| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
तस्मिन् दैत्याधिपे पौरे सभ्रातरि विमोहिते ॥ सनत्कुमार किं वासीत्तदाचक्ष्वाखिलं विभो ॥ १ ॥
तस्मिन् दैत्य-अधिपे पौरे स भ्रातरि विमोहिते ॥ सनत्कुमार किम् वा आसीत् तत् आचक्ष्व अखिलम् विभो ॥ १ ॥
tasmin daitya-adhipe paure sa bhrātari vimohite .. sanatkumāra kim vā āsīt tat ācakṣva akhilam vibho .. 1 ..
।। सनत्कुमार उवाच ।।
त्रिपुरे च तथाभूते दैत्ये त्यक्तशिवार्चने ॥ स्त्रीधर्मे निखिले नष्टे दुराचारे व्यवस्थिते ॥ २ ॥
त्रिपुरे च तथाभूते दैत्ये त्यक्त-शिव-अर्चने ॥ स्त्री-धर्मे निखिले नष्टे दुराचारे व्यवस्थिते ॥ २ ॥
tripure ca tathābhūte daitye tyakta-śiva-arcane .. strī-dharme nikhile naṣṭe durācāre vyavasthite .. 2 ..
कृतार्थ इव लक्ष्मीशो देवैस्सार्द्धमुमापतिम् ॥ निवेदितुं तच्चरित्रं कैलासमगमद्धरिः ॥ ३ ॥
कृतार्थः इव लक्ष्मीशः देवैः सार्द्धम् उमापतिम् ॥ निवेदितुम् तत् चरित्रम् कैलासम् अगमत् हरिः ॥ ३ ॥
kṛtārthaḥ iva lakṣmīśaḥ devaiḥ sārddham umāpatim .. niveditum tat caritram kailāsam agamat hariḥ .. 3 ..
तस्योपकंठं स्थित्वाऽसौ देवैस्सह रमापतिः ॥ ततो भूरि स च ब्रह्मा परमेण समाधिना ॥ ४ ॥
तस्य उपकंठम् स्थित्वा असौ देवैः सह रमापतिः ॥ ततस् भूरि स च ब्रह्मा परमेण समाधिना ॥ ४ ॥
tasya upakaṃṭham sthitvā asau devaiḥ saha ramāpatiḥ .. tatas bhūri sa ca brahmā parameṇa samādhinā .. 4 ..
मनसा प्राप्य सर्वज्ञं ब्रह्मणा स हरिस्तदा ॥ तुष्टाव वाग्भिरिष्ट्वाभिश्शंकरं पुरुषोत्तमः ॥ ५ ॥
मनसा प्राप्य सर्वज्ञम् ब्रह्मणा स हरिः तदा ॥ तुष्टाव वाग्भिः इष्ट्वाभिः शंकरम् पुरुषोत्तमः ॥ ५ ॥
manasā prāpya sarvajñam brahmaṇā sa hariḥ tadā .. tuṣṭāva vāgbhiḥ iṣṭvābhiḥ śaṃkaram puruṣottamaḥ .. 5 ..
।। विष्णुरुवाच।।
महेश्वराय देवाय नमस्ते परमात्मने ॥ नारायणाय रुद्राय ब्रह्मणे ब्रह्मरूपिणे ॥ ६ ॥
महेश्वराय देवाय नमः ते परमात्मने ॥ नारायणाय रुद्राय ब्रह्मणे ब्रह्म-रूपिणे ॥ ६ ॥
maheśvarāya devāya namaḥ te paramātmane .. nārāyaṇāya rudrāya brahmaṇe brahma-rūpiṇe .. 6 ..
एवं कृत्वा महादेवं दंडवत्प्रणिपत्य ह ॥ जजाप रुद्रमंत्रं च दक्षिणामूर्तिसंभवम्॥ ७ ॥
एवम् कृत्वा महादेवम् दंड-वत् प्रणिपत्य ह ॥ जजाप रुद्र-मंत्रम् च दक्षिणामूर्ति-संभवम्॥ ७ ॥
evam kṛtvā mahādevam daṃḍa-vat praṇipatya ha .. jajāpa rudra-maṃtram ca dakṣiṇāmūrti-saṃbhavam.. 7 ..
जले स्थित्वा सार्द्धकोटिप्रमितं तन्मनाः प्रभुः॥ संस्मरन् मनसा शंभुं स्वप्रभुं परमेश्वरम् ॥ ८ ॥
जले स्थित्वा सार्द्ध-कोटि-प्रमितम् तद्-मनाः प्रभुः॥ संस्मरन् मनसा शंभुम् स्व-प्रभुम् परमेश्वरम् ॥ ८ ॥
jale sthitvā sārddha-koṭi-pramitam tad-manāḥ prabhuḥ.. saṃsmaran manasā śaṃbhum sva-prabhum parameśvaram .. 8 ..
तावद्देवास्तदा सर्वे तन्मनस्का महेश्वरम् ॥ ९॥
तावत् देवाः तदा सर्वे तद्-मनस्काः महेश्वरम् ॥ ९॥
tāvat devāḥ tadā sarve tad-manaskāḥ maheśvaram .. 9..
देवा ऊचुः ।।
नमस्सर्वात्मने तुभ्यं शंकरायार्तिहारिणे ॥ रुद्राय नीलकंठाय चिद्रूपाय प्रचेतसे ॥ 2.5.6.१० ॥
नमः सर्वात्मने तुभ्यम् शंकराय आर्ति-हारिणे ॥ रुद्राय नीलकंठाय चित्-रूपाय प्रचेतसे ॥ २।५।६।१० ॥
namaḥ sarvātmane tubhyam śaṃkarāya ārti-hāriṇe .. rudrāya nīlakaṃṭhāya cit-rūpāya pracetase .. 2.5.6.10 ..
गतिर्नस्सर्वदा त्वं हि सर्वापद्विनिवारकः ॥ त्वमेव सर्वदात्माभिर्वंद्यो देवारिसूदन ॥ ११ ॥
गतिः नः सर्वदा त्वम् हि सर्व-आपद्-विनिवारकः ॥ त्वम् एव सर्वदा आत्माभिः वंद्यः देव-अरि-सूदन ॥ ११ ॥
gatiḥ naḥ sarvadā tvam hi sarva-āpad-vinivārakaḥ .. tvam eva sarvadā ātmābhiḥ vaṃdyaḥ deva-ari-sūdana .. 11 ..
त्वमादिस्त्वमनादिश्च स्वानंदश्चाक्षयः प्रभुः ॥ प्रकृतेः पुरुषस्यापि साक्षात्स्रष्टा जगत्प्रभुः ॥ १२॥
त्वम् आदिः त्वम् अनादिः च स्व-आनंदः च अक्षयः प्रभुः ॥ प्रकृतेः पुरुषस्य अपि साक्षात् स्रष्टा जगत्प्रभुः ॥ १२॥
tvam ādiḥ tvam anādiḥ ca sva-ānaṃdaḥ ca akṣayaḥ prabhuḥ .. prakṛteḥ puruṣasya api sākṣāt sraṣṭā jagatprabhuḥ .. 12..
त्वमेव जगतां कर्ता भर्ता हर्ता त्वमेव हि॥ ब्रह्मा विष्णुर्हरो भूत्वा रजस्सत्त्वतमोगुणैः॥ १३॥
त्वम् एव जगताम् कर्ता भर्ता हर्ता त्वम् एव हि॥ ब्रह्मा विष्णुः हरः भूत्वा रजः-सत्त्व-तमः-गुणैः॥ १३॥
tvam eva jagatām kartā bhartā hartā tvam eva hi.. brahmā viṣṇuḥ haraḥ bhūtvā rajaḥ-sattva-tamaḥ-guṇaiḥ.. 13..
तारकोसि जगत्यस्मिन्सर्वेषामधिपोऽव्ययः॥ वरदो वाङ्मयो वाच्यो वाच्यवाचकवर्जितः॥ १४॥
तारकः असि जगति अस्मिन् सर्वेषाम् अधिपः अव्ययः॥ ॥ १४॥
tārakaḥ asi jagati asmin sarveṣām adhipaḥ avyayaḥ.. .. 14..
याच्यो मुक्त्यर्थमीशानो योगिभिर्योगवित्तमैः॥ हृत्पुंडरीकविवरे योगिनां त्वं हि संस्थितः ॥ १५॥
याच्यः मुक्ति-अर्थम् ईशानः योगिभिः योग-वित्तमैः॥ हृद्-पुंडरीक-विवरे योगिनाम् त्वम् हि संस्थितः ॥ १५॥
yācyaḥ mukti-artham īśānaḥ yogibhiḥ yoga-vittamaiḥ.. hṛd-puṃḍarīka-vivare yoginām tvam hi saṃsthitaḥ .. 15..
वदंति वेदास्त्वां संतः परब्रह्मस्वरूपिणम् ॥ भवंतं तत्त्वमित्यद्य तेजोराशिं परात्परम्॥ १६॥
वदंति वेदाः त्वाम् संतः पर-ब्रह्म-स्वरूपिणम् ॥ भवन्तम् तत्त्वम् इति अद्य तेजः-राशिम् परात्परम्॥ १६॥
vadaṃti vedāḥ tvām saṃtaḥ para-brahma-svarūpiṇam .. bhavantam tattvam iti adya tejaḥ-rāśim parātparam.. 16..
परमात्मानमित्याहुररस्मिन् जगति यद्विभो॥ त्वमेव शर्व सर्वात्मन् त्रिलोकाधिपते भव॥ १७॥
परमात्मानम् इति आहुः अरस्मिन् जगति यत् विभो॥ त्वम् एव शर्व सर्व-आत्मन् त्रिलोक-अधिपते भव॥ १७॥
paramātmānam iti āhuḥ arasmin jagati yat vibho.. tvam eva śarva sarva-ātman triloka-adhipate bhava.. 17..
दृष्टं श्रुतं स्तुतं सर्वं ज्ञायमानं जगद्गुरो॥ अणोरल्पतरं प्राहुर्महतोपि महत्तरम् ॥ १८॥
दृष्टम् श्रुतम् स्तुतम् सर्वम् ज्ञायमानम् जगद्गुरो॥ अणोः अल्पतरम् प्राहुः महतः अपि महत्तरम् ॥ १८॥
dṛṣṭam śrutam stutam sarvam jñāyamānam jagadguro.. aṇoḥ alpataram prāhuḥ mahataḥ api mahattaram .. 18..
सर्वतः पाणिपादांतं सर्वतोक्षिशिरोमुखम् ॥ सर्वतश्श्रवणघ्राणं त्वां नमामि च सर्वतः ।१९॥
सर्वतस् पाणि-पाद-अंतम् सर्वतस् अक्षि-शिरः-मुखम् ॥ सर्वतस् श्रवण-घ्राणम् त्वाम् नमामि च सर्वतस् ।१९॥
sarvatas pāṇi-pāda-aṃtam sarvatas akṣi-śiraḥ-mukham .. sarvatas śravaṇa-ghrāṇam tvām namāmi ca sarvatas .19..
सर्वज्ञं सर्वतो व्यापिन् सर्वेश्वरमनावृतम्॥ विश्वरूपं विरूपाक्षं त्वां नमामि च सर्वतः॥ 2.5.6.२०॥
सर्वज्ञम् सर्वतस् व्यापिन् सर्व-ईश्वरम् अनावृतम्॥ विश्वरूपम् विरूपाक्षम् त्वाम् नमामि च सर्वतस्॥ २।५।६।२०॥
sarvajñam sarvatas vyāpin sarva-īśvaram anāvṛtam.. viśvarūpam virūpākṣam tvām namāmi ca sarvatas.. 2.5.6.20..
सर्वेश्वरं भवाध्यक्षं सत्यं शिवमनुत्तमम्॥ कोटि भास्करसंकाशं त्वां नमामि च सर्वतः॥ २१॥
सर्वेश्वरम् भवाध्यक्षम् सत्यम् शिवम् अनुत्तमम्॥ कोटि भास्कर-संकाशम् त्वाम् नमामि च सर्वतस्॥ २१॥
sarveśvaram bhavādhyakṣam satyam śivam anuttamam.. koṭi bhāskara-saṃkāśam tvām namāmi ca sarvatas.. 21..
विश्वदेवमनाद्यंतं षट्त्रिंशत्कमनीश्वरम्॥ प्रवर्तकं च सर्वेषां त्वां नमामि च सर्वतः॥ २२॥
विश्वदेवम् अनाद्यंतम् षट्त्रिंशत्कम् अनीश्वरम्॥ प्रवर्तकम् च सर्वेषाम् त्वाम् नमामि च सर्वतस्॥ २२॥
viśvadevam anādyaṃtam ṣaṭtriṃśatkam anīśvaram.. pravartakam ca sarveṣām tvām namāmi ca sarvatas.. 22..
प्रवर्तकं च प्रकृतेस्सर्वस्य प्रपितामहम् ॥ सर्वविग्रहमीशं हि त्वां नमामि च सर्वतः ॥ २३॥
प्रवर्तकम् च प्रकृतेः सर्वस्य प्रपितामहम् ॥ सर्व-विग्रहम् ईशम् हि त्वाम् नमामि च सर्वतस् ॥ २३॥
pravartakam ca prakṛteḥ sarvasya prapitāmaham .. sarva-vigraham īśam hi tvām namāmi ca sarvatas .. 23..
एवं वदंति वरदं सर्वावासं स्वयम्भुवम् ॥ श्रुतयः श्रुतिसारज्ञं श्रुतिसारविदश्च ये ॥ २४ ॥
एवम् वदंति वर-दम् सर्व-आवासम् स्वयम्भुवम् ॥ श्रुतयः श्रुति-सार-ज्ञम् श्रुति-सार-विदः च ये ॥ २४ ॥
evam vadaṃti vara-dam sarva-āvāsam svayambhuvam .. śrutayaḥ śruti-sāra-jñam śruti-sāra-vidaḥ ca ye .. 24 ..
अदृश्यमस्माभिरनेकभूतं त्वया कृतं यद्भवताथ लोके ॥ त्वामेव देवासुरभूसुराश्च अन्ये च वै स्थावरजंगमाश्च ॥ २५॥
अदृश्यम् अस्माभिः अनेक-भूतम् त्वया कृतम् यत् भवता अथ लोके ॥ त्वाम् एव देव-असुर-भूसुराः च अन्ये च वै स्थावर-जंगमाः च ॥ २५॥
adṛśyam asmābhiḥ aneka-bhūtam tvayā kṛtam yat bhavatā atha loke .. tvām eva deva-asura-bhūsurāḥ ca anye ca vai sthāvara-jaṃgamāḥ ca .. 25..
पाह्यनन्यगतीञ्शंभो सुरान्नो देववल्लभ ॥ नष्टप्रायांस्त्रिपुरतो विनिहत्यासुरान्क्षणात् ॥ २६॥
पाहि अनन्यगतीन् शंभो सुरान् नः देव-वल्लभ ॥ नष्ट-प्रायान् त्रिपुरतः विनिहत्य असुरान् क्षणात् ॥ २६॥
pāhi ananyagatīn śaṃbho surān naḥ deva-vallabha .. naṣṭa-prāyān tripurataḥ vinihatya asurān kṣaṇāt .. 26..
मायया मोहितास्तेऽद्य भवतः परमेश्वर ॥ विष्णुना प्रोक्तयुक्त्या त उज्झिता धर्मतः प्रभो ॥ २७॥
मायया मोहिताः ते अद्य भवतः परमेश्वर ॥ विष्णुना प्रोक्त-युक्त्या ते उज्झिताः धर्मतः प्रभो ॥ २७॥
māyayā mohitāḥ te adya bhavataḥ parameśvara .. viṣṇunā prokta-yuktyā te ujjhitāḥ dharmataḥ prabho .. 27..
संत्यक्तसर्वधर्मांश्च बोद्धागमसमाश्रिताः ॥ अस्मद्भाग्यवशाज्जाता दैत्यास्ते भक्तवत्सल ॥ २८॥
संत्यक्त-सर्व-धर्मान् च बोद्ध-आगम-समाश्रिताः ॥ अस्मद्-भाग्य-वशात् जाताः दैत्याः ते भक्त-वत्सल ॥ २८॥
saṃtyakta-sarva-dharmān ca boddha-āgama-samāśritāḥ .. asmad-bhāgya-vaśāt jātāḥ daityāḥ te bhakta-vatsala .. 28..
सदा त्वं कार्यकर्त्ताहि देवानां शरणप्रद ॥ वयं ते शरणापन्ना यथेच्छसि तथा कुरु ॥ २९ ॥
सदा त्वम् देवानाम् शरण-प्रद ॥ वयम् ते शरण-आपन्नाः यथा इच्छसि तथा कुरु ॥ २९ ॥
sadā tvam devānām śaraṇa-prada .. vayam te śaraṇa-āpannāḥ yathā icchasi tathā kuru .. 29 ..
सनत्कुमार उवाच ।।
इति स्तुत्वा महेशानं देवास्तु पुरतः स्थिताः ॥ कृतांजलिपुटा दीना आसन् संनतमूर्तयः ॥ ॥ 2.5.6.३० ॥
इति स्तुत्वा महेशानम् देवाः तु पुरतस् स्थिताः ॥ कृत-अंजलि-पुटाः दीनाः आसन् संनत-मूर्तयः ॥ ॥ २।५।६।३० ॥
iti stutvā maheśānam devāḥ tu puratas sthitāḥ .. kṛta-aṃjali-puṭāḥ dīnāḥ āsan saṃnata-mūrtayaḥ .. .. 2.5.6.30 ..
स्तुतश्चैवं सुरेन्द्राद्यैर्विष्णोर्जाप्येन चेश्वरः ॥ अगच्छत्तत्र सर्वेशो वृषमारुह्य हर्षितः ॥ ३१ ॥
स्तुतः च एवम् सुर-इन्द्र-आद्यैः विष्णोः जाप्येन च ईश्वरः ॥ अगच्छत् तत्र सर्व-ईशः वृषम् आरुह्य हर्षितः ॥ ३१ ॥
stutaḥ ca evam sura-indra-ādyaiḥ viṣṇoḥ jāpyena ca īśvaraḥ .. agacchat tatra sarva-īśaḥ vṛṣam āruhya harṣitaḥ .. 31 ..
विष्णुमालिंग्य नंदिशादवरुह्य प्रसन्नधीः ॥ ददर्श सुदृशा तत्र नन्दीदत्तकरोऽखिलान् ॥ ३२॥
विष्णुम् आलिंग्य नंदिशात् अवरुह्य प्रसन्न-धीः ॥ ददर्श सुदृशा तत्र नन्दीदत्त-करः अखिलान् ॥ ३२॥
viṣṇum āliṃgya naṃdiśāt avaruhya prasanna-dhīḥ .. dadarśa sudṛśā tatra nandīdatta-karaḥ akhilān .. 32..
अथ देवान् समालोक्य कृपादृष्ट्या हरिं हरः ॥ प्राह गंभीरया वाचा प्रसन्नः पार्वतीपतिः ॥ ३३॥
अथ देवान् समालोक्य कृपा-दृष्ट्या हरिम् हरः ॥ प्राह गंभीरया वाचा प्रसन्नः पार्वतीपतिः ॥ ३३॥
atha devān samālokya kṛpā-dṛṣṭyā harim haraḥ .. prāha gaṃbhīrayā vācā prasannaḥ pārvatīpatiḥ .. 33..
शिव उवाच ।। ।।
ज्ञातं मयेदमधुना देवकार्यं सुरेश्वर ॥ विष्णोर्मायाबलं चैव नारदस्य च धीमतः ॥ ३४॥ ॥
ज्ञातम् मया इदम् अधुना देव-कार्यम् सुरेश्वर ॥ विष्णोः माया-बलम् च एव नारदस्य च धीमतः ॥ ३४॥ ॥
jñātam mayā idam adhunā deva-kāryam sureśvara .. viṣṇoḥ māyā-balam ca eva nāradasya ca dhīmataḥ .. 34.. ..
तेषामधर्मनिष्ठानां दैत्यानां देवसत्तम ॥ पुरत्रयविनाशं च करिष्येऽहं न संशयः ॥ ३५॥
तेषाम् अधर्म-निष्ठानाम् दैत्यानाम् देव-सत्तम ॥ पुरत्रय-विनाशम् च करिष्ये अहम् न संशयः ॥ ३५॥
teṣām adharma-niṣṭhānām daityānām deva-sattama .. puratraya-vināśam ca kariṣye aham na saṃśayaḥ .. 35..
परन्तु ते महादैत्या मद्भक्ता दृढमानसाः ॥ अथ वध्या मयैव स्युर्व्याजत्यक्तवृषोत्तमाः ॥ ३६॥
परन्तु ते महा-दैत्याः मद्-भक्ताः दृढ-मानसाः ॥ अथ वध्याः मया एव स्युः व्याज-त्यक्त-वृष-उत्तमाः ॥ ३६॥
parantu te mahā-daityāḥ mad-bhaktāḥ dṛḍha-mānasāḥ .. atha vadhyāḥ mayā eva syuḥ vyāja-tyakta-vṛṣa-uttamāḥ .. 36..
विष्णुर्हन्यात्परो वाथ यत्त्याजितवृषाः कृताः ॥ दैत्या मद्भक्तिरहितास्सर्वे त्रिपुरवासिनः ॥ ३७ ॥
विष्णुः हन्यात् परः वा अथ यत् त्याजित-वृषाः कृताः ॥ दैत्याः मद्-भक्ति-रहिताः सर्वे त्रिपुर-वासिनः ॥ ३७ ॥
viṣṇuḥ hanyāt paraḥ vā atha yat tyājita-vṛṣāḥ kṛtāḥ .. daityāḥ mad-bhakti-rahitāḥ sarve tripura-vāsinaḥ .. 37 ..
इति शंभोस्तु वचनं श्रुत्वा सर्वे दिवौकसः ॥ विमनस्का बभूवुस्ते हरिश्चापि मुनीश्वर ॥ ३८ ॥
इति शंभोः तु वचनम् श्रुत्वा सर्वे दिवौकसः ॥ विमनस्काः बभूवुः ते हरिः च अपि मुनि-ईश्वर ॥ ३८ ॥
iti śaṃbhoḥ tu vacanam śrutvā sarve divaukasaḥ .. vimanaskāḥ babhūvuḥ te hariḥ ca api muni-īśvara .. 38 ..
देवान् विष्णुमुदासीनान् दृष्ट्वा च भवकृद्विधिः ॥ कृतांजलिपुरश्शंभुं ब्रह्मा वचनमब्रवीत् ॥ ३९ ॥
देवान् विष्णुम् उदासीनान् दृष्ट्वा च भव-कृत् विधिः ॥ कृत-अंजलि-पुरः शंभुम् ब्रह्मा वचनम् अब्रवीत् ॥ ३९ ॥
devān viṣṇum udāsīnān dṛṣṭvā ca bhava-kṛt vidhiḥ .. kṛta-aṃjali-puraḥ śaṃbhum brahmā vacanam abravīt .. 39 ..
ब्रह्मोवाच ।।
न किंचिद्विद्यते पापं यस्मात्त्वं योगवित्तमः ॥ परमेशः परब्रह्म सदा देवर्षिरक्षकः ॥ 2.5.6.४० ॥
न किंचिद् विद्यते पापम् यस्मात् त्वम् योग-वित्तमः ॥ सदा ॥ २।५।६।४० ॥
na kiṃcid vidyate pāpam yasmāt tvam yoga-vittamaḥ .. sadā .. 2.5.6.40 ..
तवैव शासनात्ते वै मोहिताः प्रेरको भवान् ॥ त्यक्तस्वधर्मत्वत्पूजाः परवध्यास्तथापि न ॥ ४१॥
तव एव शासनात् ते वै मोहिताः प्रेरकः भवान् ॥ त्यक्त-स्वधर्म-त्वद्-पूजाः पर-वध्याः तथा अपि न ॥ ४१॥
tava eva śāsanāt te vai mohitāḥ prerakaḥ bhavān .. tyakta-svadharma-tvad-pūjāḥ para-vadhyāḥ tathā api na .. 41..
अतस्त्वया महादेव सुरर्षिप्राणरक्षक ॥ साधूनां रक्षणार्थाय हंतव्या म्लेच्छजातयः ॥ ४२ ॥
अतस् त्वया महादेव सुर-ऋषि-प्राण-रक्षक ॥ साधूनाम् रक्षण-अर्थाय हंतव्याः म्लेच्छ-जातयः ॥ ४२ ॥
atas tvayā mahādeva sura-ṛṣi-prāṇa-rakṣaka .. sādhūnām rakṣaṇa-arthāya haṃtavyāḥ mleccha-jātayaḥ .. 42 ..
राज्ञस्तस्य न तत्पापं विद्यते धर्मतस्तव ॥ तस्माद्रक्षेद्द्विजान् साधून्कंटकाद्वै विशोधयेत् ॥ ४३॥
राज्ञः तस्य न तत् पापम् विद्यते धर्मतः तव ॥ तस्मात् रक्षेत् द्विजान् साधून् कंटकात् वै विशोधयेत् ॥ ४३॥
rājñaḥ tasya na tat pāpam vidyate dharmataḥ tava .. tasmāt rakṣet dvijān sādhūn kaṃṭakāt vai viśodhayet .. 43..
एवमिच्छेदिहान्यत्र राजा चेद्राज्यमात्मनः ॥ प्रभुत्वं सर्वलोकानां तस्माद्रक्षस्व मा चिरम् ॥ ४४॥
एवम् इच्छेत् इह अन्यत्र राजा चेद् राज्यम् आत्मनः ॥ प्रभु-त्वम् सर्व-लोकानाम् तस्मात् रक्षस्व मा चिरम् ॥ ४४॥
evam icchet iha anyatra rājā ced rājyam ātmanaḥ .. prabhu-tvam sarva-lokānām tasmāt rakṣasva mā ciram .. 44..
मुनीन्द्रेशास्तथा यज्ञा वेदाश्शास्त्रादयोखिलाः॥ प्रजास्ते देवदेवेश ह्ययं विष्णुरपि ध्रुवम्॥ ४५॥
मुनि-इन्द्र-ईशाः तथा यज्ञाः वेदाः शास्त्र-आदयः उखिलाः॥ प्रजाः ते देवदेवेश हि अयम् विष्णुः अपि ध्रुवम्॥ ४५॥
muni-indra-īśāḥ tathā yajñāḥ vedāḥ śāstra-ādayaḥ ukhilāḥ.. prajāḥ te devadeveśa hi ayam viṣṇuḥ api dhruvam.. 45..
देवता सार्वभौमस्त्वं सम्राट्सर्वेश्वरः प्रभो ॥ परिवारस्तवैवैष हर्यादि सकलं जगत् ॥ ४६ ॥
देवता सार्वभौमः त्वम् सम्राज् सर्व-ईश्वरः प्रभो ॥ परिवारः तव एव एष हरि-आदि सकलम् जगत् ॥ ४६ ॥
devatā sārvabhaumaḥ tvam samrāj sarva-īśvaraḥ prabho .. parivāraḥ tava eva eṣa hari-ādi sakalam jagat .. 46 ..
युवराजो हरिस्तेज ब्रह्माहं ते पुरोहितः ॥ राजकार्यकरः शक्रस्त्वदाज्ञापरि पालकः ॥ ४७ ॥
युवराजः हरिः तेज ब्रह्मा अहम् ते पुरोहितः ॥ राज-कार्य-करः शक्रः त्वद्-आज्ञा-परि पालकः ॥ ४७ ॥
yuvarājaḥ hariḥ teja brahmā aham te purohitaḥ .. rāja-kārya-karaḥ śakraḥ tvad-ājñā-pari pālakaḥ .. 47 ..
देवा अन्येपि सर्वेश तव शासनयन्त्रिताः ॥ स्वस्वकार्यकरा नित्यं सत्यं सत्यं न संशयः ॥ ४८ ॥
देवाः अन्ये अपि सर्वेश तव शासन-यन्त्रिताः ॥ स्व-स्व-कार्य-कराः नित्यम् सत्यम् सत्यम् न संशयः ॥ ४८ ॥
devāḥ anye api sarveśa tava śāsana-yantritāḥ .. sva-sva-kārya-karāḥ nityam satyam satyam na saṃśayaḥ .. 48 ..
सनत्कुमार उवाच ।।
एतच्छ्रुत्वा वचस्तस्य ब्रह्मणः परमेश्वरः ॥ प्रत्युवाच प्रसन्नात्मा शंकरस्सुरपो विधिम् ॥ ४९ ॥
एतत् श्रुत्वा वचः तस्य ब्रह्मणः परमेश्वरः ॥ प्रत्युवाच प्रसन्न-आत्मा शंकरः सुरपः विधिम् ॥ ४९ ॥
etat śrutvā vacaḥ tasya brahmaṇaḥ parameśvaraḥ .. pratyuvāca prasanna-ātmā śaṃkaraḥ surapaḥ vidhim .. 49 ..
शिव उवाच ।।
हे ब्रह्मन् यद्यहं देवराजस्सम्राट् प्रकीर्त्तितः ॥ तत्प्रकारो न मे कश्चिद्गृह्णीयां यमिह प्रभुः ॥ 2.5.6.५० ॥
हे ब्रह्मन् यदि अहम् देवराजः सम्राज् प्रकीर्त्तितः ॥ तद्-प्रकारः न मे कश्चिद् गृह्णीयाम् यम् इह प्रभुः ॥ २।५।६।५० ॥
he brahman yadi aham devarājaḥ samrāj prakīrttitaḥ .. tad-prakāraḥ na me kaścid gṛhṇīyām yam iha prabhuḥ .. 2.5.6.50 ..
रथो नास्ति महादिव्यस्तादृक् सारथिना सह ॥ धनुर्बाणादिकं चापि संग्रामे जयकारकम् ॥ ५१ ॥
रथः न अस्ति महा-दिव्यः तादृश् सारथिना सह ॥ धनुः-बाण-आदिकम् च अपि संग्रामे जय-कारकम् ॥ ५१ ॥
rathaḥ na asti mahā-divyaḥ tādṛś sārathinā saha .. dhanuḥ-bāṇa-ādikam ca api saṃgrāme jaya-kārakam .. 51 ..
यमास्थाय धनुर्बाणान् गृहीत्वा योज्य व मनः ॥ निहनिष्याम्यहं दैत्यान् प्रबलानपि संगरे ॥ ५२ ॥
यम् आस्थाय धनुः-बाणान् गृहीत्वा योज्य मनः ॥ निहनिष्यामि अहम् दैत्यान् प्रबलान् अपि संगरे ॥ ५२ ॥
yam āsthāya dhanuḥ-bāṇān gṛhītvā yojya manaḥ .. nihaniṣyāmi aham daityān prabalān api saṃgare .. 52 ..
सनत्कुमार उवाच ।।
अद्य सब्रह्मका देवास्सेन्द्रोपेन्द्राः प्रहर्षिताः ॥ श्रुत्वा प्रभोस्तदा वाक्यं नत्वा प्रोचुर्महेश्वरम् ॥ ५३ ॥
अद्य स ब्रह्मकाः देवाः स इन्द्र-उपेन्द्राः प्रहर्षिताः ॥ श्रुत्वा प्रभोः तदा वाक्यम् नत्वा प्रोचुः महेश्वरम् ॥ ५३ ॥
adya sa brahmakāḥ devāḥ sa indra-upendrāḥ praharṣitāḥ .. śrutvā prabhoḥ tadā vākyam natvā procuḥ maheśvaram .. 53 ..
देवा ऊचुः ।।
वयं भवाम देवेश तत्प्रकारा महेश्वर ॥ रथादिका तव स्वा मिन्संनद्धास्संगराय हि ॥ ५४॥
वयम् भवाम देवेश तद्-प्रकाराः महेश्वर ॥ रथ-आदिका तव स्वा मिन् संनद्धाः संगराय हि ॥ ५४॥
vayam bhavāma deveśa tad-prakārāḥ maheśvara .. ratha-ādikā tava svā min saṃnaddhāḥ saṃgarāya hi .. 54..
इत्युक्त्वा संहतास्सर्वे शिवेच्छामधिगम्य ह ॥ पृथगूचुः प्रसन्नास्ते कृताञ्जलिपुटास्सुराः ॥ ५५॥
इति उक्त्वा संहताः सर्वे शिव-इच्छाम् अधिगम्य ह ॥ पृथक् ऊचुः प्रसन्नाः ते कृताञ्जलि-पुटाः सुराः ॥ ५५॥
iti uktvā saṃhatāḥ sarve śiva-icchām adhigamya ha .. pṛthak ūcuḥ prasannāḥ te kṛtāñjali-puṭāḥ surāḥ .. 55..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शिवस्तुतिवर्णनं नाम षष्ठोऽध्यायः ॥ ६॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खण्डे शिवस्तुतिवर्णनम् नाम षष्ठः अध्यायः ॥ ६॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṇḍe śivastutivarṇanam nāma ṣaṣṭhaḥ adhyāyaḥ .. 6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In