| |
|

This overlay will guide you through the buttons:

ॐ नमः शिवाय ।
ओम् नमः शिवाय ।
om namaḥ śivāya .
॥ श्रीगणेशाय नमः ॥
॥ श्री-गणेशाय नमः ॥
.. śrī-gaṇeśāya namaḥ ..
॥ श्रीगौरीशंकराभ्यां नमः ॥
॥ श्री-गौरी-शंकराभ्याम् नमः ॥
.. śrī-gaurī-śaṃkarābhyām namaḥ ..
॥ नारद उवाच ॥
॥ नारदः उवाच ॥
.. nāradaḥ uvāca ..
श्रुतमस्माभिरानंदप्रदं चरितमुत्तमम् ॥ गृहस्थस्यैव शंभोश्च गणस्कंदादिसत्कथम् ॥ १॥
श्रुतम् अस्माभिः आनंद-प्रदम् चरितम् उत्तमम् ॥ गृहस्थस्य एव शंभोः च गण-स्कंद-आदि-सत् कथम् ॥ १॥
śrutam asmābhiḥ ānaṃda-pradam caritam uttamam .. gṛhasthasya eva śaṃbhoḥ ca gaṇa-skaṃda-ādi-sat katham .. 1..
इदानीं ब्रूहि सुप्रीत्या चरितं वरमुत्तमम् ॥ शंकरो हि यथा रुद्रो जघान विहरन्खलान् ॥ २॥
इदानीम् ब्रूहि सु प्रीत्या चरितम् वरम् उत्तमम् ॥ शंकरः हि यथा रुद्रः जघान विहरन् खलान् ॥ २॥
idānīm brūhi su prītyā caritam varam uttamam .. śaṃkaraḥ hi yathā rudraḥ jaghāna viharan khalān .. 2..
कथं ददाह भगवान्नगराणि सुरद्विषाम् ॥ त्रीण्येकेन च बाणेन युगपत्केन वीर्यवान् ॥ ३॥
कथम् ददाह भगवान् नगराणि सुरद्विषाम् ॥ त्रीणि एकेन च बाणेन युगपद् केन वीर्यवान् ॥ ३॥
katham dadāha bhagavān nagarāṇi suradviṣām .. trīṇi ekena ca bāṇena yugapad kena vīryavān .. 3..
एतत्सर्वं समाचक्ष्व चरितं शशिमौलिनः ॥ देवर्षिसुखदं शश्वन्मायाविहरतः प्रभोः ॥ ४ ॥
एतत् सर्वम् समाचक्ष्व चरितम् शशिमौलिनः ॥ देव-ऋषि-सुख-दम् शश्वत् माया-विहरतः प्रभोः ॥ ४ ॥
etat sarvam samācakṣva caritam śaśimaulinaḥ .. deva-ṛṣi-sukha-dam śaśvat māyā-viharataḥ prabhoḥ .. 4 ..
।। ब्रह्मोवाच ।।
एवमेतत्पुरा पृष्टो व्यासेन ऋषिसत्तमः ॥ सनत्कुमारं प्रोवाच तदेव कथयाम्यहम् ॥ ५॥
एवम् एतत् पुरा पृष्टः व्यासेन ऋषि-सत्तमः ॥ सनत्कुमारम् प्रोवाच तत् एव कथयामि अहम् ॥ ५॥
evam etat purā pṛṣṭaḥ vyāsena ṛṣi-sattamaḥ .. sanatkumāram provāca tat eva kathayāmi aham .. 5..
सनत्कुमार उवाच ।।
शृणु व्यास महाप्राज्ञ चरितं शशिमौलिनः ॥ यथा ददाह त्रिपुरं बाणेनैकेन विश्व हृत्॥ ६॥
शृणु व्यास महा-प्राज्ञ चरितम् शशिमौलिनः ॥ यथा ददाह त्रिपुरम् बाणेन एकेन विश्व हृद्॥ ६॥
śṛṇu vyāsa mahā-prājña caritam śaśimaulinaḥ .. yathā dadāha tripuram bāṇena ekena viśva hṛd.. 6..
शिवात्मजेन स्कन्देन निहते तारकासुरे॥ तत्पुत्रास्तु त्रयो दैत्याः पर्यतप्यन्मुनीश्वर॥ ७॥
शिव-आत्मजेन स्कन्देन निहते तारक-असुरे॥ तद्-पुत्राः तु त्रयः दैत्याः पर्यतप्यन् मुनि-ईश्वर॥ ७॥
śiva-ātmajena skandena nihate tāraka-asure.. tad-putrāḥ tu trayaḥ daityāḥ paryatapyan muni-īśvara.. 7..
तारकाख्यस्तु तज्जेष्ठो विद्युन्माली च मध्यमः ॥ कमलाक्षः कनीयांश्च सर्वे तुल्यबलास्सदा ॥ ८॥
तारक-आख्यः तु तद्-जेष्ठः विद्युन्माली च मध्यमः ॥ कमलाक्षः कनीयान् च सर्वे तुल्य-बलाः सदा ॥ ८॥
tāraka-ākhyaḥ tu tad-jeṣṭhaḥ vidyunmālī ca madhyamaḥ .. kamalākṣaḥ kanīyān ca sarve tulya-balāḥ sadā .. 8..
जितेन्द्रियास्ससन्नद्धास्संयतास्सत्यवादिनः ॥ दृढचित्ता महावीरा देवद्रोहिण एव च ॥ ९ ॥
जित-इन्द्रियाः स सन्नद्धाः संयताः सत्य-वादिनः ॥ दृढ-चित्ताः महा-वीराः देव-द्रोहिणः एव च ॥ ९ ॥
jita-indriyāḥ sa sannaddhāḥ saṃyatāḥ satya-vādinaḥ .. dṛḍha-cittāḥ mahā-vīrāḥ deva-drohiṇaḥ eva ca .. 9 ..
ते तु मेरुगुहां गत्वा तपश्चक्रुर्महाद्भुतम् ॥ त्रयस्सर्वान्सुभोगांश्च विहाय सुमनोहरान् ॥ 2.5.1.१० ॥
ते तु मेरु-गुहाम् गत्वा तपः चक्रुः महा-अद्भुतम् ॥ त्रयः सर्वान् सु भोगान् च विहाय सु मनोहरान् ॥ २।५।१।१० ॥
te tu meru-guhām gatvā tapaḥ cakruḥ mahā-adbhutam .. trayaḥ sarvān su bhogān ca vihāya su manoharān .. 2.5.1.10 ..
वसंते सर्वकामांश्च गीतवादित्रनिस्स्वनम् ॥ विहाय सोत्सवं तेपुस्त्रयस्ते तारकात्मजाः॥ ११॥
वसंते सर्व-कामान् च गीत-वादित्र-निस्स्वनम् ॥ विहाय स उत्सवम् तेपुः त्रयः ते तारक-आत्मजाः॥ ११॥
vasaṃte sarva-kāmān ca gīta-vāditra-nissvanam .. vihāya sa utsavam tepuḥ trayaḥ te tāraka-ātmajāḥ.. 11..
ग्रीष्मे सूर्यप्रभां जित्वा दिक्षु प्रज्वाल्य पावकम् ॥ तन्मध्यसंस्थाः सिद्ध्यर्थं जुहुवुर्हव्यमादरात् ॥ १२॥
ग्रीष्मे सूर्य-प्रभाम् जित्वा दिक्षु प्रज्वाल्य पावकम् ॥ तद्-मध्य-संस्थाः सिद्धि-अर्थम् जुहुवुः हव्यम् आदरात् ॥ १२॥
grīṣme sūrya-prabhām jitvā dikṣu prajvālya pāvakam .. tad-madhya-saṃsthāḥ siddhi-artham juhuvuḥ havyam ādarāt .. 12..
महाप्रतापपतितास्सर्वेप्यासन् सुमूर्छिताः ॥ वर्षासु गतसंत्रासा वृष्टिं मूर्द्धन्यधारयन् ॥ १३॥
महा-प्रताप-पतिताः सर्वे अपि आसन् सु मूर्छिताः ॥ वर्षासु गत-संत्रासाः वृष्टिम् मूर्द्धनि अधारयन् ॥ १३॥
mahā-pratāpa-patitāḥ sarve api āsan su mūrchitāḥ .. varṣāsu gata-saṃtrāsāḥ vṛṣṭim mūrddhani adhārayan .. 13..
शरत्काले प्रसूतं तु भोजनं तु बुभुक्षिताः ॥ रम्यं स्निग्धं स्थिरं हृद्यं फलं मूलमनुत्तमम्॥ १४॥
शरद्-काले प्रसूतम् तु भोजनम् तु बुभुक्षिताः ॥ रम्यम् स्निग्धम् स्थिरम् हृद्यम् फलम् मूलम् अनुत्तमम्॥ १४॥
śarad-kāle prasūtam tu bhojanam tu bubhukṣitāḥ .. ramyam snigdham sthiram hṛdyam phalam mūlam anuttamam.. 14..
संयमात्क्षुत्तृषो जित्वा पानान्युच्चावचान्यपि ॥ बुभुक्षितेभ्यो दत्त्वा तु बुभूवुरुपला इव ॥ १५॥
संयमात् क्षुध्-तृषः जित्वा पानानि उच्चावचानि अपि ॥ बुभुक्षितेभ्यः दत्त्वा तु बुभूवुः उपलाः इव ॥ १५॥
saṃyamāt kṣudh-tṛṣaḥ jitvā pānāni uccāvacāni api .. bubhukṣitebhyaḥ dattvā tu bubhūvuḥ upalāḥ iva .. 15..
संस्थितास्ते महात्मानो निराधाराश्चतुर्दिशम् ॥ हेमंते गिरिमाश्रित्य धैर्येण परमेण तु ॥ १६ ॥
संस्थिताः ते महात्मानः निराधाराः चतुर्दिशम् ॥ हेमंते गिरिम् आश्रित्य धैर्येण परमेण तु ॥ १६ ॥
saṃsthitāḥ te mahātmānaḥ nirādhārāḥ caturdiśam .. hemaṃte girim āśritya dhairyeṇa parameṇa tu .. 16 ..
तुषारदेहसंछन्ना जलक्लिन्नेन वाससा ॥ आसाद्य देहं क्षौमेण शिशिरे तोयमध्यगाः ॥ १७ ॥
तुषार-देह-संछन्नाः जल-क्लिन्नेन वाससा ॥ आसाद्य देहम् क्षौमेण शिशिरे तोय-मध्य-गाः ॥ १७ ॥
tuṣāra-deha-saṃchannāḥ jala-klinnena vāsasā .. āsādya deham kṣaumeṇa śiśire toya-madhya-gāḥ .. 17 ..
अनिर्विण्णास्ततस्सर्वे क्रमशोऽवर्द्धयंस्तपः ॥ तेपुस्त्रयस्ते तत्पुत्रा विधिमुद्दिश्य सत्तमाः ॥ १८ ॥
अनिर्विण्णाः ततस् सर्वे क्रमशस् अवर्द्धयन् तपः ॥ तेपुः त्रयः ते तद्-पुत्राः विधिम् उद्दिश्य सत्तमाः ॥ १८ ॥
anirviṇṇāḥ tatas sarve kramaśas avarddhayan tapaḥ .. tepuḥ trayaḥ te tad-putrāḥ vidhim uddiśya sattamāḥ .. 18 ..
तप उग्रं समास्थाय नियमे परमे स्थिता ॥ तपसा कर्षयामासुर्देहान् स्वान् दानवोत्तमाः ॥ १९॥
तपः उग्रम् समास्थाय नियमे परमे स्थिता ॥ तपसा कर्षयामासुः देहान् स्वान् दानव-उत्तमाः ॥ १९॥
tapaḥ ugram samāsthāya niyame parame sthitā .. tapasā karṣayāmāsuḥ dehān svān dānava-uttamāḥ .. 19..
वर्षाणां शतकं चैव पदमेकं निधाय च ॥ भूमौ स्थित्वा परं तत्र तेपुस्ते बलवत्तराः ॥ 2.5.1.२० ॥
वर्षाणाम् शतकम् च एव पदम् एकम् निधाय च ॥ भूमौ स्थित्वा परम् तत्र तेपुः ते बलवत्तराः ॥ २।५।१।२० ॥
varṣāṇām śatakam ca eva padam ekam nidhāya ca .. bhūmau sthitvā param tatra tepuḥ te balavattarāḥ .. 2.5.1.20 ..
ते सहस्रं तु वर्षाणां वातभक्षास्सुदारुणाः ॥ तपस्तेपुर्दुरात्मानः परं तापमुपागताः ॥ २१ ॥
ते सहस्रम् तु वर्षाणाम् वातभक्षाः सु दारुणाः ॥ तपः तेपुः दुरात्मानः परम् तापम् उपागताः ॥ २१ ॥
te sahasram tu varṣāṇām vātabhakṣāḥ su dāruṇāḥ .. tapaḥ tepuḥ durātmānaḥ param tāpam upāgatāḥ .. 21 ..
वर्षाणां तु सहस्रं वै मस्तकेनास्थितास्तथा ॥ वर्षाणां तु शतेनैव ऊर्द्ध्वबाहव आसिताः ॥ २२॥
वर्षाणाम् तु सहस्रम् वै मस्तकेन आस्थिताः तथा ॥ वर्षाणाम् तु शतेन एव ऊर्द्ध्वबाहवः आसिताः ॥ २२॥
varṣāṇām tu sahasram vai mastakena āsthitāḥ tathā .. varṣāṇām tu śatena eva ūrddhvabāhavaḥ āsitāḥ .. 22..
एवं दुःखं परं प्राप्ता दुराग्रहपरा इमे ॥ ईदृक्ते संस्थिता दैत्या दिवारात्रमतंद्रिता ॥ २३ ॥
एवम् दुःखम् परम् प्राप्ताः दुराग्रह-पराः इमे ॥ ईदृश् ते संस्थिता दैत्याः दिवारात्रम् अतंद्रिता ॥ २३ ॥
evam duḥkham param prāptāḥ durāgraha-parāḥ ime .. īdṛś te saṃsthitā daityāḥ divārātram ataṃdritā .. 23 ..
एवं तेषां गतः कालो महान् सुतपतां मुने ॥ ब्रह्मात्मनां तारकाणां धर्मेणेति मतिर्मम ॥ २४ ॥
एवम् तेषाम् गतः कालः महान् सुतपताम् मुने ॥ ब्रह्म-आत्मनाम् तारकाणाम् धर्मेण इति मतिः मम ॥ २४ ॥
evam teṣām gataḥ kālaḥ mahān sutapatām mune .. brahma-ātmanām tārakāṇām dharmeṇa iti matiḥ mama .. 24 ..
प्रादुरासीत्ततो ब्रह्मा सुरासुरगुरुर्महान् ॥ संतुष्टस्तपसा तेषां वरं दातुं महायशाः ॥ २५ ॥
प्रादुरासीत् ततस् ब्रह्मा सुर-असुर-गुरुः महान् ॥ संतुष्टः तपसा तेषाम् वरम् दातुम् महा-यशाः ॥ २५ ॥
prādurāsīt tatas brahmā sura-asura-guruḥ mahān .. saṃtuṣṭaḥ tapasā teṣām varam dātum mahā-yaśāḥ .. 25 ..
मुनिदेवासुरैस्सार्द्धं सांत्वपूर्वमिदं वचः ॥ ततस्तानब्रवीत्सर्वान् सर्वभूतपितामहः ॥ २५ ॥
मुनि-देव-असुरैः सार्द्धम् सांत्व-पूर्वम् इदम् वचः ॥ ततस् तान् अब्रवीत् सर्वान् सर्व-भूत-पितामहः ॥ २५ ॥
muni-deva-asuraiḥ sārddham sāṃtva-pūrvam idam vacaḥ .. tatas tān abravīt sarvān sarva-bhūta-pitāmahaḥ .. 25 ..
ब्रह्मोवाच ।।
प्रसन्नोऽस्मि महादैत्या युष्माकं तपसा मुने ॥ सर्वं दास्यामि युष्मभ्यं वरं ब्रूत यदीप्सितम् ॥ २७ ॥
प्रसन्नः अस्मि महा-दैत्याः युष्माकम् तपसा मुने ॥ सर्वम् दास्यामि युष्मभ्यम् वरम् ब्रूत यत् ईप्सितम् ॥ २७ ॥
prasannaḥ asmi mahā-daityāḥ yuṣmākam tapasā mune .. sarvam dāsyāmi yuṣmabhyam varam brūta yat īpsitam .. 27 ..
किमर्थं सुतपस्तप्तं कथयध्वं सुरद्विषां ॥ सर्वेषां तपसो दाता सर्वकर्तास्मि सर्वदा ॥ २८ ॥
किमर्थम् सु तपः तप्तम् कथयध्वम् सुरद्विषाम् ॥ सर्वेषाम् तपसः दाता सर्वकर्ता अस्मि सर्वदा ॥ २८ ॥
kimartham su tapaḥ taptam kathayadhvam suradviṣām .. sarveṣām tapasaḥ dātā sarvakartā asmi sarvadā .. 28 ..
सनत्कुमार उवाच ।।
तस्य तद्वचनं श्रुत्वा शनैस्ते स्वात्मनो गतम् ॥ ऊचुः प्रांजलयस्सर्वे प्रणिपत्य पितामहम् ॥ २९ ॥
तस्य तत् वचनम् श्रुत्वा शनैस् ते स्व-आत्मनः गतम् ॥ ऊचुः प्रांजलयः सर्वे प्रणिपत्य पितामहम् ॥ २९ ॥
tasya tat vacanam śrutvā śanais te sva-ātmanaḥ gatam .. ūcuḥ prāṃjalayaḥ sarve praṇipatya pitāmaham .. 29 ..
दैत्या ऊचुः ।।
यदि प्रसन्नो देवेश यदि देयो वरस्त्वया ॥ अवध्यत्वं च सर्वेषां सर्वभूतेषु देहिनः ॥ 2.5.1.३० ॥
यदि प्रसन्नः देवेश यदि देयः वरः त्वया ॥ अवध्य-त्वम् च सर्वेषाम् सर्व-भूतेषु देहिनः ॥ २।५।१।३० ॥
yadi prasannaḥ deveśa yadi deyaḥ varaḥ tvayā .. avadhya-tvam ca sarveṣām sarva-bhūteṣu dehinaḥ .. 2.5.1.30 ..
स्थिरान् कुरु जगन्नाथ पांतु नः परिपंथिनः ॥ जरारोगादयस्सर्वे नास्मान्मृत्युरगात् क्वचित् ॥ ३१ ॥
स्थिरान् कुरु जगन्नाथ पांतु नः परिपंथिनः ॥ जरा-रोग-आदयः सर्वे न अस्मात् मृत्युः अगात् क्वचिद् ॥ ३१ ॥
sthirān kuru jagannātha pāṃtu naḥ paripaṃthinaḥ .. jarā-roga-ādayaḥ sarve na asmāt mṛtyuḥ agāt kvacid .. 31 ..
अजराश्चामरास्सर्वे भवाम इति नो मतम् ॥ समृत्यवः करिष्यामस्सर्वानन्यांस्त्रिलोकके ॥ ३२॥
अजराः च अमराः सर्वे भवामः इति नः मतम् ॥ स मृत्यवः करिष्यामः सर्वान् अन्यान् त्रिलोकके ॥ ३२॥
ajarāḥ ca amarāḥ sarve bhavāmaḥ iti naḥ matam .. sa mṛtyavaḥ kariṣyāmaḥ sarvān anyān trilokake .. 32..
लक्ष्म्या किं तद्विपुलया किं कार्यं हि पुरोत्तमैः ॥ अन्यैश्च विपुलैर्भोगैस्स्थानैश्वर्येण वा पुनः ॥ ३३ ॥
लक्ष्म्या किम् तत् विपुलया किम् कार्यम् हि पुर-उत्तमैः ॥ अन्यैः च विपुलैः भोगैः स्थान-ऐश्वर्येण वा पुनर् ॥ ३३ ॥
lakṣmyā kim tat vipulayā kim kāryam hi pura-uttamaiḥ .. anyaiḥ ca vipulaiḥ bhogaiḥ sthāna-aiśvaryeṇa vā punar .. 33 ..
यत्रैव मृत्युना ग्रस्तो नियतं पंचभिर्दिनैः ॥ व्यर्थं तस्याखिलं ब्रह्मन् निश्चितं न इतीव हि ॥ ३४ ॥
यत्र एव मृत्युना ग्रस्तः नियतम् पंचभिः दिनैः ॥ व्यर्थम् तस्य अखिलम् ब्रह्मन् निश्चितम् नः इति इव हि ॥ ३४ ॥
yatra eva mṛtyunā grastaḥ niyatam paṃcabhiḥ dinaiḥ .. vyartham tasya akhilam brahman niścitam naḥ iti iva hi .. 34 ..
सनत्कुमार उवाच ।।
इति श्रुत्वा वचस्तेषां दैत्यानां च तपस्विनाम् ॥ प्रत्युवाच शिवं स्मृत्वा स्वप्रभुं गिरिशं विधिः ॥ ३५॥
इति श्रुत्वा वचः तेषाम् दैत्यानाम् च तपस्विनाम् ॥ प्रत्युवाच शिवम् स्मृत्वा स्व-प्रभुम् गिरिशम् विधिः ॥ ३५॥
iti śrutvā vacaḥ teṣām daityānām ca tapasvinām .. pratyuvāca śivam smṛtvā sva-prabhum giriśam vidhiḥ .. 35..
ब्रह्मोवाच ।।
नास्ति सर्वामरत्वं च निवर्तध्वमतोऽसुराः ॥ अन्यं वरं वृणीध्वं वै यादृशो वो हि रोचते ॥ ३६ ॥
ना अस्ति सर्व-अमर-त्वम् च निवर्तध्वम् अतस् असुराः ॥ अन्यम् वरम् वृणीध्वम् वै यादृशः वः हि रोचते ॥ ३६ ॥
nā asti sarva-amara-tvam ca nivartadhvam atas asurāḥ .. anyam varam vṛṇīdhvam vai yādṛśaḥ vaḥ hi rocate .. 36 ..
जातो जनिष्यते नूनं जंतुः कोप्यसुराः क्वचित् ॥ अजरश्चामरो लोके न भविष्यति भूतले ॥ ३७ ॥
जातः जनिष्यते नूनम् जंतुः कोपी असुराः क्वचिद् ॥ अजरः च अमरः लोके न भविष्यति भू-तले ॥ ३७ ॥
jātaḥ janiṣyate nūnam jaṃtuḥ kopī asurāḥ kvacid .. ajaraḥ ca amaraḥ loke na bhaviṣyati bhū-tale .. 37 ..
ऋते तु खंडपरशोः कालकालाद्धरेस्तथा ॥ तौ धर्माधर्मपरमावव्यक्तौ व्यक्तरूपिणौ ॥ ३८॥
ऋते तु खंडपरशोः काल-कालात् हरेः तथा ॥ तौ धर्म-अधर्म-परमौ अव्यक्तौ व्यक्त-रूपिणौ ॥ ३८॥
ṛte tu khaṃḍaparaśoḥ kāla-kālāt hareḥ tathā .. tau dharma-adharma-paramau avyaktau vyakta-rūpiṇau .. 38..
संपीडनाय जगतो यदि स क्रियते तपः ॥ सफलं तद्गतं वेद्यं तस्मात्सुविहितं तपः ॥ ३९॥
संपीडनाय जगतः यदि स क्रियते तपः ॥ सफलम् तत् गतम् वेद्यम् तस्मात् सु विहितम् तपः ॥ ३९॥
saṃpīḍanāya jagataḥ yadi sa kriyate tapaḥ .. saphalam tat gatam vedyam tasmāt su vihitam tapaḥ .. 39..
तद्विचार्य स्वयं बुद्ध्या न शक्यं यत्सुरासुरैः ॥ दुर्लभं वा सुदुस्साध्यं मृत्युं वंचयतानघाः ॥ 2.5.1.४०॥
तत् विचार्य स्वयम् बुद्ध्या न शक्यम् यत् सुर-असुरैः ॥ दुर्लभम् वा सु दुस्साध्यम् मृत्युम् वंचयत अनघाः ॥ २।५।१।४०॥
tat vicārya svayam buddhyā na śakyam yat sura-asuraiḥ .. durlabham vā su dussādhyam mṛtyum vaṃcayata anaghāḥ .. 2.5.1.40..
तत्किंचिन्मरणे हेतुं वृणीध्वं सत्त्वमाश्रिताः ॥ येन मृत्युर्नैव वृतो रक्षतस्तत्पृथक् पृथक् ॥ ४१॥
तत् किंचिद् मरणे हेतुम् वृणीध्वम् सत्त्वम् आश्रिताः ॥ येन मृत्युः ना एव वृतः रक्षतः तत् पृथक् पृथक् ॥ ४१॥
tat kiṃcid maraṇe hetum vṛṇīdhvam sattvam āśritāḥ .. yena mṛtyuḥ nā eva vṛtaḥ rakṣataḥ tat pṛthak pṛthak .. 41..
सनत्कुमार उवाच ।।
एतद्विधिवचः श्रुत्वा मुहूर्त्तं ध्यानमास्थिताः ॥ प्रोचुस्ते चिंतयित्वाथ सर्वलोकपितामहम् ॥ ४२॥
एतत् विधि-वचः श्रुत्वा मुहूर्त्तम् ध्यानम् आस्थिताः ॥ प्रोचुः ते चिंतयित्वा अथ सर्व-लोक-पितामहम् ॥ ४२॥
etat vidhi-vacaḥ śrutvā muhūrttam dhyānam āsthitāḥ .. procuḥ te ciṃtayitvā atha sarva-loka-pitāmaham .. 42..
दैत्या ऊचुः।।
भगवन्नास्ति नो वेश्म पराक्रमवतामपि ॥ अधृष्याः शात्रवानां तु यन्न वत्स्यामहे सुखम् ॥ ४३ ॥
भगवन् न अस्ति नः वेश्म पराक्रमवताम् अपि ॥ अधृष्याः शात्रवानाम् तु यत् न वत्स्यामहे सुखम् ॥ ४३ ॥
bhagavan na asti naḥ veśma parākramavatām api .. adhṛṣyāḥ śātravānām tu yat na vatsyāmahe sukham .. 43 ..
पुराणि त्रीणि नो देहि निर्मायात्यद्भुतानि हि ॥ सर्वसंपत्समृद्धान्य प्रधृष्याणि दिवौकसाम्॥ ४४॥
पुराणि त्रीणि नः देहि निर्माय अत्यद्भुतानि हि ॥ सर्व-संपद्-समृद्धानि प्रधृष्याणि दिवौकसाम्॥ ४४॥
purāṇi trīṇi naḥ dehi nirmāya atyadbhutāni hi .. sarva-saṃpad-samṛddhāni pradhṛṣyāṇi divaukasām.. 44..
वयं पुराणि त्रीण्येव समास्थाय महीमिमाम्॥ चरिष्यामो हि लोकेश त्वत्प्रसादाज्जगद्गुरो ॥ ४५ ॥
वयम् पुराणि त्रीणि एव समास्थाय महीम् इमाम्॥ चरिष्यामः हि लोकेश त्वद्-प्रसादात् जगद्गुरो ॥ ४५ ॥
vayam purāṇi trīṇi eva samāsthāya mahīm imām.. cariṣyāmaḥ hi lokeśa tvad-prasādāt jagadguro .. 45 ..
तारकाक्षस्ततः प्राह यदभेद्यं सुरैरपि ॥ करोति विश्वकर्मा तन्मम हेममयं पुरम्॥ ४६ ॥
तारकाक्षः ततस् प्राह यत् अभेद्यम् सुरैः अपि ॥ करोति विश्वकर्मा तत् मम हेम-मयम् पुरम्॥ ४६ ॥
tārakākṣaḥ tatas prāha yat abhedyam suraiḥ api .. karoti viśvakarmā tat mama hema-mayam puram.. 46 ..
ययाचे कमलाक्षस्तु राजतं सुमहत्पुरम् ॥ विद्युन्माली च संहृष्टो वज्रायसमयं महत्॥ ४७॥
ययाचे कमलाक्षः तु राजतम् सु महत् पुरम् ॥ विद्युन्माली च संहृष्टः वज्र-आयस-मयम् महत्॥ ४७॥
yayāce kamalākṣaḥ tu rājatam su mahat puram .. vidyunmālī ca saṃhṛṣṭaḥ vajra-āyasa-mayam mahat.. 47..
पुरेष्वेतेषु भो ब्रह्मन्नेकस्थानस्थितेषु च ॥ मध्याह्नाभिजिते काले शीतांशौ पुष्प संस्थिते ॥ ४८ ॥
पुरेषु एतेषु भो ब्रह्मन् एक-स्थान-स्थितेषु च ॥ मध्याह्न-अभिजिते काले शीतांशौ पुष्प-संस्थिते ॥ ४८ ॥
pureṣu eteṣu bho brahman eka-sthāna-sthiteṣu ca .. madhyāhna-abhijite kāle śītāṃśau puṣpa-saṃsthite .. 48 ..
उपर्युपर्यदृष्टेषु व्योम्नि लीलाभ्रसंस्थिते ॥ वर्षत्सु कालमेघेषु पुष्करावर्तनामसु ॥ ४९ ॥
उपरि उपरि अदृष्टेषु व्योम्नि लीला-अभ्र-संस्थिते ॥ वर्षत्सु काल-मेघेषु पुष्करावर्त-नामसु ॥ ४९ ॥
upari upari adṛṣṭeṣu vyomni līlā-abhra-saṃsthite .. varṣatsu kāla-megheṣu puṣkarāvarta-nāmasu .. 49 ..
तथा वर्षसहस्राते समेष्यामः परस्परम् ॥ एकीभावं गमिष्यंति पुराण्येतानि नान्यथा ॥ 2.5.1.५०॥
तथा वर्ष-सहस्राते समेष्यामः परस्परम् ॥ एकीभावम् गमिष्यन्ति पुराणि एतानि ना अन्यथा ॥ २।५।१।५०॥
tathā varṣa-sahasrāte sameṣyāmaḥ parasparam .. ekībhāvam gamiṣyanti purāṇi etāni nā anyathā .. 2.5.1.50..
सर्वदेवमयो देवस्सर्वेषां मे कुहेलया॥ असंभवे रथे तिष्ठन् सर्वोपस्करणान्विते ॥ ५१ ॥
सर्व-देव-मयः देवः सर्वेषाम् मे कुहेलया॥ असंभवे रथे तिष्ठन् सर्व-उपस्करण-अन्विते ॥ ५१ ॥
sarva-deva-mayaḥ devaḥ sarveṣām me kuhelayā.. asaṃbhave rathe tiṣṭhan sarva-upaskaraṇa-anvite .. 51 ..
असंभाव्यैककांडेन भिनत्तु नगराणि नः ॥ निर्वैरः कृत्तिवासास्तु योस्माकमिति नित्यशः ॥ ५२ ।
अ संभाव्य एक-कांडेन भिनत्तु नगराणि नः ॥ निर्वैरः कृत्तिवासाः तु यः स्माकम् इति नित्यशस् ॥ ५२ ।
a saṃbhāvya eka-kāṃḍena bhinattu nagarāṇi naḥ .. nirvairaḥ kṛttivāsāḥ tu yaḥ smākam iti nityaśas .. 52 .
वंद्यः पूज्योभिवाद्यश्च सोस्माकं निर्दहेत्कथम् ॥ इति चेतसि संधाय तादृशो भुवि दुर्लभः ॥ ५३ ॥
वंद्यः पूज्यः अभिवाद्यः च सः उस्माकम् निर्दहेत् कथम् ॥ इति चेतसि संधाय तादृशः भुवि दुर्लभः ॥ ५३ ॥
vaṃdyaḥ pūjyaḥ abhivādyaḥ ca saḥ usmākam nirdahet katham .. iti cetasi saṃdhāya tādṛśaḥ bhuvi durlabhaḥ .. 53 ..
सनत्कुमार उवाच ।।
एतच्छ्रुत्वा वचस्तेषां ब्रह्मा लोकपितामहः ॥ एवमस्तीति तान् प्राह सृष्टिकर्ता स्मरञ्शिवम् ॥ ५४॥
एतत् श्रुत्वा वचः तेषाम् ब्रह्मा लोकपितामहः ॥ एवम् अस्ति इति तान् प्राह सृष्टिकर्ता स्मरन् शिवम् ॥ ५४॥
etat śrutvā vacaḥ teṣām brahmā lokapitāmahaḥ .. evam asti iti tān prāha sṛṣṭikartā smaran śivam .. 54..
आज्ञां ददौ मयस्यापि कुत्र त्वं नगरत्रयम् ॥ कांचनं राजतं चैव आयसं चेति भो मय ॥ ५५॥
आज्ञाम् ददौ मयस्य अपि कुत्र त्वम् नगर-त्रयम् ॥ कांचनम् राजतम् च एव आयसम् च इति भो मय ॥ ५५॥
ājñām dadau mayasya api kutra tvam nagara-trayam .. kāṃcanam rājatam ca eva āyasam ca iti bho maya .. 55..
इत्यादिश्य मयं ब्रह्मा प्रत्यक्षं प्राविशद्दिवम् ॥ तेषां तारकपुत्राणां पश्यतां निजधाम हि ॥ ५६॥
इति आदिश्य मयम् ब्रह्मा प्रत्यक्षम् प्राविशत् दिवम् ॥ तेषाम् तारक-पुत्राणाम् पश्यताम् निजधाम हि ॥ ५६॥
iti ādiśya mayam brahmā pratyakṣam prāviśat divam .. teṣām tāraka-putrāṇām paśyatām nijadhāma hi .. 56..
ततो मयश्च तपसा चक्रे धीरः पुराण्यथ ॥ कांचनं तारकाक्षस्य कमलाक्षस्य राजतम् ॥ ५७॥
ततस् मयः च तपसा चक्रे धीरः पुराणि अथ ॥ कांचनम् तारकाक्षस्य कमलाक्षस्य राजतम् ॥ ५७॥
tatas mayaḥ ca tapasā cakre dhīraḥ purāṇi atha .. kāṃcanam tārakākṣasya kamalākṣasya rājatam .. 57..
विद्युन्माल्यायसं चैव त्रिविधं दुर्गमुत्तमम् ॥ स्वर्गे व्योम्नि च भूमौ च क्रमाज्ज्ञेयानि तानि वै ॥ ५८॥
विद्युन्माल्य-आयसम् च एव त्रिविधम् दुर्गम् उत्तमम् ॥ स्वर्गे व्योम्नि च भूमौ च क्रमात् ज्ञेयानि तानि वै ॥ ५८॥
vidyunmālya-āyasam ca eva trividham durgam uttamam .. svarge vyomni ca bhūmau ca kramāt jñeyāni tāni vai .. 58..
दत्वा तेभ्यो सुरेभ्यश्च पुराणि त्रीणि वै मयः ॥ प्रविवेश स्वयं तत्र हितकामपरायणः ॥ ५९ ॥
द-त्वा सुरेभ्यः च पुराणि त्रीणि वै मयः ॥ प्रविवेश स्वयम् तत्र हित-काम-परायणः ॥ ५९ ॥
da-tvā surebhyaḥ ca purāṇi trīṇi vai mayaḥ .. praviveśa svayam tatra hita-kāma-parāyaṇaḥ .. 59 ..
एवं पुत्रत्रयं प्राप्य प्रविष्टास्तारकात्मजाः ॥ बुभुजुस्सकलान्भोगान्महाबलपराक्रमाः ॥ 2.5.1.६० ॥
एवम् पुत्र-त्रयम् प्राप्य प्रविष्टाः तारक-आत्मजाः ॥ बुभुजुः सकलान् भोगान् महा-बल-पराक्रमाः ॥ २।५।१।६० ॥
evam putra-trayam prāpya praviṣṭāḥ tāraka-ātmajāḥ .. bubhujuḥ sakalān bhogān mahā-bala-parākramāḥ .. 2.5.1.60 ..
कल्पद्रुमैश्च संकीर्णं गजवाजिसमाकुलम् ॥ नानाप्रासादसंकीर्णं मणिजालसमा वृतम् ॥ ६१ ॥ ॥
कल्पद्रुमैः च संकीर्णम् गज-वाजि-समाकुलम् ॥ नाना प्रासाद-संकीर्णम् मणि-जाल-समाः वृतम् ॥ ६१ ॥ ॥
kalpadrumaiḥ ca saṃkīrṇam gaja-vāji-samākulam .. nānā prāsāda-saṃkīrṇam maṇi-jāla-samāḥ vṛtam .. 61 .. ..
सूर्यमण्डलसंकाशैर्विमानैस्सर्वतोमुखैः ॥ पद्मरागमयैश्चैव शोभितं चन्द्रसन्निभैः ॥ ६२ ॥
सूर्य-मण्डल-संकाशैः विमानैः सर्वतोमुखैः ॥ पद्मराग-मयैः च एव शोभितम् चन्द्र-सन्निभैः ॥ ६२ ॥
sūrya-maṇḍala-saṃkāśaiḥ vimānaiḥ sarvatomukhaiḥ .. padmarāga-mayaiḥ ca eva śobhitam candra-sannibhaiḥ .. 62 ..
प्रासादैर्गोपुरैर्दिव्यैः कैलासशिखरोपमैः ॥ दिव्यस्त्रीजनसंकीर्णैर्गंधर्वैस्सिद्धचारणैः ॥ ६३ ॥
प्रासादैः गोपुरैः दिव्यैः कैलास-शिखर-उपमैः ॥ दिव्य-स्त्री-जन-संकीर्णैः गंधर्वैः सिद्ध-चारणैः ॥ ६३ ॥
prāsādaiḥ gopuraiḥ divyaiḥ kailāsa-śikhara-upamaiḥ .. divya-strī-jana-saṃkīrṇaiḥ gaṃdharvaiḥ siddha-cāraṇaiḥ .. 63 ..
रुद्रालयैः प्रतिगृहमग्निहोत्रैः प्रतिष्ठितैः ॥ द्विजोत्तमैश्शास्त्र ज्ञैश्शिवभक्तिरतैस्सदा ॥ ६४ ॥
रुद्र-आलयैः प्रतिगृहम् अग्निहोत्रैः प्रतिष्ठितैः ॥ द्विजोत्तमैः शास्त्र-ज्ञैः शिव-भक्ति-रतैः सदा ॥ ६४ ॥
rudra-ālayaiḥ pratigṛham agnihotraiḥ pratiṣṭhitaiḥ .. dvijottamaiḥ śāstra-jñaiḥ śiva-bhakti-rataiḥ sadā .. 64 ..
वापीकूपतडागैश्च दीर्घिकाभिस्सुशोभितम् ॥ उद्यानवनवृक्षैश्च स्वर्गच्युत गुणोत्तमैः ॥ ६५ ॥
वापी-कूप-तडागैः च दीर्घिकाभिः सु शोभितम् ॥ उद्यान-वन-वृक्षैः च स्वर्ग-च्युत गुण-उत्तमैः ॥ ६५ ॥
vāpī-kūpa-taḍāgaiḥ ca dīrghikābhiḥ su śobhitam .. udyāna-vana-vṛkṣaiḥ ca svarga-cyuta guṇa-uttamaiḥ .. 65 ..
नदीनदसरिन्मुख्यपुष्करैः शोभितं सदा ॥ सर्वकामफलाद्यैश्चानेकैर्वृक्षैर्मनोहरम् ॥ ६६ ॥
सदा ॥ सर्व-काम-फल-आद्यैः च अनेकैः वृक्षैः मनोहरम् ॥ ६६ ॥
sadā .. sarva-kāma-phala-ādyaiḥ ca anekaiḥ vṛkṣaiḥ manoharam .. 66 ..
मत्तमातंगयूथैश्च तुरंगैश्च सुशोभनैः ॥ रथैश्च विविधाकारैश्शिबिकाभिरलंकृतम् ॥ ६७॥
मत्त-मातंग-यूथैः च तुरंगैः च सु शोभनैः ॥ रथैः च विविध-आकारैः शिबिकाभिः अलंकृतम् ॥ ६७॥
matta-mātaṃga-yūthaiḥ ca turaṃgaiḥ ca su śobhanaiḥ .. rathaiḥ ca vividha-ākāraiḥ śibikābhiḥ alaṃkṛtam .. 67..
समयादिशिकैश्चैव क्रीडास्थानैः पृथक्पृथक् ॥ वेदाध्ययनशालाभिर्विविधाभिः पृथक्पृथक् ॥ ६८ ॥
समय-आदिशिकैः च एव क्रीडा-स्थानैः पृथक् पृथक् ॥ वेद-अध्ययन-शालाभिः विविधाभिः पृथक् पृथक् ॥ ६८ ॥
samaya-ādiśikaiḥ ca eva krīḍā-sthānaiḥ pṛthak pṛthak .. veda-adhyayana-śālābhiḥ vividhābhiḥ pṛthak pṛthak .. 68 ..
अदृष्टं मनसा वाचा पापान्वितनरैस्सदा ॥ महात्मभिश्शुभाचारैः पुण्यवद्भिः प्रवीक्ष्यते ॥ ६९ ॥
अदृष्टम् मनसा वाचा पाप-अन्वित-नरैः सदा ॥ महात्मभिः शुभ-आचारैः पुण्यवद्भिः प्रवीक्ष्यते ॥ ६९ ॥
adṛṣṭam manasā vācā pāpa-anvita-naraiḥ sadā .. mahātmabhiḥ śubha-ācāraiḥ puṇyavadbhiḥ pravīkṣyate .. 69 ..
पतिव्रताभिः सर्वत्र पावितं स्थलमुत्तमम् ॥ पतिसेवनशीलाभिर्विमुखाभिः कुधर्मतः ॥ 2.5.1.७०॥
पतिव्रताभिः सर्वत्र पावितम् स्थलम् उत्तमम् ॥ पति-सेवन-शीलाभिः विमुखाभिः कुधर्मतः ॥ २।५।१।७०॥
pativratābhiḥ sarvatra pāvitam sthalam uttamam .. pati-sevana-śīlābhiḥ vimukhābhiḥ kudharmataḥ .. 2.5.1.70..
दैत्यशूरैर्महाभागैस्सदारैस्ससुतैर्द्विजैः ॥ श्रौतस्मार्तार्थतत्त्वज्ञैस्स्वधर्मनिरतैर्युतम्॥ ७१॥
दैत्य-शूरैः महाभागैः स दारैः स सुतैः द्विजैः ॥ श्रौत-स्मार्त-अर्थ-तत्त्व-ज्ञैः स्वधर्म-निरतैः युतम्॥ ७१॥
daitya-śūraiḥ mahābhāgaiḥ sa dāraiḥ sa sutaiḥ dvijaiḥ .. śrauta-smārta-artha-tattva-jñaiḥ svadharma-nirataiḥ yutam.. 71..
व्यूढोरस्कैर्वृषस्कंधैस्सामयुद्धधरैस्सदा॥ प्रशांतैः कुपितैश्चैव कुब्जैर्वामनकैस्तथा॥ ७२॥
व्यूढ-उरस्कैः वृष-स्कंधैः साम-युद्ध-धरैः सदा॥ प्रशांतैः कुपितैः च एव कुब्जैः वामनकैः तथा॥ ७२॥
vyūḍha-uraskaiḥ vṛṣa-skaṃdhaiḥ sāma-yuddha-dharaiḥ sadā.. praśāṃtaiḥ kupitaiḥ ca eva kubjaiḥ vāmanakaiḥ tathā.. 72..
नीलोत्पलदलप्रख्यैर्नीलकुंचितमूर्द्धजैः ॥ मयेन रक्षितैस्सर्वैश्शिक्षितैर्युद्धलालसैः ॥ ७३ ॥
नीलोत्पल-दल-प्रख्यैः नील-कुंचित-मूर्द्धजैः ॥ मयेन रक्षितैः सर्वैः शिक्षितैः युद्ध-लालसैः ॥ ७३ ॥
nīlotpala-dala-prakhyaiḥ nīla-kuṃcita-mūrddhajaiḥ .. mayena rakṣitaiḥ sarvaiḥ śikṣitaiḥ yuddha-lālasaiḥ .. 73 ..
वरसमररतैर्युतं समंतादजशिवपूजनया विशुद्धवीर्यैः ॥ रविमरुतमहेन्द्रसंनिकाशैस्सुरमथनैस्सुदृढैस्सुसेवितं यत् ॥ ७४॥
वर-समर-रतैः युतम् समंतात् अज-शिव-पूजनया विशुद्ध-वीर्यैः ॥ रवि-मरुत-महा-इन्द्र-संनिकाशैः सुर-मथनैः सु दृढैः सु सेवितम् यत् ॥ ७४॥
vara-samara-rataiḥ yutam samaṃtāt aja-śiva-pūjanayā viśuddha-vīryaiḥ .. ravi-maruta-mahā-indra-saṃnikāśaiḥ sura-mathanaiḥ su dṛḍhaiḥ su sevitam yat .. 74..
शास्त्रवेदपुराणेषु येये धर्माः प्रकीर्तिताः ॥ शिवप्रियास्सदा देवास्ते धर्मास्तत्र सर्वतः ॥ ७५ ॥
शास्त्र-वेद-पुराणेषु ये ये धर्माः प्रकीर्तिताः ॥ शिव-प्रियाः सदा देवाः ते धर्माः तत्र सर्वतस् ॥ ७५ ॥
śāstra-veda-purāṇeṣu ye ye dharmāḥ prakīrtitāḥ .. śiva-priyāḥ sadā devāḥ te dharmāḥ tatra sarvatas .. 75 ..
एवं लब्धवरास्ते तु दैतेयास्तारकात्मजाः ॥ शैवं मयमुपाश्रित्य निवसंति स्म तत्र ह ॥ ७६ ॥
एवम् लब्ध-वराः ते तु दैतेयाः तारक-आत्मजाः ॥ शैवम् मयम् उपाश्रित्य निवसंति स्म तत्र ह ॥ ७६ ॥
evam labdha-varāḥ te tu daiteyāḥ tāraka-ātmajāḥ .. śaivam mayam upāśritya nivasaṃti sma tatra ha .. 76 ..
सर्वं त्रैलोक्यमुत्सार्य प्रविश्य नगराणि ते ॥ कुर्वंति स्म महद्राज्यं शिवमार्गरतास्सदा ॥ ७७ ॥
सर्वम् त्रैलोक्यम् उत्सार्य प्रविश्य नगराणि ते ॥ कुर्वंति स्म महत् राज्यम् शिव-मार्ग-रताः सदा ॥ ७७ ॥
sarvam trailokyam utsārya praviśya nagarāṇi te .. kurvaṃti sma mahat rājyam śiva-mārga-ratāḥ sadā .. 77 ..
ततो महान् गतः कालो वसतां पुण्यकर्मणाम् ॥ यथासुखं यथाजोषं सद्राज्यं कुर्वतां मुने ॥ ७८ ॥
ततस् महान् गतः कालः वसताम् पुण्य-कर्मणाम् ॥ यथासुखम् यथाजोषम् सत्-राज्यम् कुर्वताम् मुने ॥ ७८ ॥
tatas mahān gataḥ kālaḥ vasatām puṇya-karmaṇām .. yathāsukham yathājoṣam sat-rājyam kurvatām mune .. 78 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनम् नाम प्रथमः अध्यायः ॥ १ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṇḍe tripuravadhopākhyāne tripuravarṇanam nāma prathamaḥ adhyāyaḥ .. 1 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In