| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
पाद्मे कल्पे मम सुरा ब्रह्मणो मानसात्सुतात् ॥ पुलस्त्याद्विश्रवा जज्ञे तस्य वैश्रवणस्सुतः ॥ १॥
पाद्मे कल्पे मम सुराः ब्रह्मणः मानसात् सुतात् ॥ पुलस्त्यात् विश्रवाः जज्ञे तस्य वैश्रवणः सुतः ॥ १॥
pādme kalpe mama surāḥ brahmaṇaḥ mānasāt sutāt .. pulastyāt viśravāḥ jajñe tasya vaiśravaṇaḥ sutaḥ .. 1..
तेनेयमलका भुक्ता पुरी विश्वकृता कृता ॥ आराध्य त्र्यंबकं देवमत्युग्रतपसा पुरा ॥ २ ॥
तेन इयम् अलका भुक्ता पुरी विश्वकृता कृता ॥ आराध्य त्र्यंबकम् देवम् अति उग्र-तपसा पुरा ॥ २ ॥
tena iyam alakā bhuktā purī viśvakṛtā kṛtā .. ārādhya tryaṃbakam devam ati ugra-tapasā purā .. 2 ..
व्यतीते तत्र कल्पे वै प्रवृत्ते मेघवाहने ॥ याज्ञदत्तिरसौ श्रीदस्तपस्तेपे सुदुस्सहम् ॥ ३ ॥
व्यतीते तत्र कल्पे वै प्रवृत्ते मेघवाहने ॥ याज्ञदत्तिः असौ श्रीदः तपः तेपे सु दुस्सहम् ॥ ३ ॥
vyatīte tatra kalpe vai pravṛtte meghavāhane .. yājñadattiḥ asau śrīdaḥ tapaḥ tepe su dussaham .. 3 ..
भक्ति प्रभावं विज्ञाय शंभोस्तद्दीपमात्रतः ॥ पुरा पुरारेस्संप्राप्य काशिकां चित्प्रकाशिकाम् ॥ ४ ॥
भक्ति प्रभावम् विज्ञाय शंभोः तद्-दीप-मात्रतः ॥ पुरा पुरारेः संप्राप्य काशिकाम् चित्-प्रकाशिकाम् ॥ ४ ॥
bhakti prabhāvam vijñāya śaṃbhoḥ tad-dīpa-mātrataḥ .. purā purāreḥ saṃprāpya kāśikām cit-prakāśikām .. 4 ..
शिवैकादशमुद्बोध्य चित्तरत्नप्रदीपकैः॥ अनन्यभक्तिस्नेहाढ्यस्तन्मयो ध्याननिश्चलः॥ ५॥
शिव-एकादशम् उद्बोध्य चित्त-रत्न-प्रदीपकैः॥ अन् अन्य-भक्ति-स्नेह-आढ्यः तद्-मयः ध्यान-निश्चलः॥ ५॥
śiva-ekādaśam udbodhya citta-ratna-pradīpakaiḥ.. an anya-bhakti-sneha-āḍhyaḥ tad-mayaḥ dhyāna-niścalaḥ.. 5..
शिवैक्यं सुमहापात्रं तपोग्निपरिबृंहितम्॥ कामक्रोधमहाविघ्नपतंगाघात वर्जितम् ॥ ६ ॥
शिव-ऐक्यम् सु महा-पात्रम् तपः-अग्नि-परिबृंहितम्॥ काम-क्रोध-महा-विघ्न-पतंग-आघात-वर्जितम् ॥ ६ ॥
śiva-aikyam su mahā-pātram tapaḥ-agni-paribṛṃhitam.. kāma-krodha-mahā-vighna-pataṃga-āghāta-varjitam .. 6 ..
प्राणसंरोधनिर्वातं निर्मलं निर्मलेक्षणात् ॥ संस्थाप्य शांभवं लिंगं सद्भावकुसुमार्चितम् ॥ ७ ॥
प्राण-संरोध-निर्वातम् निर्मलम् निर्मल-ईक्षणात् ॥ संस्थाप्य शांभवम् लिंगम् सद्भाव-कुसुम-अर्चितम् ॥ ७ ॥
prāṇa-saṃrodha-nirvātam nirmalam nirmala-īkṣaṇāt .. saṃsthāpya śāṃbhavam liṃgam sadbhāva-kusuma-arcitam .. 7 ..
तावत्तताप स तपस्त्वगस्थिपरिशेषितम् ॥ यावद्बभूव तद्वर्णं वर्षाणामयुतं शतम् ॥ ८॥
तावत् तताप स तपः त्वच्-अस्थि-परिशेषितम् ॥ यावत् बभूव तत् वर्णम् वर्षाणाम् अयुतम् शतम् ॥ ८॥
tāvat tatāpa sa tapaḥ tvac-asthi-pariśeṣitam .. yāvat babhūva tat varṇam varṣāṇām ayutam śatam .. 8..
ततस्सह विशालाक्ष्या देवो विश्वेश्वररस्वयम्॥ अलकापतिमालोक्य प्रसन्नेनांतरात्मना ॥ ९॥
ततस् सह विशाल-अक्ष्या देवः॥ अलकापतिम् आलोक्य प्रसन्नेन अंतरात्मना ॥ ९॥
tatas saha viśāla-akṣyā devaḥ.. alakāpatim ālokya prasannena aṃtarātmanā .. 9..
लिंगे मनस्समाधाय स्थितं स्थाणुस्वरूपिणम्॥ उवाच वरदोऽस्मीति तदाचक्ष्वालकापते ॥ ॥ 2.1.19.१० ॥
लिंगे मनः समाधाय स्थितम् स्थाणु-स्वरूपिणम्॥ उवाच वर-दः अस्मि इति तदा आचक्ष्व अलकापते ॥ ॥ २।१।१९।१० ॥
liṃge manaḥ samādhāya sthitam sthāṇu-svarūpiṇam.. uvāca vara-daḥ asmi iti tadā ācakṣva alakāpate .. .. 2.1.19.10 ..
उन्मील्य नयने यावत्स पश्यति तपोधनः ॥ तावदुद्यत्सहस्रांशु सहस्राधिकतेजसम् ॥ ११ ॥
उन्मील्य नयने यावत् स पश्यति तपोधनः ॥ तावत् उद्यत्-सहस्र-अंशु सहस्र-अधिक-तेजसम् ॥ ११ ॥
unmīlya nayane yāvat sa paśyati tapodhanaḥ .. tāvat udyat-sahasra-aṃśu sahasra-adhika-tejasam .. 11 ..
पुरो ददर्श श्रीकंठं चन्द्रचूडमुमाधवम् ॥ तत्तेजः परिभूताक्षितेजाः संमील्य लोचने ॥ १२॥
पुरस् ददर्श श्रीकंठम् चन्द्रचूडम् उमाधवम् ॥ तत् तेजः परिभूत-अक्षि-तेजाः संमील्य लोचने ॥ १२॥
puras dadarśa śrīkaṃṭham candracūḍam umādhavam .. tat tejaḥ paribhūta-akṣi-tejāḥ saṃmīlya locane .. 12..
उवाच देवदेवेशं मनोरथपदातिगम् ॥ निजांघ्रिदर्शने नाथ दृक्सामर्थ्यं प्रयच्छ मे ॥ १३ ॥
उवाच देवदेवेशम् मनोरथ-पदातिगम् ॥ निज-अंघ्रि-दर्शने नाथ दृश्-सामर्थ्यम् प्रयच्छ मे ॥ १३ ॥
uvāca devadeveśam manoratha-padātigam .. nija-aṃghri-darśane nātha dṛś-sāmarthyam prayaccha me .. 13 ..
अयमेव वरो नाथ यत्त्वं साक्षान्निरीक्ष्यसे ॥ किमन्येन वरेणेश नमस्ते शशिशेखर ॥ १४ ॥
अयम् एव वरः नाथ यत् त्वम् साक्षात् निरीक्ष्यसे ॥ किम् अन्येन वरेण ईश नमः ते शशिशेखर ॥ १४ ॥
ayam eva varaḥ nātha yat tvam sākṣāt nirīkṣyase .. kim anyena vareṇa īśa namaḥ te śaśiśekhara .. 14 ..
इति तद्वचनं श्रुत्वा देवदेव उमापतिः॥ ददौ दर्शनसामर्थ्यं स्पृष्ट्वा पाणितलेन तम्॥ १५॥
इति तत् वचनम् श्रुत्वा देवदेवः उमापतिः॥ ददौ दर्शन-सामर्थ्यम् स्पृष्ट्वा पाणि-तलेन तम्॥ १५॥
iti tat vacanam śrutvā devadevaḥ umāpatiḥ.. dadau darśana-sāmarthyam spṛṣṭvā pāṇi-talena tam.. 15..
प्रसार्य नयने पूर्वमुमामेव व्यलोकयत्॥ तोऽसौ याज्ञदत्तिस्तु तत्सामर्थ्यमवाप्य च ॥ १६ ॥
प्रसार्य नयने पूर्वम् उमाम् एव व्यलोकयत्॥ याज्ञदत्तिः तु तत् सामर्थ्यम् अवाप्य च ॥ १६ ॥
prasārya nayane pūrvam umām eva vyalokayat.. yājñadattiḥ tu tat sāmarthyam avāpya ca .. 16 ..
शंभोस्समीपे का योषिदेषा सर्वांगसुन्दरी ॥ अनया किं तपस्तप्तं ममापि तपसोऽधिकम् ॥ १७ ॥
शंभोः समीपे का योषित् एषा सर्व-अंग-सुन्दरी ॥ अनया किम् तपः तप्तम् मम अपि तपसः अधिकम् ॥ १७ ॥
śaṃbhoḥ samīpe kā yoṣit eṣā sarva-aṃga-sundarī .. anayā kim tapaḥ taptam mama api tapasaḥ adhikam .. 17 ..
अहो रूपमहो प्रेम सौभाग्यं श्रीरहो भृशम् ॥ इत्यवादीदसौ पुत्रो मुहुर्मुहुरतीव हि ॥ १८ ॥
अहो रूपम् अहो प्रेम सौभाग्यम् श्रीः अहो भृशम् ॥ इति अवादीत् असौ पुत्रः मुहुर् मुहुर् अतीव हि ॥ १८ ॥
aho rūpam aho prema saubhāgyam śrīḥ aho bhṛśam .. iti avādīt asau putraḥ muhur muhur atīva hi .. 18 ..
क्रूर दृग्वीक्षते यावत्पुनःपुनरिदं वदन् ॥ तावत्पुस्फोट तन्नेत्रं वारां वामाविलोकनात् ॥ १९॥
क्रूर दृश् वीक्षते यावत् पुनर् पुनर् इदम् वदन् ॥ तावत् पुस्फोट तत् नेत्रम् वाराम् वामा-विलोकनात् ॥ १९॥
krūra dṛś vīkṣate yāvat punar punar idam vadan .. tāvat pusphoṭa tat netram vārām vāmā-vilokanāt .. 19..
अथ देव्यब्रवीद्देव किमसौ दुष्टतापसः ॥ असकृद्वीक्ष्य मां वक्ति कुरु त्वं मे तपःप्रभाम् ॥ 2.1.19.२० ॥
अथ देवी अब्रवीत् देव किम् असौ दुष्ट-तापसः ॥ असकृत् वीक्ष्य माम् वक्ति कुरु त्वम् मे तपः-प्रभाम् ॥ २।१।१९।२० ॥
atha devī abravīt deva kim asau duṣṭa-tāpasaḥ .. asakṛt vīkṣya mām vakti kuru tvam me tapaḥ-prabhām .. 2.1.19.20 ..
असकृद्दक्षिणेनाक्ष्णा पुनर्मामेव पश्यति ॥ असूयमानो मे रूपप्रेम सौभाग्यसंपद ॥ २१ ॥
असकृत् दक्षिणेन अक्ष्णा पुनर् माम् एव पश्यति ॥ असूयमानः मे रूप-प्रेम सौभाग्य-संपद ॥ २१ ॥
asakṛt dakṣiṇena akṣṇā punar mām eva paśyati .. asūyamānaḥ me rūpa-prema saubhāgya-saṃpada .. 21 ..
इति देवीगिरं श्रुत्वा प्रहस्य प्राह तां प्रभुः ॥ उमे त्वदीयः पुत्रोऽयं न च क्रूरेण चक्षुषा ॥ २२ ॥
इति देवी-गिरम् श्रुत्वा प्रहस्य प्राह ताम् प्रभुः ॥ उमे त्वदीयः पुत्रः अयम् न च क्रूरेण चक्षुषा ॥ २२ ॥
iti devī-giram śrutvā prahasya prāha tām prabhuḥ .. ume tvadīyaḥ putraḥ ayam na ca krūreṇa cakṣuṣā .. 22 ..
संपश्यति तपोलक्ष्मीं तव किं त्वधिवर्णयेत् ॥ इति देवीं समाभाष्य तमीशः पुनरब्रवीत् ॥ २३॥
संपश्यति तपः-लक्ष्मीम् तव किम् तु अधिवर्णयेत् ॥ इति देवीम् समाभाष्य तम् ईशः पुनर् अब्रवीत् ॥ २३॥
saṃpaśyati tapaḥ-lakṣmīm tava kim tu adhivarṇayet .. iti devīm samābhāṣya tam īśaḥ punar abravīt .. 23..
वरान्ददामि ते वत्स तपसानेन तोषितः ॥ निधीनामथ नाथस्त्वं गुह्यकानां भवेश्वरः ॥ २४॥
वरान् ददामि ते वत्स तपसा अनेन तोषितः ॥ निधीनाम् अथ नाथः त्वम् गुह्यकानाम् भव ईश्वरः ॥ २४॥
varān dadāmi te vatsa tapasā anena toṣitaḥ .. nidhīnām atha nāthaḥ tvam guhyakānām bhava īśvaraḥ .. 24..
यक्षाणां किन्नराणां च राज्ञां राज च सुव्रतः ॥ पतिः पुण्यजनानां च सर्वेषां धनदो भव ॥ २५ ॥
यक्षाणाम् किन्नराणाम् च राज्ञाम् राज च सुव्रतः ॥ पतिः पुण्यजनानाम् च सर्वेषाम् धन-दः भव ॥ २५ ॥
yakṣāṇām kinnarāṇām ca rājñām rāja ca suvrataḥ .. patiḥ puṇyajanānām ca sarveṣām dhana-daḥ bhava .. 25 ..
मया सख्यं च ते नित्यं वत्स्यामि च तवांतिके ॥ अलकां निकषा मित्र तव प्रीतिविवृद्धये॥ २६॥
मया सख्यम् च ते नित्यम् वत्स्यामि च तव अंतिके ॥ अलकाम् निकषा मित्र तव प्रीति-विवृद्धये॥ २६॥
mayā sakhyam ca te nityam vatsyāmi ca tava aṃtike .. alakām nikaṣā mitra tava prīti-vivṛddhaye.. 26..
आगच्छ पादयोरस्याः पत ते जननी त्वियम् ॥ याज्ञदत्ते महाभक्त सुप्रसन्नेन चेतसा ॥ २७ ॥
आगच्छ पादयोः अस्याः पत ते जननी तु इयम् ॥ याज्ञदत्ते महा-भक्त सु प्रसन्नेन चेतसा ॥ २७ ॥
āgaccha pādayoḥ asyāḥ pata te jananī tu iyam .. yājñadatte mahā-bhakta su prasannena cetasā .. 27 ..
ब्रह्मोवाच ।।
इति दत्त्वा वरान्देवः पुनराह शिवां शिवः ॥ प्रसादं कुरु देवेशि तपस्विन्यंगजेऽत्र वै ॥ २८ ॥
इति दत्त्वा वरान् देवः पुनर् आह शिवाम् शिवः ॥ प्रसादम् कुरु देवेशि तपस्विनि अंगजे अत्र वै ॥ २८ ॥
iti dattvā varān devaḥ punar āha śivām śivaḥ .. prasādam kuru deveśi tapasvini aṃgaje atra vai .. 28 ..
इत्याकर्ण्य वचश्शंभोः पार्वती जगदम्बिका ॥ अब्रवीद्याज्ञदत्तिं तं सुप्रसन्नेन चेतसा ॥ २९ ॥
इति आकर्ण्य वचः शंभोः पार्वती जगदम्बिका ॥ अब्रवीत् याज्ञदत्तिम् तम् सु प्रसन्नेन चेतसा ॥ २९ ॥
iti ākarṇya vacaḥ śaṃbhoḥ pārvatī jagadambikā .. abravīt yājñadattim tam su prasannena cetasā .. 29 ..
देव्युवाच ।।
वत्स ते निर्मला भक्तिर्भवे भवतु सर्वदा ॥ भवैकपिंगो नेत्रेण वामेन स्फुटितेन ह ॥ 2.1.19.३० ॥
वत्स ते निर्मला भक्तिः भवे भवतु सर्वदा ॥ भव एक-पिंगः नेत्रेण वामेन स्फुटितेन ह ॥ २।१।१९।३० ॥
vatsa te nirmalā bhaktiḥ bhave bhavatu sarvadā .. bhava eka-piṃgaḥ netreṇa vāmena sphuṭitena ha .. 2.1.19.30 ..
देवेन दत्ता ये तुभ्यं वरास्संतु तथैव ते ॥ कुबेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत ॥ ३१ ॥
देवेन दत्ताः ये तुभ्यम् वराः संतु तथा एव ते ॥ कुबेरः भव नाम्ना त्वम् मम रूप-ईर्ष्यया सुत ॥ ३१ ॥
devena dattāḥ ye tubhyam varāḥ saṃtu tathā eva te .. kuberaḥ bhava nāmnā tvam mama rūpa-īrṣyayā suta .. 31 ..
इति दत्त्वा वरान्देवो देव्या सह महेश्वरः ॥ धनदायाविवेशाथ धाम वैश्वेश्वराभिधम् ॥ ३२ ॥
इति दत्त्वा वरान् देवः देव्या सह महेश्वरः ॥ धनदाय आविवेश अथ धाम वैश्वेश्वर-अभिधम् ॥ ३२ ॥
iti dattvā varān devaḥ devyā saha maheśvaraḥ .. dhanadāya āviveśa atha dhāma vaiśveśvara-abhidham .. 32 ..
इत्थं सखित्वं श्रीशंभोः प्रापैष धनदः पुरम् ॥ अलकान्निकषा चासीत्कैलासश्शंकरालयः ॥ ३३ ॥
इत्थम् सखित्वम् श्री-शंभोः प्राप एष धनदः पुरम् ॥ च आसीत् कैलासः शंकर-आलयः ॥ ३३ ॥
ittham sakhitvam śrī-śaṃbhoḥ prāpa eṣa dhanadaḥ puram .. ca āsīt kailāsaḥ śaṃkara-ālayaḥ .. 33 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे कैलासगमनोपाख्याने कुबेरस्य शिवमित्रत्ववर्णनो नामैकोनविंशोऽध्यायः ॥ १९ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् प्रथम-खण्डे कैलासगमनोपाख्याने कुबेरस्य शिवमित्रत्ववर्णनः नाम एकोनविंशः अध्यायः ॥ १९ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām prathama-khaṇḍe kailāsagamanopākhyāne kuberasya śivamitratvavarṇanaḥ nāma ekonaviṃśaḥ adhyāyaḥ .. 19 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In