| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
ब्रह्मपुत्र महाप्राज्ञ धन्यस्त्वं शैवसत्तम ॥ किमकार्षुस्ततो देवा दग्धे च त्रिपुरेऽखिलाः ॥ १॥
ब्रह्म-पुत्र महा-प्राज्ञ धन्यः त्वम् शैव-सत्तम ॥ किम् अकार्षुः ततस् देवाः दग्धे च त्रिपुरे अखिलाः ॥ १॥
brahma-putra mahā-prājña dhanyaḥ tvam śaiva-sattama .. kim akārṣuḥ tatas devāḥ dagdhe ca tripure akhilāḥ .. 1..
मयः कुत्र गतो दग्धो पतयः कुत्र ते गताः ॥ तत्सर्वं मे समाचक्ष्व यदि शंभुकथाश्रयम् ॥ २ ॥
मयः कुत्र गतः दग्धो पतयः कुत्र ते गताः ॥ तत् सर्वम् मे समाचक्ष्व यदि शंभु-कथा-आश्रयम् ॥ २ ॥
mayaḥ kutra gataḥ dagdho patayaḥ kutra te gatāḥ .. tat sarvam me samācakṣva yadi śaṃbhu-kathā-āśrayam .. 2 ..
सूत उवाच ।।
इत्याकर्ण्य व्यासवाक्यं भगवान्भवकृत्सुतः ॥ सनत्कुमारः प्रोवाच शिवपादयुगं स्मरन् ॥ ३ ॥
इति आकर्ण्य व्यास-वाक्यम् भगवान् भव-कृत्-सुतः ॥ सनत्कुमारः प्रोवाच शिव-पाद-युगम् स्मरन् ॥ ३ ॥
iti ākarṇya vyāsa-vākyam bhagavān bhava-kṛt-sutaḥ .. sanatkumāraḥ provāca śiva-pāda-yugam smaran .. 3 ..
सनत्कुमार उवाच ।। ।।
शृणु व्यास महाबुद्धे पाराशर्यं महेशितुः ॥ चरितं सर्वपापघ्नं लोकलीलानुसाररिणः ॥ ४॥
शृणु व्यास महाबुद्धे पाराशर्यम् महेशितुः ॥ चरितम् सर्व-पाप-घ्नम् लोक-लीला-अनुसाररिणः ॥ ४॥
śṛṇu vyāsa mahābuddhe pārāśaryam maheśituḥ .. caritam sarva-pāpa-ghnam loka-līlā-anusārariṇaḥ .. 4..
महेश्वरेण सर्वस्मिंस्त्रिपुरे दैत्यसंकुले ॥ दग्धे विशेषतस्तत्र विस्मितास्तेऽभवन्सुराः॥ ॥ ५॥
महेश्वरेण सर्वस्मिन् त्रिपुरे दैत्य-संकुले ॥ दग्धे विशेषतः तत्र विस्मिताः ते अभवन् सुराः॥ ॥ ५॥
maheśvareṇa sarvasmin tripure daitya-saṃkule .. dagdhe viśeṣataḥ tatra vismitāḥ te abhavan surāḥ.. .. 5..
न किंचिदब्रुवन्देवाः सेन्द्रोपेंद्रादयस्तदा ॥ महातेजस्विनं रुद्रं सर्वे वीक्ष्य ससंभ्रमाः ॥ ६॥
न किंचिद् अब्रुवन् देवाः स इन्द्र-उपेंद्र-आदयः तदा ॥ महा-तेजस्विनम् रुद्रम् सर्वे वीक्ष्य स संभ्रमाः ॥ ६॥
na kiṃcid abruvan devāḥ sa indra-upeṃdra-ādayaḥ tadā .. mahā-tejasvinam rudram sarve vīkṣya sa saṃbhramāḥ .. 6..
महाभयंकरं रौद्रं प्रज्वलंतं दिशो दश ॥ कोटिसूर्यप्रतीकाशं प्रलयानलसन्निभम् ॥ ७ ॥
महा-भयंकरम् रौद्रम् प्रज्वलन्तम् दिशः दश ॥ कोटि-सूर्य-प्रतीकाशम् प्रलय-अनल-सन्निभम् ॥ ७ ॥
mahā-bhayaṃkaram raudram prajvalantam diśaḥ daśa .. koṭi-sūrya-pratīkāśam pralaya-anala-sannibham .. 7 ..
भयाद्देवं निरीक्ष्यैव देवीं च हिमवत्सुताम्॥ बिभ्यिरे निखिला देवप्रमुखा स्तस्थुरानताः ॥ ८ ॥
भयात् देवम् निरीक्ष्य एव देवीम् च हिमवत्सुताम्॥ बिभ्यिरे निखिलाः देव-प्रमुखाः स्तस्थुः आनताः ॥ ८ ॥
bhayāt devam nirīkṣya eva devīm ca himavatsutām.. bibhyire nikhilāḥ deva-pramukhāḥ stasthuḥ ānatāḥ .. 8 ..
दृष्ट्वानीकं तदा भीतं देवानामृषिपुंगवाः ॥ न किंचिदूचुस्संतस्थुः प्रणेमुस्ते समंततः ॥ ९ ॥
दृष्ट्वा अनीकम् तदा भीतम् देवानाम् ऋषि-पुंगवाः ॥ न किंचिद् ऊचुः संतस्थुः प्रणेमुः ते समंततः ॥ ९ ॥
dṛṣṭvā anīkam tadā bhītam devānām ṛṣi-puṃgavāḥ .. na kiṃcid ūcuḥ saṃtasthuḥ praṇemuḥ te samaṃtataḥ .. 9 ..
अथ ब्रह्मापि संभीतो दृष्ट्वा रूपं च शांकरम् ॥ तुष्टाव तुष्टहृदयो देवैस्सह समाहितः ॥ 2.5.11.१० ॥
अथ ब्रह्मा अपि संभीतः दृष्ट्वा रूपम् च शांकरम् ॥ तुष्टाव तुष्ट-हृदयः देवैः सह समाहितः ॥ २।५।११।१० ॥
atha brahmā api saṃbhītaḥ dṛṣṭvā rūpam ca śāṃkaram .. tuṣṭāva tuṣṭa-hṛdayaḥ devaiḥ saha samāhitaḥ .. 2.5.11.10 ..
विष्णुना च सभीतेन देवदेवं भवं हरम् ॥ त्रिपुरारिं सगिरिजं भक्ताधीनं महेश्वरम् ॥ ११ ॥
विष्णुना च स भीतेन देवदेवम् भवम् हरम् ॥ त्रिपुरारिम् स गिरिजम् भक्त-अधीनम् महेश्वरम् ॥ ११ ॥
viṣṇunā ca sa bhītena devadevam bhavam haram .. tripurārim sa girijam bhakta-adhīnam maheśvaram .. 11 ..
।। ब्रह्मोवाच ।।
देवदेव महादेव भक्तानुग्रहकारक ॥ प्रसीद परमेशान सर्व देवहितप्रद ॥ १२ ॥
देवदेव महादेव भक्त-अनुग्रह-कारक ॥ प्रसीद परमेशान सर्व देव-हित-प्रद ॥ १२ ॥
devadeva mahādeva bhakta-anugraha-kāraka .. prasīda parameśāna sarva deva-hita-prada .. 12 ..
प्रसीद जगतां नाथ प्रसीदानंददायक ॥ प्रसीद शंकर स्वामिन् प्रसीद परमेश्वर ॥ १३ ॥
प्रसीद जगताम् नाथ प्रसीद आनंद-दायक ॥ प्रसीद शंकर स्वामिन् प्रसीद परमेश्वर ॥ १३ ॥
prasīda jagatām nātha prasīda ānaṃda-dāyaka .. prasīda śaṃkara svāmin prasīda parameśvara .. 13 ..
ॐकाराय नमस्तुभ्यमाकारपरतारक ॥ प्रसीद सर्वदेवेश त्रिपुरघ्न महेश्वर ॥ १४ ॥
ओंकाराय नमः तुभ्यम् आकार-पर-तारक ॥ प्रसीद सर्व-देव-ईश त्रिपुर-घ्न महेश्वर ॥ १४ ॥
oṃkārāya namaḥ tubhyam ākāra-para-tāraka .. prasīda sarva-deva-īśa tripura-ghna maheśvara .. 14 ..
नानावाच्याय देवाय वरणप्रिय शंकर ॥ अगुणाय नमस्तुभ्यं प्रकृतेः पुरुषात्पर ॥ १५ ॥
नाना वाच्याय देवाय वरण-प्रिय शंकर ॥ अगुणाय नमः तुभ्यम् प्रकृतेः पुरुषात् पर ॥ १५ ॥
nānā vācyāya devāya varaṇa-priya śaṃkara .. aguṇāya namaḥ tubhyam prakṛteḥ puruṣāt para .. 15 ..
निर्विकाराय नित्याय नित्यतृप्ताय भास्वते ॥ निरंजनाय दिव्याय त्रिगु णाय नमोऽस्तु ते ॥ १६ ॥
निर्विकाराय नित्याय नित्य-तृप्ताय भास्वते ॥ निरंजनाय दिव्याय त्रिगुणाय नमः अस्तु ते ॥ १६ ॥
nirvikārāya nityāya nitya-tṛptāya bhāsvate .. niraṃjanāya divyāya triguṇāya namaḥ astu te .. 16 ..
सगुणाय नमस्तुभ्यं स्वर्गेशाय नमोस्तु ते ॥ सदाशिवाय शांताय महेशाय पिनाकिने ॥ १७॥
सगुणाय नमः तुभ्यम् स्वर्ग-ईशाय नमः अस्तु ते ॥ सदाशिवाय शांताय महेशाय पिनाकिने ॥ १७॥
saguṇāya namaḥ tubhyam svarga-īśāya namaḥ astu te .. sadāśivāya śāṃtāya maheśāya pinākine .. 17..
सर्वज्ञाय शरण्याय सद्योजाताय ते नमः ॥ वामदेवाय रुद्राय तदाप्यपुरुषाय च ॥ १८॥
सर्वज्ञाय शरण्याय सद्योजाताय ते नमः ॥ वामदेवाय रुद्राय तदा अपि अपुरुषाय च ॥ १८॥
sarvajñāya śaraṇyāya sadyojātāya te namaḥ .. vāmadevāya rudrāya tadā api apuruṣāya ca .. 18..
अघोराय सुसेव्याय भक्ताधीनाय ते नमः ॥ ईशानाय वरेण्याय भक्तानंदप्रदायिने ॥ १९ ॥
अघोराय सुसेव्याय भक्त-अधीनाय ते नमः ॥ ईशानाय वरेण्याय भक्त-आनंद-प्रदायिने ॥ १९ ॥
aghorāya susevyāya bhakta-adhīnāya te namaḥ .. īśānāya vareṇyāya bhakta-ānaṃda-pradāyine .. 19 ..
रक्षरक्ष महादेव भीतान्नस्सकलामरान् ॥ दग्ध्वा च त्रिपुरं सर्वे कृतार्था अमराः कृ ताः ॥ 2.5.11.२० ॥
रक्ष रक्ष महादेव भीतान् नः सकल-अमरान् ॥ दग्ध्वा च त्रिपुरम् सर्वे कृतार्थाः अमराः ताः ॥ २।५।११।२० ॥
rakṣa rakṣa mahādeva bhītān naḥ sakala-amarān .. dagdhvā ca tripuram sarve kṛtārthāḥ amarāḥ tāḥ .. 2.5.11.20 ..
स्तुत्वैवं देवतास्सर्वा नमस्कारं पृथक्पृथक् ॥ चक्रुस्ते परमप्रीता ब्रह्माद्यास्तु सदाशिवम् ॥ २१ ॥
स्तुत्वा एवम् देवताः सर्वाः नमस्कारम् पृथक् पृथक् ॥ चक्रुः ते परम-प्रीताः ब्रह्म-आद्याः तु सदाशिवम् ॥ २१ ॥
stutvā evam devatāḥ sarvāḥ namaskāram pṛthak pṛthak .. cakruḥ te parama-prītāḥ brahma-ādyāḥ tu sadāśivam .. 21 ..
अथ ब्रह्मा स्वयं देवं त्रिपुरारिं महेश्वरम् ॥ तुष्टाव प्रणतो भूत्वा नतस्कंधः कृतांजलिः ॥ २२ ॥
अथ ब्रह्मा स्वयम् देवम् त्रिपुरारिम् महेश्वरम् ॥ तुष्टाव प्रणतः भूत्वा नत-स्कंधः कृतांजलिः ॥ २२ ॥
atha brahmā svayam devam tripurārim maheśvaram .. tuṣṭāva praṇataḥ bhūtvā nata-skaṃdhaḥ kṛtāṃjaliḥ .. 22 ..
ब्रह्मोवाच ।।
भगवन्देवदेवेश त्रिपुरान्तक शंकर ॥ त्वयि भक्तिः परा मेऽस्तु महादेवानपायिनी ॥ २३ ॥
भगवन् देवदेवेश त्रिपुरान्तक शंकर ॥ त्वयि भक्तिः परा मे अस्तु महादेव-अनपायिनी ॥ २३ ॥
bhagavan devadeveśa tripurāntaka śaṃkara .. tvayi bhaktiḥ parā me astu mahādeva-anapāyinī .. 23 ..
सर्वदा मेऽस्तु सारथ्यं तव देवेश शंकर ॥ अनुकूलो भव विभो सदा त्वं परमेश्वर ॥ २४ ॥
सर्वदा मे अस्तु सारथ्यम् तव देवेश शंकर ॥ अनुकूलः भव विभो सदा त्वम् परमेश्वर ॥ २४ ॥
sarvadā me astu sārathyam tava deveśa śaṃkara .. anukūlaḥ bhava vibho sadā tvam parameśvara .. 24 ..
सनत्कुमार उवाच ।।
इति स्तुत्वा विधिश्शंभुं भक्तवत्सलमानतः ॥ विरराम नतस्कंधः कृतांजलिरुदारधीः ॥ २५ ॥
इति स्तुत्वा विधिः शंभुम् भक्त-वत्सल-मानतः ॥ विरराम नत-स्कंधः कृतांजलिः उदार-धीः ॥ २५ ॥
iti stutvā vidhiḥ śaṃbhum bhakta-vatsala-mānataḥ .. virarāma nata-skaṃdhaḥ kṛtāṃjaliḥ udāra-dhīḥ .. 25 ..
जनार्दनोऽपि भगवान् नमस्कृत्य महेश्वरम् ॥ कृतांजलिपुटो भूत्वा तुष्टाव च महेश्वरम् ॥ २६ ॥
जनार्दनः अपि भगवान् नमस्कृत्य महेश्वरम् ॥ कृत-अंजलि-पुटः भूत्वा तुष्टाव च महेश्वरम् ॥ २६ ॥
janārdanaḥ api bhagavān namaskṛtya maheśvaram .. kṛta-aṃjali-puṭaḥ bhūtvā tuṣṭāva ca maheśvaram .. 26 ..
विष्णुरुवाच ।।
देवाधीश महेशान दीनबंधो कृपाकर ॥ प्रसीद परमेशान कृपां कुरु नतप्रिय ॥ २७ ॥
देव-अधीश महेशान दीन-बंधो कृपा-कर ॥ प्रसीद परमेशान कृपाम् कुरु नत-प्रिय ॥ २७ ॥
deva-adhīśa maheśāna dīna-baṃdho kṛpā-kara .. prasīda parameśāna kṛpām kuru nata-priya .. 27 ..
निर्गुणाय नमस्तुभ्यं पुनश्च सगुणाय च ॥ पुनः प्रकृतिरूपाय पुनश्च पुरुषाय च ॥ २८ ॥
निर्गुणाय नमः तुभ्यम् पुनर् च सगुणाय च ॥ पुनर् प्रकृति-रूपाय पुनर् च पुरुषाय च ॥ २८ ॥
nirguṇāya namaḥ tubhyam punar ca saguṇāya ca .. punar prakṛti-rūpāya punar ca puruṣāya ca .. 28 ..
पश्चाद्गुणस्वरूपाय नतो विश्वात्मने नमः ॥ भक्तिप्रियाय शांताय शिवाय परमात्मने ॥ २९ ॥
पश्चात् गुण-स्वरूपाय नतः विश्वात्मने नमः ॥ भक्ति-प्रियाय शांताय शिवाय परमात्मने ॥ २९ ॥
paścāt guṇa-svarūpāya nataḥ viśvātmane namaḥ .. bhakti-priyāya śāṃtāya śivāya paramātmane .. 29 ..
सदाशिवाय रुद्राय जगतां पतये नमः ॥ त्वयि भक्तिर्दृढा मेऽद्य वर्द्धमाना भवत्विति ॥ 2.5.11.३० ॥
सदाशिवाय रुद्राय जगताम् पतये नमः ॥ त्वयि भक्तिः दृढा मे अद्य वर्द्धमाना भवतु इति ॥ २।५।११।३० ॥
sadāśivāya rudrāya jagatām pataye namaḥ .. tvayi bhaktiḥ dṛḍhā me adya varddhamānā bhavatu iti .. 2.5.11.30 ..
सनत्कुमार उवाच ।।
इत्युक्त्वा विररामासौ शैवप्रवरसत्तमः ॥ सर्वे देवाः प्रणम्योचुस्ततस्तं परमेश्वरम् ॥ ३१ ॥
इति उक्त्वा विरराम असौ शैव-प्रवर-सत्तमः ॥ सर्वे देवाः प्रणम्य ऊचुः ततस् तम् परमेश्वरम् ॥ ३१ ॥
iti uktvā virarāma asau śaiva-pravara-sattamaḥ .. sarve devāḥ praṇamya ūcuḥ tatas tam parameśvaram .. 31 ..
देवा ऊचुः ।।
देवनाथ महादेव करुणाकर शंकर॥ प्रसीद जगतां नाथ प्रसीद परमेश्वर॥ ३२॥
देवनाथ महादेव करुणाकर शंकर॥ प्रसीद जगताम् नाथ प्रसीद परमेश्वर॥ ३२॥
devanātha mahādeva karuṇākara śaṃkara.. prasīda jagatām nātha prasīda parameśvara.. 32..
प्रसीद सर्वकर्ता त्वं नमामस्त्वां वयं मुदा॥ भक्तिर्दृढास्माकं नित्यं स्यादनपायिनी ॥ ३३॥
प्रसीद सर्व-कर्ता त्वम् नमामः त्वाम् वयम् मुदा॥ भक्तिः दृढा अस्माकम् नित्यम् स्यात् अनपायिनी ॥ ३३॥
prasīda sarva-kartā tvam namāmaḥ tvām vayam mudā.. bhaktiḥ dṛḍhā asmākam nityam syāt anapāyinī .. 33..
सनत्कुमार उवाच।।
इति स्तुतश्च देवेशो ब्रह्मणा हरिणामरैः॥ प्रत्युवाच प्रसन्नात्मा शंकरो लोकशंकरः ॥ ३४॥
इति स्तुतः च देवेशः ब्रह्मणा हरिणा अमरैः॥ प्रत्युवाच प्रसन्न-आत्मा शंकरः लोक-शंकरः ॥ ३४॥
iti stutaḥ ca deveśaḥ brahmaṇā hariṇā amaraiḥ.. pratyuvāca prasanna-ātmā śaṃkaraḥ loka-śaṃkaraḥ .. 34..
शंकर उवाच ।।
हे विधे हे हरे देवाः प्रसन्नोऽस्मि विशेषतः॥ मनोऽभिलषितं ब्रूत वरं सर्वे विचा रतः ॥ ३५॥
हे विधे हे हरे देवाः प्रसन्नः अस्मि विशेषतः॥ मनः-अभिलषितम् ब्रूत वरम् सर्वे रतः ॥ ३५॥
he vidhe he hare devāḥ prasannaḥ asmi viśeṣataḥ.. manaḥ-abhilaṣitam brūta varam sarve rataḥ .. 35..
सनत्कुमारः उवाच ।।
इत्युक्तं वचनं श्रुत्वा हरेण मुनिसत्तम ॥ प्रत्यूचुस्सर्वदेवाश्च प्रसन्नेनान्तरात्मना ॥ ३६॥
इति उक्तम् वचनम् श्रुत्वा हरेण मुनि-सत्तम ॥ प्रत्यूचुः सर्व-देवाः च प्रसन्नेन अन्तरात्मना ॥ ३६॥
iti uktam vacanam śrutvā hareṇa muni-sattama .. pratyūcuḥ sarva-devāḥ ca prasannena antarātmanā .. 36..
सर्वे देवा ऊचुः।।
यदि प्रसन्नो भगवन्यदि देयो वरस्त्वया॥ देवदेवेश चास्मभ्यं ज्ञात्वा दासान्हि नस्सुरान्॥ ३७॥
यदि प्रसन्नः भगवन् यदि देयः वरः त्वया॥ देवदेवेश च अस्मभ्यम् ज्ञात्वा दासान् हि नः सुरान्॥ ३७॥
yadi prasannaḥ bhagavan yadi deyaḥ varaḥ tvayā.. devadeveśa ca asmabhyam jñātvā dāsān hi naḥ surān.. 37..
यदा दुःखं तु देवानां संभवेद्देवसत्तम ॥ तदा त्वं प्रकटो भूत्वा दुःखं नाशय सर्वदा॥ ३८॥
यदा दुःखम् तु देवानाम् संभवेत् देव-सत्तम ॥ तदा त्वम् प्रकटः भूत्वा दुःखम् नाशय सर्वदा॥ ३८॥
yadā duḥkham tu devānām saṃbhavet deva-sattama .. tadā tvam prakaṭaḥ bhūtvā duḥkham nāśaya sarvadā.. 38..
सनत्कुमार उवाच।।
इत्युक्तो भगवानुद्रो ब्रह्मणा हरिणामरैः॥ युगपत्प्राह तुष्टात्मा तथेत्यस्तु निरंतरम् ॥ ३९॥
इति उक्तः भगवान् उद्रः ब्रह्मणा हरिणा अमरैः॥ युगपद् प्राह तुष्ट-आत्मा तथा इति अस्तु निरंतरम् ॥ ३९॥
iti uktaḥ bhagavān udraḥ brahmaṇā hariṇā amaraiḥ.. yugapad prāha tuṣṭa-ātmā tathā iti astu niraṃtaram .. 39..
स्तवैरेतैश्च तुष्टोऽस्मि दास्यामि सर्वदा ध्रुवम्॥ यदभीष्टतमं लोके पठतां शृण्वतां सुराः॥ 2.5.11.४०॥
स्तवैः एतैः च तुष्टः अस्मि दास्यामि सर्वदा ध्रुवम्॥ यत् अभीष्टतमम् लोके पठताम् शृण्वताम् सुराः॥ २।५।११।४०॥
stavaiḥ etaiḥ ca tuṣṭaḥ asmi dāsyāmi sarvadā dhruvam.. yat abhīṣṭatamam loke paṭhatām śṛṇvatām surāḥ.. 2.5.11.40..
इत्युक्त्वा शंकरः प्रीतो देवदुःखहरस्सदा ॥ सर्वदेवप्रियं यद्वै तत्सर्वं च प्रदत्तवान् ॥ ४१ ॥
इति उक्त्वा शंकरः प्रीतः देव-दुःख-हरः सदा ॥ सर्व-देव-प्रियम् यत् वै तत् सर्वम् च प्रदत्तवान् ॥ ४१ ॥
iti uktvā śaṃkaraḥ prītaḥ deva-duḥkha-haraḥ sadā .. sarva-deva-priyam yat vai tat sarvam ca pradattavān .. 41 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे देवस्तुतिवर्णनं नामैकादशोऽध्यायः ॥ ११॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खण्डे देवस्तुतिवर्णनम् नाम एकादशः अध्यायः ॥ ११॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṇḍe devastutivarṇanam nāma ekādaśaḥ adhyāyaḥ .. 11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In