| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
सूतसूत महाभाग व्यासशिष्य नमोऽस्तु ते ॥ अद्भुतेयं कथा तात वर्णिता कृपया हि नः ॥ १ ॥
सूत-सूत महाभाग व्यास-शिष्य नमः अस्तु ते ॥ अद्भुता इयम् कथा तात वर्णिता कृपया हि नः ॥ १ ॥
sūta-sūta mahābhāga vyāsa-śiṣya namaḥ astu te .. adbhutā iyam kathā tāta varṇitā kṛpayā hi naḥ .. 1 ..
मुनौ गते हरिस्तात किं चकार ततः परम्॥ नारदोपि गतः कुत्र तन्मे व्याख्यातुमर्हसि ॥ २॥
मुनौ गते हरिः तात किम् चकार ततस् परम्॥ नारदः उपि गतः कुत्र तत् मे व्याख्यातुम् अर्हसि ॥ २॥
munau gate hariḥ tāta kim cakāra tatas param.. nāradaḥ upi gataḥ kutra tat me vyākhyātum arhasi .. 2..
व्यास उवाच ।।
इत्याकर्ण्य वचस्तेषां सूतः पौराणिकोत्तमः ॥ प्रत्युवाच शिवं स्मृत्वा नानासूतिकरं बुधः॥ ३॥
इति आकर्ण्य वचः तेषाम् सूतः पौराणिक-उत्तमः ॥ प्रत्युवाच शिवम् स्मृत्वा नाना सूति-करम् बुधः॥ ३॥
iti ākarṇya vacaḥ teṣām sūtaḥ paurāṇika-uttamaḥ .. pratyuvāca śivam smṛtvā nānā sūti-karam budhaḥ.. 3..
सूत उवाच ।।
मुनौ यदृच्छया विष्णुर्गते तस्मिन्हि नारदे॥ शिवेच्छया चकाराशु माया मायाविशारदः ॥ ४ ॥
मुनौ यदृच्छया विष्णुः गते तस्मिन् हि नारदे॥ शिव-इच्छया चकार आशु मायाः माया-विशारदः ॥ ४ ॥
munau yadṛcchayā viṣṇuḥ gate tasmin hi nārade.. śiva-icchayā cakāra āśu māyāḥ māyā-viśāradaḥ .. 4 ..
मुनिमार्गस्य मध्ये तु विरेचे नगरं महत् ॥ शतयोजनविस्तारमद्भुतं सुमनोहरम्॥ ५॥
मुनिमार्गस्य मध्ये तु विरेचे नगरम् महत् ॥ शत-योजन-विस्तारम् अद्भुतम् सु मनोहरम्॥ ५॥
munimārgasya madhye tu virece nagaram mahat .. śata-yojana-vistāram adbhutam su manoharam.. 5..
स्वलोकादधिकं रम्यं नानावस्तुविराजितम् ॥ नरनारीविहाराढ्यं चतुर्वर्णाकुलं परम् ॥ ६॥
स्व-लोकात् अधिकम् रम्यम् नाना वस्तु-विराजितम् ॥ नर-नारी-विहार-आढ्यम् चतुर्-वर्ण-आकुलम् परम् ॥ ६॥
sva-lokāt adhikam ramyam nānā vastu-virājitam .. nara-nārī-vihāra-āḍhyam catur-varṇa-ākulam param .. 6..
तत्र राजा शीलनिर्धिर्नामैश्वर्यसमन्वितः ॥ सुतास्वयम्वरोद्युक्तो महोत्सवसमन्वितः ॥ ७॥
तत्र राजा शीलनिर्धिः नाम ऐश्वर्य-समन्वितः ॥ सुता-स्वयम्वर-उद्युक्तः महा-उत्सव-समन्वितः ॥ ७॥
tatra rājā śīlanirdhiḥ nāma aiśvarya-samanvitaḥ .. sutā-svayamvara-udyuktaḥ mahā-utsava-samanvitaḥ .. 7..
चतुर्दिग्भ्यः समायातैस्संयुतं नृपनन्दतैः ॥ नानावेषैस्सुशोभैश्च तत्कन्यावरणोत्सुकैः ॥ ८॥
चतुर्-दिग्भ्यः समायातैः संयुतम् ॥ नाना वेषैः सु शोभैः च तद्-कन्या-वरण-उत्सुकैः ॥ ८॥
catur-digbhyaḥ samāyātaiḥ saṃyutam .. nānā veṣaiḥ su śobhaiḥ ca tad-kanyā-varaṇa-utsukaiḥ .. 8..
एतादृशं पुरं दृष्ट्वा मोहं प्राप्तोऽथ नारदः ॥ कौतुकी तन्नृपद्वारं जगाम मदनेधितः ॥ ९॥
एतादृशम् पुरम् दृष्ट्वा मोहम् प्राप्तः अथ नारदः ॥ कौतुकी तत् नृप-द्वारम् जगाम मदन-एधितः ॥ ९॥
etādṛśam puram dṛṣṭvā moham prāptaḥ atha nāradaḥ .. kautukī tat nṛpa-dvāram jagāma madana-edhitaḥ .. 9..
आगतं मुनिवर्यं तं दृष्ट्वा शीलनिधिर्नृपः ॥ उपवेश्यार्चयांचक्रे रत्नसिंहासने वरे ॥ 2.1.3.१०॥
आगतम् मुनि-वर्यम् तम् दृष्ट्वा शील-निधिः नृपः ॥ उपवेश्य अर्चयांचक्रे रत्न-सिंहासने वरे ॥ २।१।३।१०॥
āgatam muni-varyam tam dṛṣṭvā śīla-nidhiḥ nṛpaḥ .. upaveśya arcayāṃcakre ratna-siṃhāsane vare .. 2.1.3.10..
अथ राजा स्वतनयां नामतश्श्रीमतीं वराम् ॥ समानीय नारदस्य पादयोस्समपातयत् ॥ ११॥
अथ राजा स्व-तनयाम् नामतः श्रीमतीम् वराम् ॥ समानीय नारदस्य पादयोः समपातयत् ॥ ११॥
atha rājā sva-tanayām nāmataḥ śrīmatīm varām .. samānīya nāradasya pādayoḥ samapātayat .. 11..
तत्कन्यां प्रेक्ष्य स मुनिर्नारदः प्राह विस्मितः ॥ केयं राजन्महाभागा कन्या सुरसुतोपमा ॥ १२ ॥
तद्-कन्याम् प्रेक्ष्य स मुनिः नारदः प्राह विस्मितः ॥ का इयम् राजन् महाभागा कन्या सुर-सुता-उपमा ॥ १२ ॥
tad-kanyām prekṣya sa muniḥ nāradaḥ prāha vismitaḥ .. kā iyam rājan mahābhāgā kanyā sura-sutā-upamā .. 12 ..
तस्य तद्वचनं श्रुत्वा राजा प्राह कृतांजलिः ॥ दुहितेयं मम मुने श्रीमती नाम नामतः ॥ १३ ॥
तस्य तत् वचनम् श्रुत्वा राजा प्राह कृतांजलिः ॥ दुहिता इयम् मम मुने श्रीमती नाम नामतः ॥ १३ ॥
tasya tat vacanam śrutvā rājā prāha kṛtāṃjaliḥ .. duhitā iyam mama mune śrīmatī nāma nāmataḥ .. 13 ..
प्रदानसमयं प्राप्ता वरमन्वेषती शुभम् ॥ सा स्वयंवरसंप्राप्ता सर्वलक्षणलक्षिता ॥ १४ ॥
प्रदान-समयम् प्राप्ता वरम् अन्वेषती शुभम् ॥ सा स्वयंवर-संप्राप्ता सर्व-लक्षण-लक्षिता ॥ १४ ॥
pradāna-samayam prāptā varam anveṣatī śubham .. sā svayaṃvara-saṃprāptā sarva-lakṣaṇa-lakṣitā .. 14 ..
अस्या भाग्यं वद मुने सर्वं जातकमादरात्॥ कीदृशं तनयेयं मे वरमाप्स्यति तद्वद ॥ १५॥
अस्याः भाग्यम् वद मुने सर्वम् जातकम् आदरात्॥ कीदृशम् तनया इयम् मे वरम् आप्स्यति तत् वद ॥ १५॥
asyāḥ bhāgyam vada mune sarvam jātakam ādarāt.. kīdṛśam tanayā iyam me varam āpsyati tat vada .. 15..
इत्युक्तो मुनिशार्दूलस्तामिच्छुः कामविह्वलः॥ समाभाष्य स राजानं नारदो वाक्यमब्रवीत् ॥ १६॥
इति उक्तः मुनि-शार्दूलः ताम् इच्छुः काम-विह्वलः॥ समाभाष्य स राजानम् नारदः वाक्यम् अब्रवीत् ॥ १६॥
iti uktaḥ muni-śārdūlaḥ tām icchuḥ kāma-vihvalaḥ.. samābhāṣya sa rājānam nāradaḥ vākyam abravīt .. 16..
सुतेयं तव भूपाल सर्वलक्षणलक्षिता॥ महाभाग्यवती धन्या लक्ष्मीरिव गुणालया ॥ १७॥
सुता इयम् तव भूपाल सर्व-लक्षण-लक्षिता॥ महाभाग्यवती धन्या लक्ष्मीः इव गुण-आलया ॥ १७॥
sutā iyam tava bhūpāla sarva-lakṣaṇa-lakṣitā.. mahābhāgyavatī dhanyā lakṣmīḥ iva guṇa-ālayā .. 17..
सर्वेश्वरोऽजितो वीरो गिरीशसदृशो विभुः ॥ अस्याः पतिर्ध्रुवं भावी कामजित्सुरसत्तमः ॥ १८॥
सर्वेश्वरः अजितः वीरः गिरीश-सदृशः विभुः ॥ अस्याः पतिः ध्रुवम् भावी कामजित् सुर-सत्तमः ॥ १८॥
sarveśvaraḥ ajitaḥ vīraḥ girīśa-sadṛśaḥ vibhuḥ .. asyāḥ patiḥ dhruvam bhāvī kāmajit sura-sattamaḥ .. 18..
इत्युक्त्वा नृपमामंत्र्य ययौ यादृच्छिको मुनिः॥ बभूव कामविवशश्शिवमाया विमोहितः॥ १९॥
इति उक्त्वा नृपम् आमंत्र्य ययौ यादृच्छिकः मुनिः॥ बभूव काम-विवशः शिव-मायाः विमोहितः॥ १९॥
iti uktvā nṛpam āmaṃtrya yayau yādṛcchikaḥ muniḥ.. babhūva kāma-vivaśaḥ śiva-māyāḥ vimohitaḥ.. 19..
चित्ते विचिन्त्य स मुनिराप्नुयां कथमेनकाम्॥ स्वयंवरे नृपालानामेकं मां वृणुयात्कथम्॥ 2.1.3.२०॥
चित्ते विचिन्त्य स मुनिः आप्नुयाम् कथम् एनकाम्॥ स्वयंवरे नृपालानाम् एकम् माम् वृणुयात् कथम्॥ २।१।३।२०॥
citte vicintya sa muniḥ āpnuyām katham enakām.. svayaṃvare nṛpālānām ekam mām vṛṇuyāt katham.. 2.1.3.20..
सौन्दर्यं सर्वनारीणां प्रियं भवति सर्वथा॥ तद्दृष्ट्वैव प्रसन्ना सा स्ववशा नात्र संशयः॥ २१॥
सौन्दर्यम् सर्व-नारीणाम् प्रियम् भवति सर्वथा॥ तत् दृष्ट्वा एव प्रसन्ना सा स्व-वशा न अत्र संशयः॥ २१॥
saundaryam sarva-nārīṇām priyam bhavati sarvathā.. tat dṛṣṭvā eva prasannā sā sva-vaśā na atra saṃśayaḥ.. 21..
विधायेत्थं विष्णुरूपं ग्रहीतुं मुनिसत्तमः ॥ विष्णुलोकं जगामाशु नारदः स्मरविह्वलः॥ २२॥
विधाय इत्थम् विष्णु-रूपम् ग्रहीतुम् मुनि-सत्तमः ॥ विष्णु-लोकम् जगाम आशु नारदः स्मर-विह्वलः॥ २२॥
vidhāya ittham viṣṇu-rūpam grahītum muni-sattamaḥ .. viṣṇu-lokam jagāma āśu nāradaḥ smara-vihvalaḥ.. 22..
प्रणिपत्य हृषीकेशं वाक्यमेतदुवाच ह॥ रहसि त्वां प्रवक्ष्यामि स्ववृत्तान्तमशेषतः ॥ २३॥
प्रणिपत्य हृषीकेशम् वाक्यम् एतत् उवाच ह॥ रहसि त्वाम् प्रवक्ष्यामि स्व-वृत्तान्तम् अशेषतस् ॥ २३॥
praṇipatya hṛṣīkeśam vākyam etat uvāca ha.. rahasi tvām pravakṣyāmi sva-vṛttāntam aśeṣatas .. 23..
तथेत्युक्ते तथा भूते शिवेच्छा कार्यकर्त हि ॥ ब्रूहीत्युक्तवति श्रीशे मुनिराह च केशवम्॥ २४॥
तथा इति उक्ते तथा भूते शिव-इच्छा हि ॥ ब्रूहि इति उक्तवति श्रीशे मुनिः आह च केशवम्॥ २४॥
tathā iti ukte tathā bhūte śiva-icchā hi .. brūhi iti uktavati śrīśe muniḥ āha ca keśavam.. 24..
नारद उवाच।।
त्वदीयो भूपतिः शीलनिधिस्स वृषतत्परः॥ तस्य कन्या विशालाक्षी श्रीमतीवरवर्णिनी ॥ २५॥
त्वदीयः भूपतिः शील-निधिः स वृष-तत्परः॥ तस्य कन्या विशाल-अक्षी श्रीमती-वरवर्णिनी ॥ २५॥
tvadīyaḥ bhūpatiḥ śīla-nidhiḥ sa vṛṣa-tatparaḥ.. tasya kanyā viśāla-akṣī śrīmatī-varavarṇinī .. 25..
जगन्मोहिन्यभिख्याता त्रैलोक्येप्यति सुन्दरी ॥ परिणेतुमहं विष्णो तामिच्छाम्यद्य मा चिरम्॥ २६॥
जगन्मोहिनी अभिख्याता त्रैलोक्ये पि अति सुन्दरी ॥ परिणेतुम् अहम् विष्णो ताम् इच्छामि अद्य मा चिरम्॥ २६॥
jaganmohinī abhikhyātā trailokye pi ati sundarī .. pariṇetum aham viṣṇo tām icchāmi adya mā ciram.. 26..
स्वयंवरं चकरासौ भूपतिस्तनयेच्छया॥ चतुर्दिग्भ्यः समायाता राजपुत्रास्सहस्रशः ॥ २७॥
स्वयंवरम् चकर असौ भूपतिः तनय-इच्छया॥ चतुर्-दिग्भ्यः समायाताः राज-पुत्राः सहस्रशस् ॥ २७॥
svayaṃvaram cakara asau bhūpatiḥ tanaya-icchayā.. catur-digbhyaḥ samāyātāḥ rāja-putrāḥ sahasraśas .. 27..
यदि दास्यसि रूपं मे तदा तां प्राप्नुयां ध्रुवम् ॥ त्वद्रूपं सा विना कंठे जयमालां न धास्यति ॥ २८॥
यदि दास्यसि रूपम् मे तदा ताम् प्राप्नुयाम् ध्रुवम् ॥ त्वद्-रूपम् सा विना कंठे जयमालाम् न धास्यति ॥ २८॥
yadi dāsyasi rūpam me tadā tām prāpnuyām dhruvam .. tvad-rūpam sā vinā kaṃṭhe jayamālām na dhāsyati .. 28..
स्वरूपं देहि मे नाथ सेवकोऽहं प्रियस्तव ॥ वृणुयान्मां यथा सा वै श्रीमती क्षितिपात्मजा॥ २९ ॥
स्व-रूपम् देहि मे नाथ सेवकः अहम् प्रियः तव ॥ वृणुयात् माम् यथा सा वै श्रीमती क्षितिप-आत्मजा॥ २९ ॥
sva-rūpam dehi me nātha sevakaḥ aham priyaḥ tava .. vṛṇuyāt mām yathā sā vai śrīmatī kṣitipa-ātmajā.. 29 ..
सुत उवाच ।।
वचः श्रुत्वा मुनेरित्थं विहस्य मधुसूदनः ॥ शांकरीं प्रभुतां बुद्ध्वा प्रत्युवाच दयापरः॥ 2.1.3.३०॥
वचः श्रुत्वा मुनेः इत्थम् विहस्य मधुसूदनः ॥ शांकरीम् प्रभु-ताम् बुद्ध्वा प्रत्युवाच दया-परः॥ २।१।३।३०॥
vacaḥ śrutvā muneḥ ittham vihasya madhusūdanaḥ .. śāṃkarīm prabhu-tām buddhvā pratyuvāca dayā-paraḥ.. 2.1.3.30..
विष्णुरुवाच ।।
स्वेष्टदेशं मुने गच्छ करिष्यामि हितं तव॥ भिषग्वरो यथार्त्तस्य यतः प्रियतरोऽसि मे॥ ३१॥
स्व-इष्ट-देशम् मुने गच्छ करिष्यामि हितम् तव॥ भिषज्-वरः यथा आर्त्तस्य यतस् प्रियतरः असि मे॥ ३१॥
sva-iṣṭa-deśam mune gaccha kariṣyāmi hitam tava.. bhiṣaj-varaḥ yathā ārttasya yatas priyataraḥ asi me.. 31..
इत्युक्त्वा मुनये तस्मै ददौ विष्णुर्मुखं हरे॥ स्वरूपमनुगृह्यास्य तिरोधानं जगाम सः॥ ३२॥
इति उक्त्वा मुनये तस्मै ददौ विष्णुः मुखम् हरे॥ स्व-रूपम् अनुगृह्य अस्य तिरोधानम् जगाम सः॥ ३२॥
iti uktvā munaye tasmai dadau viṣṇuḥ mukham hare.. sva-rūpam anugṛhya asya tirodhānam jagāma saḥ.. 32..
एवमुक्तो मुनिर्हृष्टः स्वरूपं प्राप्य वै हरेः॥ मेने कृतार्थमात्मानं तद्यत्नं न बुबोध सः ॥ ३३॥
एवम् उक्तः मुनिः हृष्टः स्व-रूपम् प्राप्य वै हरेः॥ मेने कृतार्थम् आत्मानम् तद्-यत्नम् न बुबोध सः ॥ ३३॥
evam uktaḥ muniḥ hṛṣṭaḥ sva-rūpam prāpya vai hareḥ.. mene kṛtārtham ātmānam tad-yatnam na bubodha saḥ .. 33..
अथ तत्र गतः शीघ्रन्नारदो मुनिसत्तमः॥ चक्रे स्वयंवरं यत्र राजपुत्रैस्समाकुलम् ॥ ३४ ॥
अथ तत्र गतः शीघ्रत् नारदः मुनि-सत्तमः॥ चक्रे स्वयंवरम् यत्र राज-पुत्रैः समाकुलम् ॥ ३४ ॥
atha tatra gataḥ śīghrat nāradaḥ muni-sattamaḥ.. cakre svayaṃvaram yatra rāja-putraiḥ samākulam .. 34 ..
स्वयंवरसभा दिव्या राजपुत्रसमावृता॥ शुशुभेऽतीव विप्रेन्द्रा यथा शक्रसभा परा ॥ ३५॥
स्वयंवर-सभा दिव्या राज-पुत्र-समावृता॥ शुशुभे अतीव विप्र-इन्द्राः यथा शक्र-सभा परा ॥ ३५॥
svayaṃvara-sabhā divyā rāja-putra-samāvṛtā.. śuśubhe atīva vipra-indrāḥ yathā śakra-sabhā parā .. 35..
तस्यां नृपसभायां वै नारदः समुपाविशत् ॥ स्थित्वा तत्र विचिन्त्येति प्रीतियुक्तेन चेतसा ॥ ३६॥
तस्याम् नृप-सभायाम् वै नारदः समुपाविशत् ॥ स्थित्वा तत्र विचिन्त्य इति प्रीति-युक्तेन चेतसा ॥ ३६॥
tasyām nṛpa-sabhāyām vai nāradaḥ samupāviśat .. sthitvā tatra vicintya iti prīti-yuktena cetasā .. 36..
मां वरिष्यति नान्यं सा विष्णुरूपधरन्ध्रुवम् ॥ आननस्य कुरूपत्वं न वेद मुनिसत्तमः ॥ ३७ ॥
माम् वरिष्यति न अन्यम् सा विष्णु-रूप-धरन् ध्रुवम् ॥ आननस्य कु रूप-त्वम् न वेद मुनि-सत्तमः ॥ ३७ ॥
mām variṣyati na anyam sā viṣṇu-rūpa-dharan dhruvam .. ānanasya ku rūpa-tvam na veda muni-sattamaḥ .. 37 ..
पूर्वरूपं मुनिं सर्वे ददृशुऽस्तत्र मानवाः।तद्भेदं बुबुधुस्ते न राजपुत्रादयो द्विजाः ॥ ३८ ॥
पूर्व-रूपम् मुनिम् सर्वे मानवाः।तद्-भेदम् बुबुधुः ते न राज-पुत्र-आदयः द्विजाः ॥ ३८ ॥
pūrva-rūpam munim sarve mānavāḥ.tad-bhedam bubudhuḥ te na rāja-putra-ādayaḥ dvijāḥ .. 38 ..
तत्र रुद्रगणौ द्वौ तद्रक्षणार्थं समागतौ ॥ विप्ररूपधरौ गूढौ तत्रेदं जज्ञतुः परम्॥ ३९॥
तत्र रुद्र-गणौ द्वौ तद्-रक्षण-अर्थम् समागतौ ॥ विप्र-रूप-धरौ गूढौ तत्र इदम् जज्ञतुः परम्॥ ३९॥
tatra rudra-gaṇau dvau tad-rakṣaṇa-artham samāgatau .. vipra-rūpa-dharau gūḍhau tatra idam jajñatuḥ param.. 39..
मूढं मत्वा मुनिं तौ तन्निकटं जग्मतुर्गणौ ॥ कुरुतस्तत्प्रहासं वै भाषमाणौ परस्परम् ॥ 2.1.3.४० ॥
मूढम् मत्वा मुनिम् तौ तद्-निकटम् जग्मतुः गणौ ॥ कुरुतः तद्-प्रहासम् वै भाषमाणौ परस्परम् ॥ २।१।३।४० ॥
mūḍham matvā munim tau tad-nikaṭam jagmatuḥ gaṇau .. kurutaḥ tad-prahāsam vai bhāṣamāṇau parasparam .. 2.1.3.40 ..
पश्य नारद रूपं हि विष्णोरिव महोत्तमम् ॥ मुखं तु वानरस्येव विकटं च भयंकरम् ॥ ४१ ॥
पश्य नारद रूपम् हि विष्णोः इव महा-उत्तमम् ॥ मुखम् तु वानरस्य इव विकटम् च भयंकरम् ॥ ४१ ॥
paśya nārada rūpam hi viṣṇoḥ iva mahā-uttamam .. mukham tu vānarasya iva vikaṭam ca bhayaṃkaram .. 41 ..
इच्छत्ययं नृपसुता वृथैव स्मरमोहितः ॥ इत्युक्त्वा सच्छलं वाक्यमुपहासं प्रचक्रतुः ॥ ४२ ॥
इच्छति अयम् नृप-सुता वृथा एव स्मर-मोहितः ॥ इति उक्त्वा स छलम् वाक्यम् उपहासम् प्रचक्रतुः ॥ ४२ ॥
icchati ayam nṛpa-sutā vṛthā eva smara-mohitaḥ .. iti uktvā sa chalam vākyam upahāsam pracakratuḥ .. 42 ..
न शुश्राव यथार्थं तु तद्वाक्यं स्मरविह्वलः ॥ पर्यैक्षच्छ्रीमतीं तां वै तल्लिप्सुर्मोहितो मुनिः ॥ ४३ ॥
न शुश्राव यथार्थम् तु तद्-वाक्यम् स्मर-विह्वलः ॥ पर्यैक्षत् श्रीमतीम् ताम् वै तद्-लिप्सुः मोहितः मुनिः ॥ ४३ ॥
na śuśrāva yathārtham tu tad-vākyam smara-vihvalaḥ .. paryaikṣat śrīmatīm tām vai tad-lipsuḥ mohitaḥ muniḥ .. 43 ..
एतस्मिन्नंतरे भूपकन्या चांतःपुरात्तु सा ॥ स्त्रीभिस्समावृता तत्राजगाम वरवर्णिनी ॥ ४४ ॥
एतस्मिन् अंतरे भूप-कन्या च अंतःपुरात् तु सा ॥ स्त्रीभिः समावृता तत्र आजगाम वरवर्णिनी ॥ ४४ ॥
etasmin aṃtare bhūpa-kanyā ca aṃtaḥpurāt tu sā .. strībhiḥ samāvṛtā tatra ājagāma varavarṇinī .. 44 ..
मालां हिरण्मयीं रम्यामादाय शुभलक्षणा ॥ तत्र स्वयम्बरे रेजे स्थिता मध्ये रमेव सा ॥ ४५ ॥
मालाम् हिरण्मयीम् रम्याम् आदाय शुभ-लक्षणा ॥ तत्र स्वयम्बरे रेजे स्थिता मध्ये रमा इव सा ॥ ४५ ॥
mālām hiraṇmayīm ramyām ādāya śubha-lakṣaṇā .. tatra svayambare reje sthitā madhye ramā iva sā .. 45 ..
बभ्राम सा सभां सर्वां मालामादाय सुव्रता ॥ वरमन्वेषती तत्र स्वात्माभीष्टं नृपात्मजा ॥ ४६ ॥
बभ्राम सा सभाम् सर्वाम् मालाम् आदाय सुव्रता ॥ वरम् अन्वेषती तत्र स्व-आत्म-अभीष्टम् नृप-आत्मजा ॥ ४६ ॥
babhrāma sā sabhām sarvām mālām ādāya suvratā .. varam anveṣatī tatra sva-ātma-abhīṣṭam nṛpa-ātmajā .. 46 ..
वानरास्यं विष्णुतनुं मुनिं दृष्ट्वा चुकोप सा ॥ दृष्टिं निवार्य च ततः प्रस्थिता प्रीतमानसा ॥ ४७ ॥
वानर-आस्यम् विष्णु-तनुम् मुनिम् दृष्ट्वा चुकोप सा ॥ दृष्टिम् निवार्य च ततस् प्रस्थिता प्रीत-मानसा ॥ ४७ ॥
vānara-āsyam viṣṇu-tanum munim dṛṣṭvā cukopa sā .. dṛṣṭim nivārya ca tatas prasthitā prīta-mānasā .. 47 ..
न दृष्ट्वा स्ववरं तत्र त्रस्तासीन्मनसेप्सितम् ॥ अंतस्सभास्थिता कस्मिन्नर्पयामास न स्रजम् ॥ ४८ ॥
न दृष्ट्वा स्व-वरम् तत्र त्रस्ता आसीत् मनसा ईप्सितम् ॥ अन्तर् सभा-स्थिता कस्मिन् अर्पयामास न स्रजम् ॥ ४८ ॥
na dṛṣṭvā sva-varam tatra trastā āsīt manasā īpsitam .. antar sabhā-sthitā kasmin arpayāmāsa na srajam .. 48 ..
एतस्मिन्नंतरे विष्णुराजगाम नृपाकृतिः ॥ न दृष्टः कैश्चिदपरैः केवलं सा ददर्श हि ॥ ४९ ॥
एतस्मिन् अन्तरे विष्णुः आजगाम नृप-आकृतिः ॥ न दृष्टः कैश्चिद् अपरैः केवलम् सा ददर्श हि ॥ ४९ ॥
etasmin antare viṣṇuḥ ājagāma nṛpa-ākṛtiḥ .. na dṛṣṭaḥ kaiścid aparaiḥ kevalam sā dadarśa hi .. 49 ..
अथ सा तं समालोक्य प्रसन्नवदनाम्बुजा ॥ अर्पयामास तत्कण्ठे तां मालां वरवर्णिनी ॥ 2.1.3.५० ॥
अथ सा तम् समालोक्य प्रसन्न-वदन-अम्बुजा ॥ अर्पयामास तद्-कण्ठे ताम् मालाम् वरवर्णिनी ॥ २।१।३।५० ॥
atha sā tam samālokya prasanna-vadana-ambujā .. arpayāmāsa tad-kaṇṭhe tām mālām varavarṇinī .. 2.1.3.50 ..
तामादाय ततो विष्णू राजरूपधरः प्रभुः ॥ अंतर्धानमगात्सद्यस्स्वस्थानं प्रययौ किल ॥ ५१॥
ताम् आदाय ततस् विष्णुः राज-रूप-धरः प्रभुः ॥ अंतर्धानम् अगात् सद्यस् स्व-स्थानम् प्रययौ किल ॥ ५१॥
tām ādāya tatas viṣṇuḥ rāja-rūpa-dharaḥ prabhuḥ .. aṃtardhānam agāt sadyas sva-sthānam prayayau kila .. 51..
सर्वे राजकुमाराश्च निराशाः श्रीमतीम्प्रति॥ मुनिस्तु विह्वलोऽतीव बभूव मदनातुरः॥ ५२॥
सर्वे राज-कुमाराः च निराशाः श्रीमतीम् प्रति॥ मुनिः तु विह्वलः अतीव बभूव मदन-आतुरः॥ ५२॥
sarve rāja-kumārāḥ ca nirāśāḥ śrīmatīm prati.. muniḥ tu vihvalaḥ atīva babhūva madana-āturaḥ.. 52..
तदा तावूचतुस्सद्यो नारदं स्वरविह्वलम् ॥ विप्ररूपधरौ रुद्रगणौ ज्ञानविशारदौ ॥ ५३॥
तदा तौ ऊचतुः सद्यस् नारदम् स्वर-विह्वलम् ॥ विप्र-रूप-धरौ रुद्र-गणौ ज्ञान-विशारदौ ॥ ५३॥
tadā tau ūcatuḥ sadyas nāradam svara-vihvalam .. vipra-rūpa-dharau rudra-gaṇau jñāna-viśāradau .. 53..
गणावूचतुः ।।
हे नारदमुने त्वं हि वृथा मदनमोहितः ॥ तल्लिप्सुस्स्वमुखं पश्य वानरस्येव गर्हितम्॥ ५४॥
हे नारद-मुने त्वम् हि वृथा मदन-मोहितः ॥ तद्-लिप्सुः स्व-मुखम् पश्य वानरस्य इव गर्हितम्॥ ५४॥
he nārada-mune tvam hi vṛthā madana-mohitaḥ .. tad-lipsuḥ sva-mukham paśya vānarasya iva garhitam.. 54..
सूत उवाच।।
इत्याकर्ण्य तयोर्वाक्यं नारदो विस्मितोऽभवत् ॥ मुखं ददर्श मुकुरे शिवमायाविमोहितः ॥ ५५॥
इति आकर्ण्य तयोः वाक्यम् नारदः विस्मितः अभवत् ॥ मुखम् ददर्श मुकुरे शिव-माया-विमोहितः ॥ ५५॥
iti ākarṇya tayoḥ vākyam nāradaḥ vismitaḥ abhavat .. mukham dadarśa mukure śiva-māyā-vimohitaḥ .. 55..
स्वमुखं वानरस्येव दृष्ट्वा चुक्रोध सत्वरम्॥ शापन्ददौ तयोस्तत्र गणयोर्मोहितो मुनिः ॥ ५६॥
स्व-मुखम् वानरस्य इव दृष्ट्वा चुक्रोध स त्वरम्॥ शापन् ददौ तयोः तत्र गणयोः मोहितः मुनिः ॥ ५६॥
sva-mukham vānarasya iva dṛṣṭvā cukrodha sa tvaram.. śāpan dadau tayoḥ tatra gaṇayoḥ mohitaḥ muniḥ .. 56..
युवां ममोपहासं वै चक्रतुर्ब्राह्मणस्य हि॥ भवेतां राक्षसौ विप्रवीर्यजौ वै तदाकृती॥ ५७॥
युवाम् मम उपहासम् वै चक्रतुः ब्राह्मणस्य हि॥ भवेताम् राक्षसौ विप्र-वीर्य-जौ वै तद्-आकृती॥ ५७॥
yuvām mama upahāsam vai cakratuḥ brāhmaṇasya hi.. bhavetām rākṣasau vipra-vīrya-jau vai tad-ākṛtī.. 57..
श्रुत्वा हरगणावित्थं स्वशापं ज्ञानिसत्तमौ॥ न किंचिदूचतुस्तौ हि मुनिमाज्ञाय मोहितम् ॥ ५८॥
श्रुत्वा हर-गणौ इत्थम् स्व-शापम् ज्ञानि-सत्तमौ॥ न किंचिद् ऊचतुः तौ हि मुनिम् आज्ञाय मोहितम् ॥ ५८॥
śrutvā hara-gaṇau ittham sva-śāpam jñāni-sattamau.. na kiṃcid ūcatuḥ tau hi munim ājñāya mohitam .. 58..
स्वस्थानं जग्मतुर्विप्रा उदासीनौ शिवस्तुतिम्॥ चक्रतुर्मन्यमानौ वै शिवेच्छां सकलां सदा ॥ ५९॥
स्व-स्थानम् जग्मतुः विप्रौ उदासीनौ शिव-स्तुतिम्॥ चक्रतुः मन्यमानौ वै शिव-इच्छाम् सकलाम् सदा ॥ ५९॥
sva-sthānam jagmatuḥ viprau udāsīnau śiva-stutim.. cakratuḥ manyamānau vai śiva-icchām sakalām sadā .. 59..
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदमोहवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् प्रथम-खंडे सृष्ट्युपाख्याने नारदमोहवर्णनम् नाम तृतीयः अध्यायः ॥ ३ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām prathama-khaṃḍe sṛṣṭyupākhyāne nāradamohavarṇanam nāma tṛtīyaḥ adhyāyaḥ .. 3 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In