| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
श्रुत्वा तथा स वृत्तांतं प्राक्तनं स्वं विनिंद्य च ॥ कांचिद्दिशं समालोक्य निर्ययौ दीक्षितांगजः ॥ १ ॥
श्रुत्वा तथा स वृत्तांतम् प्राक्तनम् स्वम् विनिंद्य च ॥ कांचिद् दिशम् समालोक्य निर्ययौ दीक्षित-अंगजः ॥ १ ॥
śrutvā tathā sa vṛttāṃtam prāktanam svam viniṃdya ca .. kāṃcid diśam samālokya niryayau dīkṣita-aṃgajaḥ .. 1 ..
कियच्चिरं ततो गत्वा यज्ञदत्तात्मजस्स हि ॥ दुष्टो गुणनिधिस्तस्थौ गतोत्साहो विसर्जितः ॥ २ ॥
कियत् चिरम् ततस् गत्वा यज्ञदत्त-आत्मजः स हि ॥ दुष्टः गुण-निधिः तस्थौ गत-उत्साहः विसर्जितः ॥ २ ॥
kiyat ciram tatas gatvā yajñadatta-ātmajaḥ sa hi .. duṣṭaḥ guṇa-nidhiḥ tasthau gata-utsāhaḥ visarjitaḥ .. 2 ..
चिंतामवाप महतीं क्व यामि करवाणि किम् ॥ नाहमभ्यस्तविद्योऽस्मि न चैवातिधनोऽस्म्यहम् ॥ ३ ॥
चिंताम् अवाप महतीम् क्व यामि करवाणि किम् ॥ न अहम् अभ्यस्त-विद्यः अस्मि न च एव अति धनः अस्मि अहम् ॥ ३ ॥
ciṃtām avāpa mahatīm kva yāmi karavāṇi kim .. na aham abhyasta-vidyaḥ asmi na ca eva ati dhanaḥ asmi aham .. 3 ..
देशांतरे यस्य धनं स सद्यस्सुखमेधते ॥ भयमस्ति धने चौरात्स विघ्नस्सर्वतोभवः ॥ ४॥
देश-अन्तरे यस्य धनम् स सद्यस् सुखम् एधते ॥ भयम् अस्ति धने चौरात् स विघ्नः सर्वतस् भवः ॥ ४॥
deśa-antare yasya dhanam sa sadyas sukham edhate .. bhayam asti dhane caurāt sa vighnaḥ sarvatas bhavaḥ .. 4..
याजकस्य कुले जन्म कथं मे व्यसनं महत्॥ अहो बलीयान्हि विधिर्भाविकर्मानुसंधयेत् ॥ ५॥
याजकस्य कुले जन्म कथम् मे व्यसनम् महत्॥ अहो बलीयान् हि विधिः भावि-कर्म अनुसंधयेत् ॥ ५॥
yājakasya kule janma katham me vyasanam mahat.. aho balīyān hi vidhiḥ bhāvi-karma anusaṃdhayet .. 5..
भिक्षितुन्नाधिगच्छामि न मे परिचितिः क्वचित् ॥ न च पार्श्वे धनं किञ्चित्किमत्र शरणं भवेत् ॥ ६॥
भिक्षितुन्ना अधिगच्छामि न मे परिचितिः क्वचिद् ॥ न च पार्श्वे धनम् किञ्चिद् किम् अत्र शरणम् भवेत् ॥ ६॥
bhikṣitunnā adhigacchāmi na me paricitiḥ kvacid .. na ca pārśve dhanam kiñcid kim atra śaraṇam bhavet .. 6..
सदानभ्युदिते भानौ प्रसूर्मे मिष्टभोजनम् ॥ दद्यादद्यात्र कं याचे न चेह जननी मम ॥ ७ ॥
सदा अनभ्युदिते भानौ प्रसूः मे मिष्ट-भोजनम् ॥ दद्यात् अद्य अत्र कम् याचे न च इह जननी मम ॥ ७ ॥
sadā anabhyudite bhānau prasūḥ me miṣṭa-bhojanam .. dadyāt adya atra kam yāce na ca iha jananī mama .. 7 ..
ब्रह्मोवाच ।। ।।
इति चिंतयतस्तस्य बहुशस्तत्र नारद ॥ अति दीनं तरोर्मूले भानुरस्ताचलं गतः ॥ ८॥
इति चिंतयतः तस्य बहुशस् तत्र नारद ॥ अति दीनम् तरोः मूले भानुः अस्ताचलम् गतः ॥ ८॥
iti ciṃtayataḥ tasya bahuśas tatra nārada .. ati dīnam taroḥ mūle bhānuḥ astācalam gataḥ .. 8..
एतस्मिन्नेव समये कश्चिन्माहेश्वरो नरः ॥ सहोपहारानादाय नगराद्बहिरभ्यगात् ॥ ९॥
एतस्मिन् एव समये कश्चिद् माहेश्वरः नरः ॥ सह उपहारान् आदाय नगरात् बहिस् अभ्यगात् ॥ ९॥
etasmin eva samaye kaścid māheśvaraḥ naraḥ .. saha upahārān ādāya nagarāt bahis abhyagāt .. 9..
नानाविधान्महादिव्यान्स्वजनैः परिवारितः ॥ समभ्यर्चितुमीशानं शिवरात्रावुपोषितः ॥ 2.1.18.१०॥
नानाविधान् महा-दिव्यान् स्व-जनैः परिवारितः ॥ समभ्यर्चितुम् ईशानम् शिवरात्रौ उपोषितः ॥ २।१।१८।१०॥
nānāvidhān mahā-divyān sva-janaiḥ parivāritaḥ .. samabhyarcitum īśānam śivarātrau upoṣitaḥ .. 2.1.18.10..
शिवालयं प्रविश्याथ स भक्तश्शिवसक्तधीः ॥ यथोचितं सुचित्तेन पूजयामास शंकरम् ॥ ११ ॥
शिव-आलयम् प्रविश्य अथ स भक्तः शिव-सक्त-धीः ॥ यथोचितम् सु चित्तेन पूजयामास शंकरम् ॥ ११ ॥
śiva-ālayam praviśya atha sa bhaktaḥ śiva-sakta-dhīḥ .. yathocitam su cittena pūjayāmāsa śaṃkaram .. 11 ..
पक्वान्नगंधमाघ्राय यज्ञदत्तात्मजो द्विजः ॥ पितृत्यक्तो मातृहीनः क्षुधितः स तमन्वगात् ॥ १२॥
पक्व-अन्न-गंधम् आघ्राय यज्ञदत्त-आत्मजः द्विजः ॥ पितृ-त्यक्तः मातृ-हीनः क्षुधितः स तम् अन्वगात् ॥ १२॥
pakva-anna-gaṃdham āghrāya yajñadatta-ātmajaḥ dvijaḥ .. pitṛ-tyaktaḥ mātṛ-hīnaḥ kṣudhitaḥ sa tam anvagāt .. 12..
इदमन्नं मया ग्राह्यं शिवायोपकृतं निशि ॥ सुप्ते शैवजने दैवात्सर्वस्मिन्विविधं महत् ॥ १३ ॥
इदम् अन्नम् मया ग्राह्यम् शिवाय उपकृतम् निशि ॥ सुप्ते शैव-जने दैवात् सर्वस्मिन् विविधम् महत् ॥ १३ ॥
idam annam mayā grāhyam śivāya upakṛtam niśi .. supte śaiva-jane daivāt sarvasmin vividham mahat .. 13 ..
इत्याशामवलम्ब्याथ द्वारि शंभोरुपाविशत् ॥ ददर्श च महापूजां तेन भक्तेन निर्मिताम् ॥ १४॥
इति आशाम् अवलम्ब्य अथ द्वारि शंभोः उपाविशत् ॥ ददर्श च महा-पूजाम् तेन भक्तेन निर्मिताम् ॥ १४॥
iti āśām avalambya atha dvāri śaṃbhoḥ upāviśat .. dadarśa ca mahā-pūjām tena bhaktena nirmitām .. 14..
विधाय नृत्यगीतादि भक्तास्सुप्ताः क्षणे यदा ॥ नैवेद्यं स तदादातुं भर्गागारं विवेश ह ॥ १५॥
विधाय नृत्य-गीत-आदि भक्ताः सुप्ताः क्षणे यदा ॥ नैवेद्यम् स तत् आदातुम् भर्ग-आगारम् विवेश ह ॥ १५॥
vidhāya nṛtya-gīta-ādi bhaktāḥ suptāḥ kṣaṇe yadā .. naivedyam sa tat ādātum bharga-āgāram viveśa ha .. 15..
दीपं मंदप्रभं दृष्ट्वा पक्वान्नवीक्षणाय सः ॥ निजचैलांजलाद्वर्तिं कृत्वा दीपं प्रकाश्य च ॥ १६॥
दीपम् मंद-प्रभम् दृष्ट्वा पक्व-अन्न-वीक्षणाय सः ॥ निज-चैल-अंजलात् वर्तिम् कृत्वा दीपम् प्रकाश्य च ॥ १६॥
dīpam maṃda-prabham dṛṣṭvā pakva-anna-vīkṣaṇāya saḥ .. nija-caila-aṃjalāt vartim kṛtvā dīpam prakāśya ca .. 16..
यज्ञदत्तात्मजस्सोऽथ शिवनैवेद्यमादरात् ॥ जग्राह सहसा प्रीत्या पक्वान्न वहुशस्ततः ॥ १७ ॥
यज्ञदत्त-आत्मजः सः अथ शिव-नैवेद्यम् आदरात् ॥ जग्राह सहसा प्रीत्या पक्वान् न वहुशस् ततस् ॥ १७ ॥
yajñadatta-ātmajaḥ saḥ atha śiva-naivedyam ādarāt .. jagrāha sahasā prītyā pakvān na vahuśas tatas .. 17 ..
ततः पक्वान्नमादाय त्वरितं गच्छतो बहिः ॥ तस्य पादतलाघातात्प्रसुप्तः कोप्यबुध्यत ॥ १८॥
ततस् पक्व-अन्नम् आदाय त्वरितम् गच्छतः बहिस् ॥ तस्य पाद-तल-आघातात् प्रसुप्तः कोपी अबुध्यत ॥ १८॥
tatas pakva-annam ādāya tvaritam gacchataḥ bahis .. tasya pāda-tala-āghātāt prasuptaḥ kopī abudhyata .. 18..
कोऽयं कोऽयं त्वरापन्नो गृह्यतां गृह्यता मसौ ॥ इति चुक्रोश स जनो गिरा भयमहोच्चया ॥ १९ ॥
कः अयम् कः अयम् त्वरा-आपन्नः गृह्यताम् गृह्यता मा असौ ॥ इति चुक्रोश स जनः गिरा भय-महा-उच्चया ॥ १९ ॥
kaḥ ayam kaḥ ayam tvarā-āpannaḥ gṛhyatām gṛhyatā mā asau .. iti cukrośa sa janaḥ girā bhaya-mahā-uccayā .. 19 ..
यावद्भयात्समागत्य तावत्स पुररक्षकैः ॥ पलायमानो निहतः क्षणादंधत्वमागतः ॥ 2.1.18.२० ॥
यावत् भयात् समागत्य तावत् स पुर-रक्षकैः ॥ पलायमानः निहतः क्षणात् अंध-त्वम् आगतः ॥ २।१।१८।२० ॥
yāvat bhayāt samāgatya tāvat sa pura-rakṣakaiḥ .. palāyamānaḥ nihataḥ kṣaṇāt aṃdha-tvam āgataḥ .. 2.1.18.20 ..
अभक्षयच्च नैवेद्यं यज्ञदत्तात्मजो मुने ॥ शिवानुग्रहतो नूनं भाविपुण्यबलान्न सः ॥ २१ ॥
अभक्षयत् च नैवेद्यम् यज्ञदत्त-आत्मजः मुने ॥ शिव-अनुग्रहतः नूनम् भावि-पुण्य-बलात् न सः ॥ २१ ॥
abhakṣayat ca naivedyam yajñadatta-ātmajaḥ mune .. śiva-anugrahataḥ nūnam bhāvi-puṇya-balāt na saḥ .. 21 ..
अथ बद्धस्समागत्य पाशमुद्गरपाणिभिः ॥ निनीषुभिः संयमनीं याम्यैस्स विकटैर्भटैः ॥ २२ ॥
अथ बद्धः समागत्य पाश-मुद्गर-पाणिभिः ॥ निनीषुभिः संयमनीम् याम्यैः स विकटैः भटैः ॥ २२ ॥
atha baddhaḥ samāgatya pāśa-mudgara-pāṇibhiḥ .. ninīṣubhiḥ saṃyamanīm yāmyaiḥ sa vikaṭaiḥ bhaṭaiḥ .. 22 ..
तावत्पारिषदाः प्राप्ताः किंकि णीजालमालिनः ॥ दिव्यं विमानमादाय तं नेतुं शूलपाणयः ॥ २३ ॥
तावत् पारिषदाः प्राप्ताः किंकि णी-जाल-मालिनः ॥ दिव्यम् विमानम् आदाय तम् नेतुम् शूलपाणयः ॥ २३ ॥
tāvat pāriṣadāḥ prāptāḥ kiṃki ṇī-jāla-mālinaḥ .. divyam vimānam ādāya tam netum śūlapāṇayaḥ .. 23 ..
शिवगणा ऊचुः ।। ।।
मुंचतैनं द्विजं याम्या गणाः परम धार्मिकम् ॥ दण्डयोग्यो न विप्रोऽसौ दग्धसर्वाघसंचयः ॥ २४ ॥
मुंचत एनम् द्विजम् याम्याः गणाः धार्मिकम् ॥ दण्ड-योग्यः न विप्रः असौ दग्ध-सर्व-अघ-संचयः ॥ २४ ॥
muṃcata enam dvijam yāmyāḥ gaṇāḥ dhārmikam .. daṇḍa-yogyaḥ na vipraḥ asau dagdha-sarva-agha-saṃcayaḥ .. 24 ..
इत्याकर्ण्य वचस्ते हि यमराजगणास्ततः ॥ महादेवगणानाहुर्बभूवुश्चकिता भृशम् ॥ २५ ॥
इति आकर्ण्य वचः ते हि यम-राज-गणाः ततस् ॥ महादेव-गणान् आहुः बभूवुः चकिताः भृशम् ॥ २५ ॥
iti ākarṇya vacaḥ te hi yama-rāja-gaṇāḥ tatas .. mahādeva-gaṇān āhuḥ babhūvuḥ cakitāḥ bhṛśam .. 25 ..
शंभोर्गणानथालोक्य भीतैस्तैर्यमकिंकरैः ॥ अवादि प्रणतैरित्थं दुर्वृत्तोऽयं गणा द्विजः ॥ २६ ॥
शंभोः गणान् अथ आलोक्य भीतैः तैः यम-किंकरैः ॥ अवादि प्रणतैः इत्थम् दुर्वृत्तः अयम् गणाः द्विजः ॥ २६ ॥
śaṃbhoḥ gaṇān atha ālokya bhītaiḥ taiḥ yama-kiṃkaraiḥ .. avādi praṇataiḥ ittham durvṛttaḥ ayam gaṇāḥ dvijaḥ .. 26 ..
कुलाचारं प्रतीर्य्यैष पित्रोर्वाक्यपराङ्मुखः ॥ सत्यशौचपरिभ्रष्टस्संध्यास्नानविवर्जितः ॥ २७ ॥
कुल-आचारम् प्रतीर्य एष पित्रोः वाक्य-पराङ्मुखः ॥ सत्य-शौच-परिभ्रष्टः संध्या-स्नान-विवर्जितः ॥ २७ ॥
kula-ācāram pratīrya eṣa pitroḥ vākya-parāṅmukhaḥ .. satya-śauca-paribhraṣṭaḥ saṃdhyā-snāna-vivarjitaḥ .. 27 ..
यमगणा ऊचुः ।।
आस्तां दूरेस्य कर्मान्यच्छिवनिर्माल्यलंघकः ॥ प्रत्यक्षतोऽत्र वीक्षध्वमस्पृश्योऽयं भवादृशाम् ॥ २८ ॥
आस्ताम् कर्म अन्यत् शिव-निर्माल्य-लंघकः ॥ प्रत्यक्षतस् अत्र वीक्षध्वम् अस्पृश्यः अयम् भवादृशाम् ॥ २८ ॥
āstām karma anyat śiva-nirmālya-laṃghakaḥ .. pratyakṣatas atra vīkṣadhvam aspṛśyaḥ ayam bhavādṛśām .. 28 ..
शिवनिर्माल्यभोक्तारश्शिवनिर्म्माल्यलंघकाः ॥ शिवनिर्माल्यदातारः स्पर्शस्तेषां ह्यपुण्यकृत्॥ २९॥
शिव-निर्माल्य-भोक्तारः शिव-निर्म्माल्य-लंघकाः ॥ शिव-निर्माल्य-दातारः स्पर्शः तेषाम् हि अपुण्य-कृत्॥ २९॥
śiva-nirmālya-bhoktāraḥ śiva-nirmmālya-laṃghakāḥ .. śiva-nirmālya-dātāraḥ sparśaḥ teṣām hi apuṇya-kṛt.. 29..
विषमालोक्य वा पेयं श्रेयो वा स्पर्शनं परम्॥ सेवितव्यं शिवस्वं न प्राणः कण्ठगतैरपि ॥ 2.1.18.३०॥
विषम् आलोक्य वा पेयम् श्रेयः वा स्पर्शनम् परम्॥ सेवितव्यम् शिव-स्वम् न प्राणः कण्ठ-गतैः अपि ॥ २।१।१८।३०॥
viṣam ālokya vā peyam śreyaḥ vā sparśanam param.. sevitavyam śiva-svam na prāṇaḥ kaṇṭha-gataiḥ api .. 2.1.18.30..
यूयं प्रमाणं धर्मेषु यथा न च तथा वयम् ॥ अस्ति चेद्धर्मलेशोस्य गणास्तं शृणुमो वयम्॥ ३१॥
यूयम् प्रमाणम् धर्मेषु यथा न च तथा वयम् ॥ अस्ति चेद् धर्म-लेशः उस्य गणाः तम् शृणुमः वयम्॥ ३१॥
yūyam pramāṇam dharmeṣu yathā na ca tathā vayam .. asti ced dharma-leśaḥ usya gaṇāḥ tam śṛṇumaḥ vayam.. 31..
इत्थं तद्वाक्यमाकर्ण्य यामानां शिवकिंकराः ॥ स्मृत्वा शिवपदाम्भोजं प्रोचुः पारिषदास्तु तान् ॥ ३२ ॥
इत्थम् तद्-वाक्यम् आकर्ण्य यामानाम् शिव-किंकराः ॥ स्मृत्वा शिव-पद-अम्भोजम् प्रोचुः पारिषदाः तु तान् ॥ ३२ ॥
ittham tad-vākyam ākarṇya yāmānām śiva-kiṃkarāḥ .. smṛtvā śiva-pada-ambhojam procuḥ pāriṣadāḥ tu tān .. 32 ..
शिवकिंकरा ऊचुः ।। ।।
किंकराश्शिवधर्मा ये सूक्ष्मास्ते तु भवादृशैः ॥ स्थूललक्ष्यैः कथं लक्ष्या लक्ष्या ये सूक्ष्मदृष्टिभिः ॥ ३३ ॥
किंकराः शिव-धर्माः ये सूक्ष्माः ते तु भवादृशैः ॥ स्थूललक्ष्यैः कथम् लक्ष्याः लक्ष्याः ये सूक्ष्म-दृष्टिभिः ॥ ३३ ॥
kiṃkarāḥ śiva-dharmāḥ ye sūkṣmāḥ te tu bhavādṛśaiḥ .. sthūlalakṣyaiḥ katham lakṣyāḥ lakṣyāḥ ye sūkṣma-dṛṣṭibhiḥ .. 33 ..
अनेनानेनसा कर्म यत्कृतं शृणुतेह तत् ॥ यज्ञदत्तात्मजेनाथ सावधानतया गणाः ॥ ३४ ॥
अनेन अनेनसा कर्म यत् कृतम् शृणुत इह तत् ॥ यज्ञदत्त-आत्मजेन अथ स अवधान-तया गणाः ॥ ३४ ॥
anena anenasā karma yat kṛtam śṛṇuta iha tat .. yajñadatta-ātmajena atha sa avadhāna-tayā gaṇāḥ .. 34 ..
पतंती लिंगशिरसि दीपच्छाया निवारिता ॥ स्वचैलांचलतोऽनेन दत्त्वा दीपदशां निशि ॥ ३९ ॥
पतन्ती लिंगशिरसि दीप-छाया निवारिता ॥ स्व-चैल-अंचलतः अनेन दत्त्वा दीप-दशाम् निशि ॥ ३९ ॥
patantī liṃgaśirasi dīpa-chāyā nivāritā .. sva-caila-aṃcalataḥ anena dattvā dīpa-daśām niśi .. 39 ..
अपरोपि परो धर्मो जातस्तत्रास्य किंकरः ॥ शृण्वतः शिवनामानि प्रसंगादपि गृह्णताम्।ऽ।३६॥
अपरः अपि परः धर्मः जातः तत्र अस्य किंकरः ॥ शृण्वतः शिव-नामानि प्रसंगात् अपि गृह्णताम्॥३६॥
aparaḥ api paraḥ dharmaḥ jātaḥ tatra asya kiṃkaraḥ .. śṛṇvataḥ śiva-nāmāni prasaṃgāt api gṛhṇatām..36..
भक्तेन विधिना पूजा क्रियमाणा निरीक्षिता ॥ उपोषितेन भूतायामनेनास्थितचेतसा॥ ३७॥
भक्तेन विधिना पूजा क्रियमाणा निरीक्षिता ॥ उपोषितेन भूतायाम् अनेन आस्थित-चेतसा॥ ३७॥
bhaktena vidhinā pūjā kriyamāṇā nirīkṣitā .. upoṣitena bhūtāyām anena āsthita-cetasā.. 37..
शिवलोकमयं ह्यद्य गंतास्माभिस्सहैव तु ॥ कंचित्कालं महाभोगान्करिष्यति शिवानुगः॥ ३८॥
शिव-लोक-मयम् हि अद्य गंता अस्माभिः सह एव तु ॥ कंचिद् कालम् महा-भोगान् करिष्यति शिव-अनुगः॥ ३८॥
śiva-loka-mayam hi adya gaṃtā asmābhiḥ saha eva tu .. kaṃcid kālam mahā-bhogān kariṣyati śiva-anugaḥ.. 38..
कलिंगराजो भविता ततो निर्धूतकल्मषः॥ एष द्विजवरो नूनं शिवप्रियतरो यतः ॥ ३९ ॥
कलिंग-राजः भविता ततस् निर्धूत-कल्मषः॥ एष द्विजवरः नूनम् शिव-प्रियतरः यतस् ॥ ३९ ॥
kaliṃga-rājaḥ bhavitā tatas nirdhūta-kalmaṣaḥ.. eṣa dvijavaraḥ nūnam śiva-priyataraḥ yatas .. 39 ..
अन्यत्किंचिन्न वक्तव्यं यूयं यात यथागतम् ॥ यमदूतास्स्वलोकं तु सुप्रसन्नेन चेतसा॥ 2.1.18.४०॥
अन्यत् किंचिद् न वक्तव्यम् यूयम् यात यथागतम् ॥ यम-दूताः स्व-लोकम् तु सु प्रसन्नेन चेतसा॥ २।१।१८।४०॥
anyat kiṃcid na vaktavyam yūyam yāta yathāgatam .. yama-dūtāḥ sva-lokam tu su prasannena cetasā.. 2.1.18.40..
।। ब्रह्मोवाच ।। ।।
इत्याकर्ण्य वचस्तेषां यमदूता मुनीश्वर ॥ यथागतं ययुस्सर्वे यमलोकं पराङ्मुखाः ॥ ४१ ॥
इति आकर्ण्य वचः तेषाम् यमदूताः मुनि-ईश्वर ॥ यथागतम् ययुः सर्वे यम-लोकम् पराङ्मुखाः ॥ ४१ ॥
iti ākarṇya vacaḥ teṣām yamadūtāḥ muni-īśvara .. yathāgatam yayuḥ sarve yama-lokam parāṅmukhāḥ .. 41 ..
सर्वं निवेदयामासुश्शमनाय गणा मुने ॥ तद्वृत्तमादितः प्रोक्तं शंभुदूतैश्च धर्मतः ॥ ४२ ॥
सर्वम् निवेदयामासुः शमनाय गणाः मुने ॥ तद्-वृत्तम् आदितस् प्रोक्तम् शंभु-दूतैः च धर्मतः ॥ ४२ ॥
sarvam nivedayāmāsuḥ śamanāya gaṇāḥ mune .. tad-vṛttam āditas proktam śaṃbhu-dūtaiḥ ca dharmataḥ .. 42 ..
सर्वे शृणुत मद्वाक्यं सावधानतया गणाः ॥ तदेव प्रीत्या कुरुत मच्छासनपुरस्सरम् ॥ ४३॥
सर्वे शृणुत मद्-वाक्यम् सावधान-तया गणाः ॥ तत् एव प्रीत्या कुरुत मद्-शासन-पुरस्सरम् ॥ ४३॥
sarve śṛṇuta mad-vākyam sāvadhāna-tayā gaṇāḥ .. tat eva prītyā kuruta mad-śāsana-purassaram .. 43..
।। धर्मराज उवाच ।। ।।
ये त्रिपुण्ड्रधरा लोके विभूत्या सितया गणाः॥ ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ॥ ४४॥
ये त्रिपुण्ड्र-धराः लोके विभूत्या सितया गणाः॥ ते सर्वे परिहर्तव्याः न आनेतव्याः कदाचन ॥ ४४॥
ye tripuṇḍra-dharāḥ loke vibhūtyā sitayā gaṇāḥ.. te sarve parihartavyāḥ na ānetavyāḥ kadācana .. 44..
उद्धूलनकरा ये हि विभूत्या सितया गणाः ॥ ते सर्वे परिहर्तव्या नानेतव्याः कदाचन॥ ४५॥
उद्धूलन-कराः ये हि विभूत्या सितया गणाः ॥ ते सर्वे परिहर्तव्याः न आनेतव्याः कदाचन॥ ४५॥
uddhūlana-karāḥ ye hi vibhūtyā sitayā gaṇāḥ .. te sarve parihartavyāḥ na ānetavyāḥ kadācana.. 45..
शिववेषतया लोके येन केनापि हेतुना॥ ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ॥ ४६॥
शिव-वेष-तया लोके येन केन अपि हेतुना॥ ते सर्वे परिहर्तव्याः न आनेतव्याः कदाचन ॥ ४६॥
śiva-veṣa-tayā loke yena kena api hetunā.. te sarve parihartavyāḥ na ānetavyāḥ kadācana .. 46..
ये रुद्राक्षधरा लोके जटाधारिण एव ये ॥ ते सवे परिहर्तव्या नानेतव्याः कदाचन ॥ ४७॥
ये रुद्र-अक्ष-धराः लोके जटा-धारिणः एव ये ॥ ते सवे परिहर्तव्याः न आनेतव्याः कदाचन ॥ ४७॥
ye rudra-akṣa-dharāḥ loke jaṭā-dhāriṇaḥ eva ye .. te save parihartavyāḥ na ānetavyāḥ kadācana .. 47..
उपजीवनहेतोश्च शिववेषधरा हि ये ॥ ते सर्वे परिहर्तव्या नानेतव्याः कदाचन॥ ॥ ४८॥
उपजीवन-हेतोः च शिव-वेष-धराः हि ये ॥ ते सर्वे परिहर्तव्याः न आनेतव्याः कदाचन॥ ॥ ४८॥
upajīvana-hetoḥ ca śiva-veṣa-dharāḥ hi ye .. te sarve parihartavyāḥ na ānetavyāḥ kadācana.. .. 48..
दंभेनापि च्छलेनापि शिववेषधरा हि ये ॥ ते सर्वे परिहर्तव्या नानेतव्याः कदाचन॥ ४९॥
दंभेन अपि छलेन अपि शिव-वेष-धराः हि ये ॥ ते सर्वे परिहर्तव्याः न आनेतव्याः कदाचन॥ ४९॥
daṃbhena api chalena api śiva-veṣa-dharāḥ hi ye .. te sarve parihartavyāḥ na ānetavyāḥ kadācana.. 49..
एवमाज्ञापयामास स यमो निज किंकरान् ॥ तथेति मत्वा ते सर्वे तूष्णीमासञ्छुचिस्मिताः ॥ 2.1.18.५०॥
एवम् आज्ञापयामास स यमः निज किंकरान् ॥ तथा इति मत्वा ते सर्वे तूष्णीम् आसन् शुचि-स्मिताः ॥ २।१।१८।५०॥
evam ājñāpayāmāsa sa yamaḥ nija kiṃkarān .. tathā iti matvā te sarve tūṣṇīm āsan śuci-smitāḥ .. 2.1.18.50..
।। ब्रह्मोवाच ।।
पार्षदैर्यमदूतेभ्यो मोचितस्त्विति स द्विजः॥ शिवलोकं जगामाशु तैर्गणैश्शुचिमानसः ॥ ५१॥
पार्षदैः यम-दूतेभ्यः मोचितः तु इति स द्विजः॥ शिव-लोकम् जगाम आशु तैः गणैः शुचि-मानसः ॥ ५१॥
pārṣadaiḥ yama-dūtebhyaḥ mocitaḥ tu iti sa dvijaḥ.. śiva-lokam jagāma āśu taiḥ gaṇaiḥ śuci-mānasaḥ .. 51..
तत्र भुक्त्वाखिलान्भोगान्संसेव्य च शिवाशिवौ ॥ अरिंदमस्य तनयः कलिंगाधिपतेरभूत्॥ ५२॥
तत्र भुक्त्वा अखिलान् भोगान् संसेव्य च शिव-अशिवौ ॥ अरिंदमस्य तनयः कलिंग-अधिपतेः अभूत्॥ ५२॥
tatra bhuktvā akhilān bhogān saṃsevya ca śiva-aśivau .. ariṃdamasya tanayaḥ kaliṃga-adhipateḥ abhūt.. 52..
दम इत्यभिधानोऽभूच्छिवसेवापरायणः॥ बालोऽपि शिशुभिः साकं शिवभक्तिं चकार सः॥ ५३॥
दमः इति अभिधानः अभूत् शिव-सेवा-परायणः॥ बालः अपि शिशुभिः साकम् शिव-भक्तिम् चकार सः॥ ५३॥
damaḥ iti abhidhānaḥ abhūt śiva-sevā-parāyaṇaḥ.. bālaḥ api śiśubhiḥ sākam śiva-bhaktim cakāra saḥ.. 53..
क्रमाद्राज्यमवापाथ पितर्युपरते युवा ॥ प्रीत्या प्रवर्तयामास शिवधर्मांश्च सर्वशः॥ ५४॥
क्रमात् राज्यम् अवाप अथ पितरि उपरते युवा ॥ प्रीत्या प्रवर्तयामास शिव-धर्मान् च सर्वशस्॥ ५४॥
kramāt rājyam avāpa atha pitari uparate yuvā .. prītyā pravartayāmāsa śiva-dharmān ca sarvaśas.. 54..
नान्यं धर्मं स जानाति दुर्दमो भूपतिर्दमः॥ शिवालयेषु सर्वेषु दीपदानादृते द्विजः ॥ ५५ ॥
न अन्यम् धर्मम् स जानाति दुर्दमः भूपतिः दमः॥ शिव-आलयेषु सर्वेषु दीप-दानात् ऋते द्विजः ॥ ५५ ॥
na anyam dharmam sa jānāti durdamaḥ bhūpatiḥ damaḥ.. śiva-ālayeṣu sarveṣu dīpa-dānāt ṛte dvijaḥ .. 55 ..
ग्रामाधीशान्समाहूय सर्वान्स विषयस्थितान् ॥ इत्थमाज्ञापयामास दीपा देयाश्शिवालये ॥ ५६॥
ग्राम-अधीशान् समाहूय सर्वान् स विषय-स्थितान् ॥ इत्थम् आज्ञापयामास दीपाः देयाः शिवालये ॥ ५६॥
grāma-adhīśān samāhūya sarvān sa viṣaya-sthitān .. ittham ājñāpayāmāsa dīpāḥ deyāḥ śivālaye .. 56..
अन्यथा सत्यमेवेदं स मे दण्ड्यो भविष्यति ॥ दीप दानाच्छिवस्तुष्टो भवतीति श्रुतीरितम् ॥ ५७ ॥
अन्यथा सत्यम् एव इदम् स मे दण्ड्यः भविष्यति ॥ दीप दानात् शिवः तुष्टः भवति इति श्रुति-ईरितम् ॥ ५७ ॥
anyathā satyam eva idam sa me daṇḍyaḥ bhaviṣyati .. dīpa dānāt śivaḥ tuṣṭaḥ bhavati iti śruti-īritam .. 57 ..
यस्ययस्याभितो ग्रामं यावतश्च शिवालयाः॥ तत्रतत्र सदा दीपो द्योतनीयोऽविचारितम् ॥ ५८॥
यस्य यस्य अभितस् ग्रामम् यावतः च शिव-आलयाः॥ तत्र तत्र सदा दीपः द्योतनीयः अविचारितम् ॥ ५८॥
yasya yasya abhitas grāmam yāvataḥ ca śiva-ālayāḥ.. tatra tatra sadā dīpaḥ dyotanīyaḥ avicāritam .. 58..
ममाज्ञाभंगदोषेण शिरश्छेत्स्याम्यसंशयम्॥ इति तद्भयतो दीपा दीप्ताः प्रतिशिवालयम् ॥ ५९ ॥
मम आज्ञा-भंग-दोषेण शिरः छेत्स्यामि असंशयम्॥ इति तद्-भयतः दीपाः दीप्ताः प्रति शिव-आलयम् ॥ ५९ ॥
mama ājñā-bhaṃga-doṣeṇa śiraḥ chetsyāmi asaṃśayam.. iti tad-bhayataḥ dīpāḥ dīptāḥ prati śiva-ālayam .. 59 ..
अनेनैव स धर्मेण यावज्जीवं दमो नृपः ॥ धर्मर्द्धिं महतीं प्राप्य कालधर्मवशं गतः ॥ 2.1.18.६०॥
अनेन एव स धर्मेण यावज्जीवम् दमः नृपः ॥ धर्म-ऋद्धिम् महतीम् प्राप्य कालधर्म-वशम् गतः ॥ २।१।१८।६०॥
anena eva sa dharmeṇa yāvajjīvam damaḥ nṛpaḥ .. dharma-ṛddhim mahatīm prāpya kāladharma-vaśam gataḥ .. 2.1.18.60..
स दीपवासनायोगाद्बहून्दीपान्प्रदीप्य वै ॥ अलकायाः पतिरभूद्रत्नदीपशिखाश्रयः ॥ ६१ ॥
स दीप-वासना-योगात् बहून् दीपान् प्रदीप्य वै ॥ अलकायाः पतिः अभूत् रत्न-दीप-शिखा-आश्रयः ॥ ६१ ॥
sa dīpa-vāsanā-yogāt bahūn dīpān pradīpya vai .. alakāyāḥ patiḥ abhūt ratna-dīpa-śikhā-āśrayaḥ .. 61 ..
एवं फलति कालेन शिवेऽल्पमपि यत्कृतम् ॥ इति ज्ञात्वा शिवे कार्यं भजनं सुसुखार्थिभिः ॥ ६२॥
एवम् फलति कालेन शिवे अल्पम् अपि यत् कृतम् ॥ इति ज्ञात्वा शिवे कार्यम् भजनम् सु सुख-अर्थिभिः ॥ ६२॥
evam phalati kālena śive alpam api yat kṛtam .. iti jñātvā śive kāryam bhajanam su sukha-arthibhiḥ .. 62..
क्व स दीक्षितदायादः सर्वधर्मारतिः सदा ॥ शिवालये दैवयोगाद्यातश्चोरयितुं वसु ॥ स्वार्थदीपदशोद्योतलिंगमौलितमोहरः ॥ ६३ ॥
क्व स दीक्षित-दायादः सर्व-धर्म-अरतिः सदा ॥ शिवालये दैव-योगात् यातः चोरयितुम् वसु ॥ ॥ ६३ ॥
kva sa dīkṣita-dāyādaḥ sarva-dharma-aratiḥ sadā .. śivālaye daiva-yogāt yātaḥ corayitum vasu .. .. 63 ..
कलिंगविषये राज्यं प्राप्तो धर्मरतिं सदा ॥ शिवालये समुद्दीप्य दीपान्प्राग्वासनोदयात् ॥ ६४ ॥
कलिंग-विषये राज्यम् प्राप्तः धर्म-रतिम् सदा ॥ शिवालये समुद्दीप्य दीपान् प्राक् वासना-उदयात् ॥ ६४ ॥
kaliṃga-viṣaye rājyam prāptaḥ dharma-ratim sadā .. śivālaye samuddīpya dīpān prāk vāsanā-udayāt .. 64 ..
कैषा दिक्पालपदवी मुनीश्वर विलोकय ॥ मनुष्यधर्मिणानेन सांप्रतं येह भुज्यते॥ ६५॥
का एषा दिक्पाल-पदवी मुनि-ईश्वर विलोकय ॥ मनुष्य-धर्मिणा अनेन सांप्रतम् या इह भुज्यते॥ ६५॥
kā eṣā dikpāla-padavī muni-īśvara vilokaya .. manuṣya-dharmiṇā anena sāṃpratam yā iha bhujyate.. 65..
इति प्रोक्तं गुणनिधेर्यज्ञदत्तात्मजस्य हि ॥ चरितं शिवसंतोषं शृण्वतां सर्वकामदम् ॥ ६६॥
इति प्रोक्तम् गुण-निधेः यज्ञदत्त-आत्मजस्य हि ॥ चरितम् शिव-संतोषम् शृण्वताम् सर्व-काम-दम् ॥ ६६॥
iti proktam guṇa-nidheḥ yajñadatta-ātmajasya hi .. caritam śiva-saṃtoṣam śṛṇvatām sarva-kāma-dam .. 66..
सर्वदेवशिवेनासौ सखित्वं च यथेयिवान् ॥ तदप्येकमना भूत्वा शृणु तात ब्रवीमि ते ॥ ६७ ॥
सर्व-देव-शिवेन असौ सखि-त्वम् च यथा इयिवान् ॥ तत् अपि एकमनाः भूत्वा शृणु तात ब्रवीमि ते ॥ ६७ ॥
sarva-deva-śivena asau sakhi-tvam ca yathā iyivān .. tat api ekamanāḥ bhūtvā śṛṇu tāta bravīmi te .. 67 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्यु पाख्याने कैलाशगमनोपाख्याने गुणनिधिसद्गतिवर्णनो नामाष्टादशोऽध्यायः ॥ १८ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् प्रथम-खण्डे सृष्टि-उपाख्याने कैलाशगमनोपाख्याने गुणनिधिसद्गतिवर्णनः नाम अष्टादशः अध्यायः ॥ १८ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām prathama-khaṇḍe sṛṣṭi-upākhyāne kailāśagamanopākhyāne guṇanidhisadgativarṇanaḥ nāma aṣṭādaśaḥ adhyāyaḥ .. 18 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In