| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
सूत सूत महाप्राज्ञ वर्णिता ह्यद्भुता कथा ॥ धन्या तु शांभवी माया तदधीनं चराचरम् ॥ १ ॥
सूत सूत महा-प्राज्ञ वर्णिता हि अद्भुता कथा ॥ धन्या तु शांभवी माया तद्-अधीनम् चराचरम् ॥ १ ॥
sūta sūta mahā-prājña varṇitā hi adbhutā kathā .. dhanyā tu śāṃbhavī māyā tad-adhīnam carācaram .. 1 ..
गतयोर्गणयोश्शंभोस्स्वयमात्मेच्छया विभोः॥ किं चकार मुनिः क्रुद्धो नारदः स्मरविह्वलः ॥ २ ॥
गतयोः गणयोः शंभोः स्वयम् आत्म-इच्छया विभोः॥ किम् चकार मुनिः क्रुद्धः नारदः स्मर-विह्वलः ॥ २ ॥
gatayoḥ gaṇayoḥ śaṃbhoḥ svayam ātma-icchayā vibhoḥ.. kim cakāra muniḥ kruddhaḥ nāradaḥ smara-vihvalaḥ .. 2 ..
सूत उवाच ।।
विमोहितो मुनिर्दत्त्वा तयोश्शापं यथोचितम् ॥ जले मुखं निरीक्ष्याथ स्वरूपं गिरिशेच्छया ॥ ३ ॥
विमोहितः मुनिः दत्त्वा तयोः शापम् यथोचितम् ॥ जले मुखम् निरीक्ष्य अथ स्व-रूपम् गिरिश-इच्छया ॥ ३ ॥
vimohitaḥ muniḥ dattvā tayoḥ śāpam yathocitam .. jale mukham nirīkṣya atha sva-rūpam giriśa-icchayā .. 3 ..
शिवेच्छया न प्रबुद्धः स्मृत्वा हरिकृतच्छलम् ॥ क्रोधं दुर्विषहं कृत्वा विष्णुलोकं जगाम ह ॥ ४ ॥
शिव-इच्छया न प्रबुद्धः स्मृत्वा हरि-कृत-छलम् ॥ क्रोधम् दुर्विषहम् कृत्वा विष्णु-लोकम् जगाम ह ॥ ४ ॥
śiva-icchayā na prabuddhaḥ smṛtvā hari-kṛta-chalam .. krodham durviṣaham kṛtvā viṣṇu-lokam jagāma ha .. 4 ..
उवाच वचनं कुद्धस्समिद्ध इव पावकः ॥ दुरुक्तिगर्भितं व्यङ्गः नष्टज्ञानश्शिवेच्छया ॥ ५ ॥
उवाच वचनम् कुद्धः समिद्धः इव पावकः ॥ दुरुक्ति-गर्भितम् व्यङ्गः नष्ट-ज्ञानः शिव-इच्छया ॥ ५ ॥
uvāca vacanam kuddhaḥ samiddhaḥ iva pāvakaḥ .. durukti-garbhitam vyaṅgaḥ naṣṭa-jñānaḥ śiva-icchayā .. 5 ..
नारद उवाच ।।
हे हरे त्वं महादुष्टः कपटी विश्वमोहनः ॥ परोत्साहं न सहसे मायावी मलिनाशयः ॥ ६ ॥
हे हरे त्वम् महा-दुष्टः कपटी विश्व-मोहनः ॥ पर-उत्साहम् न सहसे मायावी मलिन-आशयः ॥ ६ ॥
he hare tvam mahā-duṣṭaḥ kapaṭī viśva-mohanaḥ .. para-utsāham na sahase māyāvī malina-āśayaḥ .. 6 ..
मोहिनीरूपमादाय कपटं कृतवान्पुरा ॥ असुरेभ्योऽपाययस्त्वं वारुणीममृतं न हि ॥ ७॥
मोहिनी-रूपम् आदाय कपटम् कृतवान् पुरा ॥ असुरेभ्यः अपाययः त्वम् वारुणीम् अमृतम् न हि ॥ ७॥
mohinī-rūpam ādāya kapaṭam kṛtavān purā .. asurebhyaḥ apāyayaḥ tvam vāruṇīm amṛtam na hi .. 7..
चेत्पिबेन्न विषं रुद्रो दयां कृत्वा महेश्वरः ॥ भवेन्नष्टाऽखिला माया तव व्याजरते हरे ॥ ८ ॥
चेद् पिबेत् न विषम् रुद्रः दयाम् कृत्वा महेश्वरः ॥ भवेत् नष्टा अखिला माया तव हरे ॥ ८ ॥
ced pibet na viṣam rudraḥ dayām kṛtvā maheśvaraḥ .. bhavet naṣṭā akhilā māyā tava hare .. 8 ..
गतिस्स कपटा तेऽतिप्रिया विष्णो विशेषतः ॥ साधुस्वभावो न भवान्स्वतंत्रः प्रभुणा कृतः ॥ ९॥
गतिः स कपटा ते अति प्रिया विष्णो विशेषतः ॥ साधु-स्वभावः न भवान् स्वतंत्रः प्रभुणा कृतः ॥ ९॥
gatiḥ sa kapaṭā te ati priyā viṣṇo viśeṣataḥ .. sādhu-svabhāvaḥ na bhavān svataṃtraḥ prabhuṇā kṛtaḥ .. 9..
कृतं समुचितन्नैव शिवेन परमात्मना॥ तत्प्रभावबलं ध्यात्वा स्वतंत्रकृतिकारकः॥ 2.1.4.१ ० ॥
कृतम् समुचितत् न एव शिवेन परमात्मना॥ तद्-प्रभाव-बलम् ध्यात्वा स्वतंत्र-कृति-कारकः॥ २।१।४।१ ० ॥
kṛtam samucitat na eva śivena paramātmanā.. tad-prabhāva-balam dhyātvā svataṃtra-kṛti-kārakaḥ.. 2.1.4.1 0 ..
त्वद्गतिं सुसमाज्ञाय पश्चात्तापमवाप सः ॥ विप्रं सर्वोपरि प्राह स्वोक्तवेद प्रमाणकृत् ॥ ११ ॥
त्वद्-गतिम् सु समाज्ञाय पश्चात्तापम् अवाप सः ॥ विप्रम् सर्व-उपरि प्राह स्व-उक्त-वेद प्रमाण-कृत् ॥ ११ ॥
tvad-gatim su samājñāya paścāttāpam avāpa saḥ .. vipram sarva-upari prāha sva-ukta-veda pramāṇa-kṛt .. 11 ..
तज्ज्ञात्वाहं हरे त्वाद्य शिक्षयिष्यामि तद्बलात् ॥ यथा न कुर्याः कुत्रापीदृशं कर्म कदाचन ॥ १२ ॥
तत् ज्ञात्वा अहम् हरे त्वा अद्य शिक्षयिष्यामि तद्-बलात् ॥ यथा न कुर्याः कुत्र अपि ईदृशम् कर्म कदाचन ॥ १२ ॥
tat jñātvā aham hare tvā adya śikṣayiṣyāmi tad-balāt .. yathā na kuryāḥ kutra api īdṛśam karma kadācana .. 12 ..
अद्यापि निर्भयस्त्वं हि संगं नापस्तरस्विना ॥ इदानीं लप्स्यसे विष्णो फलं स्वकृतकर्मणः ॥ १३॥
अद्या अपि निर्भयः त्वम् हि संगम् न अपः तरस्विना ॥ इदानीम् लप्स्यसे विष्णो फलम् स्व-कृत-कर्मणः ॥ १३॥
adyā api nirbhayaḥ tvam hi saṃgam na apaḥ tarasvinā .. idānīm lapsyase viṣṇo phalam sva-kṛta-karmaṇaḥ .. 13..
इत्थमुक्त्वा हरिं सोथ मुनिर्माया विमोहितः ॥ शशाप क्रोधनिर्विण्णो ब्रह्मतेजः प्रदर्शयन्॥ १४॥
इत्थम् उक्त्वा हरिम् मुनिः मायाः विमोहितः ॥ शशाप क्रोध-निर्विण्णः ब्रह्म-तेजः प्रदर्शयन्॥ १४॥
ittham uktvā harim muniḥ māyāḥ vimohitaḥ .. śaśāpa krodha-nirviṇṇaḥ brahma-tejaḥ pradarśayan.. 14..
स्त्रीकृते व्याकुलं विष्णो मामकार्षीर्विमोहकः ॥ अन्वकार्षीस्स्वरूपेण येन कापट्यकार्यकृत् ॥ १५॥
स्त्री-कृते व्याकुलम् विष्णो माम् अकार्षीः विमोहकः ॥ अन्वकार्षीः स्व-रूपेण येन कापट्य-कार्य-कृत् ॥ १५॥
strī-kṛte vyākulam viṣṇo mām akārṣīḥ vimohakaḥ .. anvakārṣīḥ sva-rūpeṇa yena kāpaṭya-kārya-kṛt .. 15..
तद्रूपेण मनुष्यस्त्वं भव तद्दुःखभुग्घरे ॥ यन्मुखं कृतवान्मे त्वं ते भवंतु सहायिनः ॥ १६ ॥
तद्-रूपेण मनुष्यः त्वम् भव तद्-दुःख-भुज् हरे ॥ यत् मुखम् कृतवान् मे त्वम् ते भवन्तु सहायिनः ॥ १६ ॥
tad-rūpeṇa manuṣyaḥ tvam bhava tad-duḥkha-bhuj hare .. yat mukham kṛtavān me tvam te bhavantu sahāyinaḥ .. 16 ..
त्वं स्त्रीवियोगजं दुःखं लभस्व परदुःखदः ॥ मनुष्यगतिकः प्रायो भवाज्ञानविमोहितः ॥ १७॥
त्वम् स्त्री-वियोग-जम् दुःखम् लभस्व पर-दुःख-दः ॥ मनुष्य-गतिकः प्रायस् भव-अज्ञान-विमोहितः ॥ १७॥
tvam strī-viyoga-jam duḥkham labhasva para-duḥkha-daḥ .. manuṣya-gatikaḥ prāyas bhava-ajñāna-vimohitaḥ .. 17..
इति शप्त्वा हरिं मोहान्नारदोऽज्ञानमोहितः ॥ विष्णुर्जग्राह तं शापं प्रशंसञ्शांभवीमजाम् ॥ १६ ॥
इति शप्त्वा हरिम् मोहात् नारदः अज्ञान-मोहितः ॥ विष्णुः जग्राह तम् शापम् प्रशंसन् शांभवीम् अजाम् ॥ १६ ॥
iti śaptvā harim mohāt nāradaḥ ajñāna-mohitaḥ .. viṣṇuḥ jagrāha tam śāpam praśaṃsan śāṃbhavīm ajām .. 16 ..
अथ शंभुर्महालीलो निश्चकर्ष विमोहिनीम ॥ स्वमायां मोहितो ज्ञानी नारदोप्यभवद्यया ॥ १९ ॥
अथ शंभुः महा-लीलः निश्चकर्ष विमोहिनीम् ॥ स्व-मायाम् मोहितः ज्ञानी नारद उपि अभवत् यया ॥ १९ ॥
atha śaṃbhuḥ mahā-līlaḥ niścakarṣa vimohinīm .. sva-māyām mohitaḥ jñānī nārada upi abhavat yayā .. 19 ..
अंतर्हितायां मायायां पूर्ववन्मतिमानभूत् ॥ नारदो विस्मितमनाः प्राप्तबोधो निराकुलः ॥ 2.1.4.२० ॥
अंतर्हितायाम् मायायाम् पूर्ववत् मतिमान् अभूत् ॥ नारदः विस्मित-मनाः प्राप्त-बोधः निराकुलः ॥ २।१।४।२० ॥
aṃtarhitāyām māyāyām pūrvavat matimān abhūt .. nāradaḥ vismita-manāḥ prāpta-bodhaḥ nirākulaḥ .. 2.1.4.20 ..
पश्चात्तापमवाप्याति निनिन्द स्वं मुहुर्मुहुः ॥ प्रशशंस तदा मायां शांभवीं ज्ञानिमोहिनीम् ॥ २१ ॥
पश्चात्तापम् अवाप्य अति निनिन्द स्वम् मुहुर् मुहुर् ॥ प्रशशंस तदा मायाम् शांभवीम् ज्ञानि-मोहिनीम् ॥ २१ ॥
paścāttāpam avāpya ati nininda svam muhur muhur .. praśaśaṃsa tadā māyām śāṃbhavīm jñāni-mohinīm .. 21 ..
अथ ज्ञात्वा मुनिस्सर्वं मायाविभ्रममात्मनः ॥ अपतत्पादयोर्विष्णोर्नारदो वैष्णवोत्तमः ॥ २२ ॥
अथ ज्ञात्वा मुनिः सर्वम् माया-विभ्रमम् आत्मनः ॥ अपतत् पादयोः विष्णोः नारदः वैष्णव-उत्तमः ॥ २२ ॥
atha jñātvā muniḥ sarvam māyā-vibhramam ātmanaḥ .. apatat pādayoḥ viṣṇoḥ nāradaḥ vaiṣṇava-uttamaḥ .. 22 ..
हर्य्युपस्थापितः प्राह वचनं नष्ट दुर्मतिः ॥ मया दुरक्तयः प्रोक्ता मोहितेन कुबुद्धिना ॥ २३ ॥
प्राह वचनम् नष्ट-दुर्मतिः ॥ मया दुरक्तयः प्रोक्ताः मोहितेन कुबुद्धिना ॥ २३ ॥
prāha vacanam naṣṭa-durmatiḥ .. mayā duraktayaḥ proktāḥ mohitena kubuddhinā .. 23 ..
दत्तश्शापोऽपि तेनाथ वितथं कुरु तं प्रभो ॥ महत्पापमकार्षं हि यास्यामि निरयं धुवम् ॥ २४ ॥
दत्तः शापः अपि तेन अथ वितथम् कुरु तम् प्रभो ॥ महत् पापम् अकार्षम् हि यास्यामि निरयम् धुवम् ॥ २४ ॥
dattaḥ śāpaḥ api tena atha vitatham kuru tam prabho .. mahat pāpam akārṣam hi yāsyāmi nirayam dhuvam .. 24 ..
कमुपायं हरे कुर्यां दासोऽहं ते तमादिश ॥ येन पापकुलं नश्येन्निरयो न भवेन्मम ॥ २५ ॥
कम् उपायम् हरे कुर्याम् दासः अहम् ते तम् आदिश ॥ येन पाप-कुलम् नश्येत् निरयः न भवेत् मम ॥ २५ ॥
kam upāyam hare kuryām dāsaḥ aham te tam ādiśa .. yena pāpa-kulam naśyet nirayaḥ na bhavet mama .. 25 ..
इत्युक्त्वा स पुनर्विष्णोः पादयोर्मुनिसत्तमः ॥ पपात सुमतिर्भक्त्या पश्चात्तापमुपागतः ॥ २६ ॥
इति उक्त्वा स पुनर् विष्णोः पादयोः मुनि-सत्तमः ॥ पपात सुमतिः भक्त्या पश्चात्तापम् उपागतः ॥ २६ ॥
iti uktvā sa punar viṣṇoḥ pādayoḥ muni-sattamaḥ .. papāta sumatiḥ bhaktyā paścāttāpam upāgataḥ .. 26 ..
अथ विष्णुस्तमुत्थाप्य बभाषे सूनृतं वचः ॥
अथ विष्णुः तम् उत्थाप्य बभाषे सूनृतम् वचः ॥
atha viṣṇuḥ tam utthāpya babhāṣe sūnṛtam vacaḥ ..
विष्णुरुवाच ।।
न खेदं कुरु मे भक्त वरस्त्वं नात्र संशयः ॥ २७ ॥
न खेदम् कुरु मे भक्त वरः त्वम् न अत्र संशयः ॥ २७ ॥
na khedam kuru me bhakta varaḥ tvam na atra saṃśayaḥ .. 27 ..
शृणु तात प्रवक्ष्यामि सुहितं तव निश्चयात् ॥ निरयस्ते न भविता शिवश्शं ते विधास्यति ॥ २८ ॥
शृणु तात प्रवक्ष्यामि सु हितम् तव निश्चयात् ॥ निरयः ते न भविता शिवः शम् ते विधास्यति ॥ २८ ॥
śṛṇu tāta pravakṣyāmi su hitam tava niścayāt .. nirayaḥ te na bhavitā śivaḥ śam te vidhāsyati .. 28 ..
यदकार्षीश्शिववचो वितथं मदमोहितः ॥ स दत्तवानीदृशं ते फलं कर्म फलप्रदः ॥ २९ ॥
यत् अकार्षीः शिव-वचः वितथम् मद-मोहितः ॥ स दत्तवान् ईदृशम् ते फलम् कर्म फल-प्रदः ॥ २९ ॥
yat akārṣīḥ śiva-vacaḥ vitatham mada-mohitaḥ .. sa dattavān īdṛśam te phalam karma phala-pradaḥ .. 29 ..
शिवेच्छाऽखिलं जातं कुर्वित्थं निश्चितां मतिम् ॥ गर्वापहर्ता स स्वामी शंकरः परमेश्वरः ॥ 2.1.4.३० ॥ ।
शिव-इच्छा-अखिलम् जातम् कुरु इत्थम् निश्चिताम् मतिम् ॥ गर्व-अपहर्ता स स्वामी शंकरः परमेश्वरः ॥ २।१।४।३० ॥ ।
śiva-icchā-akhilam jātam kuru ittham niścitām matim .. garva-apahartā sa svāmī śaṃkaraḥ parameśvaraḥ .. 2.1.4.30 .. .
परं ब्रह्म परात्मा स सच्चिदानंदबोधनः ॥ निर्गुणो निर्विकारो च रजस्सत्वतमःपर ॥ ३१ ॥
परम् ब्रह्म परात्मा स सच्चिद्-आनंद-बोधनः ॥ च रजः-सत्व-तमः-पर ॥ ३१ ॥
param brahma parātmā sa saccid-ānaṃda-bodhanaḥ .. ca rajaḥ-satva-tamaḥ-para .. 31 ..
स एवमादाय मायां स्वां त्रिधा भवति रूपतः ॥ ब्रह्मविष्णुमहेशात्मा निर्गुणोऽनिर्गुणोऽपि सः ॥ ३२ ॥
सः एवम् आदाय मायाम् स्वाम् त्रिधा भवति रूपतः ॥ ब्रह्म-विष्णु-महेश-आत्मा निर्गुणः अनिर्गुणः अपि सः ॥ ३२ ॥
saḥ evam ādāya māyām svām tridhā bhavati rūpataḥ .. brahma-viṣṇu-maheśa-ātmā nirguṇaḥ anirguṇaḥ api saḥ .. 32 ..
निर्गुणत्वे शिवाह्वो हि परमात्मा महेश्वरः ॥ परं ब्रह्माव्ययोऽनंतो महादेवेति गीयते ॥ ३३ ॥
निर्गुण-त्वे शिव-आह्वः हि परमात्मा महेश्वरः ॥ परम् ब्रह्म अव्ययः अनन्तः महादेव-इति गीयते ॥ ३३ ॥
nirguṇa-tve śiva-āhvaḥ hi paramātmā maheśvaraḥ .. param brahma avyayaḥ anantaḥ mahādeva-iti gīyate .. 33 ..
तत्सेवया विधिस्स्रष्टा पालको जगतामहम् ॥ स्वयं सर्वस्य संहारी रुद्ररूपेण सर्वदा ॥ ३४ ॥
तद्-सेवया विधिः स्रष्टा पालकः जगताम् अहम् ॥ स्वयम् सर्वस्य संहारी रुद्र-रूपेण सर्वदा ॥ ३४ ॥
tad-sevayā vidhiḥ sraṣṭā pālakaḥ jagatām aham .. svayam sarvasya saṃhārī rudra-rūpeṇa sarvadā .. 34 ..
साक्षी शिवस्वरूपेण मायाभिन्नस्स निर्गुणः ॥ स्वेच्छाचारी संविहारी भक्तानुग्रहकारकः ॥ ३५ ॥
साक्षी शिव-स्वरूपेण माया-भिन्नः स निर्गुणः ॥ ॥ ३५ ॥
sākṣī śiva-svarūpeṇa māyā-bhinnaḥ sa nirguṇaḥ .. .. 35 ..
शृणु त्वं नारद मुने सदुपायं सुखप्रदम् ॥ सर्वपापापहर्त्तारं भुक्तिमुक्तिप्रदं सदा ॥ ३६ ॥
शृणु त्वम् नारद मुने सत्-उपायम् सुख-प्रदम् ॥ सर्व-पाप-अपहर्त्तारम् भुक्ति-मुक्ति-प्रदम् सदा ॥ ३६ ॥
śṛṇu tvam nārada mune sat-upāyam sukha-pradam .. sarva-pāpa-apaharttāram bhukti-mukti-pradam sadā .. 36 ..
इत्युक्त्वास्त्वसंशयं सर्वं शंकरसद्यशः ॥ शतनामशिवस्तोत्रं सदानन्यमतिर्जप ॥ ३७ ॥
इति उक्त्वा अस्तु असंशयम् सर्वम् शंकर-सत्-यशः ॥ शत-नाम-शिव-स्तोत्रम् सदा अनन्य-मतिः जप ॥ ३७ ॥
iti uktvā astu asaṃśayam sarvam śaṃkara-sat-yaśaḥ .. śata-nāma-śiva-stotram sadā ananya-matiḥ japa .. 37 ..
यज्जपित्वा द्रुतं सर्वं तव पापं विनश्यति ॥ इत्युक्त्वा नारदं विष्णुः पुनः प्राह दयान्वितः ॥ ३८ ॥
यत् जपित्वा द्रुतम् सर्वम् तव पापम् विनश्यति ॥ इति उक्त्वा नारदम् विष्णुः पुनर् प्राह दया-अन्वितः ॥ ३८ ॥
yat japitvā drutam sarvam tava pāpam vinaśyati .. iti uktvā nāradam viṣṇuḥ punar prāha dayā-anvitaḥ .. 38 ..
मुने न कुरु शोकं त्वं त्वया किंचित्कृतं नहि ॥ स्वेच्छया कृतवान्शंभुरिदं सर्वं न संशयः ॥ ३९ ॥
मुने न कुरु शोकम् त्वम् त्वया किंचिद् कृतम् नहि ॥ स्व-इच्छया कृतवान् शंभुः इदम् सर्वम् न संशयः ॥ ३९ ॥
mune na kuru śokam tvam tvayā kiṃcid kṛtam nahi .. sva-icchayā kṛtavān śaṃbhuḥ idam sarvam na saṃśayaḥ .. 39 ..
अहार्षित्त्वन्मतिं दिव्यां काम क्लेशमदात्स ते॥ त्वन्मुखाद्दापयांचक्रे शापं मे स महेश्वरः ॥ 2.1.4.४० ॥
अहार्षित् त्वद्-मतिम् दिव्याम् काम क्लेशम् अदात् स ते॥ त्वद्-मुखात् दापयांचक्रे शापम् मे स महेश्वरः ॥ २।१।४।४० ॥
ahārṣit tvad-matim divyām kāma kleśam adāt sa te.. tvad-mukhāt dāpayāṃcakre śāpam me sa maheśvaraḥ .. 2.1.4.40 ..
इत्थं स्वचरितं लोके प्रकटीकृतवान् स्वयम् ॥ मृत्युंजयः कालकालो भक्तोद्धारपरायणः ॥ ४१ ॥
इत्थम् स्व-चरितम् लोके प्रकटीकृतवान् स्वयम् ॥ ॥ ४१ ॥
ittham sva-caritam loke prakaṭīkṛtavān svayam .. .. 41 ..
न मे शिवसमानोस्ति प्रियः स्वामी सुखप्रदः ॥ सर्वशक्तिप्रदो मेऽस्ति स एव परमेश्वरः ॥ ४२ ॥
न मे शिव-समानः अस्ति प्रियः स्वामी सुख-प्रदः ॥ सर्व-शक्ति-प्रदः मे अस्ति सः एव परमेश्वरः ॥ ४२ ॥
na me śiva-samānaḥ asti priyaḥ svāmī sukha-pradaḥ .. sarva-śakti-pradaḥ me asti saḥ eva parameśvaraḥ .. 42 ..
तस्योपास्यां कुरु मुने तमेव सततं भज ॥ तद्यशः शृणु गाय त्वं कुरु नित्यं तदर्चनम् ॥ ४३ ॥
तस्य उपास्याम् कुरु मुने तम् एव सततम् भज ॥ तद्-यशः शृणु गाय त्वम् कुरु नित्यम् तद्-अर्चनम् ॥ ४३ ॥
tasya upāsyām kuru mune tam eva satatam bhaja .. tad-yaśaḥ śṛṇu gāya tvam kuru nityam tad-arcanam .. 43 ..
कायेन मनसा वाचा यश्शंकरमुपैति भो ॥ स पण्डित इति ज्ञेयस्स जीवन्मुक्त उच्यते ॥ ४४ ॥
कायेन मनसा वाचा यः शंकरम् उपैति भो ॥ स पण्डितः इति ज्ञेयः स जीवन्मुक्तः उच्यते ॥ ४४ ॥
kāyena manasā vācā yaḥ śaṃkaram upaiti bho .. sa paṇḍitaḥ iti jñeyaḥ sa jīvanmuktaḥ ucyate .. 44 ..
शिवेति नामदावाग्नेर्महापातकप र्वताः ॥ भस्मीभवन्त्यनायासात्सत्यं सत्यं न संशयः ॥ ४५॥
शिवा इति नाम-दाव-अग्नेः महापातक-पर्वताः ॥ भस्मीभवन्ति अनायासात् सत्यम् सत्यम् न संशयः ॥ ४५॥
śivā iti nāma-dāva-agneḥ mahāpātaka-parvatāḥ .. bhasmībhavanti anāyāsāt satyam satyam na saṃśayaḥ .. 45..
पापमूलानि दुःखानि विविधान्यपि तान्यतः ॥ शिवार्चनैकनश्यानि नान्य नश्यानि सर्वथा ॥ ४६ ॥
पाप-मूलानि दुःखानि विविधानि अपि तानि अतस् ॥ शिव-अर्चन-एक-नश्यानि सर्वथा ॥ ४६ ॥
pāpa-mūlāni duḥkhāni vividhāni api tāni atas .. śiva-arcana-eka-naśyāni sarvathā .. 46 ..
स वैदिकस्य पुण्यात्मा स धन्यस्स बुधो मुने ॥ यस्सदा कायवाक्चित्तैश्शरणं याति शंकरम् ॥ ४७ ॥
स वैदिकस्य पुण्य-आत्मा स धन्यः स बुधः मुने ॥ यः सदा काय-वाच्-चित्तैः शरणम् याति शंकरम् ॥ ४७ ॥
sa vaidikasya puṇya-ātmā sa dhanyaḥ sa budhaḥ mune .. yaḥ sadā kāya-vāc-cittaiḥ śaraṇam yāti śaṃkaram .. 47 ..
भवंति विविधा धर्मा येषां सद्यःफलोन्मुखाः ॥ तेषां भवति विश्वासस्त्रिपुरांतकपूजने ॥ ४८ ॥
भवन्ति विविधाः धर्माः येषाम् सद्यस् फल-उन्मुखाः ॥ तेषाम् भवति विश्वासः त्रिपुरांतक-पूजने ॥ ४८ ॥
bhavanti vividhāḥ dharmāḥ yeṣām sadyas phala-unmukhāḥ .. teṣām bhavati viśvāsaḥ tripurāṃtaka-pūjane .. 48 ..
पातकानि विनश्यंति यावंति शिवपूजया ॥ भुवि तावंति पापानि न संत्येव महामुने ॥ ४९॥
पातकानि विनश्यंति यावंति शिव-पूजया ॥ भुवि तावन्ति पापानि न संति एव महा-मुने ॥ ४९॥
pātakāni vinaśyaṃti yāvaṃti śiva-pūjayā .. bhuvi tāvanti pāpāni na saṃti eva mahā-mune .. 49..
ब्रह्महत्यादिपापानां राशयोप्यमिता मुने ॥ शिवस्मृत्या विनश्यंति सत्यंसत्यं वदाम्यहम् ॥ 2.1.4.५०॥
ब्रह्महत्या-आदि-पापानाम् राशयः अपि अमिताः मुने ॥ शिव-स्मृत्याः विनश्यंति सत्यम् सत्यम् वदामि अहम् ॥ २।१।४।५०॥
brahmahatyā-ādi-pāpānām rāśayaḥ api amitāḥ mune .. śiva-smṛtyāḥ vinaśyaṃti satyam satyam vadāmi aham .. 2.1.4.50..
शिवनामतरीं प्राप्य संसाराब्धिं तरंति ते॥ संसारमूलपापानि तस्य नश्यंत्यसंशयम्॥ ५१॥
शिव-नाम-तरीम् प्राप्य संसार-अब्धिम् तरंति ते॥ संसार-मूल-पापानि तस्य नश्यंति असंशयम्॥ ५१॥
śiva-nāma-tarīm prāpya saṃsāra-abdhim taraṃti te.. saṃsāra-mūla-pāpāni tasya naśyaṃti asaṃśayam.. 51..
संसारमूलभूतानां पातकानां महामुने ॥ शिवनामकुठारेण विनाशो जायते ध्रुवम् ॥ ५२ ॥
संसार-मूल-भूतानाम् पातकानाम् महा-मुने ॥ शिव-नाम-कुठारेण विनाशः जायते ध्रुवम् ॥ ५२ ॥
saṃsāra-mūla-bhūtānām pātakānām mahā-mune .. śiva-nāma-kuṭhāreṇa vināśaḥ jāyate dhruvam .. 52 ..
शिवनामामृतं पेयं पापदावानलार्दितैः ॥ पापदावाग्नितप्तानां शांतिस्तेन विना न हि ॥ ५३॥
शिव-नाम-अमृतम् पेयम् पाप-दाव-अनल-अर्दितैः ॥ पाप-दाव-अग्नि-तप्तानाम् शांतिः तेन विना न हि ॥ ५३॥
śiva-nāma-amṛtam peyam pāpa-dāva-anala-arditaiḥ .. pāpa-dāva-agni-taptānām śāṃtiḥ tena vinā na hi .. 53..
शिवेति नामपीयूषवर्षधारापरिप्लुतः ॥ संसारदवमध्यपि न शोचति न संशयः ॥ ५४॥
शिव इति नाम-पीयूष-वर्ष-धारा-परिप्लुतः ॥ संसार-दवम् अधि अपि न शोचति न संशयः ॥ ५४॥
śiva iti nāma-pīyūṣa-varṣa-dhārā-pariplutaḥ .. saṃsāra-davam adhi api na śocati na saṃśayaḥ .. 54..
न भक्तिश्शंकरे पुंसां रागद्वेषरतात्मनाम् ॥ तद्विधानां हि सहसा मुक्तिर्भवति सर्वथा ॥ ५५॥
न भक्तिः शंकरे पुंसाम् राग-द्वेष-रत-आत्मनाम् ॥ तद्विधानाम् हि सहसा मुक्तिः भवति सर्वथा ॥ ५५॥
na bhaktiḥ śaṃkare puṃsām rāga-dveṣa-rata-ātmanām .. tadvidhānām hi sahasā muktiḥ bhavati sarvathā .. 55..
अनंतजन्मभिर्येन तपस्तप्तं भविष्यति॥ तस्यैव भक्तिर्भवति भवानी प्राणवल्लभे॥ ५६॥
अनन्त-जन्मभिः येन तपः तप्तम् भविष्यति॥ तस्य एव भक्तिः भवति भवानी प्राण-वल्लभे॥ ५६॥
ananta-janmabhiḥ yena tapaḥ taptam bhaviṣyati.. tasya eva bhaktiḥ bhavati bhavānī prāṇa-vallabhe.. 56..
जातापि शंकरे भक्तिरन्यसाधारणी वृथा॥ परं त्वव्यभिचारेण शिवभक्तिरपेक्षिता ॥ ५७॥
जाता अपि शंकरे भक्तिः अन्य-साधारणी वृथा॥ परम् तु अव्यभिचारेण शिव-भक्तिः अपेक्षिता ॥ ५७॥
jātā api śaṃkare bhaktiḥ anya-sādhāraṇī vṛthā.. param tu avyabhicāreṇa śiva-bhaktiḥ apekṣitā .. 57..
यस्या साधारणी शंभौ भक्तिरव्यभिचारिणी॥ तस्यैव मोक्षस्सुलभो नास्येतिन्य मतिर्मम॥ ५८॥
साधारणी शंभौ भक्तिः अव्यभिचारिणी॥ तस्य एव मोक्षः सुलभः मतिः मम॥ ५८॥
sādhāraṇī śaṃbhau bhaktiḥ avyabhicāriṇī.. tasya eva mokṣaḥ sulabhaḥ matiḥ mama.. 58..
कृत्वाप्यनंतपापानि यदि भक्तिर्महेश्वरे ॥ सर्वपापविनिर्मुक्तो भवत्येव न संशयः॥ ५९॥
कृत्वा अपि अनन्त-पापानि यदि भक्तिः महेश्वरे ॥ सर्व-पाप-विनिर्मुक्तः भवति एव न संशयः॥ ५९॥
kṛtvā api ananta-pāpāni yadi bhaktiḥ maheśvare .. sarva-pāpa-vinirmuktaḥ bhavati eva na saṃśayaḥ.. 59..
भवंति भस्मसाद्वृक्षादवदग्धा यथा वने ॥ तथा भवंति दग्धानि शांकराणामघान्यपि ॥ 2.1.4.६०॥
भवन्ति भस्मसात् वृक्षात् अवदग्धाः यथा वने ॥ तथा भवन्ति दग्धानि शांकराणाम् अघानि अपि ॥ २।१।४।६०॥
bhavanti bhasmasāt vṛkṣāt avadagdhāḥ yathā vane .. tathā bhavanti dagdhāni śāṃkarāṇām aghāni api .. 2.1.4.60..
यो नित्यं भस्मपूतांगो शिवपूजोन्मुखो भवेत्॥ स तरत्येव संसारमपारमतिदारुणम्॥ ६१॥
यः नित्यम् शिव-पूजा-उन्मुखः भवेत्॥ स तरति एव संसारम् अपारम् अति दारुणम्॥ ६१॥
yaḥ nityam śiva-pūjā-unmukhaḥ bhavet.. sa tarati eva saṃsāram apāram ati dāruṇam.. 61..
ब्रह्मस्वहरणं कृत्वा हत्वापि ब्राह्मणान्बहून् ॥ लिप्यते नरः पापैर्विरूपाक्षस्य सेवकः ॥ ६२ ॥
ब्रह्म-स्व-हरणम् कृत्वा हत्वा अपि ब्राह्मणान् बहून् ॥ लिप्यते नरः पापैः विरूपाक्षस्य सेवकः ॥ ६२ ॥
brahma-sva-haraṇam kṛtvā hatvā api brāhmaṇān bahūn .. lipyate naraḥ pāpaiḥ virūpākṣasya sevakaḥ .. 62 ..
विलोक्य वेदानखिलाञ्छिवस्यैवार्चनम्परम् ॥ संसारनाशनोपाय इति पूर्वैर्विनिश्चितम् ॥ ६३॥
विलोक्य वेदान् अखिलान् शिवस्य एव अर्चनम् परम् ॥ संसार-नाशन-उपायः इति पूर्वैः विनिश्चितम् ॥ ६३॥
vilokya vedān akhilān śivasya eva arcanam param .. saṃsāra-nāśana-upāyaḥ iti pūrvaiḥ viniścitam .. 63..
अद्यप्रभृति यत्नेन सावधानो यथाविधि॥ साम्बं सदाशिवं भक्त्या भज नित्यं महेश्वरम्॥ ६४॥
अद्य प्रभृति यत्नेन स अवधानः यथाविधि॥ स अम्बम् सदाशिवम् भक्त्या भज नित्यम् महेश्वरम्॥ ६४॥
adya prabhṛti yatnena sa avadhānaḥ yathāvidhi.. sa ambam sadāśivam bhaktyā bhaja nityam maheśvaram.. 64..
आपादमस्तकं सम्यक् भस्मनोद्धूल्य सादरम् ॥ सर्वश्रुतिश्रुतं शैवम्मंत्रञ्जप षडक्षरम् ॥ ६५॥
आपादमस्तकम् सम्यक् स आदरम् ॥ सर्व-श्रुति-श्रुतम् शैवम् मंत्रन् जप षष्-अक्षरम् ॥ ६५॥
āpādamastakam samyak sa ādaram .. sarva-śruti-śrutam śaivam maṃtran japa ṣaṣ-akṣaram .. 65..
सवार्ङ्गेषु प्रयत्नेन रुद्राक्षाञ्छिववल्लभान्॥ धारयस्वातिसद्भक्त्या समन्त्रम्विधिपूर्वकम् ॥ ६६॥
स वार्ङ्गेषु प्रयत्नेन रुद्राक्षान् शिव-वल्लभान्॥ धारयस्व अति सत्-भक्त्या स मन्त्रम् विधि-पूर्वकम् ॥ ६६॥
sa vārṅgeṣu prayatnena rudrākṣān śiva-vallabhān.. dhārayasva ati sat-bhaktyā sa mantram vidhi-pūrvakam .. 66..
शृणु शैवीं कथां नित्यं वद शैवीं कथां सदा ॥ पूजयस्वातियत्नेन शिवभक्तान्पुनः पुनः ॥ ६७ ॥
शृणु शैवीम् कथाम् नित्यम् वद शैवीम् कथाम् सदा ॥ पूजयस्व अति यत्नेन शिव-भक्तान् पुनर् पुनर् ॥ ६७ ॥
śṛṇu śaivīm kathām nityam vada śaivīm kathām sadā .. pūjayasva ati yatnena śiva-bhaktān punar punar .. 67 ..
अप्रमादेन सततं शिवैकशरणो भव ॥ शिवार्चनेन सततमानन्दः प्राप्यते यतः ॥ ६८॥
अप्रमादेन सततम् शिव-एक-शरणः भव ॥ शिव-अर्चनेन सततम् आनन्दः प्राप्यते यतस् ॥ ६८॥
apramādena satatam śiva-eka-śaraṇaḥ bhava .. śiva-arcanena satatam ānandaḥ prāpyate yatas .. 68..
उरस्याधाय विशदे शिवस्य चरणाम्बुजौ ॥ शिवतीर्थानि विचर प्रथमं मुनिसत्तम ॥ ६९॥
उरसि आधाय विशदे शिवस्य चरण-अम्बुजौ ॥ शिव-तीर्थानि विचर प्रथमम् मुनि-सत्तम ॥ ६९॥
urasi ādhāya viśade śivasya caraṇa-ambujau .. śiva-tīrthāni vicara prathamam muni-sattama .. 69..
पश्यन्माहात्म्यमतुलं शंकरस्य परात्मनः ॥ गच्छानन्दवनं पश्चाच्छंभुप्रियतमं मुने ॥ 2.1.4.७० ॥
पश्यन् माहात्म्यम् अतुलम् शंकरस्य परात्मनः ॥ गच्छ आनन्दवनम् पश्चात् शंभु-प्रियतमम् मुने ॥ २।१।४।७० ॥
paśyan māhātmyam atulam śaṃkarasya parātmanaḥ .. gaccha ānandavanam paścāt śaṃbhu-priyatamam mune .. 2.1.4.70 ..
तत्र विश्वेश्वरं दृष्ट्वा पूजनं कुरु भक्तितः ॥ नत्वा स्तुत्वा विशेषेण निर्विकल्पो भविष्यसि ॥ ७१॥
तत्र विश्वेश्वरम् दृष्ट्वा पूजनम् कुरु भक्तितः ॥ नत्वा स्तुत्वा विशेषेण निर्विकल्पः भविष्यसि ॥ ७१॥
tatra viśveśvaram dṛṣṭvā pūjanam kuru bhaktitaḥ .. natvā stutvā viśeṣeṇa nirvikalpaḥ bhaviṣyasi .. 71..
ततश्च भवता नूनं विधेयं गमनं मुने ॥ ब्रह्मलोके स्वकामार्थं शासनान्मम भक्तितः ॥ ७२ ॥
ततस् च भवता नूनम् विधेयम् गमनम् मुने ॥ ब्रह्म-लोके स्व-काम-अर्थम् शासनात् मम भक्तितः ॥ ७२ ॥
tatas ca bhavatā nūnam vidheyam gamanam mune .. brahma-loke sva-kāma-artham śāsanāt mama bhaktitaḥ .. 72 ..
नत्वा स्तुत्वा विशेषेण विधिं स्वजनकं मुने ॥ प्रष्टव्यं शिवमाहात्म्यं बहुशः प्रीतचेतसा ॥ ७३॥
नत्वा स्तुत्वा विशेषेण विधिम् स्व-जनकम् मुने ॥ प्रष्टव्यम् शिव-माहात्म्यम् बहुशस् प्रीत-चेतसा ॥ ७३॥
natvā stutvā viśeṣeṇa vidhim sva-janakam mune .. praṣṭavyam śiva-māhātmyam bahuśas prīta-cetasā .. 73..
स शैवप्रवरो ब्रह्मा माहात्म्यं शंकरस्य ते ॥ श्रावयिष्यति सुप्रीत्या शतनामस्तवं च हि ॥ ७४॥
स शैव-प्रवरः ब्रह्मा माहात्म्यम् शंकरस्य ते ॥ श्रावयिष्यति सु प्रीत्या शत-नाम-स्तवम् च हि ॥ ७४॥
sa śaiva-pravaraḥ brahmā māhātmyam śaṃkarasya te .. śrāvayiṣyati su prītyā śata-nāma-stavam ca hi .. 74..
अद्यतस्त्वं भव मुने शैवश्शिवपरायणः ॥ मुक्तिभागी विशेषेण शिवस्ते शं विधास्यति ॥ ७५ ॥
अद्यतस् त्वम् भव मुने शैवः शिव-परायणः ॥ मुक्ति-भागी विशेषेण शिवः ते शम् विधास्यति ॥ ७५ ॥
adyatas tvam bhava mune śaivaḥ śiva-parāyaṇaḥ .. mukti-bhāgī viśeṣeṇa śivaḥ te śam vidhāsyati .. 75 ..
इत्थं विष्णुर्मुनिं प्रीत्या ह्युपदिश्य प्रसन्नधीः ॥ स्मृत्वा नुत्वा शिवं स्तुत्वा ततस्त्वंतरधीयत ॥ ७६॥
इत्थम् विष्णुः मुनिम् प्रीत्या हि उपदिश्य प्रसन्न-धीः ॥ स्मृत्वा नुत्वा शिवम् स्तुत्वा ततस् तु अंतरधीयत ॥ ७६॥
ittham viṣṇuḥ munim prītyā hi upadiśya prasanna-dhīḥ .. smṛtvā nutvā śivam stutvā tatas tu aṃtaradhīyata .. 76..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदस्य विष्णूपदेशवर्णनो नाम चतुर्थोऽध्यायः ॥ ४॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् प्रथम-खंडे सृष्ट्युपाख्याने नारदस्य विष्णूपदेशवर्णनः नाम चतुर्थः अध्यायः ॥ ४॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām prathama-khaṃḍe sṛṣṭyupākhyāne nāradasya viṣṇūpadeśavarṇanaḥ nāma caturthaḥ adhyāyaḥ .. 4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In