥ ca rudraḥ ca guṇāḥ trayaḥ udāhṛtāḥ.. svayam sadā nirguṇaḥ ca para-brahma avyayaḥ śivaḥ .. 37..
विष्णुस्सत्त्वं रजोऽहं च तमो रुद्र उदाहृतः॥ लोकाचारत इत्येवं नामतो वस्तुतोऽन्यथा ॥ ३८॥
विष्णुः सत्त्वम् रजः अहम् च तमः रुद्रः उदाहृतः॥ लोक-आचारतः इति एवम् नामतः वस्तुतः अन्यथा ॥ ३८॥
viṣṇuḥ sattvam rajaḥ aham ca tamaḥ rudraḥ udāhṛtaḥ.. loka-ācārataḥ iti evam nāmataḥ vastutaḥ anyathā .. 38..
अंतस्तमो बहिस्सत्त्वो विष्णूरुद्रस्तथा मतः ॥ अंतस्सत्त्वस्तमोबाह्यो रजोहं सर्वेथा मुने ॥ ॥ ३९ ॥
अन्तर् तमः बहिस् सत्त्वः विष्णु-रुद्रः तथा मतः ॥ अन्तर् सत्त्वः तमः-बाह्यः मुने ॥ ॥ ३९ ॥
antar tamaḥ bahis sattvaḥ viṣṇu-rudraḥ tathā mataḥ .. antar sattvaḥ tamaḥ-bāhyaḥ mune .. .. 39 ..
राजसी च सुरा देवी सत्त्वरूपात्तु सा सती ॥ लक्ष्मीस्तमोमयी ज्ञेया विरूपा च शिवा परा ॥ 2.1.16.४०॥
राजसी च सुरा देवी सत्त्व-रूपात् तु सा सती ॥ लक्ष्मीः तमः-मयी ज्ञेया विरूपा च शिवा परा ॥ २।१।१६।४०॥
rājasī ca surā devī sattva-rūpāt tu sā satī .. lakṣmīḥ tamaḥ-mayī jñeyā virūpā ca śivā parā .. 2.1.16.40..
एवं शिवा सती भूत्वा शंकरेण विवाहिता ॥ पितुर्यज्ञे तनुं त्यक्त्वा नादात्तां स्वपदं ययौ ॥ ४१॥
एवम् शिवा सती भूत्वा शंकरेण विवाहिता ॥ पितुः यज्ञे तनुम् त्यक्त्वा न अदात् ताम् स्व-पदम् ययौ ॥ ४१॥
evam śivā satī bhūtvā śaṃkareṇa vivāhitā .. pituḥ yajñe tanum tyaktvā na adāt tām sva-padam yayau .. 41..
पुनश्च पार्वती जाता देवप्रार्थनया शिवा ॥ तपः कृत्वा सुविपुलं पुनश्शिवमुपागता ॥ ४२॥
पुनर् च पार्वती जाता देव-प्रार्थनया शिवा ॥ तपः कृत्वा सु विपुलम् पुनर् शिवम् उपागता ॥ ४२॥
punar ca pārvatī jātā deva-prārthanayā śivā .. tapaḥ kṛtvā su vipulam punar śivam upāgatā .. 42..
तस्या नामान्यनेकानि जातानि च मुनीश्वर॥ कालिका चंडिका भद्रा चामुंडा विजया जया ॥ ४३॥
तस्याः नामानि अनेकानि जातानि च मुनि-ईश्वर॥ कालिका चंडिका भद्रा चामुंडा विजया जया ॥ ४३॥
tasyāḥ nāmāni anekāni jātāni ca muni-īśvara.. kālikā caṃḍikā bhadrā cāmuṃḍā vijayā jayā .. 43..
जयंती भद्रकाली च दुर्गा भगवतीति च ॥ कामाख्या कामदा ह्यम्बा मृडानी सर्वमंगला ॥ ४४ ॥
जयंती भद्रकाली च दुर्गा भगवती इति च ॥ कामाख्या कामदा हि अम्बा मृडानी सर्वमंगला ॥ ४४ ॥
jayaṃtī bhadrakālī ca durgā bhagavatī iti ca .. kāmākhyā kāmadā hi ambā mṛḍānī sarvamaṃgalā .. 44 ..
नामधेयान्यनेकानि भुक्तिमुक्तिप्रदानि च॥ गुणकर्मानुरूपाणि प्रायशस्तत्र पार्वती ॥ ४५॥
नामधेयानि अनेकानि भुक्ति-मुक्ति-प्रदानि च॥ गुण-कर्म-अनुरूपाणि प्रायशस् तत्र पार्वती ॥ ४५॥
nāmadheyāni anekāni bhukti-mukti-pradāni ca.. guṇa-karma-anurūpāṇi prāyaśas tatra pārvatī .. 45..
गुणमय्यस्तथा देव्यो देवा गुणमयास्त्रयः ॥ मिलित्वा विविधं सृष्टेश्चक्रुस्ते कार्यमुत्तमम् ॥ ४६॥
गुण-मय्यः तथा देव्यः देवाः गुण-मयाः त्रयः ॥ मिलित्वा विविधम् सृष्टेः चक्रुः ते कार्यम् उत्तमम् ॥ ४६॥
guṇa-mayyaḥ tathā devyaḥ devāḥ guṇa-mayāḥ trayaḥ .. militvā vividham sṛṣṭeḥ cakruḥ te kāryam uttamam .. 46..
एवं सृष्टिप्रकारस्ते वर्णितो मुनिसत्तम॥ शिवाज्ञया विरचितो ब्रह्मांडस्य मयाऽखिलः ॥ ॥ ४७॥
एवम् सृष्टि-प्रकारः ते वर्णितः मुनि-सत्तम॥ शिव-आज्ञया विरचितः ब्रह्मांडस्य मया अखिलः ॥ ॥ ४७॥
evam sṛṣṭi-prakāraḥ te varṇitaḥ muni-sattama.. śiva-ājñayā viracitaḥ brahmāṃḍasya mayā akhilaḥ .. .. 47..
परं ब्रह्म शिवः प्रोक्तस्तस्य रूपास्त्रयः सुराः ॥ अहं विष्णुश्च रुद्रश्च गुणभेदानुरूपतः ॥ ४८॥
परम् ब्रह्म शिवः प्रोक्तः तस्य रूपाः त्रयः सुराः ॥ अहम् विष्णुः च रुद्रः च गुण-भेद-अनुरूपतः ॥ ४८॥
param brahma śivaḥ proktaḥ tasya rūpāḥ trayaḥ surāḥ .. aham viṣṇuḥ ca rudraḥ ca guṇa-bheda-anurūpataḥ .. 48..
शिवया रमते स्वैरं शिवलोके मनोरमे ॥ स्वतंत्रः परमात्मा हि निर्गुणस्सगुणोऽपि वै ॥ ४९॥
शिवया रमते स्वैरम् शिव-लोके मनोरमे ॥ स्वतंत्रः परमात्मा हि निर्गुणः स गुणः अपि वै ॥ ४९॥
śivayā ramate svairam śiva-loke manorame .. svataṃtraḥ paramātmā hi nirguṇaḥ sa guṇaḥ api vai .. 49..
तस्य पूर्णवतारो हिं रुद्रस्साक्षाच्छिवः स्मृतः ॥ कैलासे भवनं रम्यं पंचवक्त्रश्चकार ह ॥
तस्य पूर्ण-अवतारः हिं रुद्रः साक्षात् शिवः स्मृतः ॥ कैलासे भवनम् रम्यम् पंचवक्त्रः चकार ह ॥
tasya pūrṇa-avatāraḥ hiṃ rudraḥ sākṣāt śivaḥ smṛtaḥ .. kailāse bhavanam ramyam paṃcavaktraḥ cakāra ha ..
ब्रह्मांडस्य तथा नाशे तस्य नाशोस्ति वै न हि ॥ 2.1.16.५०॥
ब्रह्मांडस्य तथा नाशे तस्य नाशः उस्ति वै न हि ॥ २।१।१६।५०॥
brahmāṃḍasya tathā nāśe tasya nāśaḥ usti vai na hi .. 2.1.16.50..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथम खंडे सृष्ट्युपाख्याने ब्रह्मनारदसंवादे सृष्टिवर्णनो नाम षोडशोऽध्यायः ॥ १६॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् प्रथम-खंडे सृष्ट्युपाख्याने ब्रह्म-नारद-संवादे सृष्टिवर्णनः नाम षोडशः अध्यायः ॥ १६॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām prathama-khaṃḍe sṛṣṭyupākhyāne brahma-nārada-saṃvāde sṛṣṭivarṇanaḥ nāma ṣoḍaśaḥ adhyāyaḥ .. 16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In