| |
|

This overlay will guide you through the buttons:

।। व्यास उवाच ।।
सनत्कुमार सर्वज्ञ ब्रह्मपुत्र नमोस्तु ते ॥ श्रुतेयमद्भुता मेऽद्य कथा शंभोर्महात्मनः ॥ १ ॥
सनत्कुमार सर्वज्ञ ब्रह्म-पुत्र नमः अस्तु ते ॥ श्रुता इयम् अद्भुता मे अद्य कथा शंभोः महात्मनः ॥ १ ॥
sanatkumāra sarvajña brahma-putra namaḥ astu te .. śrutā iyam adbhutā me adya kathā śaṃbhoḥ mahātmanaḥ .. 1 ..
क्षिप्ते स्वतेजसि ब्रह्मन्भालनेत्रसमुद्भवे ॥ लवणांभसि किं ताताभवत्तत्र वदाशु तत् ॥ २ ॥
क्षिप्ते स्व-तेजसि ब्रह्मन् भाल-नेत्र-समुद्भवे ॥ लवणांभसि किम् तात अभवत् तत्र वद आशु तत् ॥ २ ॥
kṣipte sva-tejasi brahman bhāla-netra-samudbhave .. lavaṇāṃbhasi kim tāta abhavat tatra vada āśu tat .. 2 ..
सनत्कुमार उवाच ।।
शृणु तात महाप्राज्ञ शिवलीलां महाद्भुताम् ॥ यच्छ्रुत्वा श्रद्धया भक्तो योगिनां गतिमाप्नुयात् ॥ ३॥
शृणु तात महा-प्राज्ञ शिव-लीलाम् महा-अद्भुताम् ॥ यत् श्रुत्वा श्रद्धया भक्तः योगिनाम् गतिम् आप्नुयात् ॥ ३॥
śṛṇu tāta mahā-prājña śiva-līlām mahā-adbhutām .. yat śrutvā śraddhayā bhaktaḥ yoginām gatim āpnuyāt .. 3..
अथो शिवस्य तत्तेजो भालनेत्रसमुद्भवम्॥ क्षिप्तं च लवणाम्भोधौ सद्यो बालत्वमाप ह ॥ ४ ॥
अथो शिवस्य तत् तेजः भाल-नेत्र-समुद्भवम्॥ क्षिप्तम् च लवण-अम्भोधौ सद्यस् बाल-त्वम् आप ह ॥ ४ ॥
atho śivasya tat tejaḥ bhāla-netra-samudbhavam.. kṣiptam ca lavaṇa-ambhodhau sadyas bāla-tvam āpa ha .. 4 ..
तत्र वै सिंधुगंगायाः सागरस्य च संगमे ॥ रुरोदोच्चैस्स वै बाल सर्वलोक भयंकरः ॥ ५ ॥
तत्र वै सिंधु-गंगायाः सागरस्य च संगमे ॥ रुरोद उच्चैस् स वै बाल सर्व-लोक भयंकरः ॥ ५ ॥
tatra vai siṃdhu-gaṃgāyāḥ sāgarasya ca saṃgame .. ruroda uccais sa vai bāla sarva-loka bhayaṃkaraḥ .. 5 ..
रुदतस्तस्य शब्देन प्राकंपद्धरणी मुहुः ॥ स्वर्गश्च सत्यलोकश्च तत्स्वनाद्बधिरीकृतः ॥ ६ ॥
रुदतः तस्य शब्देन प्राकंपत् धरणी मुहुर् ॥ स्वर्गः च सत्य-लोकः च तद्-स्वनात् बधिरीकृतः ॥ ६ ॥
rudataḥ tasya śabdena prākaṃpat dharaṇī muhur .. svargaḥ ca satya-lokaḥ ca tad-svanāt badhirīkṛtaḥ .. 6 ..
बालस्य रोदनेनैव सर्वे लोकाश्च तत्रसुः ॥ सर्वतो लोकपालाश्च विह्वलीकृतमानसाः ॥ ७ ॥
बालस्य रोदनेन एव सर्वे लोकाः च तत्रसुः ॥ सर्वतस् लोकपालाः च विह्वलीकृत-मानसाः ॥ ७ ॥
bālasya rodanena eva sarve lokāḥ ca tatrasuḥ .. sarvatas lokapālāḥ ca vihvalīkṛta-mānasāḥ .. 7 ..
किं बहूक्तेन विप्रेन्द्र चचाल सचराचरम् ॥ भुवनं निखिलं तात रोदनात्तच्छिशोर्विभो ॥ ८ ॥
किम् बहु-उक्तेन विप्र-इन्द्र चचाल सचराचरम् ॥ भुवनम् निखिलम् तात रोदनात् तद्-शिशोः विभो ॥ ८ ॥
kim bahu-uktena vipra-indra cacāla sacarācaram .. bhuvanam nikhilam tāta rodanāt tad-śiśoḥ vibho .. 8 ..
अथ ते व्याकुलास्सर्वे देवास्समुनयो द्रुतम् ॥ पितामहं लोकगुरुं ब्रह्माणं शरणं ययुः ॥ ९ ॥
अथ ते व्याकुलाः सर्वे देवाः स मुनयः द्रुतम् ॥ पितामहम् लोकगुरुम् ब्रह्माणम् शरणम् ययुः ॥ ९ ॥
atha te vyākulāḥ sarve devāḥ sa munayaḥ drutam .. pitāmaham lokagurum brahmāṇam śaraṇam yayuḥ .. 9 ..
तत्र गत्वा च ते देवा सुनयश्च सवासवाः ॥ प्रणम्य च सुसंस्तुत्य प्रोचुस्तं परमेष्ठिनम् ॥ 2.5.14.१० ॥
तत्र गत्वा च ते देवा सुनयः च स वासवाः ॥ प्रणम्य च सु संस्तुत्य प्रोचुः तम् परमेष्ठिनम् ॥ २।५।१४।१० ॥
tatra gatvā ca te devā sunayaḥ ca sa vāsavāḥ .. praṇamya ca su saṃstutya procuḥ tam parameṣṭhinam .. 2.5.14.10 ..
देवा ऊचुः ।।
लोकाधीश सुराधीश भयन्नस्समुपस्थितम् ॥ तन्नाशय महायोगिञ्जातोयं ह्यद्भुतो रवः ॥ ११॥
लोक-अधीश सुर-अधीश भयत् नः समुपस्थितम् ॥ तत् नाशय महा-योगिन् जातः यम् हि अद्भुतः रवः ॥ ११॥
loka-adhīśa sura-adhīśa bhayat naḥ samupasthitam .. tat nāśaya mahā-yogin jātaḥ yam hi adbhutaḥ ravaḥ .. 11..
।। सनत्कुमार उवाच।। ।।
इत्याकर्ण्य वचस्तेषां ब्रह्मा लोकपितामहः ॥ गंतुमैच्छत्ततस्तत्र किमेतदिति विस्मितः ॥ १२ ॥
इति आकर्ण्य वचः तेषाम् ब्रह्मा लोकपितामहः ॥ गंतुम् ऐच्छत् ततस् तत्र किम् एतत् इति विस्मितः ॥ १२ ॥
iti ākarṇya vacaḥ teṣām brahmā lokapitāmahaḥ .. gaṃtum aicchat tatas tatra kim etat iti vismitaḥ .. 12 ..
ततो ब्रह्मा सुरैस्तातावतरत्सत्यलोकतः ॥ रसां तज्ज्ञातुमिच्छन्स समुद्रमगमत्तदा ॥ १३॥
ततस् ब्रह्मा सुरैः तात अवतरत् सत्य-लोकतः ॥ रसाम् तत् ज्ञातुम् इच्छन् स समुद्रम् अगमत् तदा ॥ १३॥
tatas brahmā suraiḥ tāta avatarat satya-lokataḥ .. rasām tat jñātum icchan sa samudram agamat tadā .. 13..
यावत्तत्रागतो ब्रह्मा सर्वलोकपितामहः ॥ तावत्समुद्रस्योत्संगे तं बालं स ददर्श ह॥ १४॥
यावत् तत्र आगतः ब्रह्मा सर्व-लोक-पितामहः ॥ तावत् समुद्रस्य उत्संगे तम् बालम् स ददर्श ह॥ १४॥
yāvat tatra āgataḥ brahmā sarva-loka-pitāmahaḥ .. tāvat samudrasya utsaṃge tam bālam sa dadarśa ha.. 14..
आगतं विधिमालोक्य देवरूप्यथ सागरः॥ प्रणम्य शिरसा बालं तस्योत्संगे न्यवेशयत्॥ १५॥
आगतम् विधिम् आलोक्य देव-रूपी अथ सागरः॥ प्रणम्य शिरसा बालम् तस्य उत्संगे न्यवेशयत्॥ १५॥
āgatam vidhim ālokya deva-rūpī atha sāgaraḥ.. praṇamya śirasā bālam tasya utsaṃge nyaveśayat.. 15..
ततो ब्रह्माब्रवीद्वाक्यं सागरं विस्मयान्वितः ॥ जलराशे द्रुतं ब्रूहि कस्यायं शिशुरद्भुतः ॥ १६॥
ततस् ब्रह्मा अब्रवीत् वाक्यम् सागरम् विस्मय-अन्वितः ॥ जल-राशे द्रुतम् ब्रूहि कस्य अयम् शिशुः अद्भुतः ॥ १६॥
tatas brahmā abravīt vākyam sāgaram vismaya-anvitaḥ .. jala-rāśe drutam brūhi kasya ayam śiśuḥ adbhutaḥ .. 16..
।। सनत्कुमार उवाच ।।
ब्रह्मणो वाक्यमाकर्ण्य मुदितस्सागरस्तदा ॥ प्रत्युवाच प्रजेशं स नत्वा स्तुत्वा कृतांजलिः ॥ १७ ॥
ब्रह्मणः वाक्यम् आकर्ण्य मुदितः सागरः तदा ॥ प्रत्युवाच प्रजा-ईशम् स नत्वा स्तुत्वा कृतांजलिः ॥ १७ ॥
brahmaṇaḥ vākyam ākarṇya muditaḥ sāgaraḥ tadā .. pratyuvāca prajā-īśam sa natvā stutvā kṛtāṃjaliḥ .. 17 ..
समुद्र उवाच ।।
भो भो ब्रह्मन्मया प्राप्तो बालकोऽयमजानता ॥ प्रभवं सिंधुगंगायामकस्मात्सर्वलोकप ॥ १८ ॥
भो भो ब्रह्मन् मया प्राप्तः बालकः अयम् अ जानता ॥ प्रभवम् सिंधु-गंगायाम् अकस्मात् सर्व-लोकप ॥ १८ ॥
bho bho brahman mayā prāptaḥ bālakaḥ ayam a jānatā .. prabhavam siṃdhu-gaṃgāyām akasmāt sarva-lokapa .. 18 ..
जातकर्मादिसंस्कारान्कुरुष्वास्य जगद्गुरो ॥ जातकोक्तफलं सर्वं विधातर्वक्तुमर्हसि ॥ १९ ॥
जातकर्म-आदि-संस्कारान् कुरुष्व अस्य जगद्गुरो ॥ जातक-उक्त-फलम् सर्वम् विधातर् वक्तुम् अर्हसि ॥ १९ ॥
jātakarma-ādi-saṃskārān kuruṣva asya jagadguro .. jātaka-ukta-phalam sarvam vidhātar vaktum arhasi .. 19 ..
सनत्कुमार उवाच ।।
एवं वदति पाथोधौ स बालस्सागरात्मजः ॥ ब्रह्माणमग्रहीत्कण्ठे विधुन्वंतं मुहुर्मुहुः ॥ 2.5.14.२० ॥
एवम् वदति पाथोधौ स बालः सागर-आत्मजः ॥ ब्रह्माणम् अग्रहीत् कण्ठे विधुन्वंतम् मुहुर् मुहुर् ॥ २।५।१४।२० ॥
evam vadati pāthodhau sa bālaḥ sāgara-ātmajaḥ .. brahmāṇam agrahīt kaṇṭhe vidhunvaṃtam muhur muhur .. 2.5.14.20 ..
विधूननं च तस्यैवं सर्वलोककृतो विधेः ॥ पीडितस्य च कालेय नेत्राभ्यामगमज्जलम् ॥ २१ ॥
विधूननम् च तस्य एवम् सर्व-लोक-कृतः विधेः ॥ पीडितस्य च कालेय नेत्राभ्याम् अगमत् जलम् ॥ २१ ॥
vidhūnanam ca tasya evam sarva-loka-kṛtaḥ vidheḥ .. pīḍitasya ca kāleya netrābhyām agamat jalam .. 21 ..
कराभ्यामब्धिजातस्य तत्सुतस्य महौजसः ॥ कथंचिन्मुक्तकण्ठस्तु ब्रह्मा प्रोवाच सादरम् ॥ २२ ॥
कराभ्याम् अब्धिजातस्य तद्-सुतस्य महा-ओजसः ॥ कथंचिद् मुक्त-कण्ठः तु ब्रह्मा प्रोवाच सादरम् ॥ २२ ॥
karābhyām abdhijātasya tad-sutasya mahā-ojasaḥ .. kathaṃcid mukta-kaṇṭhaḥ tu brahmā provāca sādaram .. 22 ..
।। ब्रह्मोवाच ।।
शृणु सागर वक्ष्यामि तवास्य तनयस्य हि ॥ जातकोक्तफलं सर्वं समाधानरतः खलु॥ २३॥
शृणु सागर वक्ष्यामि तव अस्य तनयस्य हि ॥ जातक-उक्त-फलम् सर्वम् समाधान-रतः खलु॥ २३॥
śṛṇu sāgara vakṣyāmi tava asya tanayasya hi .. jātaka-ukta-phalam sarvam samādhāna-rataḥ khalu.. 23..
नेत्राभ्यां विधृतं यस्मादनेनैव जलं मम॥ तस्माज्जलंधरेतीह ख्यातो नाम्ना भवत्वसौ ॥ ॥ २४॥
नेत्राभ्याम् विधृतम् यस्मात् अनेन एव जलम् मम॥ तस्मात् जलंधर-इति इह ख्यातः नाम्ना भवतु असौ ॥ ॥ २४॥
netrābhyām vidhṛtam yasmāt anena eva jalam mama.. tasmāt jalaṃdhara-iti iha khyātaḥ nāmnā bhavatu asau .. .. 24..
अधुनैवैष तरुणस्सर्वशास्त्रार्थपारगः ॥ महापराक्रमो धीरो योद्धा च रणदुर्मदः ॥ २५॥
अधुना एव एष तरुणः सर्व-शास्त्र-अर्थ-पारगः ॥ महा-पराक्रमः धीरः योद्धा च रण-दुर्मदः ॥ २५॥
adhunā eva eṣa taruṇaḥ sarva-śāstra-artha-pāragaḥ .. mahā-parākramaḥ dhīraḥ yoddhā ca raṇa-durmadaḥ .. 25..
भविष्यति च गंभीरस्त्वं यथा समरे गुहः ॥ सर्वजेता च संग्रामे सर्वसंपद्विराजितः ॥ २६ ॥
भविष्यति च गंभीरः त्वम् यथा समरे गुहः ॥ सर्व-जेता च संग्रामे सर्व-संपद्-विराजितः ॥ २६ ॥
bhaviṣyati ca gaṃbhīraḥ tvam yathā samare guhaḥ .. sarva-jetā ca saṃgrāme sarva-saṃpad-virājitaḥ .. 26 ..
दैत्यानामधिपो बालः सर्वेषां च भविष्यति ॥ विष्णोरपि भवेज्जेता न कुत श्चित्पराभवः ॥ २७ ॥
दैत्यानाम् अधिपः बालः सर्वेषाम् च भविष्यति ॥ विष्णोः अपि भवेत् जेता न कुतश्चिद् पराभवः ॥ २७ ॥
daityānām adhipaḥ bālaḥ sarveṣām ca bhaviṣyati .. viṣṇoḥ api bhavet jetā na kutaścid parābhavaḥ .. 27 ..
अवध्यस्सर्वभूतानां विना रुद्रं भविष्यति ॥ यत एष समुद्भूतस्तत्रेदानीं गमिष्यति ॥ २८॥
अवध्यः सर्व-भूतानाम् विना रुद्रम् भविष्यति ॥ यतस् एष समुद्भूतः तत्र इदानीम् गमिष्यति ॥ २८॥
avadhyaḥ sarva-bhūtānām vinā rudram bhaviṣyati .. yatas eṣa samudbhūtaḥ tatra idānīm gamiṣyati .. 28..
पतिव्रतास्य भविता पत्नी सौभाग्यवर्द्धिनी ॥ सर्वाङ्गसुन्दरी रम्या प्रियवाक्छीलसागरा ॥ २९॥
पतिव्रता अस्य भविता पत्नी सौभाग्य-वर्द्धिनी ॥ ॥ २९॥
pativratā asya bhavitā patnī saubhāgya-varddhinī .. .. 29..
सनत्कुमार उवाच ।।
इत्युक्त्वा शुक्रमाहूय राज्ये तं चाभ्यषेचयत् ॥ आमंत्र्य सरितान्नाथं ब्रह्मांतर्द्धानमन्वगात् ॥ 2.5.14.३०॥
इति उक्त्वा शुक्रम् आहूय राज्ये तम् च अभ्यषेचयत् ॥ आमंत्र्य सरितात् नाथम् ब्रह्मा अंतर्द्धानम् अन्वगात् ॥ २।५।१४।३०॥
iti uktvā śukram āhūya rājye tam ca abhyaṣecayat .. āmaṃtrya saritāt nātham brahmā aṃtarddhānam anvagāt .. 2.5.14.30..
अथ तद्दर्शनोत्फुल्लनयनस्सागरस्तदा ॥ तमात्मजं समादाय स्वगेहमगमन्मुदा ॥ ३१ ॥
अथ तद्-दर्शन-उत्फुल्ल-नयनः सागरः तदा ॥ तम् आत्मजम् समादाय स्व-गेहम् अगमत् मुदा ॥ ३१ ॥
atha tad-darśana-utphulla-nayanaḥ sāgaraḥ tadā .. tam ātmajam samādāya sva-geham agamat mudā .. 31 ..
अपोषयन्महोपायैस्स्वबालं मुदितात्मकः ॥ सर्वांगसुन्दरं रम्यं महाद्भुतसुतेजसम् ॥ ३२॥
अपोषयत् महा-उपायैः स्व-बालम् मुदित-आत्मकः ॥ सर्व-अंग-सुन्दरम् रम्यम् महा-अद्भुत-सु तेजसम् ॥ ३२॥
apoṣayat mahā-upāyaiḥ sva-bālam mudita-ātmakaḥ .. sarva-aṃga-sundaram ramyam mahā-adbhuta-su tejasam .. 32..
अथाम्बुधिस्समाहूय कालनेमिं महासुरम् ॥ वृन्दाभिधां सुतां तस्य तद्भार्यार्थमयाचत ॥ ३३॥
अथ अम्बुधिः समाहूय कालनेमिम् महा-असुरम् ॥ वृन्द-अभिधाम् सुताम् तस्य तद्-भार्या-अर्थम् अयाचत ॥ ३३॥
atha ambudhiḥ samāhūya kālanemim mahā-asuram .. vṛnda-abhidhām sutām tasya tad-bhāryā-artham ayācata .. 33..
कालनेम्यसुरो वीरोऽसुराणां प्रवरस्सुधीः ॥ साधु येनेम्बुधेर्याञ्चां स्वकर्मनिपुणो मुने ॥ ३४॥
कालनेमी असुरः वीरः असुराणाम् प्रवरः सुधीः ॥ साधु येन इम्बुधेः याञ्चाम् स्व-कर्म-निपुणः मुने ॥ ३४॥
kālanemī asuraḥ vīraḥ asurāṇām pravaraḥ sudhīḥ .. sādhu yena imbudheḥ yāñcām sva-karma-nipuṇaḥ mune .. 34..
जलंधराय वीराय सागरप्रभवाय च ॥ ददौ ब्रह्मविधानेन स्वसुतां प्राणवल्लभाम् ॥ ३५॥
जलंधराय वीराय सागरप्रभवाय च ॥ ददौ ब्रह्म-विधानेन स्व-सुताम् प्राण-वल्लभाम् ॥ ३५॥
jalaṃdharāya vīrāya sāgaraprabhavāya ca .. dadau brahma-vidhānena sva-sutām prāṇa-vallabhām .. 35..
तदोत्सवो महानासीद्विवाहे च तयोस्तदा ॥ सुखं प्रापुर्नदा नद्योऽसुराश्चैवाखिला मुने ॥ ३६ ॥
तदा उत्सवः महान् आसीत् विवाहे च तयोः तदा ॥ सुखम् प्रापुः नदाः नद्यः असुराः च एव अखिलाः मुने ॥ ३६ ॥
tadā utsavaḥ mahān āsīt vivāhe ca tayoḥ tadā .. sukham prāpuḥ nadāḥ nadyaḥ asurāḥ ca eva akhilāḥ mune .. 36 ..
समुद्रोऽति सुखं प्राप सुतं दृष्ट्वा हि सस्त्रियम् ॥ दानं ददौ द्विजातिभ्योऽप्यन्येभ्यश्च यथाविधि ॥ ३७ ॥
समुद्रः अति सुखम् प्राप सुतम् दृष्ट्वा हि स स्त्रियम् ॥ दानम् ददौ द्विजातिभ्यः अपि अन्येभ्यः च यथाविधि ॥ ३७ ॥
samudraḥ ati sukham prāpa sutam dṛṣṭvā hi sa striyam .. dānam dadau dvijātibhyaḥ api anyebhyaḥ ca yathāvidhi .. 37 ..
ये देवैर्निर्जिताः पूर्वं दैत्याः पाताल संस्थिताः ॥ ते हि भूमंडलं याता निर्भयास्तमुपाश्रिताः ॥ ३८ ॥
ये देवैः निर्जिताः पूर्वम् दैत्याः पाताल संस्थिताः ॥ ते हि भू-मंडलम् याताः निर्भयाः तम् उपाश्रिताः ॥ ३८ ॥
ye devaiḥ nirjitāḥ pūrvam daityāḥ pātāla saṃsthitāḥ .. te hi bhū-maṃḍalam yātāḥ nirbhayāḥ tam upāśritāḥ .. 38 ..
ते कालनेमिप्रमुखास्ततोऽसुरास्तस्मै सुतां सिंधुसुताय दत्त्वा ॥ बभूवुरत्यन्तमुदान्विता हि तमाश्रिता देव विनिर्जयाय॥ ३९॥
ते कालनेमि-प्रमुखाः ततस् असुराः तस्मै सुताम् सिंधुसुताय दत्त्वा ॥ बभूवुः अत्यन्त-मुदा अन्विताः हि तम् आश्रिताः देव विनिर्जयाय॥ ३९॥
te kālanemi-pramukhāḥ tatas asurāḥ tasmai sutām siṃdhusutāya dattvā .. babhūvuḥ atyanta-mudā anvitāḥ hi tam āśritāḥ deva vinirjayāya.. 39..
स चापि वीरोम्बुधिबालकोऽसौ जलंधराख्योऽसुरवीरवीरः ॥ संप्राप्य भार्यामतिसुन्दरी वशी चकार राज्यं हि कविप्रभावात्॥ 2.5.14.४०॥
स च अपि वीर-उम्बुधि-बालकः असौ जलंधर-आख्यः असुर-वीर-वीरः ॥ संप्राप्य भार्याम् अति सुन्दरी वशी चकार राज्यम् हि कवि-प्रभावात्॥ २।५।१४।४०॥
sa ca api vīra-umbudhi-bālakaḥ asau jalaṃdhara-ākhyaḥ asura-vīra-vīraḥ .. saṃprāpya bhāryām ati sundarī vaśī cakāra rājyam hi kavi-prabhāvāt.. 2.5.14.40..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे जलं धरवधोपाख्याने जलंधरोत्पत्तिविवाहवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खंडे जलंधरवधोपाख्याने जलंधरोत्पत्तिविवाहवर्णनम् नाम चतुर्दशः अध्यायः ॥ १४॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṃḍe jalaṃdharavadhopākhyāne jalaṃdharotpattivivāhavarṇanam nāma caturdaśaḥ adhyāyaḥ .. 14..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In