| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
नारद त्वं शृणु मुने शिवागमनसत्तमम् ॥ कैलासे पर्वतश्रेष्ठे कुबेरस्य तपोबलात् ॥ १ ॥
नारद त्वम् शृणु मुने शिव-आगमन-सत्तमम् ॥ कैलासे पर्वत-श्रेष्ठे कुबेरस्य तपः-बलात् ॥ १ ॥
nārada tvam śṛṇu mune śiva-āgamana-sattamam .. kailāse parvata-śreṣṭhe kuberasya tapaḥ-balāt .. 1 ..
निधिपत्व वरं दत्त्वा गत्वा स्वस्थानमुत्तमम् ॥ विचिन्त्य हृदि विश्वेशः कुबेरवरदायकः ॥ २ ॥
वरम् दत्त्वा गत्वा स्व-स्थानम् उत्तमम् ॥ विचिन्त्य हृदि विश्वेशः कुबेर-वर-दायकः ॥ २ ॥
varam dattvā gatvā sva-sthānam uttamam .. vicintya hṛdi viśveśaḥ kubera-vara-dāyakaḥ .. 2 ..
विध्यंगजस्स्वरूपो मे पूर्णः प्रलयकार्यकृत् ॥ तद्रूपेण गमिष्यामि कैलासं गुह्यकालयम् ॥ ३ ॥
विधि-अंग-जः स्व-रूपः मे पूर्णः प्रलय-कार्य-कृत् ॥ तद्-रूपेण गमिष्यामि कैलासम् गुह्यक-आलयम् ॥ ३ ॥
vidhi-aṃga-jaḥ sva-rūpaḥ me pūrṇaḥ pralaya-kārya-kṛt .. tad-rūpeṇa gamiṣyāmi kailāsam guhyaka-ālayam .. 3 ..
रुद्रो हृदयजो मे हि पूर्णांशो ब्रह्मनिष्फलः ॥ हरि ब्रह्मादिभिस्सेव्यो मदभिन्नो निरंजन ॥ ४ ॥
रुद्रः हृदय-जः मे हि पूर्णांशः ब्रह्म-निष्फलः ॥ हरि ब्रह्म-आदिभिः सेव्यः मद्-अभिन्नः निरंजन ॥ ४ ॥
rudraḥ hṛdaya-jaḥ me hi pūrṇāṃśaḥ brahma-niṣphalaḥ .. hari brahma-ādibhiḥ sevyaḥ mad-abhinnaḥ niraṃjana .. 4 ..
तत्स्वरूपेण तत्रैव सुहृद्भूवा विलास्यहम् ॥ कुबेरस्य च वत्स्यामि करिष्यामि तपो महत् ॥ ५ ॥
तद्-स्वरूपेण तत्र एव सुहृद् भूवा विलासी अहम् ॥ कुबेरस्य च वत्स्यामि करिष्यामि तपः महत् ॥ ५ ॥
tad-svarūpeṇa tatra eva suhṛd bhūvā vilāsī aham .. kuberasya ca vatsyāmi kariṣyāmi tapaḥ mahat .. 5 ..
इति संचिंत्य रुद्रोऽसौ शिवेच्छां गंतुमुत्सुकः ॥ ननाद तत्र ढक्कां स्वां सुगतिं नादरूपिणीम् ॥ ६ ॥
इति संचिंत्य रुद्रः असौ शिव-इच्छाम् गंतुम् उत्सुकः ॥ ननाद तत्र ढक्काम् स्वाम् सुगतिम् नाद-रूपिणीम् ॥ ६ ॥
iti saṃciṃtya rudraḥ asau śiva-icchām gaṃtum utsukaḥ .. nanāda tatra ḍhakkām svām sugatim nāda-rūpiṇīm .. 6 ..
त्रैलोक्यामानशे तस्या ध्वनिरुत्साहकारकः ॥ आह्वानगतिसंयुक्तो विचित्रः सांद्रशब्दकः ॥ ७॥
त्रैलोक्याम् आनशे तस्याः ध्वनिः उत्साह-कारकः ॥ आह्वान-गति-संयुक्तः विचित्रः सांद्र-शब्दकः ॥ ७॥
trailokyām ānaśe tasyāḥ dhvaniḥ utsāha-kārakaḥ .. āhvāna-gati-saṃyuktaḥ vicitraḥ sāṃdra-śabdakaḥ .. 7..
तच्छ्रुत्वा विष्णुब्रह्माद्याः सुराश्च मुनयस्तथा॥ आगमा निगमामूर्तास्सिद्धा जग्मुश्च तत्र वै ॥ ८॥
तत् श्रुत्वा विष्णु-ब्रह्म-आद्याः सुराः च मुनयः तथा॥ आगमाः निगम-अमूर्ताः सिद्धाः जग्मुः च तत्र वै ॥ ८॥
tat śrutvā viṣṇu-brahma-ādyāḥ surāḥ ca munayaḥ tathā.. āgamāḥ nigama-amūrtāḥ siddhāḥ jagmuḥ ca tatra vai .. 8..
सुरासुराद्यास्सकलास्तत्र जग्मुश्च सोत्सवाः ॥ सर्वेऽपि प्रमथा जग्मुर्यत्र कुत्रापि संस्थिताः ॥ ९ ॥
सुर-असुर-आद्याः सकलाः तत्र जग्मुः च स उत्सवाः ॥ सर्वे अपि प्रमथाः जग्मुः यत्र कुत्र अपि संस्थिताः ॥ ९ ॥
sura-asura-ādyāḥ sakalāḥ tatra jagmuḥ ca sa utsavāḥ .. sarve api pramathāḥ jagmuḥ yatra kutra api saṃsthitāḥ .. 9 ..
गणपाश्च महाभागास्सर्वलोक नमस्कृताः ॥ तेषां संख्यामहं वच्मि सावधानतया शृणु ॥ 2.1.20.१० ॥
गणपाः च महाभागाः सर्व-लोक नमस्कृताः ॥ तेषाम् संख्याम् अहम् वच्मि सावधान-तया शृणु ॥ २।१।२०।१० ॥
gaṇapāḥ ca mahābhāgāḥ sarva-loka namaskṛtāḥ .. teṣām saṃkhyām aham vacmi sāvadhāna-tayā śṛṇu .. 2.1.20.10 ..
अभ्ययाच्छंखकर्णश्च गणकोट्या गणेश्वरः ॥ दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव च ॥ ११॥
अभ्ययात् शंखकर्णः च गण-कोट्या गणेश्वरः ॥ दशभिः केकराक्षः च विकृतः अष्टाभिः एव च ॥ ११॥
abhyayāt śaṃkhakarṇaḥ ca gaṇa-koṭyā gaṇeśvaraḥ .. daśabhiḥ kekarākṣaḥ ca vikṛtaḥ aṣṭābhiḥ eva ca .. 11..
चतुःषष्ट्या विशाखश्च नवभिः पारियात्रकः ॥ षड्भिः सर्वान्तकः श्रीमान्दुन्दुभोऽष्टाभिरेव च ॥ १२ ॥
चतुःषष्ट्या विशाखः च नवभिः पारियात्रकः ॥ षड्भिः सर्वान्तकः श्रीमान् दुन्दुभः अष्टाभिः एव च ॥ १२ ॥
catuḥṣaṣṭyā viśākhaḥ ca navabhiḥ pāriyātrakaḥ .. ṣaḍbhiḥ sarvāntakaḥ śrīmān dundubhaḥ aṣṭābhiḥ eva ca .. 12 ..
जालंको हि द्वादशभिः कोटिभिर्गणपुंगवः ॥ सप्तभिस्समदः श्रीमाँस्तथैव विकृताननः ॥ १३ ॥
जालंकः हि द्वादशभिः कोटिभिः गण-पुंगवः ॥ सप्तभिः समदः श्रीमान् तथा एव विकृत-आननः ॥ १३ ॥
jālaṃkaḥ hi dvādaśabhiḥ koṭibhiḥ gaṇa-puṃgavaḥ .. saptabhiḥ samadaḥ śrīmān tathā eva vikṛta-ānanaḥ .. 13 ..
पंचभिश्च कपाली हि षड्भिः सन्दारकश्शुभः ॥ कोटिकोटिभिरेवेह कण्डुकः कुण्डकस्तथा ॥ १४॥
पंचभिः च कपाली हि षड्भिः सन्दारकः शुभः ॥ कोटि-कोटिभिः एवा इह कण्डुकः कुण्डकः तथा ॥ १४॥
paṃcabhiḥ ca kapālī hi ṣaḍbhiḥ sandārakaḥ śubhaḥ .. koṭi-koṭibhiḥ evā iha kaṇḍukaḥ kuṇḍakaḥ tathā .. 14..
विष्टंभोऽष्टाभिरगमदष्टभिश्चन्द्रतापनः ॥ १५ ॥ महाकेशस्सहस्रेण कोटीनां गणपो वृतः ॥ १६ ॥
विष्टंभः अष्टाभिः अगमत् अष्टभिः चन्द्रतापनः ॥ १५ ॥ महाकेशः सहस्रेण कोटीनाम् गणपः वृतः ॥ १६ ॥
viṣṭaṃbhaḥ aṣṭābhiḥ agamat aṣṭabhiḥ candratāpanaḥ .. 15 .. mahākeśaḥ sahasreṇa koṭīnām gaṇapaḥ vṛtaḥ .. 16 ..
कुण्डी द्वादशभिर्वाहस्तथा पर्वतकश्शुभः ॥ कालश्च कालकश्चैव महाकालः शतेन वै ॥ १७ ॥
कुण्डी द्वादशभिः वाहः तथा पर्वतकः शुभः ॥ कालः च कालकः च एव महाकालः शतेन वै ॥ १७ ॥
kuṇḍī dvādaśabhiḥ vāhaḥ tathā parvatakaḥ śubhaḥ .. kālaḥ ca kālakaḥ ca eva mahākālaḥ śatena vai .. 17 ..
अग्निकश्शतकोट्या वै कोट्याभिमुख एव च ॥ आदित्यमूर्द्धा कोट्या च तथा चैव धनावहः ॥ १८ ॥
अग्निकः शत-कोट्या वै कोट्या अभिमुखः एव च ॥ आदित्यमूर्द्धा कोट्या च तथा च एव धनावहः ॥ १८ ॥
agnikaḥ śata-koṭyā vai koṭyā abhimukhaḥ eva ca .. ādityamūrddhā koṭyā ca tathā ca eva dhanāvahaḥ .. 18 ..
सन्नाहश्च शतेनैव कुमुदः कोटिभिस्तथा ॥ अमोघः कोकिलश्चैव कोटिकोट्या सुमंत्रकः ॥ १९ ॥
सन्नाहः च शतेन एव कुमुदः कोटिभिः तथा ॥ अमोघः कोकिलः च एव कोटि-कोट्या सुमंत्रकः ॥ १९ ॥
sannāhaḥ ca śatena eva kumudaḥ koṭibhiḥ tathā .. amoghaḥ kokilaḥ ca eva koṭi-koṭyā sumaṃtrakaḥ .. 19 ..
काकपादोऽपरः षष्ट्या षष्ट्या संतानकः प्रभुः ॥ महाबलश्च नवभिर्मधु पिंगश्च पिंगलः ॥ 2.1.20.२०॥
काकपादः अपरः षष्ट्या षष्ट्या संतानकः प्रभुः ॥ महाबलः च नवभिः मधु पिंगः च पिंगलः ॥ २।१।२०।२०॥
kākapādaḥ aparaḥ ṣaṣṭyā ṣaṣṭyā saṃtānakaḥ prabhuḥ .. mahābalaḥ ca navabhiḥ madhu piṃgaḥ ca piṃgalaḥ .. 2.1.20.20..
नीलो नवत्या देवेशं पूर्णभद्रस्तथैव च ॥ कोटीनां चैव सप्तानां चतुर्वक्त्रो महाबलः ॥ २१ ॥
नीलः नवत्या देवेशम् पूर्णभद्रः तथा एव च ॥ कोटीनाम् च एव सप्तानाम् चतुर्वक्त्रः महा-बलः ॥ २१ ॥
nīlaḥ navatyā deveśam pūrṇabhadraḥ tathā eva ca .. koṭīnām ca eva saptānām caturvaktraḥ mahā-balaḥ .. 21 ..
कोटिकोटिसहस्राणां शतैर्विंशतिभिर्वृतः ॥ तत्राजगाम सर्वेशः कैलासगमनाय वै ॥ । २२ ॥
कोटि-कोटि-सहस्राणाम् शतैः विंशतिभिः वृतः ॥ तत्र आजगाम सर्व-ईशः कैलास-गमनाय वै ॥ । २२ ॥
koṭi-koṭi-sahasrāṇām śataiḥ viṃśatibhiḥ vṛtaḥ .. tatra ājagāma sarva-īśaḥ kailāsa-gamanāya vai .. . 22 ..
काष्ठागूढश्चतुष्षष्ट्या सुकेशो वृषभस्तथा ॥ कोटिभिस्सप्तभिश्चैत्रो नकुलीशस्त्वयं प्रभुः ॥ २३ ॥
काष्ठागूढः चतुष्षष्ट्या सुकेशः वृषभः तथा ॥ कोटिभिः सप्तभिः चैत्रः नकुलीशः तु अयम् प्रभुः ॥ २३ ॥
kāṣṭhāgūḍhaḥ catuṣṣaṣṭyā sukeśaḥ vṛṣabhaḥ tathā .. koṭibhiḥ saptabhiḥ caitraḥ nakulīśaḥ tu ayam prabhuḥ .. 23 ..
लोकांतकश्च दीप्तात्मा तथा दैत्यांतकः प्रभुः॥ देवो भृंगी रिटिः श्रीमान्देवदेवप्रियस्तथा ॥ २४ ॥
लोक-अंतकः च दीप्त-आत्मा तथा दैत्यांतकः प्रभुः॥ ॥ २४ ॥
loka-aṃtakaḥ ca dīpta-ātmā tathā daityāṃtakaḥ prabhuḥ.. .. 24 ..
अशनिर्भानुकश्चैव चतुष्षष्ट्या सनातनः ॥ नंदीश्वरो गणाधीशः शतकोट्या महाबलः ॥ २५ ॥
अशनिः भानुकः च एव चतुष्षष्ट्या सनातनः ॥ नंदीश्वरः गणाधीशः शत-कोट्या महा-बलः ॥ २५ ॥
aśaniḥ bhānukaḥ ca eva catuṣṣaṣṭyā sanātanaḥ .. naṃdīśvaraḥ gaṇādhīśaḥ śata-koṭyā mahā-balaḥ .. 25 ..
एते चान्ये च गणपा असंख्याता महाबलः ॥ सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ॥ २६ ॥
एते च अन्ये च गणपाः असंख्याताः महा-बलः ॥ सर्वे सहस्र-हस्ताः च जटा-मुकुट-धारिणः ॥ २६ ॥
ete ca anye ca gaṇapāḥ asaṃkhyātāḥ mahā-balaḥ .. sarve sahasra-hastāḥ ca jaṭā-mukuṭa-dhāriṇaḥ .. 26 ..
सर्वे चंद्रावतंसाश्च नीलकण्ठास्त्रिलोचनाः ॥ हारकुण्डलकेयूरमुकुटाद्यैरलंकृताः ॥ २७॥
सर्वे चंद्र-अवतंसाः च नीलकण्ठाः त्रि-लोचनाः ॥ हार-कुण्डल-केयूर-मुकुट-आद्यैः अलंकृताः ॥ २७॥
sarve caṃdra-avataṃsāḥ ca nīlakaṇṭhāḥ tri-locanāḥ .. hāra-kuṇḍala-keyūra-mukuṭa-ādyaiḥ alaṃkṛtāḥ .. 27..
ब्रह्मेन्द्रविष्णुसंकाशा अणिमादि गणैर्वृताः ॥ सूर्यकोटिप्रतीकाशास्तत्राजग्मुर्गणेश्वराः ॥ २८॥
ब्रह्म-इन्द्र-विष्णु-संकाशाः अणिम-आदि गणैः वृताः ॥ सूर्य-कोटि-प्रतीकाशाः तत्र आजग्मुः गणेश्वराः ॥ २८॥
brahma-indra-viṣṇu-saṃkāśāḥ aṇima-ādi gaṇaiḥ vṛtāḥ .. sūrya-koṭi-pratīkāśāḥ tatra ājagmuḥ gaṇeśvarāḥ .. 28..
एते गणाधिपाश्चान्ये महान्मानोऽमलप्रभाः ॥ जग्मुस्तत्र महाप्रीत्या शिवदर्शनलालसाः ॥ २९॥
एते गण-अधिपाः च अन्ये महान् मानः अमल-प्रभाः ॥ जग्मुः तत्र महा-प्रीत्या शिव-दर्शन-लालसाः ॥ २९॥
ete gaṇa-adhipāḥ ca anye mahān mānaḥ amala-prabhāḥ .. jagmuḥ tatra mahā-prītyā śiva-darśana-lālasāḥ .. 29..
गत्वा तत्र शिवं दृष्ट्वा नत्वा चक्रुः परां नुतिम् ॥ सर्वे साञ्जलयो विष्णुप्रमुखा नतमस्तकाः ॥ 2.1.20.३०॥
गत्वा तत्र शिवम् दृष्ट्वा नत्वा चक्रुः पराम् नुतिम् ॥ सर्वे स अञ्जलयः विष्णु-प्रमुखाः नत-मस्तकाः ॥ २।१।२०।३०॥
gatvā tatra śivam dṛṣṭvā natvā cakruḥ parām nutim .. sarve sa añjalayaḥ viṣṇu-pramukhāḥ nata-mastakāḥ .. 2.1.20.30..
इति विष्ण्वादिभिस्सार्द्धं महेशः परमेश्वरः ॥ कैलासमगमत्प्रीत्या कुबेरस्य महात्मनः ॥ ३१ ॥
इति विष्णु-आदिभिः सार्द्धम् महेशः परमेश्वरः ॥ कैलासम् अगमत् प्रीत्या कुबेरस्य महात्मनः ॥ ३१ ॥
iti viṣṇu-ādibhiḥ sārddham maheśaḥ parameśvaraḥ .. kailāsam agamat prītyā kuberasya mahātmanaḥ .. 31 ..
कुबेरोप्यागतं शंभुं पूजयामास सादरम्॥ भक्त्या नानोपहारैश्च परिवारसमन्वितः ॥ ३२॥
शंभुम् पूजयामास सादरम्॥ भक्त्या नाना उपहारैः च परिवार-समन्वितः ॥ ३२॥
śaṃbhum pūjayāmāsa sādaram.. bhaktyā nānā upahāraiḥ ca parivāra-samanvitaḥ .. 32..
ततो विष्ण्वादिकान्देवान्गणांश्चान्यानपि ध्रुवम् ॥ शिवानुगान्समानर्च शिवतोषणहेतवे ॥ ३३ ॥
ततस् विष्णु-आदिकान् देवान् गणान् च अन्यान् अपि ध्रुवम् ॥ शिव-अनुगान् समान् अर्च शिव-तोषण-हेतवे ॥ ३३ ॥
tatas viṣṇu-ādikān devān gaṇān ca anyān api dhruvam .. śiva-anugān samān arca śiva-toṣaṇa-hetave .. 33 ..
अथ शम्भुस्तमालिंग्य कुबेरं प्रीतमानसः ॥ मूर्ध्निं चाघ्राय संतस्थावलकां निकषाखिलैः ॥ ३४ ॥
अथ शम्भुः तम् आलिंग्य कुबेरम् प्रीत-मानसः ॥ च आघ्राय संतस्थौ अलकाम् निकष-अखिलैः ॥ ३४ ॥
atha śambhuḥ tam āliṃgya kuberam prīta-mānasaḥ .. ca āghrāya saṃtasthau alakām nikaṣa-akhilaiḥ .. 34 ..
शशास विश्वकर्माणं निर्माणार्थं गिरौ प्रभुः ॥ नानाभक्तैर्निवासाय स्वपरेषां यथोचितम् ॥ ३५ ॥
शशास विश्वकर्माणम् निर्माण-अर्थम् गिरौ प्रभुः ॥ नाना भक्तैः निवासाय स्व-परेषाम् यथोचितम् ॥ ३५ ॥
śaśāsa viśvakarmāṇam nirmāṇa-artham girau prabhuḥ .. nānā bhaktaiḥ nivāsāya sva-pareṣām yathocitam .. 35 ..
विश्वकर्मा ततो गत्वा तत्र नानाविधां मुने ॥ रचनां रचयामास द्रुतं शम्भोरनुज्ञया ॥ ३६ ॥
विश्वकर्मा ततस् गत्वा तत्र नानाविधाम् मुने ॥ रचनाम् रचयामास द्रुतम् शम्भोः अनुज्ञया ॥ ३६ ॥
viśvakarmā tatas gatvā tatra nānāvidhām mune .. racanām racayāmāsa drutam śambhoḥ anujñayā .. 36 ..
अथ शम्भुः प्रमुदितो हरिप्रार्थनया तदा ॥ ३७ ॥ कुबेरानुग्रहं कृत्वा ययौ कैलासपर्वतम् ॥
अथ शम्भुः प्रमुदितः हरि-प्रार्थनया तदा ॥ ३७ ॥ कुबेर-अनुग्रहम् कृत्वा ययौ कैलास-पर्वतम् ॥
atha śambhuḥ pramuditaḥ hari-prārthanayā tadā .. 37 .. kubera-anugraham kṛtvā yayau kailāsa-parvatam ..
सुमुहूर्ते प्रविश्यासौ स्वस्थानं परमेश्वरः ॥ ३८ ॥ अकरोदखिलान्प्रीत्या सनाथान्भक्तवत्सलः ॥
सु मुहूर्ते प्रविश्य असौ स्व-स्थानम् परमेश्वरः ॥ ३८ ॥ अकरोत् अखिलान् प्रीत्या स नाथान् भक्त-वत्सलः ॥
su muhūrte praviśya asau sva-sthānam parameśvaraḥ .. 38 .. akarot akhilān prītyā sa nāthān bhakta-vatsalaḥ ..
अथ सर्वे प्रमुदिता विष्णुप्रभृतयस्सुराः ॥ मुनयश्चापरे सिद्धा अभ्यषिंचन्मुदा शिवम् ॥ ३९ ॥
अथ सर्वे प्रमुदिताः विष्णु-प्रभृतयः सुराः ॥ मुनयः च अपरे सिद्धाः अभ्यषिंचन् मुदा शिवम् ॥ ३९ ॥
atha sarve pramuditāḥ viṣṇu-prabhṛtayaḥ surāḥ .. munayaḥ ca apare siddhāḥ abhyaṣiṃcan mudā śivam .. 39 ..
समानर्चुः क्रमात्सर्वे नानोपायनपाणयः॥ नीराजनं समाकार्षुर्महोत्सवपुरस्सरम् ॥ 2.1.20.४० ॥
समानर्चुः क्रमात् सर्वे नाना उपायन-पाणयः॥ नीराजनम् समाकार्षुः महा-उत्सव-पुरस्सरम् ॥ २।१।२०।४० ॥
samānarcuḥ kramāt sarve nānā upāyana-pāṇayaḥ.. nīrājanam samākārṣuḥ mahā-utsava-purassaram .. 2.1.20.40 ..
तदासीत्सुमनोवृष्टिर्मंगलायतना मुने ॥ सुप्रीता ननृतुस्तत्राप्सरसो गानतत्पराः ॥ ४१ ॥
तदा आसीत् सुमनः-वृष्टिः मंगल-आयतना मुने ॥ सु प्रीताः ननृतुः तत्र अप्सरसः गान-तत्पराः ॥ ४१ ॥
tadā āsīt sumanaḥ-vṛṣṭiḥ maṃgala-āyatanā mune .. su prītāḥ nanṛtuḥ tatra apsarasaḥ gāna-tatparāḥ .. 41 ..
जयशब्दो नमश्शब्दस्तत्रासीत्सर्वसंस्कृतः ॥ तदोत्साहो महानासीत्सर्वेषां सुखवर्धनः ॥ ४२ ॥
जय-शब्दः नमः-शब्दः तत्र आसीत् सर्व-संस्कृतः ॥ तदा उत्साहः महान् आसीत् सर्वेषाम् सुख-वर्धनः ॥ ४२ ॥
jaya-śabdaḥ namaḥ-śabdaḥ tatra āsīt sarva-saṃskṛtaḥ .. tadā utsāhaḥ mahān āsīt sarveṣām sukha-vardhanaḥ .. 42 ..
स्थित्वा सिंहासने शंभुर्विराजाधिकं तदा ॥ सर्वैस्संसेवितोऽभीक्ष्णं विष्ण्वाद्यैश्च यथोचितम् ॥ ४३ ॥
स्थित्वा सिंहासने शंभुः विराज-अधिकम् तदा ॥ सर्वैः संसेवितः अभीक्ष्णम् विष्णु-आद्यैः च यथोचितम् ॥ ४३ ॥
sthitvā siṃhāsane śaṃbhuḥ virāja-adhikam tadā .. sarvaiḥ saṃsevitaḥ abhīkṣṇam viṣṇu-ādyaiḥ ca yathocitam .. 43 ..
अथ सर्वे सुराद्याश्च तुष्टुवुस्तं पृथक्पृथक् ॥ अर्थ्याभिर्वाग्भिरिष्टाभिश्शकरं लोकशंकरम् ॥ ४४ ॥
अथ सर्वे सुर-आद्याः च तुष्टुवुः तम् पृथक् पृथक् ॥ अर्थ्याभिः वाग्भिः इष्टाभिः शकरम् लोक-शंकरम् ॥ ४४ ॥
atha sarve sura-ādyāḥ ca tuṣṭuvuḥ tam pṛthak pṛthak .. arthyābhiḥ vāgbhiḥ iṣṭābhiḥ śakaram loka-śaṃkaram .. 44 ..
प्रसन्नात्मा स्तुतिं श्रुत्वा तेषां कामान्ददौ शिवः ॥ मनोभिलषितान्प्रीत्या वरान्सर्वेश्वरः प्रभुः॥ ४५॥
प्रसन्न-आत्मा स्तुतिम् श्रुत्वा तेषाम् कामान् ददौ शिवः ॥ मनः-अभिलषितान् प्रीत्या वरान् सर्व-ईश्वरः प्रभुः॥ ४५॥
prasanna-ātmā stutim śrutvā teṣām kāmān dadau śivaḥ .. manaḥ-abhilaṣitān prītyā varān sarva-īśvaraḥ prabhuḥ.. 45..
शिवाज्ञयाथ ते सर्वे स्वंस्वं धाम ययुर्मुने॥ प्राप्तकामाः प्रमुदिता अहं च विष्णुना सह॥ ४६॥
शिव-आज्ञया अथ ते सर्वे स्वम् स्वम् धाम ययुः मुने॥ प्राप्त-कामाः प्रमुदिताः अहम् च विष्णुना सह॥ ४६॥
śiva-ājñayā atha te sarve svam svam dhāma yayuḥ mune.. prāpta-kāmāḥ pramuditāḥ aham ca viṣṇunā saha.. 46..
उपवेश्यासने विष्णुं माञ्च शम्भुरुवाच ह ॥ बहु सम्बोध्य सुप्रीत्यानुगृह्य परमेश्वरः ॥ ४७॥
उपवेश्य आसने विष्णुम् शम्भुः उवाच ह ॥ बहु सम्बोध्य सु प्रीत्या अनुगृह्य परमेश्वरः ॥ ४७॥
upaveśya āsane viṣṇum śambhuḥ uvāca ha .. bahu sambodhya su prītyā anugṛhya parameśvaraḥ .. 47..
शिव उवाच ।।
हे हरे हे विधे तातौ युवां प्रियतरौ मम ॥ सुरोत्तमौ त्रिजगतोऽवनसर्गकरौ सदा॥ ४८॥
हे हरे हे विधे तातौ युवाम् प्रियतरौ मम ॥ सुर-उत्तमौ त्रिजगतः अवन-सर्ग-करौ सदा॥ ४८॥
he hare he vidhe tātau yuvām priyatarau mama .. sura-uttamau trijagataḥ avana-sarga-karau sadā.. 48..
गच्छतं निर्भयन्नित्यं स्वस्थानश्च मदाज्ञया ॥ सुखप्रदाताहं वै वाम्विशेषात्प्रेक्षकस्सदा ॥ ४९॥
गच्छतम् निर्भयन् नित्यम् स्व-स्थानः च मद्-आज्ञया ॥ सुख-प्रदाता अहम् वै वाम् विशेषात् प्रेक्षकः सदा ॥ ४९॥
gacchatam nirbhayan nityam sva-sthānaḥ ca mad-ājñayā .. sukha-pradātā aham vai vām viśeṣāt prekṣakaḥ sadā .. 49..
इत्याकर्ण्य वचश्शम्भोस्सुप्रणम्य तदाज्ञया ॥ अहं हरिश्च स्वं धामागमाव प्रीतमानसौ ॥ 2.1.20.५०॥
इति आकर्ण्य वचः शम्भोः सु प्रणम्य तद्-आज्ञया ॥ अहम् हरिः च स्वम् धाम आगमाव प्रीत-मानसौ ॥ २।१।२०।५०॥
iti ākarṇya vacaḥ śambhoḥ su praṇamya tad-ājñayā .. aham hariḥ ca svam dhāma āgamāva prīta-mānasau .. 2.1.20.50..
तदानीमेव सुप्रीतश्शंकरो निधिपम्मुदा ॥ उपवेश्य गृहीत्वा तं कर आह शुभं वचः ॥ ५१ ॥
तदानीम् एव सु प्रीतः शंकरः निधि-पम्मुदा ॥ उपवेश्य गृहीत्वा तम् करे आह शुभम् वचः ॥ ५१ ॥
tadānīm eva su prītaḥ śaṃkaraḥ nidhi-pammudā .. upaveśya gṛhītvā tam kare āha śubham vacaḥ .. 51 ..
शिव उवाच ।।
तव प्रेम्णा वशीभूतो मित्रतागमनं सखे ॥ स्वस्थानङ्गच्छ विभयस्सहायोहं सदानघ ॥ ५२ ॥
तव प्रेम्णा वशीभूतः मित्र-ता-गमनम् सखे ॥ स्व-स्थानम् गच्छ विभयः सहायः उहम् सदा अनघ ॥ ५२ ॥
tava premṇā vaśībhūtaḥ mitra-tā-gamanam sakhe .. sva-sthānam gaccha vibhayaḥ sahāyaḥ uham sadā anagha .. 52 ..
इत्याकर्ण्य वचश्शम्भोः कुबेरः प्रीतमानसः ॥ तदाज्ञया स्वकं धाम जगाम प्रमुदान्वितः ॥ ५३॥
इति आकर्ण्य वचः शम्भोः कुबेरः प्रीत-मानसः ॥ तद्-आज्ञया स्वकम् धाम जगाम प्रमुदा अन्वितः ॥ ५३॥
iti ākarṇya vacaḥ śambhoḥ kuberaḥ prīta-mānasaḥ .. tad-ājñayā svakam dhāma jagāma pramudā anvitaḥ .. 53..
स उवाच गिरौ शम्भुः कैलासे पर्वतोत्तमे॥ सगणो योगनिरतस्स्वच्छन्दो ध्यान तत्परः ॥ ५४॥
सः उवाच गिरौ शम्भुः कैलासे पर्वत-उत्तमे॥ स गणः योग-निरतः स्वच्छन्दः ध्यान तत्परः ॥ ५४॥
saḥ uvāca girau śambhuḥ kailāse parvata-uttame.. sa gaṇaḥ yoga-nirataḥ svacchandaḥ dhyāna tatparaḥ .. 54..
क्वचिद्दध्यौ स्वमात्मानं क्वचिद्योगरतोऽभवत् ॥ इतिहासगणान्प्रीत्यावादीत्स्वच्छन्दमानसः ॥ ५५॥
क्वचिद् दध्यौ स्वम् आत्मानम् क्वचिद् योग-रतः अभवत् ॥ इतिहास-गणान् प्रीत्या अवादीत् स्वच्छन्द-मानसः ॥ ५५॥
kvacid dadhyau svam ātmānam kvacid yoga-rataḥ abhavat .. itihāsa-gaṇān prītyā avādīt svacchanda-mānasaḥ .. 55..
क्वचित्कैलास कुधरसुस्थानेषु महेश्वरः ॥ विजहार गणैः प्रीत्या विविधेषु विहारवित् ॥ ५६ ॥
क्वचिद् कैलास कुधर-सु स्थानेषु महेश्वरः ॥ विजहार गणैः प्रीत्या विविधेषु विहार-विद् ॥ ५६ ॥
kvacid kailāsa kudhara-su sthāneṣu maheśvaraḥ .. vijahāra gaṇaiḥ prītyā vividheṣu vihāra-vid .. 56 ..
इत्थं रुद्रस्वरूपोऽसौ शंकरः परमेश्वरः॥ अकार्षीत्स्वगिरौ लीला नाना योगिवरोऽपि यः ॥ ५७॥
इत्थम् रुद्र-स्व-रूपः असौ शंकरः परमेश्वरः॥ अकार्षीत् स्व-गिरौ लीलाः नाना योगि-वरः अपि यः ॥ ५७॥
ittham rudra-sva-rūpaḥ asau śaṃkaraḥ parameśvaraḥ.. akārṣīt sva-girau līlāḥ nānā yogi-varaḥ api yaḥ .. 57..
नीत्वा कालं कियन्तं सोऽपत्नीकः परमेश्वरः ॥ पश्चादवाप स्वाम्पत्नीन्दक्षपत्नीसमुद्भवाम् ॥ ५८॥
नीत्वा कालम् कियन्तम् सः अपत्नीकः परमेश्वरः ॥ पश्चात् अवाप स्वाम् पत्नीन् दक्ष-पत्नी-समुद्भवाम् ॥ ५८॥
nītvā kālam kiyantam saḥ apatnīkaḥ parameśvaraḥ .. paścāt avāpa svām patnīn dakṣa-patnī-samudbhavām .. 58..
विजहार तया सत्या दक्षपुत्र्या महेश्वरः॥ सुखी बभूव देवर्षे लोकाचारपरायणः ॥ ५९॥
विजहार तया सत्या दक्ष-पुत्र्या महेश्वरः॥ सुखी बभूव देव-ऋषे लोक-आचार-परायणः ॥ ५९॥
vijahāra tayā satyā dakṣa-putryā maheśvaraḥ.. sukhī babhūva deva-ṛṣe loka-ācāra-parāyaṇaḥ .. 59..
इत्थं रुद्रावतारस्ते वर्णितोऽयं मुनीश्वर ॥ कैलासागमनञ्चास्य सखित्वान्निधिपस्य हि ॥ 2.1.20.६०॥
इत्थम् रुद्र-अवतारः ते वर्णितः अयम् मुनि-ईश्वर ॥ कैलास-आगमनञ्च च अस्य सखि-त्वात् निधिपस्य हि ॥ २।१।२०।६०॥
ittham rudra-avatāraḥ te varṇitaḥ ayam muni-īśvara .. kailāsa-āgamanañca ca asya sakhi-tvāt nidhipasya hi .. 2.1.20.60..
तदन्तर्गतलीलापि वर्णिता ज्ञानवर्धिनी ॥ इहामुत्र च या नित्यं सर्वकामफलप्रदा ॥ ६१ ॥
तद्-अन्तर्गत-लीला अपि वर्णिता ज्ञान-वर्धिनी ॥ इह अमुत्र च या नित्यम् सर्व-काम-फल-प्रदा ॥ ६१ ॥
tad-antargata-līlā api varṇitā jñāna-vardhinī .. iha amutra ca yā nityam sarva-kāma-phala-pradā .. 61 ..
इमां कथाम्पठेद्यस्तु शृणुयाद्वा समाहितः ॥ इह भुक्तिं समासाद्य लभेन्मुक्तिम्परत्र सः ॥ ६२॥
इमाम् कथाम् पठेत् यः तु शृणुयात् वा समाहितः ॥ इह भुक्तिम् समासाद्य लभेत् मुक्तिम् परत्र सः ॥ ६२॥
imām kathām paṭhet yaḥ tu śṛṇuyāt vā samāhitaḥ .. iha bhuktim samāsādya labhet muktim paratra saḥ .. 62..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे कैलासोपाख्याने शिवस्य कैलासगमनं नाम विंशोऽध्यायः ॥ २०॥
इति श्री-शिवमहापुराणे द्वितीयायाम् रुद्रसंहितायाम् प्रथम-खंडे कैलासोपाख्याने शिवस्य कैलासगमनम् नाम विंशः अध्यायः ॥ २०॥
iti śrī-śivamahāpurāṇe dvitīyāyām rudrasaṃhitāyām prathama-khaṃḍe kailāsopākhyāne śivasya kailāsagamanam nāma viṃśaḥ adhyāyaḥ .. 20..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In