| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
अथ शम्भुर्महादेवो रथस्थस्सर्वसंयुतः ॥ त्रिपुरं सकलं दग्धुमुद्यतोऽभूत्सुरद्विषाम्॥ १॥
अथ शम्भुः महादेवः रथ-स्थः सर्व-संयुतः ॥ त्रिपुरम् सकलम् दग्धुम् उद्यतः अभूत् सुरद्विषाम्॥ १॥
atha śambhuḥ mahādevaḥ ratha-sthaḥ sarva-saṃyutaḥ .. tripuram sakalam dagdhum udyataḥ abhūt suradviṣām.. 1..
शीर्षं स्थानकमास्थाय संधाय च शरोत्तमम् ॥ सज्जं तत्कार्मुकं कृत्वा प्रत्यालीढं महाद्भुतम् ॥ २॥
शीर्षम् स्थानकम् आस्थाय संधाय च शर-उत्तमम् ॥ सज्जम् तत् कार्मुकम् कृत्वा प्रत्यालीढम् महा-अद्भुतम् ॥ २॥
śīrṣam sthānakam āsthāya saṃdhāya ca śara-uttamam .. sajjam tat kārmukam kṛtvā pratyālīḍham mahā-adbhutam .. 2..
निवेश्य दृढमुष्टौ च दृष्टिं दृष्टौ निवेश्य च॥ अतिष्ठन्निश्चलस्तत्र शतं वर्षसहस्रकम् ॥ ३॥
निवेश्य दृढ-मुष्टौ च दृष्टिम् दृष्टौ निवेश्य च॥ अतिष्ठत् निश्चलः तत्र शतम् वर्ष-सहस्रकम् ॥ ३॥
niveśya dṛḍha-muṣṭau ca dṛṣṭim dṛṣṭau niveśya ca.. atiṣṭhat niścalaḥ tatra śatam varṣa-sahasrakam .. 3..
ततोङ्गुष्ठे गणाध्यक्षस्स तु दैत्यनिशंस्थितः॥ न लक्ष्यं विविशुस्तानि पुराण्यस्य त्रिशूलिनः ॥ ४॥
ततस् उङ्गुष्ठे गणाध्यक्षः स तु दैत्य-निशम् स्थितः॥ न लक्ष्यम् विविशुः तानि पुराणि अस्य त्रिशूलिनः ॥ ४॥
tatas uṅguṣṭhe gaṇādhyakṣaḥ sa tu daitya-niśam sthitaḥ.. na lakṣyam viviśuḥ tāni purāṇi asya triśūlinaḥ .. 4..
ततोंतरिक्षादशृणोद्धनुर्बाणधरो हरः ॥ मुंजकेशो विरूपाक्षो वाचं परमशोभनाम् ॥ ५॥
ततस् उंतरिक्षात् अशृणोत् धनुः-बाण-धरः हरः ॥ मुंजकेशः विरूप-अक्षः वाचम् परम-शोभनाम् ॥ ५॥
tatas uṃtarikṣāt aśṛṇot dhanuḥ-bāṇa-dharaḥ haraḥ .. muṃjakeśaḥ virūpa-akṣaḥ vācam parama-śobhanām .. 5..
भो भो न यावद्भगवन्नर्चितोऽसौ विनायकः॥ पुराणि जगदीशेश सांप्रतं न हनिष्यति ॥ ६ ॥
भो भो न यावत् भगवन् अर्चितः असौ विनायकः॥ पुराणि जगदीश-ईश सांप्रतम् न हनिष्यति ॥ ६ ॥
bho bho na yāvat bhagavan arcitaḥ asau vināyakaḥ.. purāṇi jagadīśa-īśa sāṃpratam na haniṣyati .. 6 ..
एतच्छ्रुत्वा तु वचनं गजवक्त्रमपूजयत् ॥ भद्रकालीं समाहूय ततोंधकनिषूदनः ॥ ७ ॥
एतत् श्रुत्वा तु वचनम् गजवक्त्रम् अपूजयत् ॥ भद्रकालीम् समाहूय ॥ ७ ॥
etat śrutvā tu vacanam gajavaktram apūjayat .. bhadrakālīm samāhūya .. 7 ..
तस्मिन् संपूजिते हर्षात्परितुष्टे पुरस्सरे ॥ विनायके ततो व्योम्नि ददर्श भगवान्हरः ॥ ८ ॥
तस्मिन् संपूजिते हर्षात् परितुष्टे पुरस्सरे ॥ विनायके ततस् व्योम्नि ददर्श भगवान् हरः ॥ ८ ॥
tasmin saṃpūjite harṣāt parituṣṭe purassare .. vināyake tatas vyomni dadarśa bhagavān haraḥ .. 8 ..
पुराणि त्रीणि दैत्यानां तारकाणां महात्मनाम् ॥ यथातथं हि युक्तानि केचिदित्थं वदंति ह ॥ ९ ॥
पुराणि त्रीणि दैत्यानाम् तारकाणाम् महात्मनाम् ॥ यथातथम् हि युक्तानि केचिद् इत्थम् वदंति ह ॥ ९ ॥
purāṇi trīṇi daityānām tārakāṇām mahātmanām .. yathātatham hi yuktāni kecid ittham vadaṃti ha .. 9 ..
परब्रह्मणि देवेश सर्वोपास्ये महेश्वरे ॥ अन्यप्रसादतः कार्यं सिद्धिर्घटति नेति हि ॥ 2.5.10.१० ॥
पर-ब्रह्मणि देवेश सर्व-उपास्ये महेश्वरे ॥ अन्य-प्रसादतः कार्यम् सिद्धिः घटति न इति हि ॥ २।५।१०।१० ॥
para-brahmaṇi deveśa sarva-upāsye maheśvare .. anya-prasādataḥ kāryam siddhiḥ ghaṭati na iti hi .. 2.5.10.10 ..
स स्वतंत्रः परं ब्रह्म सगुणो निर्गुणोऽपि ह ॥ अलक्ष्यः सकलैस्स्वामी परमात्मा निरंजनः ॥ ११ ॥
स स्वतंत्रः परम् ब्रह्म स गुणः निर्गुणः अपि ह ॥ अलक्ष्यः सकलैः स्वामी परमात्मा निरंजनः ॥ ११ ॥
sa svataṃtraḥ param brahma sa guṇaḥ nirguṇaḥ api ha .. alakṣyaḥ sakalaiḥ svāmī paramātmā niraṃjanaḥ .. 11 ..
पंचदेवात्मकः पंचदेवोपास्यः परः प्रभुः ॥ तस्योपास्यो न कोप्यस्ति स एवोपास्य आलयम् ॥ १२ ॥
पंच-देव-आत्मकः पंच-देव-उपास्यः परः प्रभुः ॥ तस्य उपास्यः न कः अपि अस्ति सः एव उपास्यः आलयम् ॥ १२ ॥
paṃca-deva-ātmakaḥ paṃca-deva-upāsyaḥ paraḥ prabhuḥ .. tasya upāsyaḥ na kaḥ api asti saḥ eva upāsyaḥ ālayam .. 12 ..
अथ वा लीलया तस्य सर्वं संघटते मुने ॥ चरितं देवदेवस्य वरदातुर्महेशितुः ॥ १३ ॥
अथ वा लीलया तस्य सर्वम् संघटते मुने ॥ चरितम् देवदेवस्य वर-दातुः महेशितुः ॥ १३ ॥
atha vā līlayā tasya sarvam saṃghaṭate mune .. caritam devadevasya vara-dātuḥ maheśituḥ .. 13 ..
तस्मिस्थिते महादेवे पूजयित्वा गणाधिपम् ॥ पुराणि तत्र कालेन जग्मुरेकत्वमाशु वै ॥ १४॥
तस्मिन् थिते महादेवे पूजयित्वा गणाधिपम् ॥ पुराणि तत्र कालेन जग्मुः एक-त्वम् आशु वै ॥ १४॥
tasmin thite mahādeve pūjayitvā gaṇādhipam .. purāṇi tatra kālena jagmuḥ eka-tvam āśu vai .. 14..
एकीभावं मुने तत्र त्रिपुरे समुपागते ॥ बभूव तुमुलो हर्षो देवादीनां महात्मनाम् ॥ १५ ॥
एकीभावम् मुने तत्र त्रिपुरे समुपागते ॥ बभूव तुमुलः हर्षः देव-आदीनाम् महात्मनाम् ॥ १५ ॥
ekībhāvam mune tatra tripure samupāgate .. babhūva tumulaḥ harṣaḥ deva-ādīnām mahātmanām .. 15 ..
ततो देवगणास्सर्वे सिद्धाश्च परमर्षयः ॥ जयेति वाचो मुमुचुः स्तुवंतश्चाष्टमूर्तिनम् ॥ १६ ॥
ततस् देव-गणाः सर्वे सिद्धाः च परम-ऋषयः ॥ जय इति वाचः मुमुचुः स्तुवंतः च अष्टमूर्तिनम् ॥ १६ ॥
tatas deva-gaṇāḥ sarve siddhāḥ ca parama-ṛṣayaḥ .. jaya iti vācaḥ mumucuḥ stuvaṃtaḥ ca aṣṭamūrtinam .. 16 ..
अथाहेति तदा ब्रह्मा विष्णुश्च जगतां पतिः ॥ समयोऽपि समायातो दैत्यानां वधकर्मणः ॥ १७॥
अथ आह इति तदा ब्रह्मा विष्णुः च जगताम् पतिः ॥ समयः अपि समायातः दैत्यानाम् वध-कर्मणः ॥ १७॥
atha āha iti tadā brahmā viṣṇuḥ ca jagatām patiḥ .. samayaḥ api samāyātaḥ daityānām vadha-karmaṇaḥ .. 17..
तेषां तारकपुत्राणां त्रिपुराणां महेश्वर ॥ देवकार्यं कुरु विभो एकत्वमपि चागतम् ॥ १८ ॥
तेषाम् तारक-पुत्राणाम् त्रिपुराणाम् महेश्वर ॥ देव-कार्यम् कुरु विभो एकत्वम् अपि च आगतम् ॥ १८ ॥
teṣām tāraka-putrāṇām tripurāṇām maheśvara .. deva-kāryam kuru vibho ekatvam api ca āgatam .. 18 ..
यावन्न यान्ति देवेश विप्रयोगं पुराणि वै ॥ तावद्बाणं विमुंचश्च त्रिपुरं भस्मसात्कुरु॥ ।१९॥
यावत् न यान्ति देवेश विप्रयोगम् पुराणि वै ॥ तावत् बाणम् विमुंचः च त्रिपुरम् भस्मसात्कुरु॥ ।१९॥
yāvat na yānti deveśa viprayogam purāṇi vai .. tāvat bāṇam vimuṃcaḥ ca tripuram bhasmasātkuru.. .19..
अथ सज्यं धनुः कृत्वा शर्वस्संधाय तं शरम् ॥ पूज्य पाशुपतास्त्रं स त्रिपुरं समचिंतयत् ॥ 2.5.10.२०॥
अथ सज्यम् धनुः कृत्वा शर्वः संधाय तम् शरम् ॥ पूज्य पाशुपत-अस्त्रम् स त्रिपुरम् समचिंतयत् ॥ २।५।१०।२०॥
atha sajyam dhanuḥ kṛtvā śarvaḥ saṃdhāya tam śaram .. pūjya pāśupata-astram sa tripuram samaciṃtayat .. 2.5.10.20..
अथ देवो महादेवो वरलीलाविशारदः ॥ केनापि कारणेनात्र सावज्ञं तदवैक्षत ॥ २१ ॥
अथ देवः महादेवः वर-लीला-विशारदः ॥ केन अपि कारणेन अत्र स अवज्ञम् तत् अवैक्षत ॥ २१ ॥
atha devaḥ mahādevaḥ vara-līlā-viśāradaḥ .. kena api kāraṇena atra sa avajñam tat avaikṣata .. 21 ..
पुरत्रयं विरूपाक्षः कर्तुं तद्भस्मसात्क्षणात् ॥ समर्थः परमेशानो मीनातु च सतां गतिः ॥ २२॥
पुरत्रयम् विरूपाक्षः कर्तुम् तत् भस्मसात् क्षणात् ॥ समर्थः परमेशानः मीनातु च सताम् गतिः ॥ २२॥
puratrayam virūpākṣaḥ kartum tat bhasmasāt kṣaṇāt .. samarthaḥ parameśānaḥ mīnātu ca satām gatiḥ .. 22..
दग्धुं समर्थो देवेशो वीक्षणेन जगत्त्रयम् ॥ अस्मद्यशो विवृद्ध्यर्थं शरं मोक्तुमिहार्हसि ॥ २३॥
दग्धुम् समर्थः देवेशः वीक्षणेन जगत्त्रयम् ॥ अस्मद्-यशः-विवृद्धि-अर्थम् शरम् मोक्तुम् इह अर्हसि ॥ २३॥
dagdhum samarthaḥ deveśaḥ vīkṣaṇena jagattrayam .. asmad-yaśaḥ-vivṛddhi-artham śaram moktum iha arhasi .. 23..
इति स्तुतोऽमरैस्सर्वैविष्ण्वादिविधिभिस्तदा ॥ दग्धुं पुरत्रयं तद्वै बाणेनैच्छन्महेश्वरः ॥ २४ ॥
इति स्तुतः अमरैः सर्वैः विष्णु-आदि-विधिभिः तदा ॥ दग्धुम् पुरत्रयम् तत् वै बाणेन ऐच्छत् महेश्वरः ॥ २४ ॥
iti stutaḥ amaraiḥ sarvaiḥ viṣṇu-ādi-vidhibhiḥ tadā .. dagdhum puratrayam tat vai bāṇena aicchat maheśvaraḥ .. 24 ..
अभिलाख्यमुहूर्ते तु विकृष्य धनुरद्भुतम् ॥ कृत्वा ज्यातलनिर्घोषं नादमत्यंतदुस्सहम् ॥ २५ ॥
अभिल-आख्य-मुहूर्ते तु विकृष्य धनुः अद्भुतम् ॥ कृत्वा ज्या-तल-निर्घोषम् नादम् अत्यंत-दुस्सहम् ॥ २५ ॥
abhila-ākhya-muhūrte tu vikṛṣya dhanuḥ adbhutam .. kṛtvā jyā-tala-nirghoṣam nādam atyaṃta-dussaham .. 25 ..
आत्मनो नाम विश्राव्य समाभाष्य महासुरान् ॥ मार्तंडकोटिवपुषं कांडमुग्रो मुमोच ह ॥ २६॥
आत्मनः नाम विश्राव्य समाभाष्य महा-असुरान् ॥ मार्तंड-कोटि-वपुषम् कांडम् उग्रः मुमोच ह ॥ २६॥
ātmanaḥ nāma viśrāvya samābhāṣya mahā-asurān .. mārtaṃḍa-koṭi-vapuṣam kāṃḍam ugraḥ mumoca ha .. 26..
ददाह त्रिपुरस्थास्तान्दैत्यांस्त्रीन्विमलापहः ॥ स आशुगो विष्णुमयो वह्निशल्यो महाज्वलन् ॥ २७ ॥
ददाह त्रिपुर-स्थाः तान् दैत्यान् त्रीन् विमल-अपहः ॥ सः आशु-गः विष्णु-मयः वह्नि-शल्यः महा-ज्वलन् ॥ २७ ॥
dadāha tripura-sthāḥ tān daityān trīn vimala-apahaḥ .. saḥ āśu-gaḥ viṣṇu-mayaḥ vahni-śalyaḥ mahā-jvalan .. 27 ..
ततः पुराणि दग्धानि चतुर्जलधिमेखलाम् ॥ गतानि युगपद्भूमिं त्रीणि दग्धानि भस्मशः ॥ २८ ॥
ततस् पुराणि दग्धानि चतुर्-जलधि-मेखलाम् ॥ गतानि युगपद् भूमिम् त्रीणि दग्धानि भस्मशस् ॥ २८ ॥
tatas purāṇi dagdhāni catur-jaladhi-mekhalām .. gatāni yugapad bhūmim trīṇi dagdhāni bhasmaśas .. 28 ..
दैत्यास्तु शतशो दग्धास्तस्य बाणस्थवह्निना ॥ हाहाकारं प्रकुर्वंतश्शिवपूजाव्यतिक्रमात् ॥ २९ ॥
दैत्याः तु शतशस् दग्धाः तस्य बाण-स्थ-वह्निना ॥ हाहाकारम् प्रकुर्वंतः शिव-पूजा-व्यतिक्रमात् ॥ २९ ॥
daityāḥ tu śataśas dagdhāḥ tasya bāṇa-stha-vahninā .. hāhākāram prakurvaṃtaḥ śiva-pūjā-vyatikramāt .. 29 ..
तारकाक्षस्तु निर्दग्धो भ्रातृभ्यां सहितोऽभवत् ॥ सस्मार स्वप्रभुं देवं शंकरं भक्तवत्सलम् ॥ 2.5.10.३० ॥
तारकाक्षः तु निर्दग्धः भ्रातृभ्याम् सहितः अभवत् ॥ सस्मार स्व-प्रभुम् देवम् शंकरम् भक्त-वत्सलम् ॥ २।५।१०।३० ॥
tārakākṣaḥ tu nirdagdhaḥ bhrātṛbhyām sahitaḥ abhavat .. sasmāra sva-prabhum devam śaṃkaram bhakta-vatsalam .. 2.5.10.30 ..
भक्त्या परमया युक्तः प्रलपन् विविधा गिरः ॥ महादेवं समुद्वीक्ष्य मनसा तमुवाच सः ॥ ३१ ॥
भक्त्या परमया युक्तः प्रलपन् विविधाः गिरः ॥ महादेवम् समुद्वीक्ष्य मनसा तम् उवाच सः ॥ ३१ ॥
bhaktyā paramayā yuktaḥ pralapan vividhāḥ giraḥ .. mahādevam samudvīkṣya manasā tam uvāca saḥ .. 31 ..
तारकाक्ष उवाच ।।
भव ज्ञातोसि तुष्टोऽसि यद्यस्मान् सह बंधुभिः ॥ तेन सत्येन भूयोऽपि कदा त्वं प्रदहिष्यसि ॥ ३२ ॥
भव ज्ञातः असि तुष्टः असि यदि अस्मान् सह बंधुभिः ॥ तेन सत्येन भूयस् अपि कदा त्वम् प्रदहिष्यसि ॥ ३२ ॥
bhava jñātaḥ asi tuṣṭaḥ asi yadi asmān saha baṃdhubhiḥ .. tena satyena bhūyas api kadā tvam pradahiṣyasi .. 32 ..
दुर्लभं लब्धमस्माभिर्यदप्राप्यं सुरासुरैः ॥ त्वद्भावभाविता बुद्धिर्जातेजाते भवत्विति ॥ ३३॥
दुर्लभम् लब्धम् अस्माभिः यत् अ प्राप्यम् सुर-असुरैः ॥ त्वद्-भाव-भाविता बुद्धिः जाते जाते भवतु इति ॥ ३३॥
durlabham labdham asmābhiḥ yat a prāpyam sura-asuraiḥ .. tvad-bhāva-bhāvitā buddhiḥ jāte jāte bhavatu iti .. 33..
इत्येवं विब्रुवंतस्ते दानवास्तेन वह्निना ॥ शिवाज्ञयाद्भुतं दग्धा भस्मसादभवन्मुने ॥ ३४ ॥
इति एवम् विब्रुवंतः ते दानवाः तेन वह्निना ॥ शिव-आज्ञया अद्भुतम् दग्धा भस्मसात् अभवत् मुने ॥ ३४ ॥
iti evam vibruvaṃtaḥ te dānavāḥ tena vahninā .. śiva-ājñayā adbhutam dagdhā bhasmasāt abhavat mune .. 34 ..
अन्येऽपि बाला वृद्धाश्च दानवास्तेन वह्निना ॥ शिवाज्ञया द्रुतं व्यास निर्दग्धा भस्मसात्कृताः ॥ ३५ ॥
अन्ये अपि बालाः वृद्धाः च दानवाः तेन वह्निना ॥ शिव-आज्ञया द्रुतम् व्यास निर्दग्धाः भस्मसात्कृताः ॥ ३५ ॥
anye api bālāḥ vṛddhāḥ ca dānavāḥ tena vahninā .. śiva-ājñayā drutam vyāsa nirdagdhāḥ bhasmasātkṛtāḥ .. 35 ..
स्त्रियो वा पुरुषा वापि वाहनानि च तत्र ये ॥ सर्वे तेनाग्निना दग्धाः कल्पान्ते तु जगद्यथा ॥ ३६ ॥
स्त्रियः वा पुरुषाः वा अपि वाहनानि च तत्र ये ॥ सर्वे तेन अग्निना दग्धाः कल्प-अन्ते तु जगत् यथा ॥ ३६ ॥
striyaḥ vā puruṣāḥ vā api vāhanāni ca tatra ye .. sarve tena agninā dagdhāḥ kalpa-ante tu jagat yathā .. 36 ..
भर्तॄन्कंठगतान्हित्वा काश्चिद्दग्धा वरस्त्रियः ॥ काश्चित्सुप्ताः प्रमत्ताश्च रतिश्रांताश्च योषितः ॥ ३७ ॥
भर्तॄन् कंठ-गतान् हित्वा काश्चिद् दग्धाः वर-स्त्रियः ॥ काश्चिद् सुप्ताः प्रमत्ताः च रति-श्रांताः च योषितः ॥ ३७ ॥
bhartṝn kaṃṭha-gatān hitvā kāścid dagdhāḥ vara-striyaḥ .. kāścid suptāḥ pramattāḥ ca rati-śrāṃtāḥ ca yoṣitaḥ .. 37 ..
अर्द्धदग्धा विबुद्धाश्च बभ्रमुर्मोहमूर्च्छिताः ॥ तेन नासीत्सुसूक्ष्मोऽपि घोरत्रिपुरवह्निना ॥ ३८॥
अर्द्ध-दग्धाः विबुद्धाः च बभ्रमुः मोह-मूर्च्छिताः ॥ तेन ना आसीत् सु सूक्ष्मः अपि घोर-त्रिपुर-वह्निना ॥ ३८॥
arddha-dagdhāḥ vibuddhāḥ ca babhramuḥ moha-mūrcchitāḥ .. tena nā āsīt su sūkṣmaḥ api ghora-tripura-vahninā .. 38..
अविदग्धो विनिर्मुक्तः स्थावरो जंगमोपि वा ॥ वर्जयित्वा मयं दैत्यं विश्वकर्माणमव्ययम् ॥ ३९॥
अविदग्धः विनिर्मुक्तः स्थावरः जंगमः अपि वा ॥ वर्जयित्वा मयम् दैत्यम् विश्वकर्माणम् अव्ययम् ॥ ३९॥
avidagdhaḥ vinirmuktaḥ sthāvaraḥ jaṃgamaḥ api vā .. varjayitvā mayam daityam viśvakarmāṇam avyayam .. 39..
अविरुद्धं तु देवानां रक्षितं शंभुतेजसा ॥ विपत्कालेपि सद्भक्तं महेशशरणागतम् ॥ 2.5.10.४०॥
अविरुद्धम् तु देवानाम् रक्षितम् शंभु-तेजसा ॥ विपद्-काले अपि सत्-भक्तम् महेश-शरण-आगतम् ॥ २।५।१०।४०॥
aviruddham tu devānām rakṣitam śaṃbhu-tejasā .. vipad-kāle api sat-bhaktam maheśa-śaraṇa-āgatam .. 2.5.10.40..
सन्निपातो हि येषां नो विद्यते नाशकारकः ॥ दैत्यानामन्यसत्त्वानां भावाभावे कृताकृते ॥ ४१ ॥
सन्निपातः हि येषाम् नो विद्यते नाश-कारकः ॥ दैत्यानाम् अन्य-सत्त्वानाम् भाव-अभावे कृत-अकृते ॥ ४१ ॥
sannipātaḥ hi yeṣām no vidyate nāśa-kārakaḥ .. daityānām anya-sattvānām bhāva-abhāve kṛta-akṛte .. 41 ..
तस्माद्यत्नस्सुसंभाव्यः सद्भिः कर्तव्य एव हि ॥ गर्हणात्क्षीयते लोको न तत्कर्म समाचरेत् ॥ ४२ ॥
तस्मात् यत्नः सु संभाव्यः सद्भिः कर्तव्यः एव हि ॥ गर्हणात् क्षीयते लोकः न तत् कर्म समाचरेत् ॥ ४२ ॥
tasmāt yatnaḥ su saṃbhāvyaḥ sadbhiḥ kartavyaḥ eva hi .. garhaṇāt kṣīyate lokaḥ na tat karma samācaret .. 42 ..
न संयोगो यथा तेषां भूयात्त्रिपुरवासिनाम् ॥ मतमेतद्धि सर्वेषां दैवाद्यदि यतो भवेत् ॥ ४३॥
न संयोगः यथा तेषाम् भूयात् त्रिपुर-वासिनाम् ॥ मतम् एतत् हि सर्वेषाम् दैवात् यदि यतस् भवेत् ॥ ४३॥
na saṃyogaḥ yathā teṣām bhūyāt tripura-vāsinām .. matam etat hi sarveṣām daivāt yadi yatas bhavet .. 43..
ये पूजयंतस्तत्रापि दैत्या रुद्रं सबांधवाः ॥ गाणपत्यं ययुस्सर्वे शिवपूजावि धेर्बलात् ॥ ४४॥
ये पूजयंतः तत्र अपि दैत्याः रुद्रम् स बांधवाः ॥ गाणपत्यम् ययुः सर्वे शिव-पूजा-वि धेः बलात् ॥ ४४॥
ye pūjayaṃtaḥ tatra api daityāḥ rudram sa bāṃdhavāḥ .. gāṇapatyam yayuḥ sarve śiva-pūjā-vi dheḥ balāt .. 44..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे त्रिपुरदाहवर्णनं नाम दशमोऽध्यायः ॥ १० ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खंडे त्रिपुरदाहवर्णनम् नाम दशमः अध्यायः ॥ १० ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṃḍe tripuradāhavarṇanam nāma daśamaḥ adhyāyaḥ .. 10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In