| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
एतस्मिन्नंतरे शंभुं प्रसन्नं वीक्ष्य दानवः॥ तत्राजगाम सुप्रीतो मयोऽदग्धः कृपाबलात् ॥ १ ॥
एतस्मिन् अंतरे शंभुम् प्रसन्नम् वीक्ष्य दानवः॥ तत्र आजगाम सु प्रीतः मयः अदग्धः कृपा-बलात् ॥ १ ॥
etasmin aṃtare śaṃbhum prasannam vīkṣya dānavaḥ.. tatra ājagāma su prītaḥ mayaḥ adagdhaḥ kṛpā-balāt .. 1 ..
प्रणनाम हरं प्रीत्या सुरानन्यानपि ध्रुवम् ॥ कृतांजलिर्नतस्कंधः प्रणनाम पुन श्शिवम् ॥ २॥
प्रणनाम हरम् प्रीत्या सुरान् अन्यान् अपि ध्रुवम् ॥ कृतांजलिः नत-स्कंधः प्रणनाम पुनर् शिवम् ॥ २॥
praṇanāma haram prītyā surān anyān api dhruvam .. kṛtāṃjaliḥ nata-skaṃdhaḥ praṇanāma punar śivam .. 2..
अथोत्थाय शिवं दृष्ट्वा प्रेम्णा गद्गदसुस्वरः ॥ तुष्टाव भक्तिपूर्णात्मा स दानववरो मयः ॥ ३॥
अथा उत्थाय शिवम् दृष्ट्वा प्रेम्णा गद्गद-सु स्वरः ॥ तुष्टाव भक्ति-पूर्ण-आत्मा स दानव-वरः मयः ॥ ३॥
athā utthāya śivam dṛṣṭvā premṇā gadgada-su svaraḥ .. tuṣṭāva bhakti-pūrṇa-ātmā sa dānava-varaḥ mayaḥ .. 3..
मय उवाच ॥ देवदेव महादेव भक्तवत्सल शंकरः ॥ कल्पवृक्षस्वरूपोसि सर्वपक्षविवर्जितः ॥ ४॥
मयः उवाच ॥ देवदेव महादेव भक्त-वत्सल शंकरः ॥ कल्पवृक्ष-स्व-रूपः असि सर्व-पक्ष-विवर्जितः ॥ ४॥
mayaḥ uvāca .. devadeva mahādeva bhakta-vatsala śaṃkaraḥ .. kalpavṛkṣa-sva-rūpaḥ asi sarva-pakṣa-vivarjitaḥ .. 4..
ज्योतीरूपो नमस्तेस्तु विश्वरूप नमोऽस्तु ते॥ नमः पूतात्मने तुभ्यं पावनाय नमोनमः ॥ ५॥
ज्योतीरूपः नमः ते अस्तु विश्वरूप नमः अस्तु ते॥ नमः पूत-आत्मने तुभ्यम् पावनाय नमः नमः ॥ ५॥
jyotīrūpaḥ namaḥ te astu viśvarūpa namaḥ astu te.. namaḥ pūta-ātmane tubhyam pāvanāya namaḥ namaḥ .. 5..
चित्ररूपाय नित्याय रूपातीताय ते नमः ॥ दिव्यरूपाय दिव्याय सुदिव्याकृतये नमः॥ ६॥
चित्र-रूपाय नित्याय रूप-अतीताय ते नमः ॥ दिव्य-रूपाय दिव्याय सु दिव्य-आकृतये नमः॥ ६॥
citra-rūpāya nityāya rūpa-atītāya te namaḥ .. divya-rūpāya divyāya su divya-ākṛtaye namaḥ.. 6..
नमः प्रणतसर्वार्तिनाशकाय शिवात्मने ॥ कर्त्रे भर्त्रे च संहर्त्रे त्रिलोकानां नमोनमः ॥ ७ ॥
नमः प्रणत-सर्व-आर्ति-नाशकाय शिव-आत्मने ॥ कर्त्रे भर्त्रे च संहर्त्रे त्रि-लोकानाम् नमः नमः ॥ ७ ॥
namaḥ praṇata-sarva-ārti-nāśakāya śiva-ātmane .. kartre bhartre ca saṃhartre tri-lokānām namaḥ namaḥ .. 7 ..
भक्तिगम्याय भक्तानां नमस्तुभ्यं कृपा लवे ॥ तपस्सत्फलदात्रे ते शिवाकांत शिवेश्वर॥ ८॥
भक्ति-गम्याय भक्तानाम् नमः तुभ्यम् कृपा लवे ॥ तपः-सत्-फल-दात्रे ते शिव-अकांत शिव-ईश्वर॥ ८॥
bhakti-gamyāya bhaktānām namaḥ tubhyam kṛpā lave .. tapaḥ-sat-phala-dātre te śiva-akāṃta śiva-īśvara.. 8..
न जानामि स्तुतिं कर्तुं स्तुतिप्रिय परेश्वर॥ प्रसन्नो भव सर्वेश पाहि मां शरणाग तम् ॥ ९॥
न जानामि स्तुतिम् कर्तुम् स्तुति-प्रिय पर-ईश्वर॥ प्रसन्नः भव सर्व-ईश पाहि माम् शरण-आग तम् ॥ ९॥
na jānāmi stutim kartum stuti-priya para-īśvara.. prasannaḥ bhava sarva-īśa pāhi mām śaraṇa-āga tam .. 9..
।। सनत्कुमार उवाच ।।
इत्याकर्ण्य मयोक्ता हि संस्तुतिं परमेश्वरः ॥ प्रसन्नोऽभूद्द्विजश्रेष्ठ मयं प्रोवाच चादरात्॥ 2.5.12.१ ०॥
इति आकर्ण्य मया उक्ता हि संस्तुतिम् परमेश्वरः ॥ प्रसन्नः अभूत् द्विजश्रेष्ठ मयम् प्रोवाच च आदरात्॥ २।५।१२।१ ०॥
iti ākarṇya mayā uktā hi saṃstutim parameśvaraḥ .. prasannaḥ abhūt dvijaśreṣṭha mayam provāca ca ādarāt.. 2.5.12.1 0..
।। शिव उवाच ।।
वरं ब्रूहि प्रसन्नोऽहं मय दानवसत्तम ॥ मनोऽभिलषितं यत्ते तद्दास्यामि न संशयः ॥ ११ ॥
वरम् ब्रूहि प्रसन्नः अहम् मय दानव-सत्तम ॥ मनः-अभिलषितम् यत् ते तत् दास्यामि न संशयः ॥ ११ ॥
varam brūhi prasannaḥ aham maya dānava-sattama .. manaḥ-abhilaṣitam yat te tat dāsyāmi na saṃśayaḥ .. 11 ..
।। सनत्कुमार उवाच ।।
श्रुत्वा शिवं वचश्शंभोस्स मयो दानवर्षभः ॥ प्रत्युवाच प्रभुं नत्वा नतस्कंधः कृतांजलिः ॥ १२ ॥
श्रुत्वा शिवम् वचः शंभोः स मयः दानव-ऋषभः ॥ प्रत्युवाच प्रभुम् नत्वा नत-स्कंधः कृतांजलिः ॥ १२ ॥
śrutvā śivam vacaḥ śaṃbhoḥ sa mayaḥ dānava-ṛṣabhaḥ .. pratyuvāca prabhum natvā nata-skaṃdhaḥ kṛtāṃjaliḥ .. 12 ..
मय उवाच ।।
देवदेव महादेव प्रसन्नो यदि मे भवान् ॥ वरयोग्योऽस्म्यहं चेद्धि स्वभक्तिं देहि शाश्वतीम्॥ १३॥
देवदेव महादेव प्रसन्नः यदि मे भवान् ॥ वर-योग्यः अस्मि अहम् चेद् हि स्व-भक्तिम् देहि शाश्वतीम्॥ १३॥
devadeva mahādeva prasannaḥ yadi me bhavān .. vara-yogyaḥ asmi aham ced hi sva-bhaktim dehi śāśvatīm.. 13..
स्वभक्तेषु सदा सख्यं दीनेषु च दयां सदा॥ उपेक्षामन्यजीवेषु खलेषु परमेश्वर॥ १४॥
स्व-भक्तेषु सदा सख्यम् दीनेषु च दयाम् सदा॥ उपेक्षाम् अन्य-जीवेषु खलेषु परमेश्वर॥ १४॥
sva-bhakteṣu sadā sakhyam dīneṣu ca dayām sadā.. upekṣām anya-jīveṣu khaleṣu parameśvara.. 14..
कदापि नासुरो भावो भवेन्मम महेश्वर ॥ निर्भयः स्यां सदा नाथ मग्नस्त्वद्भजने शुभे ॥ १५ ॥
कदापि ना आसुरः भावः भवेत् मम महेश्वर ॥ निर्भयः स्याम् सदा नाथ मग्नः त्वद्-भजने शुभे ॥ १५ ॥
kadāpi nā āsuraḥ bhāvaḥ bhavet mama maheśvara .. nirbhayaḥ syām sadā nātha magnaḥ tvad-bhajane śubhe .. 15 ..
।। सनत्कुमार उवाच ।।
इति संप्रार्थ्यमानस्तु शंकरः परमेश्वरः ॥ प्रत्युवाच मये नाथ प्रसन्नो भक्तवत्सलः ॥ १६ ॥
इति संप्रार्थ्यमानः तु शंकरः परमेश्वरः ॥ प्रत्युवाच मये नाथ प्रसन्नः भक्त-वत्सलः ॥ १६ ॥
iti saṃprārthyamānaḥ tu śaṃkaraḥ parameśvaraḥ .. pratyuvāca maye nātha prasannaḥ bhakta-vatsalaḥ .. 16 ..
महेश्वर उवाच ।।
दानवर्षभ धन्यस्त्वं मद्भक्तो निर्विकारवान् ॥ प्रदत्तास्ते वरास्सर्वेऽभीप्सिता ये तवाधुना ॥ १७ ॥
दानव-ऋषभ धन्यः त्वम् मद्-भक्तः निर्विकारवान् ॥ प्रदत्ताः ते वराः सर्वे अभीप्सिताः ये तव अधुना ॥ १७ ॥
dānava-ṛṣabha dhanyaḥ tvam mad-bhaktaḥ nirvikāravān .. pradattāḥ te varāḥ sarve abhīpsitāḥ ye tava adhunā .. 17 ..
गच्छ त्वं वितलं लोकं रमणीयं दिवोऽपि हि ॥ समेतः परिवारेण निजेन मम शासनात् ॥ १८ ॥
गच्छ त्वम् वितलम् लोकम् रमणीयम् दिवः अपि हि ॥ समेतः परिवारेण निजेन मम शासनात् ॥ १८ ॥
gaccha tvam vitalam lokam ramaṇīyam divaḥ api hi .. sametaḥ parivāreṇa nijena mama śāsanāt .. 18 ..
निर्भयस्तत्र संतिष्ठ संहृष्टो भक्तिमान्सदा ॥ कदापि नासुरो भावो भविष्यति मदाज्ञया ॥ १९ ॥
निर्भयः तत्र संतिष्ठ संहृष्टः भक्तिमान् सदा ॥ कदापि ना असुरः भावः भविष्यति मद्-आज्ञया ॥ १९ ॥
nirbhayaḥ tatra saṃtiṣṭha saṃhṛṣṭaḥ bhaktimān sadā .. kadāpi nā asuraḥ bhāvaḥ bhaviṣyati mad-ājñayā .. 19 ..
सनत्कुमार उवाच ।।
इत्याज्ञां शिरसाधाय शंकरस्य महात्मनः ॥ तं प्रणम्य सुरांश्चापि वितलं प्रजगाम सः ॥ 2.5.12.२० ॥
इति आज्ञाम् शिरसा आधाय शंकरस्य महात्मनः ॥ तम् प्रणम्य सुरान् च अपि वितलम् प्रजगाम सः ॥ २।५।१२।२० ॥
iti ājñām śirasā ādhāya śaṃkarasya mahātmanaḥ .. tam praṇamya surān ca api vitalam prajagāma saḥ .. 2.5.12.20 ..
एतस्मिन्नंतरे ते वै मुण्डिनश्च समागताः ॥ प्रणम्योचुश्च तान्सर्वान्विष्णुब्रह्मादिकान् सुरान् ॥ २१ ॥
एतस्मिन् अन्तरे ते वै मुण्डिनः च समागताः ॥ प्रणम्य ऊचुः च तान् सर्वान् विष्णु-ब्रह्म-आदिकान् सुरान् ॥ २१ ॥
etasmin antare te vai muṇḍinaḥ ca samāgatāḥ .. praṇamya ūcuḥ ca tān sarvān viṣṇu-brahma-ādikān surān .. 21 ..
कुत्र याम वयं देवाः कर्म किं करवामहे ॥ आज्ञापयत नश्शीघ्रं भव दादेशकारकान् ॥ २२ ॥
कुत्र याम वयम् देवाः कर्म किम् करवामहे ॥ आज्ञापयत नः शीघ्रम् भव दादेशकारकान् ॥ २२ ॥
kutra yāma vayam devāḥ karma kim karavāmahe .. ājñāpayata naḥ śīghram bhava dādeśakārakān .. 22 ..
कृतं दुष्कर्म चास्माभिर्हे हरे हे विधे सुराः ॥ दैत्यानां शिवभक्तानां शिवभक्तिर्विनाशिता ॥ २३॥
कृतम् दुष्कर्म च अस्माभिः हे हरे हे विधे सुराः ॥ दैत्यानाम् शिव-भक्तानाम् शिव-भक्तिः विनाशिता ॥ २३॥
kṛtam duṣkarma ca asmābhiḥ he hare he vidhe surāḥ .. daityānām śiva-bhaktānām śiva-bhaktiḥ vināśitā .. 23..
कोटिकल्पानि नरके नो वासस्तु भविष्यति ॥ नोद्धारो भविता नूनं शिवभक्तविरोधिनाम् ॥ २४ ॥
कोटि-कल्पानि नरके नो वासः तु भविष्यति ॥ न उद्धारः भविता नूनम् शिव-भक्त-विरोधिनाम् ॥ २४ ॥
koṭi-kalpāni narake no vāsaḥ tu bhaviṣyati .. na uddhāraḥ bhavitā nūnam śiva-bhakta-virodhinām .. 24 ..
परन्तु भवदिच्छात इदं दुष्कर्म नः कृतम् ॥ तच्छांतिं कृपया ब्रूत वयं वश्शरणागताः ॥ २५॥
परन्तु भवत्-इच्छातः इदम् दुष्कर्म नः कृतम् ॥ तद्-शांतिम् कृपया ब्रूत वयम् वः शरण-आगताः ॥ २५॥
parantu bhavat-icchātaḥ idam duṣkarma naḥ kṛtam .. tad-śāṃtim kṛpayā brūta vayam vaḥ śaraṇa-āgatāḥ .. 25..
सनत्कुमार उवाच ।।
तेषां तद्वचनं श्रुत्वा विष्णुब्रह्मादयस्सुराः॥ अब्रु। वन्मुंडिनस्तांस्ते स्थितानग्रे कृतांजलीन् ॥ २६ ॥
तेषाम् तत् वचनम् श्रुत्वा विष्णु-ब्रह्म-आदयः सुराः॥ अब्रु। वन्मुंडिनः तान् ते स्थितान् अग्रे कृतांजलीन् ॥ २६ ॥
teṣām tat vacanam śrutvā viṣṇu-brahma-ādayaḥ surāḥ.. abru. vanmuṃḍinaḥ tān te sthitān agre kṛtāṃjalīn .. 26 ..
विष्ण्वादय ऊचुः ।।
न भेतव्यं भवद्भिस्तु मुंडिनो वै कदाचन ॥ शिवाज्ञयेदं सकलं जातं चरितमुत्तमम् ॥ २७॥
न भेतव्यम् भवद्भिः तु मुंडिनः वै कदाचन ॥ शिव-आज्ञया इदम् सकलम् जातम् चरितम् उत्तमम् ॥ २७॥
na bhetavyam bhavadbhiḥ tu muṃḍinaḥ vai kadācana .. śiva-ājñayā idam sakalam jātam caritam uttamam .. 27..
युष्माकं भविता नैव कुगतिर्दुःखदायिनी ॥ शिववासा यतो यूयं देवर्षिहितकारकाः ॥ २८ ॥
युष्माकम् भविता ना एव कुगतिः दुःख-दायिनी ॥ शिव-वासाः यतस् यूयम् देवर्षि-हित-कारकाः ॥ २८ ॥
yuṣmākam bhavitā nā eva kugatiḥ duḥkha-dāyinī .. śiva-vāsāḥ yatas yūyam devarṣi-hita-kārakāḥ .. 28 ..
सुरर्षिहितकृच्छंभुस्सुरर्षिहितकृत्प्रियः ॥ सुरर्षिहितकृन्नॄणां कदापि कुगतिर्नहि ॥ २९॥
॥ सुर-ऋषि-हित-कृत् नॄणाम् कदापि कुगतिः न हि ॥ २९॥
.. sura-ṛṣi-hita-kṛt nṝṇām kadāpi kugatiḥ na hi .. 29..
अद्यतो मतमेतं हि प्रविष्टानां नृणां कलौ॥ कुगतिर्भविता ब्रूमः सत्यं नैवात्र संशयः ॥ 2.5.12.३० ॥
अद्यतस् मतम् एतम् हि प्रविष्टानाम् नृणाम् कलौ॥ कुगतिः भविता ब्रूमः सत्यम् न एव अत्र संशयः ॥ २।५।१२।३० ॥
adyatas matam etam hi praviṣṭānām nṛṇām kalau.. kugatiḥ bhavitā brūmaḥ satyam na eva atra saṃśayaḥ .. 2.5.12.30 ..
भवद्भिर्मुंडिनो धीरा गुप्तभावान्ममाज्ञया॥ तावन्मरुस्थली सेव्या कलिर्यावात्समाव्रजेत् ॥ ३१॥
भवद्भिः मुंडिनः धीराः गुप्त-भावात् मम आज्ञया॥ तावत् मरु-स्थली सेव्या कलिः यावात् समाव्रजेत् ॥ ३१॥
bhavadbhiḥ muṃḍinaḥ dhīrāḥ gupta-bhāvāt mama ājñayā.. tāvat maru-sthalī sevyā kaliḥ yāvāt samāvrajet .. 31..
आगते च कलौ यूयं स्वमतं स्थापयिष्यथ ॥ कलौ तु मोहिता मूढास्संग्रहीष्यंति वो मतम्॥ ३२॥
आगते च कलौ यूयम् स्व-मतम् स्थापयिष्यथ ॥ कलौ तु मोहिताः मूढाः संग्रहीष्यंति वः मतम्॥ ३२॥
āgate ca kalau yūyam sva-matam sthāpayiṣyatha .. kalau tu mohitāḥ mūḍhāḥ saṃgrahīṣyaṃti vaḥ matam.. 32..
इत्याज्ञप्ताः सुरेशैश्च मुंडिनस्ते मुनीश्वर ॥ नमस्कृत्य गतास्तत्र यथोद्दिष्टं स्वमाश्रमम् ॥ ३३ ॥
इति आज्ञप्ताः सुर-ईशैः च मुंडिनः ते मुनि-ईश्वर ॥ नमस्कृत्य गताः तत्र यथा उद्दिष्टम् स्वम् आश्रमम् ॥ ३३ ॥
iti ājñaptāḥ sura-īśaiḥ ca muṃḍinaḥ te muni-īśvara .. namaskṛtya gatāḥ tatra yathā uddiṣṭam svam āśramam .. 33 ..
ततस्स भगवान्रुद्रो दग्ध्वा त्रिपुरवासिनः ॥ कृतकृत्यो महायोगी ब्रह्माद्यैरभिपूजितः ॥ ३४ ॥
ततस् स भगवान् रुद्रः दग्ध्वा त्रिपुर-वासिनः ॥ कृतकृत्यः महा-योगी ब्रह्म-आद्यैः अभिपूजितः ॥ ३४ ॥
tatas sa bhagavān rudraḥ dagdhvā tripura-vāsinaḥ .. kṛtakṛtyaḥ mahā-yogī brahma-ādyaiḥ abhipūjitaḥ .. 34 ..
स्वगणैर्निखिलैर्देव्या शिवया सहितः प्रभुः ॥ कृत्वामरमहत्कार्यं ससुतोंतरधादथ ॥ ३५॥
स्व-गणैः निखिलैः देव्या शिवया सहितः प्रभुः ॥ कृत्वा अमर-महत् कार्यम् ॥ ३५॥
sva-gaṇaiḥ nikhilaiḥ devyā śivayā sahitaḥ prabhuḥ .. kṛtvā amara-mahat kāryam .. 35..
ततश्चांतर्हिते देवे परिवारान्विते शिवे ॥ धनुश्शरस्थाद्यश्च प्राकारोंतर्द्धिमागमत् ॥ ३६॥
ततस् च अंतर्हिते देवे परिवार-अन्विते शिवे ॥ धनुः-शर-स्थाद्यः च प्राकार-उंतर्द्धिम् आगमत् ॥ ३६॥
tatas ca aṃtarhite deve parivāra-anvite śive .. dhanuḥ-śara-sthādyaḥ ca prākāra-uṃtarddhim āgamat .. 36..
ततो ब्रह्मा हरिर्देवा मुनिगंधर्वकिन्नराः ॥ नागास्सर्पाश्चाप्सरसस्संहृष्टाश्चाथ मानुषाः ॥ ३७ ॥
ततस् ब्रह्मा हरिः देवाः मुनि-गंधर्व-किन्नराः ॥ नागाः सर्पाः च अप्सरसः संहृष्टाः च अथ मानुषाः ॥ ३७ ॥
tatas brahmā hariḥ devāḥ muni-gaṃdharva-kinnarāḥ .. nāgāḥ sarpāḥ ca apsarasaḥ saṃhṛṣṭāḥ ca atha mānuṣāḥ .. 37 ..
स्वंस्वं स्थानं मुदा जग्मुश्शंसंतः शांकरं यशः ॥ स्वंस्वं स्थानमनुप्राप्य निवृतिं परमां ययुः ॥ ३८ ॥
स्वम् स्वम् स्थानम् मुदा जग्मुः शंसंतः शांकरम् यशः ॥ स्वम् स्वम् स्थानम् अनुप्राप्य निवृतिम् परमाम् ययुः ॥ ३८ ॥
svam svam sthānam mudā jagmuḥ śaṃsaṃtaḥ śāṃkaram yaśaḥ .. svam svam sthānam anuprāpya nivṛtim paramām yayuḥ .. 38 ..
एतत्ते कथितं सर्वं चरितं शशिमौलिनः ॥ त्रिपुरक्षयसंसूचि परलीलान्वितं महत् ॥ ३९ ॥
एतत् ते कथितम् सर्वम् चरितम् शशिमौलिनः ॥ त्रिपुर-क्षय-संसूचि पर-लीला-अन्वितम् महत् ॥ ३९ ॥
etat te kathitam sarvam caritam śaśimaulinaḥ .. tripura-kṣaya-saṃsūci para-līlā-anvitam mahat .. 39 ..
धन्यं यशस्यमायुष्यं धनधान्यप्रवर्द्धकम् ॥ स्वर्गदं मोक्षदं चापि किं भूयः श्रोतुमिच्छसि ॥ ॥ 2.5.12.४० ॥
धन्यम् यशस्यम् आयुष्यम् धन-धान्य-प्रवर्द्धकम् ॥ स्वर्ग-दम् मोक्ष-दम् च अपि किम् भूयस् श्रोतुम् इच्छसि ॥ ॥ २।५।१२।४० ॥
dhanyam yaśasyam āyuṣyam dhana-dhānya-pravarddhakam .. svarga-dam mokṣa-dam ca api kim bhūyas śrotum icchasi .. .. 2.5.12.40 ..
इदं हि परमाख्यानं यः पठेच्छ्रणुयात्सदा ॥ इह भुक्त्वाखिलान्कामानंते मुक्तिमवाप्नुयात् ॥ ४१ ॥
इदम् हि परम् आख्यानम् यः पठेत् श्रणुयात् सदा ॥ इह भुक्त्वा अखिलान् कामान् अन्ते मुक्तिम् अवाप्नुयात् ॥ ४१ ॥
idam hi param ākhyānam yaḥ paṭhet śraṇuyāt sadā .. iha bhuktvā akhilān kāmān ante muktim avāpnuyāt .. 41 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे सनत्कुमारपाराशर्य्यसंवादे त्रिपुरवधानंतरदेवस्तुतिमयस्तुतिमुंडिनिवेशनदेवस्वस्था -नगमनवर्णनं नाम द्वादशोऽध्यायः ॥ १२॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्र-संहितायाम् पञ्चमे युद्ध-खंडे सनत्कुमार-पाराशर्य्य-संवादे त्रिपुर-वध-अनन्तर-देवस्तुति-मयस्तुति-मुंडिनिवेशनदेव-स्वस्थान-गमनवर्णनम् नाम द्वादशः अध्यायः ॥ १२॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudra-saṃhitāyām pañcame yuddha-khaṃḍe sanatkumāra-pārāśaryya-saṃvāde tripura-vadha-anantara-devastuti-mayastuti-muṃḍiniveśanadeva-svasthāna-gamanavarṇanam nāma dvādaśaḥ adhyāyaḥ .. 12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In