| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
अथाकर्ण्य नुर्तिविष्णुकृतां स्वस्य महेश्वरः ॥ प्रादुर्बभूव सुप्रीतस्सवामं करुणानिधिः ॥ १ ॥
अथ आकर्ण्य नुर्ति-विष्णु-कृताम् स्वस्य महेश्वरः ॥ प्रादुर्बभूव सु प्रीतः स वामम् करुणा-निधिः ॥ १ ॥
atha ākarṇya nurti-viṣṇu-kṛtām svasya maheśvaraḥ .. prādurbabhūva su prītaḥ sa vāmam karuṇā-nidhiḥ .. 1 ..
पंचवक्त्रस्त्रिनयनो भालचन्द्रो जटाधरः ॥ गौरवर्णो विशालाक्षो भस्मोद्धूलितविग्रहः ॥ २ ॥
पंचवक्त्रः त्रिनयनः भालचन्द्रः जटाधरः ॥ ॥ २ ॥
paṃcavaktraḥ trinayanaḥ bhālacandraḥ jaṭādharaḥ .. .. 2 ..
दशबाहुर्नीलगल सर्वाभरणभूषितः ॥ सर्वांगसुन्दरो भस्मत्रिपुण्ड्रांकितमस्तकः ॥ ३ ॥
दश-बाहुः नीलगल सर्व-आभरण-भूषितः ॥ ॥ ३ ॥
daśa-bāhuḥ nīlagala sarva-ābharaṇa-bhūṣitaḥ .. .. 3 ..
तं दृष्ट्वा तादृशं देवं सवामं परमेश्वरम् ॥ तुष्टाव पुनरिष्टाभिर्वाग्भिर्विष्णुर्मया सह ॥ ४ ॥
तम् दृष्ट्वा तादृशम् देवम् स वामम् परमेश्वरम् ॥ तुष्टाव पुनर् इष्टाभिः वाग्भिः विष्णुः मया सह ॥ ४ ॥
tam dṛṣṭvā tādṛśam devam sa vāmam parameśvaram .. tuṣṭāva punar iṣṭābhiḥ vāgbhiḥ viṣṇuḥ mayā saha .. 4 ..
निगमं श्वासरूपेण ददौ तस्मै ततो हरः ॥ विष्णवे च प्रसन्नात्मा महेशः करुणाकरः ॥ ५ ॥
निगमम् श्वास-रूपेण ददौ तस्मै ततस् हरः ॥ विष्णवे च प्रसन्न-आत्मा महेशः करुणाकरः ॥ ५ ॥
nigamam śvāsa-rūpeṇa dadau tasmai tatas haraḥ .. viṣṇave ca prasanna-ātmā maheśaḥ karuṇākaraḥ .. 5 ..
ततो ज्ञानमदात्तस्मै हरये परमात्मने ॥ परमात्मा पुनर्मह्यं दत्तवान्कृपया मुने ॥ ६ ॥
ततस् ज्ञानम् अदात् तस्मै हरये परमात्मने ॥ परमात्मा पुनर् मह्यम् दत्तवान् कृपया मुने ॥ ६ ॥
tatas jñānam adāt tasmai haraye paramātmane .. paramātmā punar mahyam dattavān kṛpayā mune .. 6 ..
संप्राप्य निगमं विष्णुः पप्रच्छ पुनरेव तम् ॥ कृतार्थस्सांजलिर्नत्वा मया सह महेश्वरम् ॥ ७ ॥
संप्राप्य निगमम् विष्णुः पप्रच्छ पुनर् एव तम् ॥ कृतार्थः स अंजलिः नत्वा मया सह महेश्वरम् ॥ ७ ॥
saṃprāpya nigamam viṣṇuḥ papraccha punar eva tam .. kṛtārthaḥ sa aṃjaliḥ natvā mayā saha maheśvaram .. 7 ..
कथं च तुष्यसे देव मया पूज्यः कथं प्रभो ।कथं ध्यानं प्रकर्तव्यं कथं व्रजसि वश्यताम् ॥ ८ ॥
कथम् च तुष्यसे देव मया पूज्यः कथम् प्रभो ।कथम् ध्यानम् प्रकर्तव्यम् कथम् व्रजसि वश्य-ताम् ॥ ८ ॥
katham ca tuṣyase deva mayā pūjyaḥ katham prabho .katham dhyānam prakartavyam katham vrajasi vaśya-tām .. 8 ..
किं कर्तव्यं महादेव ह्यावाभ्यां तव शासनात् ॥ सदासदाज्ञापय नौ प्रीत्यर्थं कुरु शंकर ॥ ९ ॥
किम् कर्तव्यम् महादेव हि आवाभ्याम् तव शासनात् ॥ सदा असत् आज्ञापय नौ प्रीति-अर्थम् कुरु शंकर ॥ ९ ॥
kim kartavyam mahādeva hi āvābhyām tava śāsanāt .. sadā asat ājñāpaya nau prīti-artham kuru śaṃkara .. 9 ..
एतत्सर्वं महाराज कृपां कृत्वाऽवयोः प्रभो ॥ कथनीयं तथान्यच्च विज्ञाय स्वानुगौ शिव ॥ 2.1.9.१० ॥
एतत् सर्वम् महा-राज कृपाम् कृत्वा अवयोः प्रभो ॥ कथनीयम् तथा अन्यत् च विज्ञाय स्व-अनुगौ शिव ॥ २।१।९।१० ॥
etat sarvam mahā-rāja kṛpām kṛtvā avayoḥ prabho .. kathanīyam tathā anyat ca vijñāya sva-anugau śiva .. 2.1.9.10 ..
ब्रह्मोवाच।।
इत्येतद्वचनं श्रुत्वा प्रसन्नो भगवान्हरः ॥ उवाच वचनं प्रीत्या सुप्रसन्नः कृपानिधिः ॥ ११ ॥
इति एतत् वचनम् श्रुत्वा प्रसन्नः भगवान् हरः ॥ उवाच वचनम् प्रीत्या सु प्रसन्नः कृपा-निधिः ॥ ११ ॥
iti etat vacanam śrutvā prasannaḥ bhagavān haraḥ .. uvāca vacanam prītyā su prasannaḥ kṛpā-nidhiḥ .. 11 ..
श्रीशिव उवाच ।।
भक्त्या च भवतोर्नूनं प्रीतोहं सुरसत्तमौ ॥ पश्यतं मां महादेवं भयं सर्वं विमुंचताम् ॥ १२ ॥
भक्त्या च भवतोः नूनम् प्रीतः हम् सुर-सत्तमौ ॥ पश्यतम् माम् महादेवम् भयम् सर्वम् विमुंचताम् ॥ १२ ॥
bhaktyā ca bhavatoḥ nūnam prītaḥ ham sura-sattamau .. paśyatam mām mahādevam bhayam sarvam vimuṃcatām .. 12 ..
मम लिंगं सदा पूज्य ध्येयं चैतादृशं मम ॥ इदानीं दृश्यते यद्वत्तथा कार्यं प्रयत्नतः ॥ १३ ॥
मम लिंगम् सदा पूज्य ध्येयम् च एतादृशम् मम ॥ इदानीम् दृश्यते यद्वत् तथा कार्यम् प्रयत्नतः ॥ १३ ॥
mama liṃgam sadā pūjya dhyeyam ca etādṛśam mama .. idānīm dṛśyate yadvat tathā kāryam prayatnataḥ .. 13 ..
पूजितो लिंगरूपेण प्रसन्नो विविधं फलम् ॥ दास्यामि सर्वलोकेभ्यो मनोभीष्टान्यनेकशः ॥ १४ ॥
पूजितः लिंग-रूपेण प्रसन्नः विविधम् फलम् ॥ दास्यामि सर्व-लोकेभ्यः मनः-भीष्टानि अनेकशस् ॥ १४ ॥
pūjitaḥ liṃga-rūpeṇa prasannaḥ vividham phalam .. dāsyāmi sarva-lokebhyaḥ manaḥ-bhīṣṭāni anekaśas .. 14 ..
यदा दुःखं भवेत्तत्र युवयोस्सुरसत्तमौ ॥ पूजिते मम लिंगे च तदा स्याद्दुःखनाशनम् ॥ १५ ॥
यदा दुःखम् भवेत् तत्र युवयोः सुर-सत्तमौ ॥ पूजिते मम लिंगे च तदा स्यात् दुःख-नाशनम् ॥ १५ ॥
yadā duḥkham bhavet tatra yuvayoḥ sura-sattamau .. pūjite mama liṃge ca tadā syāt duḥkha-nāśanam .. 15 ..
युवां प्रसूतौ प्रकृतेर्मदीयाया महाबलौ ॥ गात्राभ्यां सव्यसव्याभ्यां मम सर्वेश्वरस्य हि ॥ १६ ॥
युवाम् प्रसूतौ प्रकृतेः मदीयायाः महा-बलौ ॥ गात्राभ्याम् सव्य-सव्याभ्याम् मम सर्व-ईश्वरस्य हि ॥ १६ ॥
yuvām prasūtau prakṛteḥ madīyāyāḥ mahā-balau .. gātrābhyām savya-savyābhyām mama sarva-īśvarasya hi .. 16 ..
अयं मे दक्षिणात्पार्श्वाद्ब्रह्मा लोकपितामहः ॥ वामपार्श्वाच्च विष्णुस्त्वं समुत्पन्नः परात्मनः ॥ १७ ॥
अयम् मे दक्षिणात् पार्श्वात् ब्रह्मा लोकपितामहः ॥ वाम-पार्श्वात् च विष्णुः त्वम् समुत्पन्नः परात्मनः ॥ १७ ॥
ayam me dakṣiṇāt pārśvāt brahmā lokapitāmahaḥ .. vāma-pārśvāt ca viṣṇuḥ tvam samutpannaḥ parātmanaḥ .. 17 ..
प्रीतोहं युवयोस्सम्यग्वरं दद्यां यथेप्सितम् ॥ मयि भक्तिर्दृढा भूयाद्युवयोरभ्यनुज्ञया ॥ १८ ॥
प्रीतः अहम् युवयोः सम्यक् वरम् दद्याम् यथा ईप्सितम् ॥ मयि भक्तिः दृढा भूयात् युवयोः अभ्यनुज्ञया ॥ १८ ॥
prītaḥ aham yuvayoḥ samyak varam dadyām yathā īpsitam .. mayi bhaktiḥ dṛḍhā bhūyāt yuvayoḥ abhyanujñayā .. 18 ..
पार्थिवीं चैव मन्मूर्तिं विधाय कुरुतं युवाम् ॥ सेवां च विविधां प्राज्ञौ कृत्वा सुखमवाप्स्यथ ॥ १९ ॥
पार्थिवीम् च एव मद्-मूर्तिम् विधाय कुरुतम् युवाम् ॥ सेवाम् च विविधाम् प्राज्ञौ कृत्वा सुखम् अवाप्स्यथ ॥ १९ ॥
pārthivīm ca eva mad-mūrtim vidhāya kurutam yuvām .. sevām ca vividhām prājñau kṛtvā sukham avāpsyatha .. 19 ..
ब्रह्मन्सृष्टिं कुरु त्वं हि मदाज्ञापरिपालकः ॥ वत्स वत्स हरे त्वं च पालयैवं चराचरम् ॥ 2.1.9.२० ॥
ब्रह्मन् सृष्टिम् कुरु त्वम् हि मद्-आज्ञा-परिपालकः ॥ वत्स वत्स हरे त्वम् च पालय एवम् चराचरम् ॥ २।१।९।२० ॥
brahman sṛṣṭim kuru tvam hi mad-ājñā-paripālakaḥ .. vatsa vatsa hare tvam ca pālaya evam carācaram .. 2.1.9.20 ..
ब्रह्मोवाच ।।
इत्युक्त्वा नौ प्रभुरताभ्यां पूजाविधिमदाच्छुभाम् ॥ येनैव पूजितश्शंभुः फलं यच्छत्यनेकशः ॥ २१ ॥
इति उक्त्वा नौ प्रभुः अताभ्याम् पूजा-विधिम् अदात् शुभाम् ॥ येन एव पूजितः शंभुः फलम् यच्छति अनेकशस् ॥ २१ ॥
iti uktvā nau prabhuḥ atābhyām pūjā-vidhim adāt śubhām .. yena eva pūjitaḥ śaṃbhuḥ phalam yacchati anekaśas .. 21 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचश्शंभोर्मया च सहितो हरिः ॥ प्रत्युवाच महेशानं प्रणिपत्य कृतांजलिः ॥ २२ ॥
इति आकर्ण्य वचः शंभोः मया च सहितः हरिः ॥ प्रत्युवाच महेशानम् प्रणिपत्य कृतांजलिः ॥ २२ ॥
iti ākarṇya vacaḥ śaṃbhoḥ mayā ca sahitaḥ hariḥ .. pratyuvāca maheśānam praṇipatya kṛtāṃjaliḥ .. 22 ..
विष्णुरुवाच ।।
यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च नौ ॥ भक्तिर्भवतु नौ नित्यं त्वयि चाव्यभिचारिणी ॥ २३ ॥
यदि प्रीतिः समुत्पन्ना यदि देयः वरः च नौ ॥ भक्तिः भवतु नौ नित्यम् त्वयि च अव्यभिचारिणी ॥ २३ ॥
yadi prītiḥ samutpannā yadi deyaḥ varaḥ ca nau .. bhaktiḥ bhavatu nau nityam tvayi ca avyabhicāriṇī .. 23 ..
त्वमप्यवतरस्वाद्य लीलया निर्गुणोपि हि ॥ सहायं कुरु नौ तात त्वं परः परमेश्वरः ॥ २४ ॥
त्वम् अपि अवतरस्व अद्य लीलया निर्गुणः अपि हि ॥ सहायम् कुरु नौ तात त्वम् परः परमेश्वरः ॥ २४ ॥
tvam api avatarasva adya līlayā nirguṇaḥ api hi .. sahāyam kuru nau tāta tvam paraḥ parameśvaraḥ .. 24 ..
आवयोर्देवदेवेश विवादमपि शोभनम् ॥ इहागतो भवान्यस्माद्विवादशमनाय नौ ॥ २५ ॥
आवयोः देवदेवेश विवादम् अपि शोभनम् ॥ इह आगतः भवान् यस्मात् विवाद-शमनाय नौ ॥ २५ ॥
āvayoḥ devadeveśa vivādam api śobhanam .. iha āgataḥ bhavān yasmāt vivāda-śamanāya nau .. 25 ..
ब्रह्मोवाच ।।
तस्य तद्वचनं श्रुत्वा पुनः प्राह हरो हरिम् ॥ प्रणिपत्य स्थितं मूर्ध्ना कृतांजलिपुटः स्वयम् ॥ २६॥
तस्य तत् वचनम् श्रुत्वा पुनर् प्राह हरः हरिम् ॥ प्रणिपत्य स्थितम् मूर्ध्ना कृत-अंजलि-पुटः स्वयम् ॥ २६॥
tasya tat vacanam śrutvā punar prāha haraḥ harim .. praṇipatya sthitam mūrdhnā kṛta-aṃjali-puṭaḥ svayam .. 26..
श्रीमहेश उवाच ।।
प्रलयस्थितिसर्गाणां कर्ताहं सगुणोऽगुणः ॥ परब्रह्म निर्विकारी सच्चिदानंदलक्षणः ॥ २७ ॥
प्रलय-स्थिति-सर्गाणाम् कर्ता अहम् स गुणः अगुणः ॥ पर-ब्रह्म निर्विकारी सच्चिदानंद-लक्षणः ॥ २७ ॥
pralaya-sthiti-sargāṇām kartā aham sa guṇaḥ aguṇaḥ .. para-brahma nirvikārī saccidānaṃda-lakṣaṇaḥ .. 27 ..
त्रिया भिन्नो ह्यहं विष्णो ब्रह्मविष्णुहराख्यया॥ सर्गरक्षालयगुणैर्निष्कलोहं सदा हरे ॥ २८॥
त्रिया भिन्नः हि अहम् विष्णो ब्रह्म-विष्णु-हर-आख्यया॥ सर्ग-रक्षा-लय-गुणैः निष्क-लोहम् सदा हरे ॥ २८॥
triyā bhinnaḥ hi aham viṣṇo brahma-viṣṇu-hara-ākhyayā.. sarga-rakṣā-laya-guṇaiḥ niṣka-loham sadā hare .. 28..
स्तुतोऽहं यत्त्वया विष्णो ब्रह्मणा मेऽवतारणे॥ प्रार्थनां तां करिष्यामि सत्यां यद्भक्तवत्सलः ॥ २९॥
स्तुतः अहम् यत् त्वया विष्णो ब्रह्मणा मे अवतारणे॥ प्रार्थनाम् ताम् करिष्यामि सत्याम् यत् भक्त-वत्सलः ॥ २९॥
stutaḥ aham yat tvayā viṣṇo brahmaṇā me avatāraṇe.. prārthanām tām kariṣyāmi satyām yat bhakta-vatsalaḥ .. 29..
मद्रूपं परमं ब्रह्मन्नीदृशं भवदंगतः ॥ प्रकटीभविता लोके नाम्ना रुद्रः प्रकीर्तितः ॥ 2.1.9.३०॥
मद्-रूपम् परमम् ब्रह्मन् ईदृशम् भवत्-अंगतः ॥ प्रकटीभविता लोके नाम्ना रुद्रः प्रकीर्तितः ॥ २।१।९।३०॥
mad-rūpam paramam brahman īdṛśam bhavat-aṃgataḥ .. prakaṭībhavitā loke nāmnā rudraḥ prakīrtitaḥ .. 2.1.9.30..
मदंशात्तस्य सामर्थ्यं न्यूनं नैव भविष्यति ॥ योहं सोहं न भेदोस्ति पूजाविधिविधानतः ॥ ३१॥
मद्-अंशात् तस्य सामर्थ्यम् न्यूनम् ना एव भविष्यति ॥ न भेदः अस्ति पूजा-विधि-विधानतः ॥ ३१॥
mad-aṃśāt tasya sāmarthyam nyūnam nā eva bhaviṣyati .. na bhedaḥ asti pūjā-vidhi-vidhānataḥ .. 31..
यथा च ज्योतिषस्संगाज्जलादेः स्पर्शता न वै ॥ तथा ममागुणस्यापि संयोगाद्बन्धनं न हि ॥ ३२ ॥
यथा च ज्योतिषः संगात् जल-आदेः स्पर्श-ता न वै ॥ तथा मम अगुणस्य अपि संयोगात् बन्धनम् न हि ॥ ३२ ॥
yathā ca jyotiṣaḥ saṃgāt jala-ādeḥ sparśa-tā na vai .. tathā mama aguṇasya api saṃyogāt bandhanam na hi .. 32 ..
शिवरूपं ममैतञ्च रुद्रोऽपि शिववत्तदा ॥ न तत्र परभेदो वै कर्तव्यश्च महामुने ॥ ३३ ॥
शिव-रूपम् मम एतत् च रुद्रः अपि शिव-वत् तदा ॥ न तत्र पर-भेदः वै कर्तव्यः च महा-मुने ॥ ३३ ॥
śiva-rūpam mama etat ca rudraḥ api śiva-vat tadā .. na tatra para-bhedaḥ vai kartavyaḥ ca mahā-mune .. 33 ..
वस्तुतो ह्येकरूपं हि द्विधा भिन्नं जगत्युत ॥ अतो न भेदा विज्ञेयः शिवे रुद्रे कदाचन ॥ ३४ ॥
वस्तुतस् हि एक-रूपम् हि द्विधा भिन्नम् जगती उत ॥ अतस् न भेदाः विज्ञेयः शिवे रुद्रे कदाचन ॥ ३४ ॥
vastutas hi eka-rūpam hi dvidhā bhinnam jagatī uta .. atas na bhedāḥ vijñeyaḥ śive rudre kadācana .. 34 ..
सुवर्णस्य तथैकस्य वस्तुत्वं नैव गच्छति ॥ अलंकृतिकृते देव नामभेदो न वस्तुतः ॥ ३५॥
सुवर्णस्य तथा एकस्य वस्तु-त्वम् ना एव गच्छति ॥ अलंकृति-कृते देव नाम-भेदः न वस्तुतः ॥ ३५॥
suvarṇasya tathā ekasya vastu-tvam nā eva gacchati .. alaṃkṛti-kṛte deva nāma-bhedaḥ na vastutaḥ .. 35..
तथैकस्या मृदो भेदो नानापात्रे न वस्तुतः॥ कारणस्यैव कार्ये च सन्निधानं निदर्शनम् ॥ ३६॥
तथा एकस्याः मृदः भेदः नाना पात्रे न वस्तुतः॥ कारणस्य एव कार्ये च सन्निधानम् निदर्शनम् ॥ ३६॥
tathā ekasyāḥ mṛdaḥ bhedaḥ nānā pātre na vastutaḥ.. kāraṇasya eva kārye ca sannidhānam nidarśanam .. 36..
ज्ञातव्यं बुधवर्यैश्च निर्मलज्ञानिभिः सुरौ ॥ एवं ज्ञात्वा भवभ्यां तु न दृश्यं भेदकार णम् ॥ ३७॥
ज्ञातव्यम् बुध-वर्यैः च निर्मल-ज्ञानिभिः सुरौ ॥ एवम् ज्ञात्वा भवभ्याम् तु न दृश्यम् भेद-कारणम् ॥ ३७॥
jñātavyam budha-varyaiḥ ca nirmala-jñānibhiḥ surau .. evam jñātvā bhavabhyām tu na dṛśyam bheda-kāraṇam .. 37..
वस्तुवत्सर्वदृश्यं च शिवरूपम्मतम्मम ॥ अहं भवानजश्चैव रुद्रो योऽयं भविष्यति॥ ३८॥
वस्तु-वत् सर्व-दृश्यम् च शिव-रूपम् मतम् मम ॥ अहम् भवान् अजः च एव रुद्रः यः अयम् भविष्यति॥ ३८॥
vastu-vat sarva-dṛśyam ca śiva-rūpam matam mama .. aham bhavān ajaḥ ca eva rudraḥ yaḥ ayam bhaviṣyati.. 38..
एकरूपा न भेदस्तु भेदे वै बंधनं भवेत् ॥ तथापि च मदीयं हि शिवरूपं सनातनम् ॥ ३९॥
एक-रूपाः न भेदः तु भेदे वै बंधनम् भवेत् ॥ तथा अपि च मदीयम् हि शिव-रूपम् सनातनम् ॥ ३९॥
eka-rūpāḥ na bhedaḥ tu bhede vai baṃdhanam bhavet .. tathā api ca madīyam hi śiva-rūpam sanātanam .. 39..
मूलीभूतं सदोक्तं च सत्यज्ञानमनंतकम्॥ एवं ज्ञात्वा सदा ध्येयं मनसा चैव तत्त्वतः ॥ 2.1.9.४० ॥
मूलीभूतम् सदा उक्तम् च सत्य-ज्ञानम् अनंतकम्॥ एवम् ज्ञात्वा सदा ध्येयम् मनसा च एव तत्त्वतः ॥ २।१।९।४० ॥
mūlībhūtam sadā uktam ca satya-jñānam anaṃtakam.. evam jñātvā sadā dhyeyam manasā ca eva tattvataḥ .. 2.1.9.40 ..
श्रूयतां चैव भो ब्रह्मन्यद्गोप्यं कथ्यते मया ॥ भवंतौ प्रकृतेर्यातौ नायं वै प्रकृतेः पुनः ॥ ४१॥
श्रूयताम् च एव भो ब्रह्मन् यत् गोप्यम् कथ्यते मया ॥ भवन्तौ प्रकृतेः यातौ न अयम् वै प्रकृतेः पुनर् ॥ ४१॥
śrūyatām ca eva bho brahman yat gopyam kathyate mayā .. bhavantau prakṛteḥ yātau na ayam vai prakṛteḥ punar .. 41..
मदाज्ञा जायते तत्र ब्रह्मणो भ्रुकुटेरहम्॥ गुणेष्वपि यथा प्रोक्तस्तामसः प्रकृतो हरः ॥ ४२॥
मद्-आज्ञा जायते तत्र ब्रह्मणः भ्रुकुटेः अहम्॥ गुणेषु अपि यथा प्रोक्तः तामसः प्रकृतः हरः ॥ ४२॥
mad-ājñā jāyate tatra brahmaṇaḥ bhrukuṭeḥ aham.. guṇeṣu api yathā proktaḥ tāmasaḥ prakṛtaḥ haraḥ .. 42..
वैकारिकश्च विज्ञेयो योऽहंकार उदाहृतः ॥ नामतो वस्तुतो नैव तामसः परिचक्ष्यते॥ ४३॥
वैकारिकः च विज्ञेयः यः अहंकारः उदाहृतः ॥ नामतः वस्तुतः ना एव तामसः परिचक्ष्यते॥ ४३॥
vaikārikaḥ ca vijñeyaḥ yaḥ ahaṃkāraḥ udāhṛtaḥ .. nāmataḥ vastutaḥ nā eva tāmasaḥ paricakṣyate.. 43..
एतस्मात्कारणाद्ब्रह्मन्करणीयमिदं त्वया ॥ सृष्टिकर्ता भव ब्रह्मन्सृष्टेश्च पालको हरिः ॥ ४४॥
एतस्मात् कारणात् ब्रह्मन् करणीयम् इदम् त्वया ॥ सृष्टि-कर्ता भव ब्रह्मन् सृष्टेः च पालकः हरिः ॥ ४४॥
etasmāt kāraṇāt brahman karaṇīyam idam tvayā .. sṛṣṭi-kartā bhava brahman sṛṣṭeḥ ca pālakaḥ hariḥ .. 44..
मदीयश्च तथांऽशो यो लयकर्ता भविष्यति ॥ इयं या प्रकृतिर्देवी ह्युमाख्या परमेश्वरी ॥ ४५॥
मदीयः च तथा अंशः यः लय-कर्ता भविष्यति ॥ इयम् या प्रकृतिः देवी हि उमा-आख्या परमेश्वरी ॥ ४५॥
madīyaḥ ca tathā aṃśaḥ yaḥ laya-kartā bhaviṣyati .. iyam yā prakṛtiḥ devī hi umā-ākhyā parameśvarī .. 45..
तस्यास्तु शक्तिर्वा देवी ब्रह्माणं सा भजिष्यति ॥ अन्या शक्तिः पुनस्तत्र प्रकृतेः संभविष्यति ॥ ४६॥
तस्याः तु शक्तिः वा देवी ब्रह्माणम् सा भजिष्यति ॥ अन्या शक्तिः पुनर् तत्र प्रकृतेः संभविष्यति ॥ ४६॥
tasyāḥ tu śaktiḥ vā devī brahmāṇam sā bhajiṣyati .. anyā śaktiḥ punar tatra prakṛteḥ saṃbhaviṣyati .. 46..
समाश्रयिष्यति विष्णुं लक्ष्मीरूपेण सा तदा॥ पुनश्च काली नाम्ना सा मदंशं प्राप्स्यति ध्रुवम् ॥ ४७॥
समाश्रयिष्यति विष्णुम् लक्ष्मी-रूपेण सा तदा॥ पुनर् च काली नाम्ना सा मद्-अंशम् प्राप्स्यति ध्रुवम् ॥ ४७॥
samāśrayiṣyati viṣṇum lakṣmī-rūpeṇa sā tadā.. punar ca kālī nāmnā sā mad-aṃśam prāpsyati dhruvam .. 47..
ज्योती रूपेण सा तत्र कार्यार्थे संभविष्यति ॥ एवं देव्यास्तथा प्रोक्ताश्शक्तयः परमाश्शुभाः ॥ ४८ ॥
ज्योतिः-रूपेण सा तत्र कार्य-अर्थे संभविष्यति ॥ एवम् देव्याः तथा प्रोक्ताः शक्तयः परमाः शुभाः ॥ ४८ ॥
jyotiḥ-rūpeṇa sā tatra kārya-arthe saṃbhaviṣyati .. evam devyāḥ tathā proktāḥ śaktayaḥ paramāḥ śubhāḥ .. 48 ..
सृष्टिस्थितिलयानां हि कार्यं तासां क्रमाद्ध्रुवम् ॥ एतस्याः प्रकृत्तेरंशा मत्प्रियायास्सुरौत्तम ॥ ४९॥
सृष्टि-स्थिति-लयानाम् हि कार्यम् तासाम् क्रमात् ध्रुवम् ॥ एतस्याः प्रकृत्तेः अंशाः मद्-प्रियायाः सुः औत्तम ॥ ४९॥
sṛṣṭi-sthiti-layānām hi kāryam tāsām kramāt dhruvam .. etasyāḥ prakṛtteḥ aṃśāḥ mad-priyāyāḥ suḥ auttama .. 49..
त्वं च लक्ष्मीमुपाश्रित्य कार्यं कर्तुमिहार्हसि ॥ ब्रह्मंस्त्वं च गिरां देवीं प्रकृत्यंशामवाप्य च ॥ 2.1.9.५० ॥
त्वम् च लक्ष्मीम् उपाश्रित्य कार्यम् कर्तुम् इह अर्हसि ॥ ब्रह्मन् त्वम् च गिराम् देवीम् प्रकृति-अंशाम् अवाप्य च ॥ २।१।९।५० ॥
tvam ca lakṣmīm upāśritya kāryam kartum iha arhasi .. brahman tvam ca girām devīm prakṛti-aṃśām avāpya ca .. 2.1.9.50 ..
सृष्टिकार्यं हृदा कर्तुम्मन्निदेशादिहार्हसि ॥ अहं कालीं समाश्रित्य मत्प्रियांशां परात्पराम् ॥ ५१ ॥
सृष्टि-कार्यम् हृदा कर्तुम् मन्निदेशात् इह अर्हसि ॥ अहम् कालीम् समाश्रित्य मद्-प्रिय-अंशाम् परात्पराम् ॥ ५१ ॥
sṛṣṭi-kāryam hṛdā kartum mannideśāt iha arhasi .. aham kālīm samāśritya mad-priya-aṃśām parātparām .. 51 ..
रुद्ररूपेण प्रलयं करिष्ये कार्यमुत्तमम् ॥ चतुर्वर्णमयं लोकं तत्सर्वैराश्रमै ध्रुवम् ॥ ५२ ॥
रुद्र-रूपेण प्रलयम् करिष्ये कार्यम् उत्तमम् ॥ चतुर्-वर्ण-मयम् लोकम् तत् सर्वैः आश्रमैः ध्रुवम् ॥ ५२ ॥
rudra-rūpeṇa pralayam kariṣye kāryam uttamam .. catur-varṇa-mayam lokam tat sarvaiḥ āśramaiḥ dhruvam .. 52 ..
तदन्यैर्विविधैः कार्यैः कृत्वा सुखमवाप्स्यथः॥ ज्ञानविज्ञानसंयुक्तो लोकानां हितकारकः ॥ ५३ ॥
तद्-अन्यैः विविधैः कार्यैः कृत्वा सुखम् अवाप्स्यथः॥ ज्ञान-विज्ञान-संयुक्तः लोकानाम् हित-कारकः ॥ ५३ ॥
tad-anyaiḥ vividhaiḥ kāryaiḥ kṛtvā sukham avāpsyathaḥ.. jñāna-vijñāna-saṃyuktaḥ lokānām hita-kārakaḥ .. 53 ..
मुक्तिदोऽत्र भवानद्य भव लोके मदाज्ञया ॥ मद्दर्शने फलं यद्वत्तदेव तव दर्शने ॥ ५४॥
मुक्ति-दः अत्र भवान् अद्य भव लोके मद्-आज्ञया ॥ मद्-दर्शने फलम् यद्वत् तत् एव तव दर्शने ॥ ५४॥
mukti-daḥ atra bhavān adya bhava loke mad-ājñayā .. mad-darśane phalam yadvat tat eva tava darśane .. 54..
इति दत्तो वरस्तेद्य सत्यं सत्यं न संशयः॥ ममैव हृदये विष्णुर्विष्णोश्च हृदये ह्यहम् ॥ ५५॥
इति दत्तः वरः ते इद्य सत्यम् सत्यम् न संशयः॥ मम एव हृदये विष्णुः विष्णोः च हृदये हि अहम् ॥ ५५॥
iti dattaḥ varaḥ te idya satyam satyam na saṃśayaḥ.. mama eva hṛdaye viṣṇuḥ viṣṇoḥ ca hṛdaye hi aham .. 55..
उभयोरंतरं यो वै न जानाति मनो मम ॥ वामांगजो मम हरिर्दक्षिणांगोद्भवो विधिः ॥ ५६ ॥
उभयोः अंतरम् यः वै न जानाति मनः मम ॥ वाम-अंग-जः मम हरिः दक्षिण-अंग-उद्भवः विधिः ॥ ५६ ॥
ubhayoḥ aṃtaram yaḥ vai na jānāti manaḥ mama .. vāma-aṃga-jaḥ mama hariḥ dakṣiṇa-aṃga-udbhavaḥ vidhiḥ .. 56 ..
महाप्रलयकृद्रुद्रो विश्वात्मा हृदयोद्भवः ॥ त्रिधा भिन्नो ह्यहं विष्णो ब्रह्मविष्णुभवाख्यया ॥ ५७॥
॥ त्रिधा भिन्नः हि अहम् विष्णो ब्रह्म-विष्णु-भव-आख्यया ॥ ५७॥
.. tridhā bhinnaḥ hi aham viṣṇo brahma-viṣṇu-bhava-ākhyayā .. 57..
सर्गरक्षालयकरस्त्रिगुणैरज आदिभिः ॥ गुणभिन्नश्शिवस्साक्षात्प्रकृते पुरुषात्परः ॥ ५८ ॥
सर्ग-रक्षा-लय-करः त्रिगुणैः अजः आदिभिः ॥ गुण-भिन्नः शिवः साक्षात् प्रकृते पुरुषात् परः ॥ ५८ ॥
sarga-rakṣā-laya-karaḥ triguṇaiḥ ajaḥ ādibhiḥ .. guṇa-bhinnaḥ śivaḥ sākṣāt prakṛte puruṣāt paraḥ .. 58 ..
परं ब्रह्माद्वयो नित्योऽनन्तः पूर्णो निरंजनः ॥ अंतस्तमो वहिस्सत्त्वस्त्रिजगत्पालको हरिः ॥ ५९ ॥
परम् ब्रह्म अद्वयः नित्यः अनन्तः पूर्णः निरंजनः ॥ अन्तर् तमः वहिस् सत्त्वः त्रिजगत्-पालकः हरिः ॥ ५९ ॥
param brahma advayaḥ nityaḥ anantaḥ pūrṇaḥ niraṃjanaḥ .. antar tamaḥ vahis sattvaḥ trijagat-pālakaḥ hariḥ .. 59 ..
अंतर्बहीरजाश्चैव त्रिजगत्सृष्टिकृद्विधिः ॥ एवं गुणास्त्रिदेवेषु गुणभिन्नः शिवः स्मृतः ॥ ६१ ॥
अन्तर् बहीः रजाः च एव त्रिजगत्-सृष्टि-कृत् विधिः ॥ एवम् गुणाः त्रि-देवेषु गुण-भिन्नः शिवः स्मृतः ॥ ६१ ॥
antar bahīḥ rajāḥ ca eva trijagat-sṛṣṭi-kṛt vidhiḥ .. evam guṇāḥ tri-deveṣu guṇa-bhinnaḥ śivaḥ smṛtaḥ .. 61 ..
विष्णो सृष्टिकरं प्रीत्या पालयैनं पितामहम् ॥ संपूज्यस्त्रिषु लोकेषु भविष्यसि मदाज्ञया ॥ ६२ ॥
विष्णो सृष्टि-करम् प्रीत्या पालय एनम् पितामहम् ॥ संपूज्यः त्रिषु लोकेषु भविष्यसि मद्-आज्ञया ॥ ६२ ॥
viṣṇo sṛṣṭi-karam prītyā pālaya enam pitāmaham .. saṃpūjyaḥ triṣu lokeṣu bhaviṣyasi mad-ājñayā .. 62 ..
तव सेव्यो विधेश्चापि रुद्र एव भविष्यति ॥ शिवपूर्णावतारो हि त्रिजगल्लयकारकः॥ ६३॥
तव सेव्यः विधेः च अपि रुद्रः एव भविष्यति ॥ हि॥ ६३॥
tava sevyaḥ vidheḥ ca api rudraḥ eva bhaviṣyati .. hi.. 63..
पाद्मे भविष्यति सुतः कल्पे तव पितामहः ॥ तदा द्रक्ष्यसि मां चैव सोऽपि द्रक्ष्यति पद्मजः ॥ ६४ ॥
पाद्मे भविष्यति सुतः कल्पे तव पितामहः ॥ तदा द्रक्ष्यसि माम् च एव सः अपि द्रक्ष्यति पद्मजः ॥ ६४ ॥
pādme bhaviṣyati sutaḥ kalpe tava pitāmahaḥ .. tadā drakṣyasi mām ca eva saḥ api drakṣyati padmajaḥ .. 64 ..
एवमुक्त्वा महेशानः कृपां कृत्वातुलां हरः ॥ पुनः प्रोवाच सुप्रीत्या विष्णुं सर्वेश्वरः प्रभुः ॥ ६५ ॥
एवम् उक्त्वा महेशानः कृपाम् कृत्वा अतुलाम् हरः ॥ पुनर् प्रोवाच सु प्रीत्या विष्णुम् सर्व-ईश्वरः प्रभुः ॥ ६५ ॥
evam uktvā maheśānaḥ kṛpām kṛtvā atulām haraḥ .. punar provāca su prītyā viṣṇum sarva-īśvaraḥ prabhuḥ .. 65 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथम खण्डे सृष्ट्युपाख्याने शिवतत्त्ववर्णनो नाम नवमोऽध्यायः ॥ ९॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् प्रथम-खण्डे सृष्ट्युपाख्याने शिवतत्त्ववर्णनः नाम नवमः अध्यायः ॥ ९॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām prathama-khaṇḍe sṛṣṭyupākhyāne śivatattvavarṇanaḥ nāma navamaḥ adhyāyaḥ .. 9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In