| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य ब्रह्मणस्स तु नारदः ॥ पुनः पप्रच्छ तं नत्वा विनयेन मुनीश्वराः ॥ १ ॥
इति आकर्ण्य वचः तस्य ब्रह्मणः स तु नारदः ॥ पुनर् पप्रच्छ तम् नत्वा विनयेन मुनि-ईश्वराः ॥ १ ॥
iti ākarṇya vacaḥ tasya brahmaṇaḥ sa tu nāradaḥ .. punar papraccha tam natvā vinayena muni-īśvarāḥ .. 1 ..
नारद उवाच ।।
कदागतो हि कैलासं शंकरो भक्तवत्सलः ॥ क्व वा सखित्वं तस्यासीत्कुबेरेण महात्मना ॥ २ ॥
कदागतः हि कैलासम् शंकरः भक्त-वत्सलः ॥ क्व वा सखि-त्वम् तस्य आसीत् कुबेरेण महात्मना ॥ २ ॥
kadāgataḥ hi kailāsam śaṃkaraḥ bhakta-vatsalaḥ .. kva vā sakhi-tvam tasya āsīt kubereṇa mahātmanā .. 2 ..
किं चकार हरस्तत्र परिपूर्णः शिवाकृतिः ॥ एतत्सर्वं समाचक्ष्व परं कौतूहलं मम ॥ ॥ ३ ॥
किम् चकार हरः तत्र परिपूर्णः शिव-आकृतिः ॥ एतत् सर्वम् समाचक्ष्व परम् कौतूहलम् मम ॥ ॥ ३ ॥
kim cakāra haraḥ tatra paripūrṇaḥ śiva-ākṛtiḥ .. etat sarvam samācakṣva param kautūhalam mama .. .. 3 ..
ब्रह्मोवाच ।।
शृणु नारद वक्ष्यामि चरितं शशिमौलिनः ॥ यथा जगाम कैलासं सखित्वं धनदस्य च ॥ ४॥
शृणु नारद वक्ष्यामि चरितम् शशिमौलिनः ॥ यथा जगाम कैलासम् सखि-त्वम् धनदस्य च ॥ ४॥
śṛṇu nārada vakṣyāmi caritam śaśimaulinaḥ .. yathā jagāma kailāsam sakhi-tvam dhanadasya ca .. 4..
असीत्कांपिल्यनगरे सोमयाजिकुलोद्भवः॥ दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदः ॥ ५॥
असीत् कांपिल्य-नगरे सोम-याजि-कुल-उद्भवः॥ ॥ ५॥
asīt kāṃpilya-nagare soma-yāji-kula-udbhavaḥ.. .. 5..
वेदवेदांगवित्प्राज्ञो वेदान्तादिषु दक्षिणः॥ राजमान्योऽथ बहुधा वदान्यः कीर्तिभाजनः॥ ६॥
वेद-वेदांग-विद् प्राज्ञः वेदान्त-आदिषु दक्षिणः॥ राजमान्यः अथ बहुधा वदान्यः कीर्ति-भाजनः॥ ६॥
veda-vedāṃga-vid prājñaḥ vedānta-ādiṣu dakṣiṇaḥ.. rājamānyaḥ atha bahudhā vadānyaḥ kīrti-bhājanaḥ.. 6..
अग्निशुश्रूषणरतो वेदाध्ययनतत्परः॥ सुन्दरो रमणीयांगश्चन्द्रबिंबसमाकृतिः॥ ७॥
॥ सुन्दरः रमणीय-अंगः चन्द्र-बिंब-सम-आकृतिः॥ ७॥
.. sundaraḥ ramaṇīya-aṃgaḥ candra-biṃba-sama-ākṛtiḥ.. 7..
आसीद्गुणनिधिर्नाम दीक्षितस्यास्य वै सुतः॥ कृतोपनयनस्सोष्टौ विद्या जग्राह भूरिशः॥ अथ पित्रानभिज्ञातो यूतकर्मरतोऽभवत् ॥ ८॥
आसीत् गुणनिधिः नाम दीक्षितस्य अस्य वै सुतः॥ कृत-उपनयनः स उष्टौ विद्याः जग्राह भूरिशस्॥ अथ पित्रा अन् अभिज्ञातः यूत-कर्म-रतः अभवत् ॥ ८॥
āsīt guṇanidhiḥ nāma dīkṣitasya asya vai sutaḥ.. kṛta-upanayanaḥ sa uṣṭau vidyāḥ jagrāha bhūriśas.. atha pitrā an abhijñātaḥ yūta-karma-rataḥ abhavat .. 8..
आदायादाय बहुशो धनं मातुस्सकाशतः॥ समदाद्यूतकारेभ्यो मैत्रीं तैश्च चकार सः॥ ९॥
आदाय आदाय बहुशस् धनम् मातुः सकाशतः॥ स मदा-द्यूत-कारेभ्यः मैत्रीम् तैः च चकार सः॥ ९॥
ādāya ādāya bahuśas dhanam mātuḥ sakāśataḥ.. sa madā-dyūta-kārebhyaḥ maitrīm taiḥ ca cakāra saḥ.. 9..
संत्यक्तब्राह्मणाचारः संध्यास्नानपराङ्मुखः॥ निंदको वेदशास्त्राणां देवब्राह्मणनिंदकः॥ 2.1.17.१०॥
संत्यक्त-ब्राह्मण-आचारः संध्या-स्नान-पराङ्मुखः॥ निंदकः वेद-शास्त्राणाम् देव-ब्राह्मण-निंदकः॥ २।१।१७।१०॥
saṃtyakta-brāhmaṇa-ācāraḥ saṃdhyā-snāna-parāṅmukhaḥ.. niṃdakaḥ veda-śāstrāṇām deva-brāhmaṇa-niṃdakaḥ.. 2.1.17.10..
स्मृत्याचारविहीनस्तु गीतवाद्यविनोदभाक्॥ नटपाखंडभाण्डैस्तु बद्धप्रेमपरंपरः ॥ ११ ॥
स्मृति-आचार-विहीनः तु गीत-वाद्य-विनोद-भाज्॥ नट-पाखंड-भाण्डैः तु बद्ध-प्रेम-परंपरः ॥ ११ ॥
smṛti-ācāra-vihīnaḥ tu gīta-vādya-vinoda-bhāj.. naṭa-pākhaṃḍa-bhāṇḍaiḥ tu baddha-prema-paraṃparaḥ .. 11 ..
प्रेरितोऽपि जनन्या स न ययौ पितुरंतिकम् ॥ गृहकार्यांतरव्याप्तो दीक्षितो दीक्षितायिनीम्॥ १२॥
प्रेरितः अपि जनन्या स न ययौ पितुः अंतिकम् ॥ गृह-कार्य-अंतर-व्याप्तः दीक्षितः दीक्षितायिनीम्॥ १२॥
preritaḥ api jananyā sa na yayau pituḥ aṃtikam .. gṛha-kārya-aṃtara-vyāptaḥ dīkṣitaḥ dīkṣitāyinīm.. 12..
यदा यदैव तां पृच्छेदये गुणनिधिस्सुतः ॥ न दृश्यते मया गेहे कल्याणि विदधाति किम् ॥ १३ ॥
यदा यदा एव ताम् पृच्छेत् अये गुण-निधिः सुतः ॥ न दृश्यते मया गेहे कल्याणि विदधाति किम् ॥ १३ ॥
yadā yadā eva tām pṛcchet aye guṇa-nidhiḥ sutaḥ .. na dṛśyate mayā gehe kalyāṇi vidadhāti kim .. 13 ..
तदा तदेति सा ब्रूयादिदानीं स बहिर्गतः ॥ स्नात्वा समर्च्य वै देवानेतावंतमनेहसम्॥ १४॥
तदा तदा इति सा ब्रूयात् इदानीम् स बहिस् गतः ॥ स्नात्वा समर्च्य वै देवान् एतावंतम् अनेहसम्॥ १४॥
tadā tadā iti sā brūyāt idānīm sa bahis gataḥ .. snātvā samarcya vai devān etāvaṃtam anehasam.. 14..
अधीत्याध्ययनार्थं स द्विजैर्मित्रैस्समं ययौ ॥ एकपुत्रेति तन्माता प्रतारयति दीक्षितम्॥ १५॥
अधीत्य अध्ययन-अर्थम् स द्विजैः मित्रैः समम् ययौ ॥ एक-पुत्र-इति तद्-माता प्रतारयति दीक्षितम्॥ १५॥
adhītya adhyayana-artham sa dvijaiḥ mitraiḥ samam yayau .. eka-putra-iti tad-mātā pratārayati dīkṣitam.. 15..
न तत्कर्म च तद्वृत्तं किंचिद्वेत्ति स दीक्षितः ॥ सर्वं केशांतकर्मास्य चक्रे वर्षेऽथ षोडशे। १६ ॥
न तद्-कर्म च तद्-वृत्तम् किंचिद् वेत्ति स दीक्षितः ॥ सर्वम् केशांत-कर्म अस्य चक्रे वर्षे अथ षोडशे। १६ ॥
na tad-karma ca tad-vṛttam kiṃcid vetti sa dīkṣitaḥ .. sarvam keśāṃta-karma asya cakre varṣe atha ṣoḍaśe. 16 ..
अथो स दीक्षितो यज्ञदत्तः पुत्रस्य तस्य च॥ गृह्योक्तेन विधानेन पाणिग्राहमकारयम्॥ १७॥
अथो स दीक्षितः यज्ञदत्तः पुत्रस्य तस्य च॥ गृह्य-उक्तेन विधानेन पाणिग्राहम् अकारयम्॥ १७॥
atho sa dīkṣitaḥ yajñadattaḥ putrasya tasya ca.. gṛhya-uktena vidhānena pāṇigrāham akārayam.. 17..
प्रत्यहं तस्य जननी सुतं गुणनिधिं मृदु॥ शास्ति स्नेहार्द्रहृदया ह्युपवेश्य स्म नारद ॥ १-॥
प्रत्यहम् तस्य जननी सुतम् गुण-निधिम् मृदु॥ शास्ति स्नेह-आर्द्र-हृदया हि उपवेश्य स्म नारद ॥ १॥
pratyaham tasya jananī sutam guṇa-nidhim mṛdu.. śāsti sneha-ārdra-hṛdayā hi upaveśya sma nārada .. 1..
क्रोधनस्तेऽस्ति तनय स महात्मा पितेत्यलम् ॥ यदि ज्ञास्यति ते वृत्तं त्वां च मां ताडयिष्यति॥ १९॥
क्रोधनः ते अस्ति तनय स महात्मा पिता इति अलम् ॥ यदि ज्ञास्यति ते वृत्तम् त्वाम् च माम् ताडयिष्यति॥ १९॥
krodhanaḥ te asti tanaya sa mahātmā pitā iti alam .. yadi jñāsyati te vṛttam tvām ca mām tāḍayiṣyati.. 19..
आच्छादयामि ते नित्यं पितुरग्रे कुचेष्टितम्॥ लोकमान्योऽस्ति ते तातस्सदाचारैर्न वै धनैः ॥ 2.1.17.२०॥
आच्छादयामि ते नित्यम् पितुः अग्रे कु चेष्टितम्॥ लोक-मान्यः अस्ति ते तातः सत्-आचारैः न वै धनैः ॥ २।१।१७।२०॥
ācchādayāmi te nityam pituḥ agre ku ceṣṭitam.. loka-mānyaḥ asti te tātaḥ sat-ācāraiḥ na vai dhanaiḥ .. 2.1.17.20..
ब्राह्मणानां धनं तात सद्विद्या साधुसं- गमः ॥ किमर्थं न करोषि त्वं सुरुचिं प्रीतमानसः ॥ २१॥
ब्राह्मणानाम् धनम् तात सत्-विद्या साधु-संगमः ॥ किमर्थम् न करोषि त्वम् सुरुचिम् प्रीत-मानसः ॥ २१॥
brāhmaṇānām dhanam tāta sat-vidyā sādhu-saṃgamaḥ .. kimartham na karoṣi tvam surucim prīta-mānasaḥ .. 21..
सच्छ्रोत्रियास्तेऽनूचाना दीक्षितास्सोमयाजिनः ॥ इति रूढिमिह प्राप्तास्तव पूर्वपितामहाः ॥ २२॥
सत्-श्रोत्रियाः ते अनूचानाः दीक्षिताः सोम-याजिनः ॥ इति रूढिम् इह प्राप्ताः तव पूर्व-पितामहाः ॥ २२॥
sat-śrotriyāḥ te anūcānāḥ dīkṣitāḥ soma-yājinaḥ .. iti rūḍhim iha prāptāḥ tava pūrva-pitāmahāḥ .. 22..
त्यक्त्वा दुर्वृत्तसंसर्गं साधुसंगरतो भव ॥ सद्विद्यासु मनो धेहि ब्राह्मणाचारमाचर ॥ २३॥
त्यक्त्वा दुर्वृत्त-संसर्गम् साधु-संगरतः भव ॥ सत्-विद्यासु मनः धेहि ब्राह्मण-आचारम् आचर ॥ २३॥
tyaktvā durvṛtta-saṃsargam sādhu-saṃgarataḥ bhava .. sat-vidyāsu manaḥ dhehi brāhmaṇa-ācāram ācara .. 23..
तातानुरूपो रूपेण यशसा कुलशीलतः ॥ ततो न त्रपसे किन्नस्त्यज दुर्वृत्ततां स्वकाम् ॥ २४॥
तात अनुरूपः रूपेण यशसा कुल-शीलतः ॥ ततस् न त्रपसे किन्नः त्यज दुर्वृत्त-ताम् स्वकाम् ॥ २४॥
tāta anurūpaḥ rūpeṇa yaśasā kula-śīlataḥ .. tatas na trapase kinnaḥ tyaja durvṛtta-tām svakām .. 24..
ऊनविंशतिकोऽसि त्वमेषा षोडशवार्षिकी ॥ एतां संवृणु सद्वृत्तां पितृभक्तियुतो भव ॥ २५॥
ऊनविंशतिकः असि त्वम् एषा षोडश-वार्षिकी ॥ एताम् संवृणु सत्-वृत्ताम् पितृ-भक्ति-युतः भव ॥ २५॥
ūnaviṃśatikaḥ asi tvam eṣā ṣoḍaśa-vārṣikī .. etām saṃvṛṇu sat-vṛttām pitṛ-bhakti-yutaḥ bhava .. 25..
श्वशुरोऽपि हि ते मान्यस्सर्वत्र गुणशीलतः ॥ ततो न त्रपसे किन्नस्त्यज दुर्वृत्ततां सुत ॥ २६॥
श्वशुरः अपि हि ते मान्यः सर्वत्र गुण-शीलतः ॥ ततस् न त्रपसे किन्नः त्यज दुर्वृत्त-ताम् सुत ॥ २६॥
śvaśuraḥ api hi te mānyaḥ sarvatra guṇa-śīlataḥ .. tatas na trapase kinnaḥ tyaja durvṛtta-tām suta .. 26..
मातुलास्तेऽतुलाः पुत्र विद्याशीलकुलादिभिः ॥ तेभ्योऽपि न बिभेषि त्वं शुद्धोऽस्युभयवंशतः ॥ २७॥
मातुलाः ते अतुलाः पुत्र विद्या-शील-कुल-आदिभिः ॥ तेभ्यः अपि न बिभेषि त्वम् शुद्धः असि उभय-वंशतः ॥ २७॥
mātulāḥ te atulāḥ putra vidyā-śīla-kula-ādibhiḥ .. tebhyaḥ api na bibheṣi tvam śuddhaḥ asi ubhaya-vaṃśataḥ .. 27..
पश्यैतान्प्रति वेश्मस्थान्ब्राह्मणानां कुमारकान् ॥ गृहेऽपि शिष्यान्पश्यैतान्पितुस्ते विनयोचितान् ॥ २८॥
पश्य एतान् प्रति वेश्म-स्थान् ब्राह्मणानाम् कुमारकान् ॥ गृहे अपि शिष्यान् पश्य एतान् पितुः ते विनय-उचितान् ॥ २८॥
paśya etān prati veśma-sthān brāhmaṇānām kumārakān .. gṛhe api śiṣyān paśya etān pituḥ te vinaya-ucitān .. 28..
राजापि श्रोष्यति यदा तव दुश्चेष्टितं सुत ॥ श्रद्धां विहाय ते ताते वृत्तिलोपं करिष्यति ॥ २९ ॥
राजा अपि श्रोष्यति यदा तव दुश्चेष्टितम् सुत ॥ श्रद्धाम् विहाय ते ताते वृत्ति-लोपम् करिष्यति ॥ २९ ॥
rājā api śroṣyati yadā tava duśceṣṭitam suta .. śraddhām vihāya te tāte vṛtti-lopam kariṣyati .. 29 ..
बालचेष्टितमेवैतद्वदंत्यद्यापि ते जनाः ॥ अनंतरं हरिष्यंति युक्तां दीक्षिततामिह ॥ 2.1.17.३० ॥
बाल-चेष्टितम् एव एतत् वदंति अद्य अपि ते जनाः ॥ अनंतरम् हरिष्यंति युक्ताम् दीक्षित-ताम् इह ॥ २।१।१७।३० ॥
bāla-ceṣṭitam eva etat vadaṃti adya api te janāḥ .. anaṃtaram hariṣyaṃti yuktām dīkṣita-tām iha .. 2.1.17.30 ..
सर्वेप्याक्षारयिष्यंति तव तातं च मामपि ॥ मातुश्चरित्रं तनयो धत्ते दुर्भाषणैरिति ॥ ३१ ॥
सर्वे अपि आक्षारयिष्यन्ति तव तातम् च माम् अपि ॥ मातुः चरित्रम् तनयः धत्ते दुर्भाषणैः इति ॥ ३१ ॥
sarve api ākṣārayiṣyanti tava tātam ca mām api .. mātuḥ caritram tanayaḥ dhatte durbhāṣaṇaiḥ iti .. 31 ..
पितापि ते न पापीयाञ्छ्रुतिस्मृतिपथानुगः ॥ तदंघ्रिलीनमनसो मम साक्षी महेश्वरः ॥ ३२॥
पिता अपि ते न पापीयान् श्रुति-स्मृति-पथ-अनुगः ॥ तद्-अंघ्रि-लीन-मनसः मम साक्षी महेश्वरः ॥ ३२॥
pitā api te na pāpīyān śruti-smṛti-patha-anugaḥ .. tad-aṃghri-līna-manasaḥ mama sākṣī maheśvaraḥ .. 32..
न चर्तुस्नातययापीह मुखं दुष्टस्य वीक्षितम्॥ अहो बलीयान्स विधिर्येन जातो भवानिति ॥ ३३ ॥
न च ऋतुस्नातयया अपि इह मुखम् दुष्टस्य वीक्षितम्॥ अहो बलीयान् स विधिः येन जातः भवान् इति ॥ ३३ ॥
na ca ṛtusnātayayā api iha mukham duṣṭasya vīkṣitam.. aho balīyān sa vidhiḥ yena jātaḥ bhavān iti .. 33 ..
प्रतिक्षणं जनन्येति शिक्ष्यमाणोतिदुर्मतिः ॥ ।न तत्याज च तद्धर्मं दुर्बोधो व्यसनी यतः ॥ ३४ ॥
प्रतिक्षणम् जननी एति शिक्ष्यमाणा उति दुर्मतिः ॥ ।न तत्याज च तद्-धर्मम् दुर्बोधः व्यसनी यतस् ॥ ३४ ॥
pratikṣaṇam jananī eti śikṣyamāṇā uti durmatiḥ .. .na tatyāja ca tad-dharmam durbodhaḥ vyasanī yatas .. 34 ..
मृगयामद्यपैशुन्यानृतचौर्यदुरोदरैः ॥ स वारदारैर्व्यसनैरेभिः कोऽत्र न खंडितः ॥ ३५ ॥ ।
मृगया-मद्य-पैशुन्य-अनृत-चौर्य-दुरोदरैः ॥ स वारदारैः व्यसनैः एभिः कः अत्र न खण्डितः ॥ ३५ ॥ ।
mṛgayā-madya-paiśunya-anṛta-caurya-durodaraiḥ .. sa vāradāraiḥ vyasanaiḥ ebhiḥ kaḥ atra na khaṇḍitaḥ .. 35 .. .
यद्यन्मध्यगृहे पश्येत्तत्तन्नीत्वा सुदुर्मतिः ॥ अर्पयेद्द्यूतकाराणां सकुप्यं वसनादिकम् ॥ ३६ ॥
यत् यत् मध्य-गृहे पश्येत् तत् तत् नीत्वा सु दुर्मतिः ॥ अर्पयेत् द्यूतकाराणाम् स कुप्यम् वसन-आदिकम् ॥ ३६ ॥
yat yat madhya-gṛhe paśyet tat tat nītvā su durmatiḥ .. arpayet dyūtakārāṇām sa kupyam vasana-ādikam .. 36 ..
न्यस्तां रत्नमयीं गेहे करस्य पितुरूर्मिकाम् ॥ चोरयित्वैकदादाय दुरोदरकरेऽर्पयत् ॥ ३७ ॥
न्यस्ताम् रत्न-मयीम् गेहे करस्य पितुः ऊर्मिकाम् ॥ चोरयित्वा एकदा आदाय दुरोदर-करे अर्पयत् ॥ ३७ ॥
nyastām ratna-mayīm gehe karasya pituḥ ūrmikām .. corayitvā ekadā ādāya durodara-kare arpayat .. 37 ..
दीक्षितेन परिज्ञातो दैवाद्द्यूतकृतः करे ॥ उवाच दीक्षितस्तं च कुतो लब्धा त्वयोर्मिका ॥ ३८ ॥
दीक्षितेन परिज्ञातः दैवात् द्यूत-कृतः करे ॥ उवाच दीक्षितः तम् च कुतस् लब्धा त्वया ऊर्मिका ॥ ३८ ॥
dīkṣitena parijñātaḥ daivāt dyūta-kṛtaḥ kare .. uvāca dīkṣitaḥ tam ca kutas labdhā tvayā ūrmikā .. 38 ..
पृष्टस्तेनाथ निर्बंधादसकृत्तमुवाच सः ॥ मामाक्षिपसि विप्रोच्चैः किं मया चौर्यकर्मणा ॥ ३९॥
पृष्टः तेन अथ निर्बंधात् असकृत् तम् उवाच सः ॥ माम् आक्षिपसि विप्र उच्चैस् किम् मया चौर्य-कर्मणा ॥ ३९॥
pṛṣṭaḥ tena atha nirbaṃdhāt asakṛt tam uvāca saḥ .. mām ākṣipasi vipra uccais kim mayā caurya-karmaṇā .. 39..
लब्धा मुद्रा त्वदीयेन पुत्रेणैव समर्पिता ॥ मम मातुर्हि पूर्वेद्युर्जित्वा नीतो हि शाटकः॥ 2.1.17.४०॥
लब्धा मुद्रा त्वदीयेन पुत्रेण एव समर्पिता ॥ मम मातुः हि पूर्वेद्युस् जित्वा नीतः हि शाटकः॥ २।१।१७।४०॥
labdhā mudrā tvadīyena putreṇa eva samarpitā .. mama mātuḥ hi pūrvedyus jitvā nītaḥ hi śāṭakaḥ.. 2.1.17.40..
न केवलं ममैवैतदंगुलीयं समर्पितम् ॥ अन्येषां द्यूतकर्तॄणां भूरि तेनार्पितं वसु ॥ ४१ ॥
न केवलम् मम एव एतत् अंगुलीयम् समर्पितम् ॥ अन्येषाम् द्यूत-कर्तॄणाम् भूरि तेन अर्पितम् वसु ॥ ४१ ॥
na kevalam mama eva etat aṃgulīyam samarpitam .. anyeṣām dyūta-kartṝṇām bhūri tena arpitam vasu .. 41 ..
रत्नकुप्यदुकूलानि शृंगारप्रभृतीनि च ॥ भाजनानि विचित्राणि कांस्यताम्रमयानि च ॥ ४२ ॥
रत्न-कुप्य-दुकूलानि शृंगार-प्रभृतीनि च ॥ भाजनानि विचित्राणि कांस्य-ताम्र-मयानि च ॥ ४२ ॥
ratna-kupya-dukūlāni śṛṃgāra-prabhṛtīni ca .. bhājanāni vicitrāṇi kāṃsya-tāmra-mayāni ca .. 42 ..
नग्नीकृत्य प्रतिदिनं बध्यते द्यूतकारिभिः ॥ न तेन सदृशः कश्चिदाक्षिको भूमिमंडले ॥ ४३ ॥
नग्नीकृत्य प्रतिदिनम् बध्यते द्यूत-कारिभिः ॥ न तेन सदृशः कश्चिद् आक्षिकः भूमि-मंडले ॥ ४३ ॥
nagnīkṛtya pratidinam badhyate dyūta-kāribhiḥ .. na tena sadṛśaḥ kaścid ākṣikaḥ bhūmi-maṃḍale .. 43 ..
अद्यावधि त्वया विप्र दुरोदर शिरोमणिः ॥ कथं नाज्ञायि तनयोऽविनयानयकोविदः ॥ ४४ ॥
अद्य अवधि त्वया विप्र दुरोदर शिरोमणिः ॥ कथम् ना अज्ञायि तनयः अविनय-अनय-कोविदः ॥ ४४ ॥
adya avadhi tvayā vipra durodara śiromaṇiḥ .. katham nā ajñāyi tanayaḥ avinaya-anaya-kovidaḥ .. 44 ..
इति श्रुत्वा त्रपाभारविनम्रतरकंधरः ॥ प्रावृत्य वाससा मौलिं प्राविशन्निजमन्दिरम् ॥ ४५ ॥
इति श्रुत्वा त्रपा-भार-विनम्रतर-कंधरः ॥ प्रावृत्य वाससा मौलिम् प्राविशत् निज-मन्दिरम् ॥ ४५ ॥
iti śrutvā trapā-bhāra-vinamratara-kaṃdharaḥ .. prāvṛtya vāsasā maulim prāviśat nija-mandiram .. 45 ..
महापतिव्रतामस्य पत्नी प्रोवाच तामथ ॥ स दीक्षितो यज्ञदत्तः श्रौतकर्मपरायणः ॥ ४६ ॥
महा-पतिव्रताम् अस्य पत्नी प्रोवाच ताम् अथ ॥ स दीक्षितः यज्ञदत्तः श्रौत-कर्म-परायणः ॥ ४६ ॥
mahā-pativratām asya patnī provāca tām atha .. sa dīkṣitaḥ yajñadattaḥ śrauta-karma-parāyaṇaḥ .. 46 ..
यज्ञदत्त उवाच ।।
दीक्षितायनि कुत्रास्ति धूर्ते गुणनिधिस्सुतः ॥ अथ तिष्ठतु किं तेन क्व सा मम शुभोर्मिका ॥ ॥ ४७॥
दीक्षितायनि कुत्र अस्ति धूर्ते गुण-निधिः सुतः ॥ अथ तिष्ठतु किम् तेन क्व सा मम शुभ-ऊर्मिका ॥ ॥ ४७॥
dīkṣitāyani kutra asti dhūrte guṇa-nidhiḥ sutaḥ .. atha tiṣṭhatu kim tena kva sā mama śubha-ūrmikā .. .. 47..
अंगोद्वर्तनकाले या त्वया मेऽङ्गुलितो हृता ॥ सा त्वं रत्नमयी शीघ्रं तामानीय प्रयच्छ मे ॥ ४८ ॥
अंग-उद्वर्तन-काले या त्वया मे अङ्गुलितः हृता ॥ सा त्वम् रत्न-मयी शीघ्रम् ताम् आनीय प्रयच्छ मे ॥ ४८ ॥
aṃga-udvartana-kāle yā tvayā me aṅgulitaḥ hṛtā .. sā tvam ratna-mayī śīghram tām ānīya prayaccha me .. 48 ..
इति श्रुत्वाथ तद्वाक्यं भीता सा दीक्षितायनी ॥ प्रोवाच स्नानमध्याह्नीं क्रियां निष्पादयत्यथ ॥ ४९ ॥
इति श्रुत्वा अथ तद्-वाक्यम् भीता सा दीक्षितायनी ॥ प्रोवाच स्नान-मध्याह्नीम् क्रियाम् निष्पादयति अथ ॥ ४९ ॥
iti śrutvā atha tad-vākyam bhītā sā dīkṣitāyanī .. provāca snāna-madhyāhnīm kriyām niṣpādayati atha .. 49 ..
व्यग्रास्मि देवपूजार्थमुपहारादिकर्मणि ॥ समयोऽयमतिक्रामेदतिथीनां प्रियातिथे ॥ 2.1.17.५० ॥
व्यग्रा अस्मि देव-पूजा-अर्थम् उपहार-आदि-कर्मणि ॥ समयः अयम् अतिक्रामेत् अतिथीनाम् प्रिय-अतिथे ॥ २।१।१७।५० ॥
vyagrā asmi deva-pūjā-artham upahāra-ādi-karmaṇi .. samayaḥ ayam atikrāmet atithīnām priya-atithe .. 2.1.17.50 ..
इदानीमेव पक्वान्नकारणव्यग्रया मया ॥ स्थापिता भाजने क्वापि विस्मृतेति न वेद्म्यहम् ॥ ५१॥
इदानीम् एव पक्व-अन्न-कारण-व्यग्रया मया ॥ स्थापिता भाजने क्वापि विस्मृता इति न वेद्मि अहम् ॥ ५१॥
idānīm eva pakva-anna-kāraṇa-vyagrayā mayā .. sthāpitā bhājane kvāpi vismṛtā iti na vedmi aham .. 51..
हं हेऽसत्पुत्रजननि नित्यं सत्यप्रभाषिणि ॥ यदा यदा त्वां संपृछे तनयः क्व गतस्त्विति ॥ ॥ ५२ ॥
हं हे असत्-पुत्र-जननि नित्यम् सत्य-प्रभाषिणि ॥ यदा यदा त्वाम् संपृच्छे तनयः क्व गतः तु इति ॥ ॥ ५२ ॥
haṃ he asat-putra-janani nityam satya-prabhāṣiṇi .. yadā yadā tvām saṃpṛcche tanayaḥ kva gataḥ tu iti .. .. 52 ..
दीक्षित उवाच ।।
तदातदेति त्वं ब्रूयान्नथेदानीं स निर्गतः ॥ अधीत्याध्ययनार्थं च द्वित्रैर्मित्रैस्सयुग्बहिः ॥ ५३ ॥
तदा तदा इति त्वम् ब्रूयात् नथा इदानीम् स निर्गतः ॥ अधीत्य अध्ययन-अर्थम् च द्वित्रैः मित्रैः सयुज् बहिस् ॥ ५३ ॥
tadā tadā iti tvam brūyāt nathā idānīm sa nirgataḥ .. adhītya adhyayana-artham ca dvitraiḥ mitraiḥ sayuj bahis .. 53 ..
कुतस्ते शाटकः पत्नि मांजिष्ठो यो मयार्पितः ॥ लभते योऽनिशं धाम्नि तथ्यं ब्रूहि भयं त्यज ॥ ५४ ॥
कुतस् ते शाटकः पत्नि मांजिष्ठः यः मया अर्पितः ॥ लभते यः अनिशम् धाम्नि तथ्यम् ब्रूहि भयम् त्यज ॥ ५४ ॥
kutas te śāṭakaḥ patni māṃjiṣṭhaḥ yaḥ mayā arpitaḥ .. labhate yaḥ aniśam dhāmni tathyam brūhi bhayam tyaja .. 54 ..
सांप्रतं नेक्ष्यते सोऽपि भृंगारो मणिमंडितः ॥ पट्टसूत्रमयी सापि त्रिपटी या मयार्पिता ॥ ५५॥
सांप्रतम् न ईक्ष्यते सः अपि भृंगारः मणि-मंडितः ॥ पट्टसूत्र-मयी सा अपि त्रिपटी या मया अर्पिता ॥ ५५॥
sāṃpratam na īkṣyate saḥ api bhṛṃgāraḥ maṇi-maṃḍitaḥ .. paṭṭasūtra-mayī sā api tripaṭī yā mayā arpitā .. 55..
क्व दाक्षिणात्यं तत्कांस्यं गौडी ताम्रघटी क्व सा ॥ नागदंतमयी सा क्व सुखकौतुक मंचिका ॥ ५६ ॥
क्व दाक्षिणात्यम् तत् कांस्यम् गौडी ताम्र-घटी क्व सा ॥ नागदंत-मयी सा क्व सुख-कौतुक मंचिका ॥ ५६ ॥
kva dākṣiṇātyam tat kāṃsyam gauḍī tāmra-ghaṭī kva sā .. nāgadaṃta-mayī sā kva sukha-kautuka maṃcikā .. 56 ..
क्व सा पर्वतदेशीया चन्द्रकांतिरिवाद्भुता ॥ दीपकव्यग्रहस्ताग्रालंकृता शालभञ्जिका ॥ ५७ ॥
क्व सा पर्वत-देशीया चन्द्र-कान्तिः इव अद्भुता ॥ दीपक-व्यग्र-हस्त-अग्र-अलंकृता शालभञ्जिका ॥ ५७ ॥
kva sā parvata-deśīyā candra-kāntiḥ iva adbhutā .. dīpaka-vyagra-hasta-agra-alaṃkṛtā śālabhañjikā .. 57 ..
किं बहूक्तेन कुलजे तुभ्यं कुप्याम्यहं वृथा ॥ तदाभ्यवहारिष्येहमुपयंस्याम्यहं यदा ॥ ५८ ॥
किम् बहु-उक्तेन कुल-जे तुभ्यम् कुप्यामि अहम् वृथा ॥ तदा अभ्यवहारिष्ये इहम् उपयंस्यामि अहम् यदा ॥ ५८ ॥
kim bahu-uktena kula-je tubhyam kupyāmi aham vṛthā .. tadā abhyavahāriṣye iham upayaṃsyāmi aham yadā .. 58 ..
अनपत्योऽस्मि तेनाहं दुष्टेन कुलदूषिणा ॥ उत्तिष्ठानय पाथस्त्वं तस्मै दद्यास्तिलांजलिम् ॥ ५९॥
अनपत्यः अस्मि तेन अहम् दुष्टेन कुल-दूषिणा ॥ उत्तिष्ठ अनय पाथः त्वम् तस्मै दद्याः तिल-अंजलिम् ॥ ५९॥
anapatyaḥ asmi tena aham duṣṭena kula-dūṣiṇā .. uttiṣṭha anaya pāthaḥ tvam tasmai dadyāḥ tila-aṃjalim .. 59..
अपुत्रत्वं वरं नॄणां कुपुत्रात्कुलपांसनात् ॥ त्यजेदेकं कुलस्यार्थे नीतिरेषा सनातनी ॥ 2.1.17.६० ॥
अपुत्र-त्वम् वरम् नॄणाम् कु पुत्रात् कुल-पांसनात् ॥ त्यजेत् एकम् कुलस्य अर्थे नीतिः एषा सनातनी ॥ २।१।१७।६० ॥
aputra-tvam varam nṝṇām ku putrāt kula-pāṃsanāt .. tyajet ekam kulasya arthe nītiḥ eṣā sanātanī .. 2.1.17.60 ..
स्नात्वा नित्यविधिं कृत्वा तस्मिन्नेवाह्नि कस्यचित् ॥ श्रोत्रियस्य सुतां प्राप्य पाणिं जग्राह दीक्षितः ॥ ६१ ॥
स्नात्वा नित्य-विधिम् कृत्वा तस्मिन् एव अह्नि कस्यचिद् ॥ श्रोत्रियस्य सुताम् प्राप्य पाणिम् जग्राह दीक्षितः ॥ ६१ ॥
snātvā nitya-vidhim kṛtvā tasmin eva ahni kasyacid .. śrotriyasya sutām prāpya pāṇim jagrāha dīkṣitaḥ .. 61 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने गुणनिधिचरित्रवर्णनोनाम सप्तदशोऽध्यायः ॥ १७॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् प्रथम-खण्डे सृष्ट्युपाख्याने गुणनिधिचरित्रवर्णना नाम सप्तदशः अध्यायः ॥ १७॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām prathama-khaṇḍe sṛṣṭyupākhyāne guṇanidhicaritravarṇanā nāma saptadaśaḥ adhyāyaḥ .. 17..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In