| |
|

This overlay will guide you through the buttons:

।।ब्रह्मोवाच।।
भो ब्रह्मन्साधु पृष्टोऽहं त्वया विबुधसत्तम ॥ लोकोपकारिणा नित्यं लोकानां हितकाम्यया ॥ १ ॥
भो ब्रह्मन् साधु पृष्टः अहम् त्वया विबुध-सत्तम ॥ लोक-उपकारिणा नित्यम् लोकानाम् हित-काम्यया ॥ १ ॥
bho brahman sādhu pṛṣṭaḥ aham tvayā vibudha-sattama .. loka-upakāriṇā nityam lokānām hita-kāmyayā .. 1 ..
यच्छ्रुत्वा सर्वलोकानां सर्वपापक्षयो भवेत् ॥ तदहं ते प्रवक्ष्यामि शिवतत्त्वमनामयम् ॥ २॥
यत् श्रुत्वा सर्व-लोकानाम् सर्व-पाप-क्षयः भवेत् ॥ तत् अहम् ते प्रवक्ष्यामि शिवतत्त्वम् अनामयम् ॥ २॥
yat śrutvā sarva-lokānām sarva-pāpa-kṣayaḥ bhavet .. tat aham te pravakṣyāmi śivatattvam anāmayam .. 2..
शिवतत्त्वं मया नैव विष्णुनापि यथार्थतः ॥ ज्ञातश्च परमं रूपमद्भुतं च परेण न ॥ ३॥
शिवतत्त्वम् मया ना एव विष्णुना अपि यथार्थतः ॥ ज्ञातः च परमम् रूपम् अद्भुतम् च परेण न ॥ ३॥
śivatattvam mayā nā eva viṣṇunā api yathārthataḥ .. jñātaḥ ca paramam rūpam adbhutam ca pareṇa na .. 3..
महाप्रलयकाले च नष्टे स्थावरजंगमे ॥ आसीत्तमोमयं सर्वमनर्कग्रहतारकम् ॥ ४॥
महाप्रलय-काले च नष्टे स्थावर-जंगमे ॥ आसीत् तमः-मयम् सर्वम् अन् अर्क-ग्रह-तारकम् ॥ ४॥
mahāpralaya-kāle ca naṣṭe sthāvara-jaṃgame .. āsīt tamaḥ-mayam sarvam an arka-graha-tārakam .. 4..
अचन्द्रमनहोरात्रमनग्न्यनिलभूजलम् ॥ अप्रधानं वियच्छून्यमन्यतेजोविवर्जितम् ॥ २॥
अ चन्द्रम् अन् अहर्-रात्रम् अन् अग्नि-अनिल-भू-जलम् ॥ अप्रधानम् वियत् शून्यम् अन्य-तेजः-विवर्जितम् ॥ २॥
a candram an ahar-rātram an agni-anila-bhū-jalam .. apradhānam viyat śūnyam anya-tejaḥ-vivarjitam .. 2..
अदृष्टत्वादिरहितं शब्दस्पर्शसमुज्झितम् ॥ अव्यक्तगंधरूपं च रसत्यक्तमदिङ्मुखम् ॥ ६ ॥
अदृष्ट-त्व-आदि-रहितम् शब्द-स्पर्श-समुज्झितम् ॥ अव्यक्त-गंध-रूपम् च रस-त्यक्तम् अदिङ्मुखम् ॥ ६ ॥
adṛṣṭa-tva-ādi-rahitam śabda-sparśa-samujjhitam .. avyakta-gaṃdha-rūpam ca rasa-tyaktam adiṅmukham .. 6 ..
इत्थं सत्यंधतमसे सूचीभेद्यं निरंतरे ॥ तत्सद्ब्रह्मेति यच्छ्रुत्वा सदेकं प्रतिपद्यते ॥ ७ ॥
इत्थम् सत्यंधतमसे सूचीभेद्यम् निरंतरे ॥ तत् सत् ब्रह्म इति यत् श्रुत्वा सत् एकम् प्रतिपद्यते ॥ ७ ॥
ittham satyaṃdhatamase sūcībhedyam niraṃtare .. tat sat brahma iti yat śrutvā sat ekam pratipadyate .. 7 ..
इतीदृशं यदा नासीद्यत्तत्सदसदात्मकम् ॥ योगिनोंतर्हिताकाशे यत्पश्यंति निरंतरम् ॥ ८॥
इति ईदृशम् यदा न आसीत् यत् तत् सत्-असत्-आत्मकम् ॥ योगिना अंतर्हित-आकाशे यत् पश्यंति निरंतरम् ॥ ८॥
iti īdṛśam yadā na āsīt yat tat sat-asat-ātmakam .. yoginā aṃtarhita-ākāśe yat paśyaṃti niraṃtaram .. 8..
अमनोगोचरम्वाचां विषयन्न कदाचन ॥ अनामरूपवर्णं च न च स्थूलं न यत्कृशम्॥ ९॥
अ मनः-गोचरम् वाचाम् विषयन् न कदाचन ॥ अ नाम-रूप-वर्णम् च न च स्थूलम् न यत् कृशम्॥ ९॥
a manaḥ-gocaram vācām viṣayan na kadācana .. a nāma-rūpa-varṇam ca na ca sthūlam na yat kṛśam.. 9..
अह्रस्वदीर्घमलघुगुरुत्वपरिवर्जितम् ॥ न यत्रोपचयः कश्चित्तथा नापचयोऽपि च ॥ 2.1.6.१०॥
अ ह्रस्व-दीर्घम् अ लघु-गुरु-त्व-परिवर्जितम् ॥ न यत्र उपचयः कश्चिद् तथा न अपचयः अपि च ॥ २।१।६।१०॥
a hrasva-dīrgham a laghu-guru-tva-parivarjitam .. na yatra upacayaḥ kaścid tathā na apacayaḥ api ca .. 2.1.6.10..
अभिधत्ते स चकितं यदस्तीति श्रुतिः पुनः ॥ सत्यं ज्ञानमनंतं च परानंदम्परम्महः ॥ १ १॥
अभिधत्ते स चकितम् यत् अस्ति इति श्रुतिः पुनर् ॥ सत्यम् ज्ञानम् अनंतम् च परानंदम् परम् महः ॥ १ १॥
abhidhatte sa cakitam yat asti iti śrutiḥ punar .. satyam jñānam anaṃtam ca parānaṃdam param mahaḥ .. 1 1..
अप्रमेयमनाधारमविकारमनाकृति ॥ निर्गुणं योगिगम्यञ्च सर्वव्याप्येककारकम् ॥ १२॥
अप्रमेयम् अनाधारम् अविकारम् अनाकृति ॥ निर्गुणम् योगि-गम्यञ्च च सर्व-व्यापि-एक-कारकम् ॥ १२॥
aprameyam anādhāram avikāram anākṛti .. nirguṇam yogi-gamyañca ca sarva-vyāpi-eka-kārakam .. 12..
निर्विकल्पं निरारंभं निर्मायं निरुपद्रवम् ॥ अद्वितीयमनाद्यन्तमविकाशं चिदात्मकम् ॥ १३॥
निर्विकल्पम् निरारंभम् निर्मायम् निरुपद्रवम् ॥ अद्वितीयम् अनादि-अन्तम् अविकाशम् चित्-आत्मकम् ॥ १३॥
nirvikalpam nirāraṃbham nirmāyam nirupadravam .. advitīyam anādi-antam avikāśam cit-ātmakam .. 13..
यस्येत्थं संविकल्पंते संज्ञासंज्ञोक्तितः स्म वै ॥ कियता चैव कालेन द्वितीयेच्छाऽभवत्किल ॥ १४ ॥
यस्य इत्थम् संज्ञा-संज्ञा-उक्तितः स्म वै ॥ कियता च एव कालेन द्वितीया इच्छा अभवत् किल ॥ १४ ॥
yasya ittham saṃjñā-saṃjñā-uktitaḥ sma vai .. kiyatā ca eva kālena dvitīyā icchā abhavat kila .. 14 ..
अमूर्तेन स्वमूर्तिश्च तेनाकल्पि स्वलीलया ॥ सर्वैश्वर्यगुणोपेता सर्वज्ञानमयी शुभा ॥ १५ ॥
अमूर्तेन स्व-मूर्तिः च तेन अकल्पि स्व-लीलया ॥ सर्व-ऐश्वर्य-गुण-उपेता सर्व-ज्ञान-मयी शुभा ॥ १५ ॥
amūrtena sva-mūrtiḥ ca tena akalpi sva-līlayā .. sarva-aiśvarya-guṇa-upetā sarva-jñāna-mayī śubhā .. 15 ..
सर्वगा सर्वरूपा च सर्वदृक्सर्वकारिणी ॥ सर्वेकवंद्या सर्वाद्या सर्वदा सर्वसंस्कृतिः ॥ १६ ॥
सर्व-गा सर्व-रूपा च सर्व-दृश् सर्व-कारिणी ॥ सर्व-एक-वंद्या सर्व-आद्या सर्वदा सर्व-संस्कृतिः ॥ १६ ॥
sarva-gā sarva-rūpā ca sarva-dṛś sarva-kāriṇī .. sarva-eka-vaṃdyā sarva-ādyā sarvadā sarva-saṃskṛtiḥ .. 16 ..
परिकल्येति तां मूर्तिमैश्वरीं शुद्धरूपिणीम् ॥ अद्वितीयमनाद्यंतं सर्वाभासं चिदात्मकम् ॥ अंतर्दधे पराख्यं यद्ब्रह्म सर्वगमव्ययम् ॥ १७ ॥
परिकल्येति ताम् मूर्तिम् ऐश्वरीम् शुद्ध-रूपिणीम् ॥ अद्वितीयम् अनादि-अन्तम् सर्व-आभासम् चित्-आत्मकम् ॥ अंतर्दधे पर-आख्यम् यत् ब्रह्म सर्वगम् अव्ययम् ॥ १७ ॥
parikalyeti tām mūrtim aiśvarīm śuddha-rūpiṇīm .. advitīyam anādi-antam sarva-ābhāsam cit-ātmakam .. aṃtardadhe para-ākhyam yat brahma sarvagam avyayam .. 17 ..
अमूर्ते यत्पराख्यं वै तस्य मूर्तिस्सदाशिवः ॥ अर्वाचीनाः पराचीना ईश्वरं तं जगुर्बुधाः ॥ ॥ १८ ॥
अमूर्ते यत् पर-आख्यम् वै तस्य मूर्तिः सदाशिवः ॥ अर्वाचीनाः पराचीनाः ईश्वरम् तम् जगुः बुधाः ॥ ॥ १८ ॥
amūrte yat para-ākhyam vai tasya mūrtiḥ sadāśivaḥ .. arvācīnāḥ parācīnāḥ īśvaram tam jaguḥ budhāḥ .. .. 18 ..
शक्तिस्तदैकलेनापि स्वैरं विहरता तनुः ॥ स्वविग्रहात्स्वयं सृष्टा स्वशरीरानपायिनी ॥ १९ ॥
शक्तिः तदा एकलेन अपि स्वैरम् विहरता तनुः ॥ स्व-विग्रहात् स्वयम् सृष्टा स्व-शरीर-अनपायिनी ॥ १९ ॥
śaktiḥ tadā ekalena api svairam viharatā tanuḥ .. sva-vigrahāt svayam sṛṣṭā sva-śarīra-anapāyinī .. 19 ..
प्रधानं प्रकृति तां च मायां गुणवतीं पराम् ॥ बुद्धितत्त्वस्य जननीमाहुर्विकृतिवर्जिताम् ॥ 2.1.6.२० ॥
प्रधानम् प्रकृति ताम् च मायाम् गुणवतीम् पराम् ॥ बुद्धि-तत्त्वस्य जननीम् आहुः विकृति-वर्जिताम् ॥ २।१।६।२० ॥
pradhānam prakṛti tām ca māyām guṇavatīm parām .. buddhi-tattvasya jananīm āhuḥ vikṛti-varjitām .. 2.1.6.20 ..
सा शक्तिरम्बिका प्रोक्ता प्रकृतिस्सकलेश्वरी॥ त्रिदेवजननी नित्या मूलकारणमित्युत ॥ २१ ॥
सा शक्तिः अम्बिका प्रोक्ता प्रकृतिः सकल-ईश्वरी॥ त्रि-देव-जननी नित्या मूल-कारणम् इति उत ॥ २१ ॥
sā śaktiḥ ambikā proktā prakṛtiḥ sakala-īśvarī.. tri-deva-jananī nityā mūla-kāraṇam iti uta .. 21 ..
अस्या अष्टौ भुजाश्चासन्विचित्रवदना शुभा ॥ राकाचन्द्रसहस्रस्य वदने भाश्च नित्यशः ॥ २२॥
अस्याः अष्टौ भुजाः च आसन् विचित्र-वदना शुभा ॥ राका-चन्द्र-सहस्रस्य वदने भास् च नित्यशस् ॥ २२॥
asyāḥ aṣṭau bhujāḥ ca āsan vicitra-vadanā śubhā .. rākā-candra-sahasrasya vadane bhās ca nityaśas .. 22..
नानाभरणसंयुक्ता नानागतिसमन्विता ॥ नानायुधधरा देवी फुल्लपंकजलोचना ॥ २३ ॥
नाना आभरण-संयुक्ता नाना गति-समन्विता ॥ नाना आयुध-धरा देवी फुल्ल-पंकज-लोचना ॥ २३ ॥
nānā ābharaṇa-saṃyuktā nānā gati-samanvitā .. nānā āyudha-dharā devī phulla-paṃkaja-locanā .. 23 ..
अचिंत्यतेजसा युक्ता सर्वयोनिस्समुद्यता ॥ एकाकिनी यदा माया संयोगाच्चाप्यनेकिका ॥ २४ ॥
अचिंत्य-तेजसा युक्ता सर्व-योनिः समुद्यता ॥ एकाकिनी यदा माया संयोगात् च अपि अनेकिका ॥ २४ ॥
aciṃtya-tejasā yuktā sarva-yoniḥ samudyatā .. ekākinī yadā māyā saṃyogāt ca api anekikā .. 24 ..
परः पुमानीश्वरस्स शिवश्शंभुरनीश्वरः ॥ शीर्षे मन्दाकिनीधारी भालचन्द्रस्त्रिलोचनः ॥ २५॥
परः पुमान् ईश्वरः स शिवः शंभुः अनीश्वरः ॥ शीर्षे मन्दाकिनी-धारी भाल-चन्द्रः त्रिलोचनः ॥ २५॥
paraḥ pumān īśvaraḥ sa śivaḥ śaṃbhuḥ anīśvaraḥ .. śīrṣe mandākinī-dhārī bhāla-candraḥ trilocanaḥ .. 25..
पंचवक्त्रः प्रसन्नात्मा दशबाहुस्त्रिशूलधृक् ॥ कर्पूरगौरसुसितो भस्मोद्धूलितविग्रहः ॥ २६॥
पंचवक्त्रः प्रसन्न-आत्मा दश-बाहुः त्रिशूलधृक् ॥ ॥ २६॥
paṃcavaktraḥ prasanna-ātmā daśa-bāhuḥ triśūladhṛk .. .. 26..
युगपच्च तया शक्त्या साकं कालस्वरूपिणा ॥ शिवलोकाभिधं क्षेत्रं निर्मितं तेन ब्रह्मणा॥ २७ ॥
युगपद् च तया शक्त्या साकम् काल-स्वरूपिणा ॥ शिवलोक-अभिधम् क्षेत्रम् निर्मितम् तेन ब्रह्मणा॥ २७ ॥
yugapad ca tayā śaktyā sākam kāla-svarūpiṇā .. śivaloka-abhidham kṣetram nirmitam tena brahmaṇā.. 27 ..
तदेव काशिकेत्येतत्प्रोच्यते क्षेत्रमुत्तमम् ॥ परं निर्वाणसंख्यानं सर्वोपरि विराजितम् ॥ २८ ॥
तत् एव काशिका-इति एतत् प्रोच्यते क्षेत्रम् उत्तमम् ॥ परम् निर्वाण-संख्यानम् सर्व-उपरि विराजितम् ॥ २८ ॥
tat eva kāśikā-iti etat procyate kṣetram uttamam .. param nirvāṇa-saṃkhyānam sarva-upari virājitam .. 28 ..
ताभ्यां च रममाणाभ्यां च तस्मिन्क्षेत्रे मनोरमे ॥ परमानंदरूपाभ्यां परमानन्दरूपिणी ॥ २९॥
ताभ्याम् च रममाणाभ्याम् च तस्मिन् क्षेत्रे मनोरमे ॥ परम-आनंद-रूपाभ्याम् परम-आनन्द-रूपिणी ॥ २९॥
tābhyām ca ramamāṇābhyām ca tasmin kṣetre manorame .. parama-ānaṃda-rūpābhyām parama-ānanda-rūpiṇī .. 29..
मुने प्रलयकालेपि न तत्क्षेत्रं कदाचन ॥ विमुक्तं हि शिवाभ्यां यदविमुक्तं ततो विदुः॥ 2.1.6.३०॥
मुने प्रलय-काले अपि न तत् क्षेत्रम् कदाचन ॥ विमुक्तम् हि शिवाभ्याम् यत् अविमुक्तम् ततस् विदुः॥ २।१।६।३०॥
mune pralaya-kāle api na tat kṣetram kadācana .. vimuktam hi śivābhyām yat avimuktam tatas viduḥ.. 2.1.6.30..
अस्यानन्दवनं नाम पुराकारि पिनाकिना ॥ क्षेत्रस्यानंदहेतुत्वादविमुक्तमनंतरम्॥ ३१॥
अस्य आनन्दवनम् नाम पुरा अकारि पिनाकिना ॥ क्षेत्रस्य आनंद-हेतु-त्वात् अविमुक्तम् अनंतरम्॥ ३१॥
asya ānandavanam nāma purā akāri pinākinā .. kṣetrasya ānaṃda-hetu-tvāt avimuktam anaṃtaram.. 31..
अथानन्दवने तस्मिञ्च्छिवयो रममाणयोः॥ इच्छेत्यभूत्सुरर्षे हि सृज्यः कोप्यपरः किल ॥ ३२ ॥
अथ आनन्द-वने तस्मिन् शिवयोः रममाणयोः॥ इच्छा इति अभूत् सुर-ऋषे हि सृज्यः कः अपि अपरः किल ॥ ३२ ॥
atha ānanda-vane tasmin śivayoḥ ramamāṇayoḥ.. icchā iti abhūt sura-ṛṣe hi sṛjyaḥ kaḥ api aparaḥ kila .. 32 ..
यस्मिन्यस्य महाभारमावां स्वस्वैरचारिणौ ॥ निर्वाणधारणं कुर्वः केवलं काशिशायिनौ ॥ ३३॥
यस्मिन् यस्य महा-भारम् आवाम् स्व-स्वैर-चारिणौ ॥ निर्वाण-धारणम् कुर्वः केवलम् काशि-शायिनौ ॥ ३३॥
yasmin yasya mahā-bhāram āvām sva-svaira-cāriṇau .. nirvāṇa-dhāraṇam kurvaḥ kevalam kāśi-śāyinau .. 33..
स एव सर्वं कुरुतां स एव परिपातु च ॥ स एव संवृणोत्वं ते मदनुग्रहतस्सदा ॥ ३४॥
सः एव सर्वम् कुरुताम् सः एव परिपातु च ॥ सः एव संवृणोत्वम् ते मद्-अनुग्रहतः सदा ॥ ३४॥
saḥ eva sarvam kurutām saḥ eva paripātu ca .. saḥ eva saṃvṛṇotvam te mad-anugrahataḥ sadā .. 34..
चेतस्समुद्रमाकुंच्य चिंताकल्लोललोलितम् ॥ सत्त्वरत्नं तमोग्राहं रजोविद्रुमवल्लितम् ॥ ३५॥
चेतः-समुद्रम् आकुंच्य चिंता-कल्लोल-लोलितम् ॥ ॥ ३५॥
cetaḥ-samudram ākuṃcya ciṃtā-kallola-lolitam .. .. 35..
यस्य प्रसादात्तिष्ठावस्सुखमानंदकानने॥ परिक्षिप्तमनोवृत्तौ बहिश्चिंतातुरे सुखम् ॥ ३६॥
यस्य प्रसादात् तिष्ठावः सुखम् आनंद-कानने॥ परिक्षिप्त-मनः-वृत्तौ बहिस् चिंता-आतुरे सुखम् ॥ ३६॥
yasya prasādāt tiṣṭhāvaḥ sukham ānaṃda-kānane.. parikṣipta-manaḥ-vṛttau bahis ciṃtā-āture sukham .. 36..
संप्रधार्य्येति स विभुस्तया शक्त्या परेश्वरः ॥ सव्ये व्यापारयांचक्रे दशमेंऽगेसुधासवम् ॥ ३७ ॥
संप्रधार्य इति स विभुः तया शक्त्या परेश्वरः ॥ सव्ये व्यापारयांचक्रे ॥ ३७ ॥
saṃpradhārya iti sa vibhuḥ tayā śaktyā pareśvaraḥ .. savye vyāpārayāṃcakre .. 37 ..
ततः पुमानाविरासीदेकस्त्रैलोक्यसुंदरः ॥ शांतस्सत्त्वगुणोद्रिक्तो गांभीर्य्यामितसागरः ॥ ३८॥
ततस् पुमान् आविरासीत् एकः त्रैलोक्य-सुंदरः ॥ शांतः सत्त्व-गुण-उद्रिक्तः गांभीर्य-अमित-सागरः ॥ ३८॥
tatas pumān āvirāsīt ekaḥ trailokya-suṃdaraḥ .. śāṃtaḥ sattva-guṇa-udriktaḥ gāṃbhīrya-amita-sāgaraḥ .. 38..
तथा च क्षमया युक्तो मुनेऽलब्धोपमो ऽभवत् ॥ इन्द्रनीलद्युतिः श्रीमान्पुण्डरीकोत्तमेक्षणः ॥ ३९ ॥
तथा च क्षमया युक्तः मुने अलब्ध-उपमः अभवत् ॥ इन्द्रनील-द्युतिः श्रीमान् पुण्डरीक-उत्तम-ईक्षणः ॥ ३९ ॥
tathā ca kṣamayā yuktaḥ mune alabdha-upamaḥ abhavat .. indranīla-dyutiḥ śrīmān puṇḍarīka-uttama-īkṣaṇaḥ .. 39 ..
सुवर्णकृतिभृच्छ्रेष्ठ दुकूलयुगलावृतः ॥ लसत्प्रचंडदोर्दण्डयुगलोह्यपराजितः ॥ 2.1.6.४०॥
॥ लसत्-प्रचंड-दोस्-दण्ड-युग-लः हि अपराजितः ॥ २।१।६।४०॥
.. lasat-pracaṃḍa-dos-daṇḍa-yuga-laḥ hi aparājitaḥ .. 2.1.6.40..
ततस्स पुरुषश्शंभुं प्रणम्य परमेश्वरम् ॥ नामानि कुरु मे स्वामिन्वद कर्मं जगाविति ॥ ४१॥
ततस् स पुरुषः शंभुम् प्रणम्य परमेश्वरम् ॥ नामानि कुरु मे स्वामिन् वद कर्मम् जगौ इति ॥ ४१॥
tatas sa puruṣaḥ śaṃbhum praṇamya parameśvaram .. nāmāni kuru me svāmin vada karmam jagau iti .. 41..
तच्छ्रुत्वा वचनम्प्राह शंकरः प्रहसन्प्रभुः ॥ पुरुषं तं महेशानो वाचा मेघगभीरया॥ ४२॥
तत् श्रुत्वा वचनम् प्राह शंकरः प्रहसन् प्रभुः ॥ पुरुषम् तम् महेशानः वाचा मेघ-गभीरया॥ ४२॥
tat śrutvā vacanam prāha śaṃkaraḥ prahasan prabhuḥ .. puruṣam tam maheśānaḥ vācā megha-gabhīrayā.. 42..
शिव उवाच।।
विष्ण्वितिव्यापकत्वात्ते नाम ख्यातं भविष्यति॥ बहून्यन्यानि नामानि भक्तसौख्यकराणि ह ॥ ४३॥
विष्णु-इति व्यापक-त्वात् ते नाम ख्यातम् भविष्यति॥ बहूनि अन्यानि नामानि भक्त-सौख्य-कराणि ह ॥ ४३॥
viṣṇu-iti vyāpaka-tvāt te nāma khyātam bhaviṣyati.. bahūni anyāni nāmāni bhakta-saukhya-karāṇi ha .. 43..
तपः कुरु दृढो भूत्वा परमं कार्यसाधनम् ॥ इत्युक्त्वा श्वासमार्गेण ददौ च निगमं ततः ॥ ४४॥
तपः कुरु दृढः भूत्वा परमम् कार्य-साधनम् ॥ इति उक्त्वा श्वास-मार्गेण ददौ च निगमम् ततस् ॥ ४४॥
tapaḥ kuru dṛḍhaḥ bhūtvā paramam kārya-sādhanam .. iti uktvā śvāsa-mārgeṇa dadau ca nigamam tatas .. 44..
ततोऽच्युतश्शिवं नत्वा चकार विपुलं तपः ॥ अंतर्द्धानं गतश्शक्त्या सलोकः परमेश्वरः ॥ ४९॥
ततस् अच्युतः शिवम् नत्वा चकार विपुलम् तपः ॥ अंतर्द्धानम् गतः शक्त्या स लोकः परमेश्वरः ॥ ४९॥
tatas acyutaḥ śivam natvā cakāra vipulam tapaḥ .. aṃtarddhānam gataḥ śaktyā sa lokaḥ parameśvaraḥ .. 49..
दिव्यं द्वादश साहस्रं वर्षं तप्त्वापि चाच्युतः ॥ न प्राप स्वाभिलषितं सर्वदं शंभुदर्शनम् ॥ ४६ ॥
दिव्यम् द्वादश साहस्रम् वर्षम् तप्त्वा अपि च अच्युतः ॥ न प्राप स्व-अभिलषितम् सर्व-दम् शंभु-दर्शनम् ॥ ४६ ॥
divyam dvādaśa sāhasram varṣam taptvā api ca acyutaḥ .. na prāpa sva-abhilaṣitam sarva-dam śaṃbhu-darśanam .. 46 ..
तत्तत्संशयमापन्नश्चिंतितं हृदि सादरम् ॥ मयाद्य किं प्रकर्तव्यमिति विष्णुश्शिवं स्मरन् ॥ ४७ ॥
तत् तत् संशयम् आपन्नः चिंतितम् हृदि सादरम् ॥ मया अद्य किम् प्रकर्तव्यम् इति विष्णुः शिवम् स्मरन् ॥ ४७ ॥
tat tat saṃśayam āpannaḥ ciṃtitam hṛdi sādaram .. mayā adya kim prakartavyam iti viṣṇuḥ śivam smaran .. 47 ..
एतस्मिन्नंतरे वाणी समुत्पन्ना शिवाच्छुभा ॥ तपः पुनः प्रकर्त्तव्यं संशयस्यापनुत्तये ॥ ४८ ॥
एतस्मिन् अन्तरे वाणी समुत्पन्ना शिवात् शुभा ॥ तपः पुनर् प्रकर्त्तव्यम् संशयस्य अपनुत्तये ॥ ४८ ॥
etasmin antare vāṇī samutpannā śivāt śubhā .. tapaḥ punar prakarttavyam saṃśayasya apanuttaye .. 48 ..
ततस्तेन च तच्छ्रुत्वा तपस्तप्तं सुदारुणम् ॥ बहुकालं तदा ब्रह्मध्यानमार्गपरेण हि ॥ ४९ ॥
ततस् तेन च तत् श्रुत्वा तपः तप्तम् सु दारुणम् ॥ बहुकालम् तदा ब्रह्म-ध्यान-मार्ग-परेण हि ॥ ४९ ॥
tatas tena ca tat śrutvā tapaḥ taptam su dāruṇam .. bahukālam tadā brahma-dhyāna-mārga-pareṇa hi .. 49 ..
ततस्स पुरुषो विष्णुः प्रबुद्धो ध्यानमार्गतः ॥ सुप्रीतो विस्मयं प्राप्तः किं यत्तव महा इति ॥ 2.1.6.५० ॥
ततस् स पुरुषः विष्णुः प्रबुद्धः ध्यान-मार्गतः ॥ सु प्रीतः विस्मयम् प्राप्तः किम् यत् तव महा इति ॥ २।१।६।५० ॥
tatas sa puruṣaḥ viṣṇuḥ prabuddhaḥ dhyāna-mārgataḥ .. su prītaḥ vismayam prāptaḥ kim yat tava mahā iti .. 2.1.6.50 ..
परिश्रमवतस्तस्य विष्णोः स्वाङ्गेभ्य एव च ॥ जलधारा हि संयाता विविधाश्शिवमायया ॥ ५१॥
परिश्रमवतः तस्य विष्णोः स्व-अङ्गेभ्यः एव च ॥ जल-धाराः हि संयाताः विविधाः शिव-मायया ॥ ५१॥
pariśramavataḥ tasya viṣṇoḥ sva-aṅgebhyaḥ eva ca .. jala-dhārāḥ hi saṃyātāḥ vividhāḥ śiva-māyayā .. 51..
अभिव्याप्तं च सकलं शून्यं यत्तन्महामुने ॥ ब्रह्मरूपं जलमभूत्स्पर्शनात्पापनाशनम् ॥ ५२ ॥
अभिव्याप्तम् च सकलम् शून्यम् यत् तत् महा-मुने ॥ ब्रह्म-रूपम् जलम् अभूत् स्पर्शनात् पाप-नाशनम् ॥ ५२ ॥
abhivyāptam ca sakalam śūnyam yat tat mahā-mune .. brahma-rūpam jalam abhūt sparśanāt pāpa-nāśanam .. 52 ..
तदा श्रांतश्च पुरुषो विष्णुस्तस्मिञ्जले स्वयम् ॥ सुष्वाप परम प्रीतो बहुकालं विमोहितः ॥ ५३ ॥
तदा श्रांतः च पुरुषः विष्णुः तस्मिन् जले स्वयम् ॥ सुष्वाप परम प्रीतः बहु-कालम् विमोहितः ॥ ५३ ॥
tadā śrāṃtaḥ ca puruṣaḥ viṣṇuḥ tasmin jale svayam .. suṣvāpa parama prītaḥ bahu-kālam vimohitaḥ .. 53 ..
नारायणेति नामापि तस्यसीच्छ्रुतिसंमतम् ॥ नान्यत्किंचित्तदा ह्यासीत्प्राकृतं पुरुषं विना॥ ५४॥
नारायण-इति नाम अपि तस्य असीत् श्रुति-संमतम् ॥ न अन्यत् किंचिद् तदा हि आसीत् प्राकृतम् पुरुषम् विना॥ ५४॥
nārāyaṇa-iti nāma api tasya asīt śruti-saṃmatam .. na anyat kiṃcid tadā hi āsīt prākṛtam puruṣam vinā.. 54..
एतस्मिन्नन्तरे काले तत्त्वान्यासन्महात्मनः ॥ तत्प्रकारं शृणु प्राज्ञ गदतो मे महामते ॥ ५५ ॥
एतस्मिन् अन्तरे काले तत्त्वानि आसन् महात्मनः ॥ तद्-प्रकारम् शृणु प्राज्ञ गदतः मे महामते ॥ ५५ ॥
etasmin antare kāle tattvāni āsan mahātmanaḥ .. tad-prakāram śṛṇu prājña gadataḥ me mahāmate .. 55 ..
प्रकृतेश्च महानासीन्महतश्च गुणास्त्रयः ॥ अहंकारस्ततो जातस्त्रिविधो गुणभेदतः ॥ ५६ ॥
प्रकृतेः च महान् आसीत् महतः च गुणाः त्रयः ॥ अहंकारः ततस् जातः त्रिविधः गुण-भेदतः ॥ ५६ ॥
prakṛteḥ ca mahān āsīt mahataḥ ca guṇāḥ trayaḥ .. ahaṃkāraḥ tatas jātaḥ trividhaḥ guṇa-bhedataḥ .. 56 ..
तन्मात्राश्च ततो जातः पञ्चभूतानि वै तता ॥ तदैव तानीन्द्रियाणि ज्ञानकर्ममयानि च ॥ २७॥
तन्मात्राः च ततस् जातः पञ्चभूतानि वै ॥ तदा एव तानि इन्द्रियाणि ज्ञान-कर्म-मयानि च ॥ २७॥
tanmātrāḥ ca tatas jātaḥ pañcabhūtāni vai .. tadā eva tāni indriyāṇi jñāna-karma-mayāni ca .. 27..
तत्त्वानामिति संख्यानमुक्तं ते ऋषिसत्तम ॥ जडात्मकञ्च तत्सर्वं प्रकृतेः पुरुषं विना ॥ ५८॥
तत्त्वानाम् इति संख्यानम् उक्तम् ते ऋषि-सत्तम ॥ जड-आत्मकञ्च तत् सर्वम् प्रकृतेः पुरुषम् विना ॥ ५८॥
tattvānām iti saṃkhyānam uktam te ṛṣi-sattama .. jaḍa-ātmakañca tat sarvam prakṛteḥ puruṣam vinā .. 58..
तत्तदैकीकृतं तत्त्वं चतुर्विंशतिसंख्यकम्॥ शिवेच्छया गृहीत्वा स सुष्वाप ब्रह्मरूपके ॥ ५९॥
तत् तत् ऐकीकृतम् तत्त्वम् चतुर्विंशति-संख्यकम्॥ शिव-इच्छया गृहीत्वा स सुष्वाप ब्रह्म-रूपके ॥ ५९॥
tat tat aikīkṛtam tattvam caturviṃśati-saṃkhyakam.. śiva-icchayā gṛhītvā sa suṣvāpa brahma-rūpake .. 59..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सृष्टिव्याख्यने प्रथमखंडे विष्णूत्पत्तिवर्णनो नाम षष्ठोऽध्यायः ॥ ६॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् सृष्टि-व्याख्यने प्रथम-खंडे विष्णूत्पत्तिवर्णनः नाम षष्ठः अध्यायः ॥ ६॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām sṛṣṭi-vyākhyane prathama-khaṃḍe viṣṇūtpattivarṇanaḥ nāma ṣaṣṭhaḥ adhyāyaḥ .. 6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In