| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
भो ब्रह्मन्भगवन्पूर्वं श्रुतं मे ब्रह्मपुत्रक ॥ जलंधरं महादैत्यमवधीच्छंकरः प्रभुः ॥ १॥
भो ब्रह्मन् भगवन् पूर्वम् श्रुतम् मे ब्रह्म-पुत्रक ॥ जलंधरम् महा-दैत्यम् अवधीत् शंकरः प्रभुः ॥ १॥
bho brahman bhagavan pūrvam śrutam me brahma-putraka .. jalaṃdharam mahā-daityam avadhīt śaṃkaraḥ prabhuḥ .. 1..
तत्त्वं वद महाप्राज्ञ चरितं शशिमौलिनः ॥ विस्तारपूर्वकं शृण्वन्कस्तृप्येत्तद्यशोऽमलम् ॥ २॥
तत् त्वम् वद महा-प्राज्ञ चरितम् शशिमौलिनः ॥ विस्तार-पूर्वकम् शृण्वन् कः तृप्येत् तत् यशः अमलम् ॥ २॥
tat tvam vada mahā-prājña caritam śaśimaulinaḥ .. vistāra-pūrvakam śṛṇvan kaḥ tṛpyet tat yaśaḥ amalam .. 2..
सूत उवाच ।।
इत्येवं व्याससंपृष्टो ब्रह्मपुत्रो महामुनिः ॥ उवाचार्थवदव्यग्रं वाक्यं वाक्यविशारदः ॥ ३ ॥
इति एवम् व्यास-संपृष्टः ब्रह्म-पुत्रः महा-मुनिः ॥ उवाच अर्थवत् अव्यग्रम् वाक्यम् वाक्य-विशारदः ॥ ३ ॥
iti evam vyāsa-saṃpṛṣṭaḥ brahma-putraḥ mahā-muniḥ .. uvāca arthavat avyagram vākyam vākya-viśāradaḥ .. 3 ..
सनत्कुमार उवाच ।।
एकदा जीवशक्रौ च भक्त्या परमया मुने ॥ दर्शनं कर्तुमीशस्य कैलासं जग्मतुर्भृशम् ॥ ४ ॥
एकदा जीव-शक्रौ च भक्त्या परमया मुने ॥ दर्शनम् कर्तुम् ईशस्य कैलासम् जग्मतुः भृशम् ॥ ४ ॥
ekadā jīva-śakrau ca bhaktyā paramayā mune .. darśanam kartum īśasya kailāsam jagmatuḥ bhṛśam .. 4 ..
अथ गुर्विन्द्रयोर्ज्ञात्वागमनं शंकरः प्रभुः ॥ परीक्षितुं तयोर्ज्ञानं स्वदर्शनरतात्मनोः ॥ ५ ॥
अथ गुरु-इन्द्रयोः ज्ञात्वा आगमनम् शंकरः प्रभुः ॥ परीक्षितुम् तयोः ज्ञानम् स्व-दर्शन-रत-आत्मनोः ॥ ५ ॥
atha guru-indrayoḥ jñātvā āgamanam śaṃkaraḥ prabhuḥ .. parīkṣitum tayoḥ jñānam sva-darśana-rata-ātmanoḥ .. 5 ..
दिगम्बरोऽथ तन्मार्गमारुद्ध्य सद्गतिस्सताम् ॥ जटाबद्धेन शिरशातिष्ठत्संशोभिताननः ॥ ६॥
दिगम्बरः अथ तद्-मार्गम् आरुद्ध्य सत्-गतिः सताम् ॥ जटा-बद्धेन शिरशा अतिष्ठत् संशोभित-आननः ॥ ६॥
digambaraḥ atha tad-mārgam āruddhya sat-gatiḥ satām .. jaṭā-baddhena śiraśā atiṣṭhat saṃśobhita-ānanaḥ .. 6..
अथ तौ गुरुशक्रौ च कुर्वंतौ गमनं मुदा ॥ आलोक्य पुरुषं भीमं मार्गमध्येऽद्भुताकृतिम् ॥ ७॥
अथ तौ गुरु-शक्रौ च कुर्वंतौ गमनम् मुदा ॥ आलोक्य पुरुषम् भीमम् मार्ग-मध्ये अद्भुत-आकृतिम् ॥ ७॥
atha tau guru-śakrau ca kurvaṃtau gamanam mudā .. ālokya puruṣam bhīmam mārga-madhye adbhuta-ākṛtim .. 7..
महातेजस्विनं शांतं जटासंबद्धमस्तकम् ॥ महाबाहुं महोरस्कं गौरं नयनभीषणम् ॥ ६ ॥
महा-तेजस्विनम् शांतम् जटा-संबद्ध-मस्तकम् ॥ महा-बाहुम् महा-उरस्कम् गौरम् नयन-भीषणम् ॥ ६ ॥
mahā-tejasvinam śāṃtam jaṭā-saṃbaddha-mastakam .. mahā-bāhum mahā-uraskam gauram nayana-bhīṣaṇam .. 6 ..
अथो पुरंदरोऽपृच्छत्स्वाधिकारेण दुर्मदः ॥ पुरुषं तं स्वमार्गांतस्थितमज्ञाय शंकरम् ॥ ९॥
अथो पुरंदरः अपृच्छत् स्व-अधिकारेण दुर्मदः ॥ पुरुषम् तम् स्व-मार्ग-अन्त-स्थितम् अ ज्ञाय शंकरम् ॥ ९॥
atho puraṃdaraḥ apṛcchat sva-adhikāreṇa durmadaḥ .. puruṣam tam sva-mārga-anta-sthitam a jñāya śaṃkaram .. 9..
पुरन्दर उवाच ।।
कस्त्वं भोः कुत आयातः किं नाम वद तत्त्वतः ॥ स्वस्थानेसंस्थितश्शंभु किं वान्यत्र गतः प्रभुः ॥ ॥ 2.5.13.१० ॥
कः त्वम् भोः कुतस् आयातः किम् नाम वद तत्त्वतः ॥ स्व-स्थाने संस्थितः शंभु किम् वा अन्यत्र गतः प्रभुः ॥ ॥ २।५।१३।१० ॥
kaḥ tvam bhoḥ kutas āyātaḥ kim nāma vada tattvataḥ .. sva-sthāne saṃsthitaḥ śaṃbhu kim vā anyatra gataḥ prabhuḥ .. .. 2.5.13.10 ..
शक्रेणेत्थं स पृष्टस्तु किंचिन्नोवाच तापसः ॥ शक्रः पुनरपृच्छद्वै नोवाच स दिगंबरः ॥ ११ ॥
शक्रेण इत्थम् स पृष्टः तु किंचिद् ना उवाच तापसः ॥ शक्रः पुनर् अपृच्छत् वै न उवाच स दिगंबरः ॥ ११ ॥
śakreṇa ittham sa pṛṣṭaḥ tu kiṃcid nā uvāca tāpasaḥ .. śakraḥ punar apṛcchat vai na uvāca sa digaṃbaraḥ .. 11 ..
सनत्कुमार उवाच ।।
पुनः पुरंदरोऽपृच्छ्ल्लोकानामधिपेश्वरः ॥ तूष्णीमास महायोगी लीलारूपधरः प्रभुः ॥ १२॥
पुनर् पुरंदरः अपृच्छत् लोकानाम् अधिप-ईश्वरः ॥ तूष्णीम् आस महा-योगी लीला-रूप-धरः प्रभुः ॥ १२॥
punar puraṃdaraḥ apṛcchat lokānām adhipa-īśvaraḥ .. tūṣṇīm āsa mahā-yogī līlā-rūpa-dharaḥ prabhuḥ .. 12..
इत्थं पुनः पुनः पृष्टश्शक्रेण स दिगम्बरः ॥ नोवाच किंचिद्भगवाञ्छक्रज्ञानपरीक्षया ॥ १३॥
इत्थम् पुनर् पुनर् पृष्टः शक्रेण स दिगम्बरः ॥ न उवाच किंचिद् भगवान् शक्र-ज्ञान-परीक्षया ॥ १३॥
ittham punar punar pṛṣṭaḥ śakreṇa sa digambaraḥ .. na uvāca kiṃcid bhagavān śakra-jñāna-parīkṣayā .. 13..
अथ चुक्रोध देवेशस्त्रैलोक्यैश्वर्यगर्वितः ॥ उवाच वचनं चैव तं निर्भर्त्स्य जटाधरम् ॥ १४ ॥
अथ चुक्रोध देवेशः त्रैलोक्य-ऐश्वर्य-गर्वितः ॥ उवाच वचनम् च एव तम् निर्भर्त्स्य जटाधरम् ॥ १४ ॥
atha cukrodha deveśaḥ trailokya-aiśvarya-garvitaḥ .. uvāca vacanam ca eva tam nirbhartsya jaṭādharam .. 14 ..
इन्द्र उवाच ।।
रे मया पृच्छ्यमानोऽपि नोत्तरं दत्तवानसि ॥ अतस्त्वां हन्मि वज्रेण कस्ते त्रातास्ति दुर्मते ॥ १५ ॥
रे मया पृच्छ्यमानः अपि न उत्तरम् दत्तवान् असि ॥ अतस् त्वाम् हन्मि वज्रेण कः ते त्राता अस्ति दुर्मते ॥ १५ ॥
re mayā pṛcchyamānaḥ api na uttaram dattavān asi .. atas tvām hanmi vajreṇa kaḥ te trātā asti durmate .. 15 ..
सनत्कुमार उवाच ।।
इत्युदीर्य ततो वज्री संनिरीक्ष्य क्रुधा हि तम् ॥ हंतुं दिगंबरं वज्रमुद्यतं स चकार ह ॥ १६॥
इति उदीर्य ततस् वज्री संनिरीक्ष्य क्रुधा हि तम् ॥ हंतुम् दिगंबरम् वज्रम् उद्यतम् स चकार ह ॥ १६॥
iti udīrya tatas vajrī saṃnirīkṣya krudhā hi tam .. haṃtum digaṃbaram vajram udyatam sa cakāra ha .. 16..
पुरंदरं वज्रहस्तं दृष्ट्वा देवस्सदाशिवः ॥ चकार स्तंभनं तस्य वज्रपातस्य शंकरः॥ १७॥
पुरंदरम् वज्रहस्तम् दृष्ट्वा देवः सदाशिवः ॥ चकार स्तंभनम् तस्य वज्रपातस्य शंकरः॥ १७॥
puraṃdaram vajrahastam dṛṣṭvā devaḥ sadāśivaḥ .. cakāra staṃbhanam tasya vajrapātasya śaṃkaraḥ.. 17..
ततो रुद्रः क्रुधाविष्टः करालाक्षो भयंकरः ॥ द्रुतमेव प्रजज्वाल तेजसा प्रदहन्निव ॥ १८ ॥
ततस् रुद्रः क्रुधा आविष्टः कराल-अक्षः भयंकरः ॥ द्रुतम् एव प्रजज्वाल तेजसा प्रदहन् इव ॥ १८ ॥
tatas rudraḥ krudhā āviṣṭaḥ karāla-akṣaḥ bhayaṃkaraḥ .. drutam eva prajajvāla tejasā pradahan iva .. 18 ..
बाहुप्रतिष्टंभभुवामन्युनांतश्शचीपतिः ॥ समदह्यत भोगीव मंत्ररुद्धपराक्रमः ॥ १९॥
बाहु-प्रतिष्टंभ-भुवा अमन्युना अन्तर् शचीपतिः ॥ समदह्यत भोगी इव मंत्र-रुद्ध-पराक्रमः ॥ १९॥
bāhu-pratiṣṭaṃbha-bhuvā amanyunā antar śacīpatiḥ .. samadahyata bhogī iva maṃtra-ruddha-parākramaḥ .. 19..
दृष्ट्वा बृहस्पतिस्तूर्णं प्रज्वलंतं स्वतेजसा ॥ पुरुषं तं धिया ज्ञात्वा प्रणनाम हरं प्रभुम् ॥ 2.5.13.२०॥
दृष्ट्वा बृहस्पतिः तूर्णम् प्रज्वलंतम् स्व-तेजसा ॥ पुरुषम् तम् धिया ज्ञात्वा प्रणनाम हरम् प्रभुम् ॥ २।५।१३।२०॥
dṛṣṭvā bṛhaspatiḥ tūrṇam prajvalaṃtam sva-tejasā .. puruṣam tam dhiyā jñātvā praṇanāma haram prabhum .. 2.5.13.20..
कृतांजलिपुटो भूत्वा ततो गुरुरुदारधीः ॥ नत्वा च दंडवद्भूमौ प्रभुं स्तोतुं प्रचक्रमे ॥ २१॥
कृत-अंजलि-पुटः भूत्वा ततस् गुरुः उदार-धीः ॥ नत्वा च दंड-वत् भूमौ प्रभुम् स्तोतुम् प्रचक्रमे ॥ २१॥
kṛta-aṃjali-puṭaḥ bhūtvā tatas guruḥ udāra-dhīḥ .. natvā ca daṃḍa-vat bhūmau prabhum stotum pracakrame .. 21..
गुरुरुवाच ।।
नमो देवाधिदेवाय महादेवाय चात्मने ॥ महेश्वराय प्रभवे त्र्यम्बकाय कपर्दिने ॥ २२॥
नमः देव-अधिदेवाय महादेवाय च आत्मने ॥ महेश्वराय प्रभवे त्र्यम्बकाय कपर्दिने ॥ २२॥
namaḥ deva-adhidevāya mahādevāya ca ātmane .. maheśvarāya prabhave tryambakāya kapardine .. 22..
दीननाथाय विभवे नमोंऽधकनिषूदिने ॥ त्रिपुरघ्नाय शर्वाय ब्रह्मणे परमेष्ठिने ॥ २३॥
दीन-नाथाय विभवे नमः ओम् अधक-निषूदिने ॥ त्रिपुर-घ्नाय शर्वाय ब्रह्मणे परमेष्ठिने ॥ २३॥
dīna-nāthāya vibhave namaḥ om adhaka-niṣūdine .. tripura-ghnāya śarvāya brahmaṇe parameṣṭhine .. 23..
विरूपाक्षाय रुद्राय बहुरूपाय शंभवे ॥ विरूपायातिरूपाय रूपातीताय ते नमः ॥ २४॥
विरूपाक्षाय रुद्राय बहुरूपाय शंभवे ॥ विरूपाय अतिरूपाय रूप-अतीताय ते नमः ॥ २४॥
virūpākṣāya rudrāya bahurūpāya śaṃbhave .. virūpāya atirūpāya rūpa-atītāya te namaḥ .. 24..
यज्ञविध्वंसकर्त्रे च यज्ञानां फलदायिने॥ नमस्ते मखरूपाय परकर्मप्रवर्तिने॥ २५॥
यज्ञ-विध्वंस-कर्त्रे च यज्ञानाम् फल-दायिने॥ नमः ते मख-रूपाय पर-कर्म-प्रवर्तिने॥ २५॥
yajña-vidhvaṃsa-kartre ca yajñānām phala-dāyine.. namaḥ te makha-rūpāya para-karma-pravartine.. 25..
कालांतकाय कालाय कालभोगिधराय च ॥ नमस्ते परमेशाय सर्वत्र व्यापिने नमः ॥ २६॥
काल-अंतकाय कालाय काल-भोगि-धराय च ॥ नमः ते परमेशाय सर्वत्र व्यापिने नमः ॥ २६॥
kāla-aṃtakāya kālāya kāla-bhogi-dharāya ca .. namaḥ te parameśāya sarvatra vyāpine namaḥ .. 26..
नमो ब्रह्मशिरोहंत्रे ब्रह्मचंद्र स्तुताय च॥ ब्रह्मण्याय नमस्तेऽस्तु नमस्ते परमात्मने॥ २७॥
नमः ब्रह्म-शिरः-हंत्रे ब्रह्मचंद्र स्तुताय च॥ ब्रह्मण्याय नमः ते अस्तु नमः ते परमात्मने॥ २७॥
namaḥ brahma-śiraḥ-haṃtre brahmacaṃdra stutāya ca.. brahmaṇyāya namaḥ te astu namaḥ te paramātmane.. 27..
त्वमग्निरनिलो व्योम त्वमेवापो वसुंधरा॥ त्वं सूर्यश्चन्द्रमा भानि ज्योतिश्चक्रं त्वमेव हि ॥ २८ ॥
त्वम् अग्निः अनिलः व्योम त्वम् एव अपः वसुंधरा॥ त्वम् सूर्यः चन्द्रमाः भानि ज्योतिः चक्रम् त्वम् एव हि ॥ २८ ॥
tvam agniḥ anilaḥ vyoma tvam eva apaḥ vasuṃdharā.. tvam sūryaḥ candramāḥ bhāni jyotiḥ cakram tvam eva hi .. 28 ..
त्वमेव विष्णुस्त्वं ब्रह्मा तत्स्तुतस्त्वं परेश्वरः ॥ मुनयः सनकाद्यास्त्वं नारदस्त्वं तपोधनः ॥ २९ ॥
त्वम् एव विष्णुः त्वम् ब्रह्मा तद्-स्तुतः त्वम् पर-ईश्वरः ॥ मुनयः सनक-आद्याः त्वम् नारदः त्वम् तपोधनः ॥ २९ ॥
tvam eva viṣṇuḥ tvam brahmā tad-stutaḥ tvam para-īśvaraḥ .. munayaḥ sanaka-ādyāḥ tvam nāradaḥ tvam tapodhanaḥ .. 29 ..
त्वमेव सर्व लोकेशस्त्वमेव जगदात्मकः ॥ सर्वान्वयस्सर्वभिन्नस्त्वमेव प्रकृतेः परः ॥ 2.5.13.३० ॥
त्वम् एव लोक-ईशः त्वम् एव जगत्-आत्मकः ॥ सर्व-अन्वयः सर्व-भिन्नः त्वम् एव प्रकृतेः परः ॥ २।५।१३।३० ॥
tvam eva loka-īśaḥ tvam eva jagat-ātmakaḥ .. sarva-anvayaḥ sarva-bhinnaḥ tvam eva prakṛteḥ paraḥ .. 2.5.13.30 ..
त्वं वै सृजसि लोकांश्च रजसा विधिनामभाक् ॥ सत्त्वेन हरिरूपस्त्वं सकलं यासि वै जगत् ॥ ३१॥
त्वम् वै सृजसि लोकान् च रजसा विधि-नाम-भाज् ॥ सत्त्वेन हरि-रूपः त्वम् सकलम् यासि वै जगत् ॥ ३१॥
tvam vai sṛjasi lokān ca rajasā vidhi-nāma-bhāj .. sattvena hari-rūpaḥ tvam sakalam yāsi vai jagat .. 31..
त्वमेवासि महादेव तमसा हररूपधृक् ॥ लीलया भुवनं सर्वं निखिलं पांचभौतिकम् ॥ ३२॥
त्वम् एव असि महादेव तमसा हर-रूप-धृक् ॥ लीलया भुवनम् सर्वम् निखिलम् पांचभौतिकम् ॥ ३२॥
tvam eva asi mahādeva tamasā hara-rūpa-dhṛk .. līlayā bhuvanam sarvam nikhilam pāṃcabhautikam .. 32..
त्वद्ध्यानबलतस्सूर्यस्तपते विश्वभावन ॥ अमृतं च्यवते लोके शशी वाति समरिणः॥ ३३॥
त्वद्-ध्यान-बलतः सूर्यः तपते विश्वभावन ॥ अमृतम् च्यवते लोके शशी वाति समरिणः॥ ३३॥
tvad-dhyāna-balataḥ sūryaḥ tapate viśvabhāvana .. amṛtam cyavate loke śaśī vāti samariṇaḥ.. 33..
त्वद्ध्यानबलतो मेघाश्चांबु वर्षंति शंकर ॥ त्वद्ध्यानबलतश्शक्रस्त्रिलोकीं पाति पुत्रवत् ॥ ३४॥
त्वद्-ध्यान-बलतः मेघाः च अंबु वर्षंति शंकर ॥ त्वद्-ध्यान-बलतः शक्रः त्रिलोकीम् पाति पुत्र-वत् ॥ ३४॥
tvad-dhyāna-balataḥ meghāḥ ca aṃbu varṣaṃti śaṃkara .. tvad-dhyāna-balataḥ śakraḥ trilokīm pāti putra-vat .. 34..
त्वद्ध्यानबलतो मेघाः सर्वे देवा मुनीश्वराः ॥ स्वाधिकारं च कुर्वंति चकिता भवतो भयात् ॥ ३५ ॥
त्वद्-ध्यान-बलतः मेघाः सर्वे देवाः मुनि-ईश्वराः ॥ स्व-अधिकारम् च कुर्वंति चकिताः भवतः भयात् ॥ ३५ ॥
tvad-dhyāna-balataḥ meghāḥ sarve devāḥ muni-īśvarāḥ .. sva-adhikāram ca kurvaṃti cakitāḥ bhavataḥ bhayāt .. 35 ..
त्वत्पादकमलस्यैव सेवनाद्भुवि मानवाः ॥ नाद्रियन्ते सुरान्रुद लोकैश्वर्यं च भुंजते ॥ ३६॥
त्वद्-पाद-कमलस्य एव सेवनात् भुवि मानवाः ॥ न आद्रियन्ते सुरान् रुद लोक-ऐश्वर्यम् च भुंजते ॥ ३६॥
tvad-pāda-kamalasya eva sevanāt bhuvi mānavāḥ .. na ādriyante surān ruda loka-aiśvaryam ca bhuṃjate .. 36..
त्वत्पादकमलस्यैव सेवनादगमन्पराम् ॥ गतिं योगधना नामप्यगम्यां सर्वदुर्लभाम् ॥ ३७॥
त्वद्-पाद-कमलस्य एव सेवनात् अगमन् पराम् ॥ गतिम् योग-धनाः नाम् अपि अगम्याम् सर्व-दुर्लभाम् ॥ ३७॥
tvad-pāda-kamalasya eva sevanāt agaman parām .. gatim yoga-dhanāḥ nām api agamyām sarva-durlabhām .. 37..
।। सनत्कुमार उवाच ।।
बृहस्पतिरिति स्तुत्वा शंकरं लोकशंकरम् ॥ पादयो पातयामास तस्येशस्य पुरंदरम् ॥ ३८ ॥
बृहस्पतिः इति स्तुत्वा शंकरम् लोक-शंकरम् ॥ पातयामास तस्य ईशस्य पुरंदरम् ॥ ३८ ॥
bṛhaspatiḥ iti stutvā śaṃkaram loka-śaṃkaram .. pātayāmāsa tasya īśasya puraṃdaram .. 38 ..
पातयित्वा च देवेशमिंद्रं नत शिरोधरम्॥ बृहस्पतिरुवाचेदं प्रश्रयावनतश्शिवम् ॥ ३९ ॥
पातयित्वा च देवेशम् इंद्रम् नत शिरोधरम्॥ बृहस्पतिः उवाच इदम् प्रश्रय-अवनतः शिवम् ॥ ३९ ॥
pātayitvā ca deveśam iṃdram nata śirodharam.. bṛhaspatiḥ uvāca idam praśraya-avanataḥ śivam .. 39 ..
।। बृहस्पतिरुवाच ।।
दीननाथ महादेव प्रणतं तव पादयोः ॥ समुद्धर च शांतं स्वं क्रोधं नयनजं कुरु ॥ 2.5.13.४० ॥
दीन-नाथ महादेव प्रणतम् तव पादयोः ॥ समुद्धर च शांतम् स्वम् क्रोधम् नयन-जम् कुरु ॥ २।५।१३।४० ॥
dīna-nātha mahādeva praṇatam tava pādayoḥ .. samuddhara ca śāṃtam svam krodham nayana-jam kuru .. 2.5.13.40 ..
तुष्टो भव महादेव पाहीद्र शरणागतम् ॥ अग्निरेव शमं यातु भालनेत्रसमुद्भवः ॥ ४१ ॥
तुष्टः भव महादेव पाहि इद्र शरण-आगतम् ॥ अग्निः एव शमम् यातु भाल-नेत्र-समुद्भवः ॥ ४१ ॥
tuṣṭaḥ bhava mahādeva pāhi idra śaraṇa-āgatam .. agniḥ eva śamam yātu bhāla-netra-samudbhavaḥ .. 41 ..
।। सनत्कुमार उवाच ।।
इत्याकर्ण्य गुरोर्वाक्यं देवदेवो महेश्वरः ॥ उवाच करुणासिन्धुर्मेघनिर्ह्रादया गिरा॥ ४२ ॥
इति आकर्ण्य गुरोः वाक्यम् देवदेवः महेश्वरः ॥ उवाच करुणा-सिन्धुः मेघ-निर्ह्रादया गिरा॥ ४२ ॥
iti ākarṇya guroḥ vākyam devadevaḥ maheśvaraḥ .. uvāca karuṇā-sindhuḥ megha-nirhrādayā girā.. 42 ..
महेश्वर उवाच ।।
क्रोधं च निस्सृते नेत्राद्धारयामि बृहस्पतेः ॥ कथं हि कञ्चुकीं सर्पस्संधत्ते नोज्झितां पुनः ॥ ४३॥
क्रोधम् च निस्सृते नेत्रात् धारयामि बृहस्पतेः ॥ कथम् हि कञ्चुकीम् सर्पः संधत्ते न उज्झिताम् पुनर् ॥ ४३॥
krodham ca nissṛte netrāt dhārayāmi bṛhaspateḥ .. katham hi kañcukīm sarpaḥ saṃdhatte na ujjhitām punar .. 43..
सनत्कुमार उवाचु ।।
इति श्रुत्वा वचस्तस्य शंकरस्य बृहस्पतिः ॥ उवाच क्लिष्टरूपश्च भयव्याकुलमानसः ॥ ४४ ॥
इति श्रुत्वा वचः तस्य शंकरस्य बृहस्पतिः ॥ उवाच क्लिष्ट-रूपः च भय-व्याकुल-मानसः ॥ ४४ ॥
iti śrutvā vacaḥ tasya śaṃkarasya bṛhaspatiḥ .. uvāca kliṣṭa-rūpaḥ ca bhaya-vyākula-mānasaḥ .. 44 ..
बृहस्पतिरुवाच ।।
हे देव भगवन्भक्ता अनुकंप्याः सदैव हि ॥ भक्तवत्सलनामेति त्वं सत्यं कुरु शंकर ॥ ४५॥
हे देव भगवन् भक्ताः अनुकंप्याः सदा एव हि ॥ भक्त-वत्सल-नामा इति त्वम् सत्यम् कुरु शंकर ॥ ४५॥
he deva bhagavan bhaktāḥ anukaṃpyāḥ sadā eva hi .. bhakta-vatsala-nāmā iti tvam satyam kuru śaṃkara .. 45..
क्षेप्तुमन्यत्र देवेश स्वतेजोऽत्युग्रमर्हसि ॥ उद्धर्तस्सर्वभक्तानां समुद्धर पुरंदरम् ॥ ४६॥
क्षेप्तुम् अन्यत्र देवेश स्व-तेजः अति उग्रम् अर्हसि ॥ उद्धर्तर् सर्व-भक्तानाम् समुद्धर पुरंदरम् ॥ ४६॥
kṣeptum anyatra deveśa sva-tejaḥ ati ugram arhasi .. uddhartar sarva-bhaktānām samuddhara puraṃdaram .. 46..
सनत्कुमार उवाच ।।
इत्युक्तो गुरुणा रुद्रो भक्तवत्सलनामभाक् ॥ प्रत्युवाच प्रसन्नात्मा सुरेज्यं प्रणतार्त्तिहा॥ ४७॥
इति उक्तः गुरुणा रुद्रः भक्त-वत्सल-नाम-भाज् ॥ प्रत्युवाच प्रसन्न-आत्मा सुरेज्यम् प्रणत-आर्त्ति-हा॥ ४७॥
iti uktaḥ guruṇā rudraḥ bhakta-vatsala-nāma-bhāj .. pratyuvāca prasanna-ātmā surejyam praṇata-ārtti-hā.. 47..
शिव उवाच ।।
प्रीतः स्तुत्यानया तात ददामि वरमुत्तमम् ॥ इन्द्रस्य जीवदानेन जीवेति त्वं प्रथां व्रज ॥ ।४८॥
प्रीतः स्तुत्या अनया तात ददामि वरम् उत्तमम् ॥ इन्द्रस्य जीव-दानेन जीव इति त्वम् प्रथाम् व्रज ॥ ।४८॥
prītaḥ stutyā anayā tāta dadāmi varam uttamam .. indrasya jīva-dānena jīva iti tvam prathām vraja .. .48..
समुद्भूतोऽनलो योऽयं भालनेत्रात्सुरेशहा ॥ एनं त्यक्ष्याम्यहं दूरं यथेन्द्रं नैव पीडयेत् ॥ ४९ ॥
समुद्भूतः अनलः यः अयम् भाल-नेत्रात् सुरेश-हा ॥ एनम् त्यक्ष्यामि अहम् दूरम् यथा इन्द्रम् न एव पीडयेत् ॥ ४९ ॥
samudbhūtaḥ analaḥ yaḥ ayam bhāla-netrāt sureśa-hā .. enam tyakṣyāmi aham dūram yathā indram na eva pīḍayet .. 49 ..
।। सनत्कुमार उवाच् ।।
इत्युक्त्वा तं करे धृत्वा स्वतेजोऽनलमद्भुतम् ॥ भालनेत्रात्समुद्भूतं प्राक्षिपल्लवणांभसि ॥ 2.5.13.५० ॥
इति उक्त्वा तम् करे धृत्वा स्व-तेजः-अनलम् अद्भुतम् ॥ भाल-नेत्रात् समुद्भूतम् प्राक्षिपत् लवण-अंभसि ॥ २।५।१३।५० ॥
iti uktvā tam kare dhṛtvā sva-tejaḥ-analam adbhutam .. bhāla-netrāt samudbhūtam prākṣipat lavaṇa-aṃbhasi .. 2.5.13.50 ..
ततश्चांतर्दधे रुद्रो महालीलाकरः प्रभुः ॥ गुरुशक्रौ भयान्मुक्तौ जग्मतुः सुखमुत्तमम् ॥ ५१॥
ततस् च अंतर्दधे रुद्रः महा-लीला-करः प्रभुः ॥ गुरु-शक्रौ भयात् मुक्तौ जग्मतुः सुखम् उत्तमम् ॥ ५१॥
tatas ca aṃtardadhe rudraḥ mahā-līlā-karaḥ prabhuḥ .. guru-śakrau bhayāt muktau jagmatuḥ sukham uttamam .. 51..
यदर्थं गमनोद्युक्तौ दर्शनं प्राप्य तस्य वै ॥ कृतार्थौ गुरुशक्रौ हि स्वस्थानं जग्मतुर्मुदा ॥ ५२ ॥
यद्-अर्थम् गमन-उद्युक्तौ दर्शनम् प्राप्य तस्य वै ॥ कृतार्थौ गुरु-शक्रौ हि स्व-स्थानम् जग्मतुः मुदा ॥ ५२ ॥
yad-artham gamana-udyuktau darśanam prāpya tasya vai .. kṛtārthau guru-śakrau hi sva-sthānam jagmatuḥ mudā .. 52 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पंचमे युद्धखण्डे जलंधरवधोपाख्याने शक्रजीवनं नाम त्रयोदशोऽ ध्यायः ॥ १३ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पंचमे युद्ध-खण्डे जलंधरवधोपाख्याने शक्रजीवनम् नाम त्रयोदशः अ ध्यायः ॥ १३ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām paṃcame yuddha-khaṇḍe jalaṃdharavadhopākhyāne śakrajīvanam nāma trayodaśaḥ a dhyāyaḥ .. 13 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In