| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
एवं तयोर्मुनिश्रेष्ठ दर्शनं कांक्षमाणयोः ॥ विगर्वयोश्च सुरयोः सदा नौ स्थितयोर्मुने ॥ १॥
एवम् तयोः मुनि-श्रेष्ठ दर्शनम् कांक्षमाणयोः ॥ विगर्वयोः च सुरयोः सदा नौ स्थितयोः मुने ॥ १॥
evam tayoḥ muni-śreṣṭha darśanam kāṃkṣamāṇayoḥ .. vigarvayoḥ ca surayoḥ sadā nau sthitayoḥ mune .. 1..
दयालुरभवच्छंभुर्दीनानां प्रतिपालकः ॥ गर्विणां गर्वहर्ता च सवेषां प्रभुरव्ययः ॥ २॥
दयालुः अभवत् शंभुः दीनानाम् प्रतिपालकः ॥ गर्विणाम् गर्व-हर्ता च सवेषाम् प्रभुः अव्ययः ॥ २॥
dayāluḥ abhavat śaṃbhuḥ dīnānām pratipālakaḥ .. garviṇām garva-hartā ca saveṣām prabhuḥ avyayaḥ .. 2..
तदा समभवत्तत्र नादो वै शब्दलक्षणः ॥ ओमोमिति सुरश्रेष्ठात्सुव्यक्तः प्लुतलक्षणः ॥ ३॥
तदा समभवत् तत्र नादः वै शब्द-लक्षणः ॥ ओम् ओम् इति सुरश्रेष्ठात् सु व्यक्तः प्लुत-लक्षणः ॥ ३॥
tadā samabhavat tatra nādaḥ vai śabda-lakṣaṇaḥ .. om om iti suraśreṣṭhāt su vyaktaḥ pluta-lakṣaṇaḥ .. 3..
किमिदं त्विति संचिंत्य मया तिष्ठन्महास्वनः ॥ विष्णुस्सर्वसुराराध्यो निर्वैरस्तुष्टचेतसा ॥ ४ ॥
किम् इदम् तु इति संचिंत्य मया तिष्ठत्-महा-स्वनः ॥ विष्णुः सर्व-सुर-आराध्यः निर्वैरः तुष्ट-चेतसा ॥ ४ ॥
kim idam tu iti saṃciṃtya mayā tiṣṭhat-mahā-svanaḥ .. viṣṇuḥ sarva-sura-ārādhyaḥ nirvairaḥ tuṣṭa-cetasā .. 4 ..
लिंगस्य दक्षिणे भागे तथापश्यत्सनातनम् ॥ आद्यं वर्णमकाराख्यमुकारं चोत्तरं ततः ॥ ५ ॥
लिंगस्य दक्षिणे भागे तथा अपश्यत् सनातनम् ॥ आद्यम् वर्ण-मकार-आख्यम् उकारम् च उत्तरम् ततस् ॥ ५ ॥
liṃgasya dakṣiṇe bhāge tathā apaśyat sanātanam .. ādyam varṇa-makāra-ākhyam ukāram ca uttaram tatas .. 5 ..
मकारं मध्यतश्चैव नादमंतेऽस्य चोमिति ॥ सूर्यमंडलवद्दृष्ट्वा वर्णमाद्यं तु दक्षिणे ॥ ६॥
मकारम् मध्यतस् च एव नादम् अंते अस्य च ऊम् इति ॥ सूर्य-मंडल-वत् दृष्ट्वा वर्णम् आद्यम् तु दक्षिणे ॥ ६॥
makāram madhyatas ca eva nādam aṃte asya ca ūm iti .. sūrya-maṃḍala-vat dṛṣṭvā varṇam ādyam tu dakṣiṇe .. 6..
उत्तरे पावकप्रख्यमुकारमृषि सत्तम ॥ शीतांशुमण्डलप्रख्यं मकारं तस्य मध्यतः ॥ ७॥
उत्तरे पावक-प्रख्यम् उकारम् ऋषि सत्तम ॥ शीतांशु-मण्डल-प्रख्यम् मकारम् तस्य मध्यतस् ॥ ७॥
uttare pāvaka-prakhyam ukāram ṛṣi sattama .. śītāṃśu-maṇḍala-prakhyam makāram tasya madhyatas .. 7..
तस्योपरि तदाऽपश्यच्छुद्धस्फटिकसुप्रभम् ॥ तुरीयातीतममलं निष्कलं निरुपद्रवम् ॥ ८ ॥
तस्य उपरि तदा अपश्यत् शुद्ध-स्फटिक-सु प्रभम् ॥ तुरीय-अतीतम् अमलम् निष्कलम् निरुपद्रवम् ॥ ८ ॥
tasya upari tadā apaśyat śuddha-sphaṭika-su prabham .. turīya-atītam amalam niṣkalam nirupadravam .. 8 ..
निर्द्वंद्वं केवलं शून्यं बाह्याभ्यंतरवर्जितम् ॥ स बाह्यभ्यंतरे चैव बाह्याभ्यंतरसंस्थितम् ॥ ९ ॥
निर्द्वंद्वम् केवलम् शून्यम् बाह्य-अभ्यंतर-वर्जितम् ॥ स बाहि-अभ्यंतरे च एव बाह्य-अभ्यंतर-संस्थितम् ॥ ९ ॥
nirdvaṃdvam kevalam śūnyam bāhya-abhyaṃtara-varjitam .. sa bāhi-abhyaṃtare ca eva bāhya-abhyaṃtara-saṃsthitam .. 9 ..
आदिमध्यांतरहितमानंदस्यापिकारणम् ॥ सत्यमानन्दममृतं परं ब्रह्मपरायणम् ॥ 2.1.8.१० ॥
आदि-मध्य-अंत-रहितम् आनंदस्य अपि कारणम् ॥ सत्यम् आनन्दम् अमृतम् परम् ब्रह्म-परायणम् ॥ २।१।८।१० ॥
ādi-madhya-aṃta-rahitam ānaṃdasya api kāraṇam .. satyam ānandam amṛtam param brahma-parāyaṇam .. 2.1.8.10 ..
कुत एवात्र संभूतः परीक्षावोऽग्निसंभवम् ॥ अधोगमिष्याम्यनलस्तंभस्यानुपमस्य च ॥ ११ ॥
कुतस् एव अत्र संभूतः परीक्षावः अग्नि-संभवम् ॥ अधस् गमिष्यामि अनल-स्तंभस्य अनुपमस्य च ॥ ११ ॥
kutas eva atra saṃbhūtaḥ parīkṣāvaḥ agni-saṃbhavam .. adhas gamiṣyāmi anala-staṃbhasya anupamasya ca .. 11 ..
वेदशब्दोभयावेशं विश्वात्मानं व्यचिंतयत् ॥ तदाऽभवदृषिस्तत्र ऋषेस्सारतमं स्मृतम् ॥ १२॥
वेद-शब्द-उभय-आवेशम् विश्वात्मानम् व्यचिंतयत् ॥ तदा अभवत् ऋषिः तत्र ऋषेः सारतमम् स्मृतम् ॥ १२॥
veda-śabda-ubhaya-āveśam viśvātmānam vyaciṃtayat .. tadā abhavat ṛṣiḥ tatra ṛṣeḥ sāratamam smṛtam .. 12..
तेनैव ऋषिणा विष्णुर्ज्ञातवान्परमेश्वरम् ॥ महादेवं परं ब्रह्म शब्दब्रह्मतनुं परम् ॥ १३॥
तेन एव ऋषिणा विष्णुः ज्ञातवान् परमेश्वरम् ॥ महादेवम् परम् ब्रह्म शब्दब्रह्म-तनुम् परम् ॥ १३॥
tena eva ṛṣiṇā viṣṇuḥ jñātavān parameśvaram .. mahādevam param brahma śabdabrahma-tanum param .. 13..
चिंतया रहितो रुद्रो वाचो यन्मनसा सह ॥ अप्राप्य तन्निवर्तंते वाच्यस्त्वेकाक्षरेण सः ॥ १४॥
चिंतया रहितः रुद्रः वाचः यद्-मनसा सह ॥ अ प्राप्य तत् निवर्तन्ते वाच्यः तु एक-अक्षरेण सः ॥ १४॥
ciṃtayā rahitaḥ rudraḥ vācaḥ yad-manasā saha .. a prāpya tat nivartante vācyaḥ tu eka-akṣareṇa saḥ .. 14..
एकाक्षरेण तद्वाक्यमृतं परमकारणम् ॥ सत्यमानन्दममृतं परं ब्रह्म परात्परम् ॥ १५ ॥
एक-अक्षरेण तत् वाक्य-मृतम् परम-कारणम् ॥ सत्यम् आनन्दम् अमृतम् परम् ब्रह्म परात्परम् ॥ १५ ॥
eka-akṣareṇa tat vākya-mṛtam parama-kāraṇam .. satyam ānandam amṛtam param brahma parātparam .. 15 ..
एकाक्षरादकाराख्याद्भगवान्बीजकोण्डजः ॥ एकाक्षरादुकाराख्याद्धरिः परमकारणम्॥ १६॥
एक-अक्षरात् अकार-आख्यात् भगवान् बीज-कोण्ड-जः ॥ एक-अक्षरात् उकार-आख्यात् हरिः परम-कारणम्॥ १६॥
eka-akṣarāt akāra-ākhyāt bhagavān bīja-koṇḍa-jaḥ .. eka-akṣarāt ukāra-ākhyāt hariḥ parama-kāraṇam.. 16..
एकाक्षरान्मकाराख्याद्भगवान्नीललोहितः ॥ सर्गकर्ता त्वकाराख्यो ह्युकाराख्यस्तु मोहकः ॥ १७॥
एक-अक्षरात् मकार-आख्यात् भगवान् नीललोहितः ॥ सर्ग-कर्ता तु अकार-आख्यः हि उकार-आख्यः तु मोहकः ॥ १७॥
eka-akṣarāt makāra-ākhyāt bhagavān nīlalohitaḥ .. sarga-kartā tu akāra-ākhyaḥ hi ukāra-ākhyaḥ tu mohakaḥ .. 17..
मकाराख्यस्तु यो नित्यमनुग्रहकरोऽभवत्॥ मकाराख्यो विभुर्बीजी ह्यकारो बीज उच्यते ॥ १८ ॥
मकार-आख्यः तु यः नित्यम् अनुग्रह-करः अभवत्॥ मकार-आख्यः विभुः बीजी हि अकारः बीजः उच्यते ॥ १८ ॥
makāra-ākhyaḥ tu yaḥ nityam anugraha-karaḥ abhavat.. makāra-ākhyaḥ vibhuḥ bījī hi akāraḥ bījaḥ ucyate .. 18 ..
उकाराख्यो हरिर्योनिः प्रधानपुरुषेश्वरः ॥ बीजी च बीजं तद्योनिर्नादाख्यश्च महेश्वरः ॥ १९ ॥
उकार-आख्यः हरिः योनिः प्रधान-पुरुष-ईश्वरः ॥ बीजी च बीजम् तद्-योनिः नाद-आख्यः च महेश्वरः ॥ १९ ॥
ukāra-ākhyaḥ hariḥ yoniḥ pradhāna-puruṣa-īśvaraḥ .. bījī ca bījam tad-yoniḥ nāda-ākhyaḥ ca maheśvaraḥ .. 19 ..
बीजी विभज्य चात्मानं स्वेच्छया तु व्यवस्थितः ॥ अस्य लिंगादभूद्बीजमकारो बीजिनः प्रभोः ॥ 2.1.8.२० ॥
बीजी विभज्य च आत्मानम् स्व-इच्छया तु व्यवस्थितः ॥ अस्य लिंगात् अभूत् बीजम् अकारः बीजिनः प्रभोः ॥ २।१।८।२० ॥
bījī vibhajya ca ātmānam sva-icchayā tu vyavasthitaḥ .. asya liṃgāt abhūt bījam akāraḥ bījinaḥ prabhoḥ .. 2.1.8.20 ..
उकारयोनौ निःक्षिप्तमवर्द्धत समंततः॥ सौवर्णमभवच्चांडमावेद्य तदलक्षणम् ॥ २१ ॥
उकार-योनौ निःक्षिप्तम् अवर्द्धत समंततः॥ सौवर्णम् अभवत् च अंडम् आवेद्य तत् अलक्षणम् ॥ २१ ॥
ukāra-yonau niḥkṣiptam avarddhata samaṃtataḥ.. sauvarṇam abhavat ca aṃḍam āvedya tat alakṣaṇam .. 21 ..
अनेकाब्दं तथा चाप्सु दिव्यमंडं व्यवस्थितम्॥ ततो वर्षसहस्रांते द्विधाकृतमजोद्भवम् ॥ २२॥
अनेक-अब्दम् तथा च अप्सु दिव्यम् अंडम् व्यवस्थितम्॥ ततस् वर्ष-सहस्र-अंते द्विधाकृतम् अज-उद्भवम् ॥ २२॥
aneka-abdam tathā ca apsu divyam aṃḍam vyavasthitam.. tatas varṣa-sahasra-aṃte dvidhākṛtam aja-udbhavam .. 22..
अंडमप्सु स्थितं साक्षाद्व्याघातेनेश्वरेण तु ॥ तथास्य सुशुभं हैमं कपालं चोर्द्ध्वसंस्थितम् ॥ २३॥
अंडम् अप्सु स्थितम् साक्षात् व्याघातेन ईश्वरेण तु ॥ तथा अस्य सु शुभम् हैमम् कपालम् च ऊर्द्ध्व-संस्थितम् ॥ २३॥
aṃḍam apsu sthitam sākṣāt vyāghātena īśvareṇa tu .. tathā asya su śubham haimam kapālam ca ūrddhva-saṃsthitam .. 23..
जज्ञे सा द्यौस्तदपरं पृथिवी पंचलक्षणा ॥ तस्मादंडाद्भवो जज्ञे ककाराख्यश्चतुर्मुखः ॥ २४॥
जज्ञे सा द्यौः तद्-अपरम् पृथिवी पंच-लक्षणा ॥ तस्मात् अंडात् भवः जज्ञे ककार-आख्यः चतुर्मुखः ॥ २४॥
jajñe sā dyauḥ tad-aparam pṛthivī paṃca-lakṣaṇā .. tasmāt aṃḍāt bhavaḥ jajñe kakāra-ākhyaḥ caturmukhaḥ .. 24..
स स्रष्टा सर्वलोकानां स एव त्रिविधः प्रभुः ॥ एवमोमोमिति प्रोक्तमित्याहुर्यजुषां वराः ॥ २५॥
स स्रष्टा सर्व-लोकानाम् सः एव त्रिविधः प्रभुः ॥ एवम् ओम् ओम् इति प्रोक्तम् इति आहुः यजुषाम् वराः ॥ २५॥
sa sraṣṭā sarva-lokānām saḥ eva trividhaḥ prabhuḥ .. evam om om iti proktam iti āhuḥ yajuṣām varāḥ .. 25..
यजुषां वचनं श्रुत्वा ऋचः समानि सादरम् ॥ एवमेव हरे ब्रह्मन्नित्याहुश्चावयोस्तदा ॥ २६॥
यजुषाम् वचनम् श्रुत्वा ऋचः समानि सादरम् ॥ एवम् एव हरे ब्रह्मन् इति आहुः च आवयोः तदा ॥ २६॥
yajuṣām vacanam śrutvā ṛcaḥ samāni sādaram .. evam eva hare brahman iti āhuḥ ca āvayoḥ tadā .. 26..
ततो विज्ञाय देवेशं यथावच्छक्तिसंभवैः ॥ मंत्रं महेश्वरं देवं तुष्टाव सुमहोदयम्॥ २७॥
ततस् विज्ञाय देवेशम् यथावत् शक्ति-संभवैः ॥ मंत्रम् महेश्वरम् देवम् तुष्टाव सु महा-उदयम्॥ २७॥
tatas vijñāya deveśam yathāvat śakti-saṃbhavaiḥ .. maṃtram maheśvaram devam tuṣṭāva su mahā-udayam.. 27..
एतस्मिन्नंतरेऽन्यच्च रूपमद्भुतसुन्दरम् ॥ ददर्श च मया सार्द्धं भगवान्विश्वपालकः ॥ २८ ॥
एतस्मिन् अन्तरे अन्यत् च रूपम् अद्भुत-सुन्दरम् ॥ ददर्श च मया सार्द्धम् भगवान् विश्व-पालकः ॥ २८ ॥
etasmin antare anyat ca rūpam adbhuta-sundaram .. dadarśa ca mayā sārddham bhagavān viśva-pālakaḥ .. 28 ..
पंचवक्त्रं दशभुजं गौरकर्पूरवन्मुने ॥ नानाकांति समायुक्तं नानाभूषणभूषितम् ॥ २९ ॥
पंचवक्त्रम् दश-भुजम् गौर-कर्पूर-वत् मुने ॥ नाना कान्ति समायुक्तम् नाना भूषण-भूषितम् ॥ २९ ॥
paṃcavaktram daśa-bhujam gaura-karpūra-vat mune .. nānā kānti samāyuktam nānā bhūṣaṇa-bhūṣitam .. 29 ..
महोदारं महावीर्यं महापुरुषलणम् ॥ तं दृष्ट्वा परमं रूपं कृतार्थोऽभून्मया हरिः ॥ 2.1.8.३०॥
महा-उदारम् महा-वीर्यम् महा-पुरुष-लणम् ॥ तम् दृष्ट्वा परमम् रूपम् कृतार्थः अभूत् मया हरिः ॥ २।१।८।३०॥
mahā-udāram mahā-vīryam mahā-puruṣa-laṇam .. tam dṛṣṭvā paramam rūpam kṛtārthaḥ abhūt mayā hariḥ .. 2.1.8.30..
अथ प्रसन्नो भगवान्महेशः परमेश्वरः ॥ दिव्यं शब्दमयं रूपमाख्याय प्रहसन्स्थितः ॥ ३१ ॥
अथ प्रसन्नः भगवान् महेशः परमेश्वरः ॥ दिव्यम् शब्द-मयम् रूपम् आख्याय प्रहसन् स्थितः ॥ ३१ ॥
atha prasannaḥ bhagavān maheśaḥ parameśvaraḥ .. divyam śabda-mayam rūpam ākhyāya prahasan sthitaḥ .. 31 ..
अकारस्तस्य मूर्द्धा हि ललाटो दीर्घ उच्यते ॥ इकारो दक्षिणं नेत्रमीकारो वामलोचनम् ॥ ३२॥ ॥
अकारः तस्य मूर्द्धा हि ललाटः दीर्घः उच्यते ॥ इकारः दक्षिणम् नेत्रम् ईकारः वाम-लोचनम् ॥ ३२॥ ॥
akāraḥ tasya mūrddhā hi lalāṭaḥ dīrghaḥ ucyate .. ikāraḥ dakṣiṇam netram īkāraḥ vāma-locanam .. 32.. ..
उकारो दक्षिणं श्रोत्रमूकारो वाम उच्यते ॥ ऋकारो दक्षिणं तस्य कपोलं परमेष्ठिनः ॥ ३३॥
उकारः दक्षिणम् श्रोत्रम् ऊकारः वामः उच्यते ॥ ऋकारः दक्षिणम् तस्य कपोलम् परमेष्ठिनः ॥ ३३॥
ukāraḥ dakṣiṇam śrotram ūkāraḥ vāmaḥ ucyate .. ṛkāraḥ dakṣiṇam tasya kapolam parameṣṭhinaḥ .. 33..
वामं कपोलमूकारो लृ लॄ नासापुटे उभे॥ एकारश्चोष्ठ ऊर्द्ध्वश्च ह्यैकारस्त्वधरो विभोः ॥ ३४॥
वामम् कपोलम् ऊकारः नासापुटे उभे॥ एकारः च उष्ठः ऊर्द्ध्वः च हि ऐकारः तु अधरः विभोः ॥ ३४॥
vāmam kapolam ūkāraḥ nāsāpuṭe ubhe.. ekāraḥ ca uṣṭhaḥ ūrddhvaḥ ca hi aikāraḥ tu adharaḥ vibhoḥ .. 34..
ओकारश्च तथौकारो दन्तपंक्तिद्वयं क्रमात् ॥ अमस्तु तालुनी तस्य देवदेवस्य शूलिनः ॥ ३५॥
ओकारः च तथा औकारः दन्त-पंक्ति-द्वयम् क्रमात् ॥ अमस्तु-तालुनी तस्य देवदेवस्य शूलिनः ॥ ३५॥
okāraḥ ca tathā aukāraḥ danta-paṃkti-dvayam kramāt .. amastu-tālunī tasya devadevasya śūlinaḥ .. 35..
कादिपंचाक्षराण्यस्य पञ्च हस्ताश्च दक्षिणे ॥ चादिपंचाक्षराण्येवं पंच हस्तास्तु वामतः ॥ ३६ ॥
कादि-पंच-अक्षराणि अस्य पञ्च हस्ताः च दक्षिणे ॥ च-आदि-पंच-अक्षराणि एवम् पंच हस्ताः तु वामतस् ॥ ३६ ॥
kādi-paṃca-akṣarāṇi asya pañca hastāḥ ca dakṣiṇe .. ca-ādi-paṃca-akṣarāṇi evam paṃca hastāḥ tu vāmatas .. 36 ..
टादिपंचाक्षरं पादास्तादिपंचाक्षरं तथा ॥ पकार उदरं तस्य फकारः पार्श्व उच्यते ॥ ३७॥
टादि-पंच-अक्षरम् पादाः त-आदि-पंच-अक्षरम् तथा ॥ पकारः उदरम् तस्य फकारः पार्श्वः उच्यते ॥ ३७॥
ṭādi-paṃca-akṣaram pādāḥ ta-ādi-paṃca-akṣaram tathā .. pakāraḥ udaram tasya phakāraḥ pārśvaḥ ucyate .. 37..
बकारो वामपार्श्वस्तु भकारः स्कंध उच्यते ॥ मकारो हृदयं शंभोर्महादेवस्य योगिनः ॥ ३८॥
बकारः वाम-पार्श्वः तु भकारः स्कंधः उच्यते ॥ मकारः हृदयम् शंभोः महादेवस्य योगिनः ॥ ३८॥
bakāraḥ vāma-pārśvaḥ tu bhakāraḥ skaṃdhaḥ ucyate .. makāraḥ hṛdayam śaṃbhoḥ mahādevasya yoginaḥ .. 38..
यकारादिसकारान्ता विभोर्वै सप्तधातवः ॥ हकारो नाभिरूपो हि क्षकारो घ्राण उच्यते ॥ ३९॥
यकार-आदि-सकार-अन्ताः विभोः वै सप्त-धातवः ॥ हकारः नाभि-रूपः हि क्षकारः घ्राणः उच्यते ॥ ३९॥
yakāra-ādi-sakāra-antāḥ vibhoḥ vai sapta-dhātavaḥ .. hakāraḥ nābhi-rūpaḥ hi kṣakāraḥ ghrāṇaḥ ucyate .. 39..
एवं शब्दमयं रूपमगुणस्य गुणात्मनः॥ दृष्ट्वा तमुमया सार्द्धं कृतार्थोऽभून्मया हरिः ॥ 2.1.8.४०॥
एवम् शब्द-मयम् रूपम् अगुणस्य गुण-आत्मनः॥ दृष्ट्वा तम् उमया सार्द्धम् कृतार्थः अभूत् मया हरिः ॥ २।१।८।४०॥
evam śabda-mayam rūpam aguṇasya guṇa-ātmanaḥ.. dṛṣṭvā tam umayā sārddham kṛtārthaḥ abhūt mayā hariḥ .. 2.1.8.40..
एवं दृष्ट्वा महेशानं शब्दब्रह्मतनुं शिवम् ॥ प्रणम्य च मया विष्णुः पुनश्चापश्यदूर्द्ध्वतः॥ ४१॥
एवम् दृष्ट्वा महेशानम् शब्दब्रह्म-तनुम् शिवम् ॥ प्रणम्य च मया विष्णुः पुनर् च अपश्यत् ऊर्द्ध्वतस्॥ ४१॥
evam dṛṣṭvā maheśānam śabdabrahma-tanum śivam .. praṇamya ca mayā viṣṇuḥ punar ca apaśyat ūrddhvatas.. 41..
ॐकारप्रभवं मंत्रं कलापंचकसंयुतम् ॥ शुद्धस्फटिकसंकाशं शुभाष्टत्रिंशदक्षरम् ॥ ४२ ॥
ओंकार-प्रभवम् मंत्रम् कला-पंचक-संयुतम् ॥ शुद्ध-स्फटिक-संकाशम् शुभ-अष्टत्रिंशत्-अक्षरम् ॥ ४२ ॥
oṃkāra-prabhavam maṃtram kalā-paṃcaka-saṃyutam .. śuddha-sphaṭika-saṃkāśam śubha-aṣṭatriṃśat-akṣaram .. 42 ..
मेधाकारमभूद्भूयस्सर्वधर्मार्थसाधकम् ॥ गायत्रीप्रभवं मंत्रं सहितं वश्यकारकम् ॥ ४३ ॥
मेधा-कारम् अभूत् भूयस् सर्व-धर्म-अर्थ-साधकम् ॥ ॥ ४३ ॥
medhā-kāram abhūt bhūyas sarva-dharma-artha-sādhakam .. .. 43 ..
चतुर्विंशतिवर्णाढ्यं चतुष्कालमनुत्तमम् ॥ अथ पंचसितं मंत्रं कलाष्टक समायुतम् ॥ ४४ ॥
चतुर्विंशति-वर्ण-आढ्यम् चतुष्कालम् अनुत्तमम् ॥ अथ पंच-सितम् मंत्रम् कला-अष्टक-समायुतम् ॥ ४४ ॥
caturviṃśati-varṇa-āḍhyam catuṣkālam anuttamam .. atha paṃca-sitam maṃtram kalā-aṣṭaka-samāyutam .. 44 ..
आभिचारिकमत्यर्थं प्रायस्त्रिंशच्छुभाक्षरम् ॥ यजुर्वेदसमायुक्तं पञ्चविंशच्छुभाक्षरम् ॥ ४५॥
आभिचारिकम् अत्यर्थम् प्रायस्त्रिंशत्-शुभ-अक्षरम् ॥ यजुर्वेद-समायुक्तम् पञ्चविंशत्-शुभ-अक्षरम् ॥ ४५॥
ābhicārikam atyartham prāyastriṃśat-śubha-akṣaram .. yajurveda-samāyuktam pañcaviṃśat-śubha-akṣaram .. 45..
कलाष्टकसमा युक्तं सुश्वेतं शांतिकं तथा ॥ त्रयोदशकलायुक्तं बालाद्यैस्सह लोहितम् ॥ ४६ ॥
कला-अष्टक-समा युक्तम् सु श्वेतम् शांतिकम् तथा ॥ त्रयोदश-कला-युक्तम् बाल-आद्यैः सह लोहितम् ॥ ४६ ॥
kalā-aṣṭaka-samā yuktam su śvetam śāṃtikam tathā .. trayodaśa-kalā-yuktam bāla-ādyaiḥ saha lohitam .. 46 ..
बभूवुरस्य चोत्पत्तिवृद्धिसंहारकारणम् ॥ वर्णा एकाधिकाः षष्टिरस्य मंत्रवरस्य तु ॥ ४७ ॥
बभूवुः अस्य च उत्पत्ति-वृद्धि-संहार-कारणम् ॥ वर्णाः एक-अधिकाः षष्टिः अस्य मंत्र-वरस्य तु ॥ ४७ ॥
babhūvuḥ asya ca utpatti-vṛddhi-saṃhāra-kāraṇam .. varṇāḥ eka-adhikāḥ ṣaṣṭiḥ asya maṃtra-varasya tu .. 47 ..
पुनर्मृत्युंजयं मन्त्रं पञ्चाक्षरमतः परम् ॥ चिंतामणिं तथा मंत्रं दक्षिणामूर्ति संज्ञकम् ॥ ४८ ॥
पुनर् मृत्युंजयम् मन्त्रम् पञ्चाक्षरम् अतस् परम् ॥ चिंतामणिम् तथा मंत्रम् दक्षिणामूर्ति-संज्ञकम् ॥ ४८ ॥
punar mṛtyuṃjayam mantram pañcākṣaram atas param .. ciṃtāmaṇim tathā maṃtram dakṣiṇāmūrti-saṃjñakam .. 48 ..
ततस्तत्त्वमसीत्युक्तं महावाक्यं हरस्य च ॥ पञ्चमंत्रांस्तथा लब्ध्वा जजाप भगवान्हरिः ॥ ४९ ॥
ततस् तत् त्वम् असि इति उक्तम् महा-वाक्यम् हरस्य च ॥ पञ्च-मंत्रान् तथा लब्ध्वा जजाप भगवान् हरिः ॥ ४९ ॥
tatas tat tvam asi iti uktam mahā-vākyam harasya ca .. pañca-maṃtrān tathā labdhvā jajāpa bhagavān hariḥ .. 49 ..
अथ दृष्ट्वा कलावर्णमृग्यजुस्सामरूपिणम् ॥ ईशानमीशमुकुटं पुरुषाख्यं पुरातनम् ॥ 2.1.8.५० ॥
अथ दृष्ट्वा कला-वर्णम् ऋक्-यजुः-साम-रूपिणम् ॥ ईशानम् ईश-मुकुटम् पुरुष-आख्यम् पुरातनम् ॥ २।१।८।५० ॥
atha dṛṣṭvā kalā-varṇam ṛk-yajuḥ-sāma-rūpiṇam .. īśānam īśa-mukuṭam puruṣa-ākhyam purātanam .. 2.1.8.50 ..
अघोरहृदयं हृद्यं सर्वगुह्यं सदाशिवम् ॥ वामपादं महादेवं महाभोगीन्द्रभूषणम् ॥ ५१ ॥
अघोर-हृदयम् हृद्यम् सर्व-गुह्यम् सदाशिवम् ॥ वाम-पादम् महादेवम् महा-भोगि-इन्द्र-भूषणम् ॥ ५१ ॥
aghora-hṛdayam hṛdyam sarva-guhyam sadāśivam .. vāma-pādam mahādevam mahā-bhogi-indra-bhūṣaṇam .. 51 ..
विश्वतः पादवन्तं तं विश्वतोक्षिकरं शिवम् ॥ ब्रह्मणोऽधिपति सर्गस्थितिसंहारकारणम् ॥ ५२ ॥
विश्वतस् पादवन्तम् तम् विश्वतस् उक्षि-करम् शिवम् ॥ ब्रह्मणः अधिपति सर्ग-स्थिति-संहार-कारणम् ॥ ५२ ॥
viśvatas pādavantam tam viśvatas ukṣi-karam śivam .. brahmaṇaḥ adhipati sarga-sthiti-saṃhāra-kāraṇam .. 52 ..
तुष्टाव वाग्भिरिष्टाभिस्साम्बं वरदमीश्वरम् ॥ मया च सहितो विष्णुर्भगवांस्तुष्टचेतसा ॥ ५३ ॥
तुष्टाव वाग्भिः इष्टाभिः स अम्बम् वर-दम् ईश्वरम् ॥ मया च सहितः विष्णुः भगवान् तुष्ट-चेतसा ॥ ५३ ॥
tuṣṭāva vāgbhiḥ iṣṭābhiḥ sa ambam vara-dam īśvaram .. mayā ca sahitaḥ viṣṇuḥ bhagavān tuṣṭa-cetasā .. 53 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शब्दब्रह्मतनुवर्णनो नामाष्टमोऽध्यायः ॥ ८ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् प्रथम-खण्डे सृष्ट्युपाख्याने शब्दब्रह्मतनुवर्णनः नाम अष्टमः अध्यायः ॥ ८ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām prathama-khaṇḍe sṛṣṭyupākhyāne śabdabrahmatanuvarṇanaḥ nāma aṣṭamaḥ adhyāyaḥ .. 8 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In