| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
अंतर्हिते हरौ विप्रा नारदो मुनिसत्तमः ॥ विचचार महीं पश्यञ्छिवलिंगानि भक्तितः ॥ १ ॥
अंतर्हिते हरौ विप्राः नारदः मुनि-सत्तमः ॥ विचचार महीम् पश्यन् शिव-लिंगानि भक्तितः ॥ १ ॥
aṃtarhite harau viprāḥ nāradaḥ muni-sattamaḥ .. vicacāra mahīm paśyan śiva-liṃgāni bhaktitaḥ .. 1 ..
पृथिव्या अटनं कृत्वा शिवरूपाण्यनेकशः ॥ ददर्श प्रीतितो विप्रा भुक्तिमुक्तिप्रदानि सः ॥ २ ॥
पृथिव्याः अटनम् कृत्वा शिव-रूपाणि अनेकशस् ॥ ददर्श प्रीतितः विप्राः भुक्ति-मुक्ति-प्रदानि सः ॥ २ ॥
pṛthivyāḥ aṭanam kṛtvā śiva-rūpāṇi anekaśas .. dadarśa prītitaḥ viprāḥ bhukti-mukti-pradāni saḥ .. 2 ..
अथ तं विचरंतं कौ नारदं दिव्यदर्शनम् ॥ ज्ञात्वा शंभुगणौ तौ तु सुचित्तमुपजग्मतुः ॥ ३ ॥
अथ तम् विचरन्तम् कौ नारदम् दिव्य-दर्शनम् ॥ ज्ञात्वा शंभु-गणौ तौ तु सुचित्तम् उपजग्मतुः ॥ ३ ॥
atha tam vicarantam kau nāradam divya-darśanam .. jñātvā śaṃbhu-gaṇau tau tu sucittam upajagmatuḥ .. 3 ..
शिरसा सुप्रणम्याशु गणावूचतुरादरात् ॥ गृहीत्वा चरणौ तस्य शापोद्धारेच्छया च तौ ॥ ४ ॥
शिरसा सु प्रणम्य आशु गणौ ऊचतुः आदरात् ॥ गृहीत्वा चरणौ तस्य शाप-उद्धार-इच्छया च तौ ॥ ४ ॥
śirasā su praṇamya āśu gaṇau ūcatuḥ ādarāt .. gṛhītvā caraṇau tasya śāpa-uddhāra-icchayā ca tau .. 4 ..
शिवगणावूचतुः ।।
ब्रह्मपुत्र सुरर्षे हि शृणु प्रीत्या वयोर्वचः ॥ तवापराधकर्तारावावां विप्रौ न वस्तुतः ॥ ५ ॥
ब्रह्म-पुत्र सुर-ऋषे हि शृणु प्रीत्या वयोः वचः ॥ तव अपराध-कर्तारौ आवाम् विप्रौ न वस्तुतस् ॥ ५ ॥
brahma-putra sura-ṛṣe hi śṛṇu prītyā vayoḥ vacaḥ .. tava aparādha-kartārau āvām viprau na vastutas .. 5 ..
आवां हरगणौ विप्र तवागस्कारिणौ मुने ॥ स्वयम्बरे राजपुत्र्या मायामोहितचेतसा ॥ ६ ॥
आवाम् हर-गणौ विप्र तव आगस्कारिणौ मुने ॥ स्वयम्बरे राज-पुत्र्या माया-मोहित-चेतसा ॥ ६ ॥
āvām hara-gaṇau vipra tava āgaskāriṇau mune .. svayambare rāja-putryā māyā-mohita-cetasā .. 6 ..
त्वया दत्तश्च नौ शापः परेशप्रेरितेन ह ॥ ज्ञात्वा कुसमयं तत्र मौनमेव हि जीवनम् ॥ ७ ॥
त्वया दत्तः च नौ शापः परेश-प्रेरितेन ह ॥ ज्ञात्वा कु समयम् तत्र मौनम् एव हि जीवनम् ॥ ७ ॥
tvayā dattaḥ ca nau śāpaḥ pareśa-preritena ha .. jñātvā ku samayam tatra maunam eva hi jīvanam .. 7 ..
स्वकर्मणः फलं प्राप्तं कस्यापि न हि दूषणम् ॥ सुप्रसन्नो भव विभो कुर्वनुग्रहमद्य नौ ॥ ८ ॥
स्व-कर्मणः फलम् प्राप्तम् कस्य अपि न हि दूषणम् ॥ सु प्रसन्नः भव विभो कुरु अनुग्रहम् अद्य नौ ॥ ८ ॥
sva-karmaṇaḥ phalam prāptam kasya api na hi dūṣaṇam .. su prasannaḥ bhava vibho kuru anugraham adya nau .. 8 ..
सूत उवाच ।।
वच आकर्ण्य गणयोरिति भक्त्युक्तमादरात् ॥ प्रत्युवाच मुनिः प्रीत्या पश्चात्तापमवाप्य सः ॥ ९ ॥
वचः आकर्ण्य गणयोः इति भक्ति-उक्तम् आदरात् ॥ प्रत्युवाच मुनिः प्रीत्या पश्चात्तापम् अवाप्य सः ॥ ९ ॥
vacaḥ ākarṇya gaṇayoḥ iti bhakti-uktam ādarāt .. pratyuvāca muniḥ prītyā paścāttāpam avāpya saḥ .. 9 ..
नारद उवाच ।।
शृणुतं मे महादेव गणा मान्यतमौ सताम् ॥ वचनं सुखदं मोहनिर्मुक्तं च यथार्थकम्॥ ! 2.1.5.१०॥
शृणुतम् मे महादेव गणाः मा अन्यतमौ सताम् ॥ वचनम् सुख-दम् मोह-निर्मुक्तम् च यथार्थकम्॥ ! २।१।५।१०॥
śṛṇutam me mahādeva gaṇāḥ mā anyatamau satām .. vacanam sukha-dam moha-nirmuktam ca yathārthakam.. ! 2.1.5.10..
पुरा मम मतिर्भ्रष्टासीच्छिवेच्छावशात् युवम् ॥ सर्वथा मोहमापन्नश्शप्तवान्वां कुशेमुषिः ॥ ११ ॥
पुरा मम मतिः भ्रष्टा आसीत् शिव-इच्छा-वशात् युवम् ॥ सर्वथा मोहम् आपन्नः शप्तवान् वाम् कुशेमुषिः ॥ ११ ॥
purā mama matiḥ bhraṣṭā āsīt śiva-icchā-vaśāt yuvam .. sarvathā moham āpannaḥ śaptavān vām kuśemuṣiḥ .. 11 ..
यदुक्तं तत्तथा भावि तथापि शृणुतां गणौ ॥ शापोद्धारमहं वच्मि क्षमथा मघमद्य मे ॥ १२ ॥
यत् उक्तम् तत् तथा भावि तथा अपि शृणुताम् गणौ ॥ शाप-उद्धारम् अहम् वच्मि क्षमथाः मघम् अद्य मे ॥ १२ ॥
yat uktam tat tathā bhāvi tathā api śṛṇutām gaṇau .. śāpa-uddhāram aham vacmi kṣamathāḥ magham adya me .. 12 ..
वीर्यान्मुनिवरस्याप्त्वा राक्षसेशत्वमादिशम् ॥ स्यातां विभवसंयुक्तौ बलिनो सुप्रतापिनौ ॥ १३ ॥
वीर्यात् मुनि-वरस्य आप्त्वा राक्षस-ईश-त्वम् आदिशम् ॥ स्याताम् विभव-संयुक्तौ बलिनौ सु प्रतापिनौ ॥ १३ ॥
vīryāt muni-varasya āptvā rākṣasa-īśa-tvam ādiśam .. syātām vibhava-saṃyuktau balinau su pratāpinau .. 13 ..
सर्वब्रह्मांडराजानौ शिवभक्तौ जितेन्द्रियौ ॥ शिवापरतनोर्मृत्युं प्राप्य स्वं पदमाप्स्यथः ॥ १४ ॥
सर्व-ब्रह्मांड-राजानौ शिव-भक्तौ जित-इन्द्रियौ ॥ शिव-अपर-तनोः मृत्युम् प्राप्य स्वम् पदम् आप्स्यथः ॥ १४ ॥
sarva-brahmāṃḍa-rājānau śiva-bhaktau jita-indriyau .. śiva-apara-tanoḥ mṛtyum prāpya svam padam āpsyathaḥ .. 14 ..
सूत उवाच ।।
इत्याकर्ण्य मुनेर्वाक्यं नारदस्य महात्मनः ॥ उभौ हरगणौ प्रीतौ स्वं पदं जग्मतुर्मुदा ॥ १५ ॥
इति आकर्ण्य मुनेः वाक्यम् नारदस्य महात्मनः ॥ उभौ हर-गणौ प्रीतौ स्वम् पदम् जग्मतुः मुदा ॥ १५ ॥
iti ākarṇya muneḥ vākyam nāradasya mahātmanaḥ .. ubhau hara-gaṇau prītau svam padam jagmatuḥ mudā .. 15 ..
नारदोऽपि परं प्रीतो ध्यायञ्छिवमनन्यधीः ॥ विचचार महीं पश्यञ्छिवतीर्थान्यभीक्ष्णशः ॥ १६ ॥
नारदः अपि परम् प्रीतः ध्यायन् शिवम् अन् अन्य-धीः ॥ विचचार महीम् पश्यन् शिव-तीर्थानि अभीक्ष्णशस् ॥ १६ ॥
nāradaḥ api param prītaḥ dhyāyan śivam an anya-dhīḥ .. vicacāra mahīm paśyan śiva-tīrthāni abhīkṣṇaśas .. 16 ..
काशीं प्राप्याथ स मुनिः सर्वोपरि विराजिताम् ॥ शिवप्रियां शंभुसुखप्रदां शम्भुस्वरूपिणीम् ॥ १७ ॥
काशीम् प्राप्य अथ स मुनिः सर्व-उपरि विराजिताम् ॥ शिव-प्रियाम् शंभु-सुख-प्रदाम् शम्भु-स्वरूपिणीम् ॥ १७ ॥
kāśīm prāpya atha sa muniḥ sarva-upari virājitām .. śiva-priyām śaṃbhu-sukha-pradām śambhu-svarūpiṇīm .. 17 ..
दृष्ट्वा काशीं कृताऽर्थोभूत्काशीनाथं ददर्श ह ॥ आनर्च परम प्रीत्या परमानन्दसंयुतः ॥ १८ ॥
दृष्ट्वा काशीम् कृता अर्थः भूत् काशी-नाथम् ददर्श ह ॥ आनर्च परम-प्रीत्या परम-आनन्द-संयुतः ॥ १८ ॥
dṛṣṭvā kāśīm kṛtā arthaḥ bhūt kāśī-nātham dadarśa ha .. ānarca parama-prītyā parama-ānanda-saṃyutaḥ .. 18 ..
स मुदः सेव्यतां काशीं कृतार्थो मुनिसत्तमः ॥ नमन्संवर्णयन्भक्त्या संस्मरन्प्रेमविह्वलः ॥ ॥ १९॥
स मुदः सेव्यताम् काशीम् कृतार्थः मुनि-सत्तमः ॥ नमन् संवर्णयन् भक्त्या संस्मरन् प्रेम-विह्वलः ॥ ॥ १९॥
sa mudaḥ sevyatām kāśīm kṛtārthaḥ muni-sattamaḥ .. naman saṃvarṇayan bhaktyā saṃsmaran prema-vihvalaḥ .. .. 19..
ब्रह्मलोकं जगामाथ शिवस्मरणसन्मतिः ॥ शिवतत्त्वं विशेषेण ज्ञातुमिच्छुस्स नारदः ॥ 2.1.5.२० ॥
ब्रह्म-लोकम् जगाम अथ शिव-स्मरण-सत्-मतिः ॥ शिवतत्त्वम् विशेषेण ज्ञातुम् इच्छुः स नारदः ॥ २।१।५।२० ॥
brahma-lokam jagāma atha śiva-smaraṇa-sat-matiḥ .. śivatattvam viśeṣeṇa jñātum icchuḥ sa nāradaḥ .. 2.1.5.20 ..
नत्वा तत्र विधिं भक्त्या स्तुत्वा च विविधैस्तवैः ॥ पप्रच्छ शिवत्तत्वं शिवसंभक्तमानसः ॥ २१॥
नत्वा तत्र विधिम् भक्त्या स्तुत्वा च विविधैः स्तवैः ॥ पप्रच्छ शिवत्त-त्वम् शिव-संभक्त-मानसः ॥ २१॥
natvā tatra vidhim bhaktyā stutvā ca vividhaiḥ stavaiḥ .. papraccha śivatta-tvam śiva-saṃbhakta-mānasaḥ .. 21..
नारद उवाच ।।
ब्रह्मन्ब्रह्मस्वरूपज्ञ पितामह जगत्प्रभो ॥ त्वत्प्रसादान्मया सर्वं विष्णोर्माहात्म्यमुत्तमम् ॥ २२ ॥
ब्रह्मन् ब्रह्म-स्व-रूप-ज्ञ पितामह जगत्प्रभो ॥ त्वद्-प्रसादात् मया सर्वम् विष्णोः माहात्म्यम् उत्तमम् ॥ २२ ॥
brahman brahma-sva-rūpa-jña pitāmaha jagatprabho .. tvad-prasādāt mayā sarvam viṣṇoḥ māhātmyam uttamam .. 22 ..
भक्तिमार्गं ज्ञानमार्गं तपोमार्गं सुदुस्तरम् ॥ दानमार्गञ्च तीर्थानां मार्गं च श्रुतवानहम् ॥ २३ ॥
भक्ति-मार्गम् ज्ञान-मार्गम् तपः-मार्गम् सु दुस्तरम् ॥ दान-मार्गन् च तीर्थानाम् मार्गम् च श्रुतवान् अहम् ॥ २३ ॥
bhakti-mārgam jñāna-mārgam tapaḥ-mārgam su dustaram .. dāna-mārgan ca tīrthānām mārgam ca śrutavān aham .. 23 ..
न ज्ञातं शिवतत्त्वं च पूजाविधिमतः क्रमात् ॥ चरित्रं विविधं तस्य निवेदय मम प्रभो ॥ २४ ॥
न ज्ञातम् शिव-तत्त्वम् च पूजा-विधिम् अतस् क्रमात् ॥ चरित्रम् विविधम् तस्य निवेदय मम प्रभो ॥ २४ ॥
na jñātam śiva-tattvam ca pūjā-vidhim atas kramāt .. caritram vividham tasya nivedaya mama prabho .. 24 ..
निर्गुणोऽपि शिवस्तात सगुणश्शंकरः कथम् ॥ शिवतत्त्वं न जानामि मोहितश्शिवमायया ॥ २५॥
निर्गुणः अपि शिवः तात स गुणः शंकरः कथम् ॥ शिवतत्त्वम् न जानामि मोहितः शिव-मायया ॥ २५॥
nirguṇaḥ api śivaḥ tāta sa guṇaḥ śaṃkaraḥ katham .. śivatattvam na jānāmi mohitaḥ śiva-māyayā .. 25..
सृष्टेः पूर्वं कथं शंभुस्स्वरूपेण प्रतिष्ठितः ॥ सृष्टिमध्ये स हि कथं क्रीडन्संवर्तते प्रभुः ॥ २६ ॥
सृष्टेः पूर्वम् कथम् शंभुः स्व-रूपेण प्रतिष्ठितः ॥ सृष्टि-मध्ये स हि कथम् क्रीडन् संवर्तते प्रभुः ॥ २६ ॥
sṛṣṭeḥ pūrvam katham śaṃbhuḥ sva-rūpeṇa pratiṣṭhitaḥ .. sṛṣṭi-madhye sa hi katham krīḍan saṃvartate prabhuḥ .. 26 ..
तदन्ते च कथं देवस्स तिष्ठति महेश्वरः ॥ कथं प्रसन्नतां याति शंकरो लोकशंकरः ॥ २७ ॥
तद्-अन्ते च कथम् देवः स तिष्ठति महेश्वरः ॥ कथम् प्रसन्न-ताम् याति शंकरः लोक-शंकरः ॥ २७ ॥
tad-ante ca katham devaḥ sa tiṣṭhati maheśvaraḥ .. katham prasanna-tām yāti śaṃkaraḥ loka-śaṃkaraḥ .. 27 ..
संतुष्टश्च स्वभक्तेभ्यः परेभ्यश्च महेश्वरः ॥ किं फलं यच्छति विधे तत्सर्वं कथयस्व मे ॥ २८ ॥
संतुष्टः च स्व-भक्तेभ्यः परेभ्यः च महेश्वरः ॥ किम् फलम् यच्छति विधे तत् सर्वम् कथयस्व मे ॥ २८ ॥
saṃtuṣṭaḥ ca sva-bhaktebhyaḥ parebhyaḥ ca maheśvaraḥ .. kim phalam yacchati vidhe tat sarvam kathayasva me .. 28 ..
सद्यः प्रसन्नो भगवान्भवतीत्यनुसंश्रुतम् ॥ भक्तप्रयासं स महान्न पश्यति दयापरः ॥ २९ ॥
सद्यस् प्रसन्नः भगवान् भवति इति अनुसंश्रुतम् ॥ भक्त-प्रयासम् स महान् न पश्यति दया-परः ॥ २९ ॥
sadyas prasannaḥ bhagavān bhavati iti anusaṃśrutam .. bhakta-prayāsam sa mahān na paśyati dayā-paraḥ .. 29 ..
ब्रह्मा विष्णुर्महेशश्च त्रयो देवाश्शिवांशजाः ॥ महेशस्तत्र पूर्णांशस्स्वयमेव शिवः परः ॥ 2.1.5.३० ॥
ब्रह्मा विष्णुः महेशः च त्रयः देवाः शिव-अंश-जाः ॥ महेशः तत्र पूर्ण-अंशः स्वयम् एव शिवः परः ॥ २।१।५।३० ॥
brahmā viṣṇuḥ maheśaḥ ca trayaḥ devāḥ śiva-aṃśa-jāḥ .. maheśaḥ tatra pūrṇa-aṃśaḥ svayam eva śivaḥ paraḥ .. 2.1.5.30 ..
तस्याविर्भावमाख्याहि चरितानि विशेषतः ॥ उमाविर्भावमाख्याहि तद्विवाहं तथा विभो ॥ ३१॥
तस्य आविर्भावम् आख्याहि चरितानि विशेषतः ॥ उमा-आविर्भावम् आख्याहि तद्-विवाहम् तथा विभो ॥ ३१॥
tasya āvirbhāvam ākhyāhi caritāni viśeṣataḥ .. umā-āvirbhāvam ākhyāhi tad-vivāham tathā vibho .. 31..
तद्गार्हस्थ्यं विशेषेण तथा लीलाः परा अपि॥ एतत्सर्वं तथान्यच्च कथनीयं त्वयानघ ॥ ३२॥
तत् गार्हस्थ्यम् विशेषेण तथा लीलाः पराः अपि॥ एतत् सर्वम् तथा अन्यत् च कथनीयम् त्वया अनघ ॥ ३२॥
tat gārhasthyam viśeṣeṇa tathā līlāḥ parāḥ api.. etat sarvam tathā anyat ca kathanīyam tvayā anagha .. 32..
तदुत्पत्तिं विवाहं च शिवायास्तु विशेषतः॥ प्रब्रूहि मे प्रजानाथ गुहजन्म तथैव च॥ ३३॥
तद्-उत्पत्तिम् विवाहम् च शिवायाः तु विशेषतः॥ प्रब्रूहि मे प्रजानाथ गुह-जन्म तथा एव च॥ ३३॥
tad-utpattim vivāham ca śivāyāḥ tu viśeṣataḥ.. prabrūhi me prajānātha guha-janma tathā eva ca.. 33..
बहुभ्यश्च श्रुतं पूर्वं न तृप्तोऽस्मि जगत्प्रभो॥ अतस्त्वां शरणं प्राप्तः कृपां कुरु ममोपरि ॥ ३४॥
बहुभ्यः च श्रुतम् पूर्वम् न तृप्तः अस्मि जगत्प्रभो॥ अतस् त्वाम् शरणम् प्राप्तः कृपाम् कुरु मम उपरि ॥ ३४॥
bahubhyaḥ ca śrutam pūrvam na tṛptaḥ asmi jagatprabho.. atas tvām śaraṇam prāptaḥ kṛpām kuru mama upari .. 34..
इति श्रुत्वा वचस्तस्य नारदस्यांगजस्य हि॥ उवाच वचनं तत्र ब्रह्मा लोकपितामहः॥ ३५॥
इति श्रुत्वा वचः तस्य नारदस्य अंगजस्य हि॥ उवाच वचनम् तत्र ब्रह्मा लोकपितामहः॥ ३५॥
iti śrutvā vacaḥ tasya nāradasya aṃgajasya hi.. uvāca vacanam tatra brahmā lokapitāmahaḥ.. 35..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदप्रश्नवर्णनोनाम पञ्चमोऽध्यायः॥ ५॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् प्रथम-खंडे सृष्ट्युपाख्याने नारदप्रश्नवर्णनोनाम नाम पञ्चमः अध्यायः॥ ५॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām prathama-khaṃḍe sṛṣṭyupākhyāne nāradapraśnavarṇanonāma nāma pañcamaḥ adhyāyaḥ.. 5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In