| |
|

This overlay will guide you through the buttons:

।। सनत्कुमार उवाच ।।
एकदा वारिधिसुतो वृन्दापति रुदारधीः॥ सभार्य्यस्संस्थितो वीरोऽसुरैस्सर्वैः समन्वितः ॥ १॥
एकदा वारिधि-सुतः वृन्दापति रुदार-धीः॥ स भार्यः संस्थितः वीरः असुरैः सर्वैः समन्वितः ॥ १॥
ekadā vāridhi-sutaḥ vṛndāpati rudāra-dhīḥ.. sa bhāryaḥ saṃsthitaḥ vīraḥ asuraiḥ sarvaiḥ samanvitaḥ .. 1..
तत्राजगाम सुप्रीतस्सुवर्चास्त्वथ भार्गवः॥ तेजः पुंजो मूर्त इव भासयन्सकला दिशः ॥ २॥
तत्र आजगाम सु प्रीतः सुवर्चाः तु अथ भार्गवः॥ तेजः पुंजः मूर्तः इव भासयन् सकलाः दिशः ॥ २॥
tatra ājagāma su prītaḥ suvarcāḥ tu atha bhārgavaḥ.. tejaḥ puṃjaḥ mūrtaḥ iva bhāsayan sakalāḥ diśaḥ .. 2..
तं दृष्ट्वा गुरुमायान्तमसुरास्तेऽखिला द्रुतम् ॥ प्रणेमुः प्रीतमनसस्सिंधुपुत्रोऽपि सादरम्॥ ३॥
तम् दृष्ट्वा गुरुम् आयान्तम् असुराः ते अखिलाः द्रुतम् ॥ प्रणेमुः प्रीत-मनसः सिंधु-पुत्रः अपि स आदरम्॥ ३॥
tam dṛṣṭvā gurum āyāntam asurāḥ te akhilāḥ drutam .. praṇemuḥ prīta-manasaḥ siṃdhu-putraḥ api sa ādaram.. 3..
दत्त्वाशीर्वचनं तेभ्यो भार्गवस्तेजसां निधिः ॥ निषसादासने रम्ये संतस्थुस्तेऽपि पूर्ववत् ॥ ४ ॥
दत्त्वा आशीर्वचनम् तेभ्यः भार्गवः तेजसाम् निधिः ॥ निषसाद आसने रम्ये संतस्थुः ते अपि पूर्ववत् ॥ ४ ॥
dattvā āśīrvacanam tebhyaḥ bhārgavaḥ tejasām nidhiḥ .. niṣasāda āsane ramye saṃtasthuḥ te api pūrvavat .. 4 ..
अथ सिंध्वात्मजो वीरो दृष्ट्वा प्रीत्या निजां सभाम् ॥ जलंधरः प्रसन्नोऽभूदनष्टवरशासनः ॥ ५ ॥
अथ सिंधु-आत्मजः वीरः दृष्ट्वा प्रीत्या निजाम् सभाम् ॥ जलंधरः प्रसन्नः अभूत् अनष्ट-वर-शासनः ॥ ५ ॥
atha siṃdhu-ātmajaḥ vīraḥ dṛṣṭvā prītyā nijām sabhām .. jalaṃdharaḥ prasannaḥ abhūt anaṣṭa-vara-śāsanaḥ .. 5 ..
तत्स्थितं छिन्नशिरसं दृष्ट्वा राहुं स दैत्यराट् ॥ पप्रच्छ भार्गवं शीघ्रमिदं सागरनन्दनः ॥ ६॥
तद्-स्थितम् छिन्न-शिरसम् दृष्ट्वा राहुम् स दैत्य-राज् ॥ पप्रच्छ भार्गवम् शीघ्रम् इदम् सागरनन्दनः ॥ ६॥
tad-sthitam chinna-śirasam dṛṣṭvā rāhum sa daitya-rāj .. papraccha bhārgavam śīghram idam sāgaranandanaḥ .. 6..
जलंधर उवाच ।।
केनेदं विहितं राहोश्शिरच्छेदनकं प्रभो ॥ तद्ब्रूहि निखिलं वृत्तं यथावत्तत्त्वतो गुरो ॥ ७॥
केन इदम् विहितम् राहोः शिर-छेदनकम् प्रभो ॥ तत् ब्रूहि निखिलम् वृत्तम् यथावत् तत्त्वतः गुरो ॥ ७॥
kena idam vihitam rāhoḥ śira-chedanakam prabho .. tat brūhi nikhilam vṛttam yathāvat tattvataḥ guro .. 7..
सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तस्य सिन्धुपुत्रस्य भार्गवः ॥ स्मृत्वा शिवपदांभोजं प्रत्युवाच यथार्थवत् ॥ ८॥
इति आकर्ण्य वचः तस्य सिन्धुपुत्रस्य भार्गवः ॥ स्मृत्वा शिव-पद-अंभोजम् प्रत्युवाच यथार्थ-वत् ॥ ८॥
iti ākarṇya vacaḥ tasya sindhuputrasya bhārgavaḥ .. smṛtvā śiva-pada-aṃbhojam pratyuvāca yathārtha-vat .. 8..
शुक्र उवाच।।
जलंधर महावीर सर्वासुरसहायक ॥ शृणु वृत्तांतमखिलं यथावत्कथयामि ते ॥ ९ ॥
जलंधर महा-वीर सर्व-असुर-सहायक ॥ शृणु वृत्तांतम् अखिलम् यथावत् कथयामि ते ॥ ९ ॥
jalaṃdhara mahā-vīra sarva-asura-sahāyaka .. śṛṇu vṛttāṃtam akhilam yathāvat kathayāmi te .. 9 ..
पुराभवद्बलिर्वीरो विरोचनसुतो बली ॥ हिरण्यकशिपोश्चैव प्रपौत्रो धर्मवित्तमः ॥ 2.5.15.१०॥
पुरा भवत् बलिः वीरः विरोचन-सुतः बली ॥ हिरण्यकशिपोः च एव प्रपौत्रः धर्म-वित्तमः ॥ २।५।१५।१०॥
purā bhavat baliḥ vīraḥ virocana-sutaḥ balī .. hiraṇyakaśipoḥ ca eva prapautraḥ dharma-vittamaḥ .. 2.5.15.10..
पराजितास्सुरास्तेन रमेशं शरणं ययुः ॥ सवासवास्स्ववृत्तांतमाचख्युः स्वार्थसाधकाः॥ ११॥
पराजिताः सुराः तेन रमेशम् शरणम् ययुः ॥ स वासवाः स्व-वृत्तांतम् आचख्युः स्व-अर्थ-साधकाः॥ ११॥
parājitāḥ surāḥ tena rameśam śaraṇam yayuḥ .. sa vāsavāḥ sva-vṛttāṃtam ācakhyuḥ sva-artha-sādhakāḥ.. 11..
तदाज्ञया सुरैः सार्द्धं चक्रुस्संधिमथो सुराः ॥ स्वकार्यसिद्धये तातच्छलकर्मविचक्षणाः ॥ १२ ॥
तद्-आज्ञया सुरैः सार्द्धम् चक्रुः संधिम् अथो सुराः ॥ स्व-कार्य-सिद्धये तात-छल-कर्म-विचक्षणाः ॥ १२ ॥
tad-ājñayā suraiḥ sārddham cakruḥ saṃdhim atho surāḥ .. sva-kārya-siddhaye tāta-chala-karma-vicakṣaṇāḥ .. 12 ..
अथामृतार्थे सिंधोश्च मंथनं चक्रुरादरात् ॥ विष्णोस्सहायिनस्ते हि सुरास्सर्वेऽसुरैस्सह॥ १३॥
अथ अमृत-अर्थे सिंधोः च मंथनम् चक्रुः आदरात् ॥ विष्णोः सहायिनः ते हि सुराः सर्वे असुरैः सह॥ १३॥
atha amṛta-arthe siṃdhoḥ ca maṃthanam cakruḥ ādarāt .. viṣṇoḥ sahāyinaḥ te hi surāḥ sarve asuraiḥ saha.. 13..
ततो रत्नोपहरणमकार्षुर्दैत्यशत्रवः ॥ जगृहुर्यत्नतो देवाः पपुरप्यमृतं छलात् ॥ १४॥
ततस् रत्न-उपहरणम् अकार्षुः दैत्य-शत्रवः ॥ जगृहुः यत्नतः देवाः पपुः अपि अमृतम् छलात् ॥ १४॥
tatas ratna-upaharaṇam akārṣuḥ daitya-śatravaḥ .. jagṛhuḥ yatnataḥ devāḥ papuḥ api amṛtam chalāt .. 14..
ततः पराभवं चक्रुरसुराणां सहायतः ॥ विष्णोस्सुरास्सचक्रास्तेऽमृतापानाद्बलान्विताः ॥ १५॥
ततस् पराभवम् चक्रुः असुराणाम् सहायतः ॥ विष्णोः सुराः स चक्राः ते अमृत-अपानात् बल-अन्विताः ॥ १५॥
tatas parābhavam cakruḥ asurāṇām sahāyataḥ .. viṣṇoḥ surāḥ sa cakrāḥ te amṛta-apānāt bala-anvitāḥ .. 15..
शिरश्छेदं चकारासौ पिबतश्चामृतं हरिः ॥ राहोर्देवसभां हि पक्षपाती हरेस्सदा ॥ १६ ॥
शिरः-छेदम् चकार असौ पिबतः च अमृतम् हरिः ॥ राहोः देव-सभाम् हि पक्षपाती हरेः सदा ॥ १६ ॥
śiraḥ-chedam cakāra asau pibataḥ ca amṛtam hariḥ .. rāhoḥ deva-sabhām hi pakṣapātī hareḥ sadā .. 16 ..
सनत्कुम्रार उवाच ।।
एवं कविस्तस्य शिरश्छेदं राहोश्शशंस च ॥ अमृतार्थे समुद्रस्य मंथनं देवकारितम् ॥ १७ ॥
एवम् कविः तस्य शिरः-छेदम् राहोः शशंस च ॥ अमृत-अर्थे समुद्रस्य मंथनम् देव-कारितम् ॥ १७ ॥
evam kaviḥ tasya śiraḥ-chedam rāhoḥ śaśaṃsa ca .. amṛta-arthe samudrasya maṃthanam deva-kāritam .. 17 ..
रत्नोपहरणं चैव दैत्यानां च पराभवम् ॥ देवैरमृतपानं च कृतं सर्वं च विस्तरात् ॥ १८॥
रत्न-उपहरणम् च एव दैत्यानाम् च पराभवम् ॥ देवैः अमृत-पानम् च कृतम् सर्वम् च विस्तरात् ॥ १८॥
ratna-upaharaṇam ca eva daityānām ca parābhavam .. devaiḥ amṛta-pānam ca kṛtam sarvam ca vistarāt .. 18..
तदाकर्ण्य महावीरोम्बुधिबालः प्रतापवान् ॥ चुक्रोध क्रोधरक्ताक्षस्स्वपितुर्मंथनं तदा ॥ १९॥
तत् आकर्ण्य महा-वीर-उम्बुधि-बालः प्रतापवान् ॥ चुक्रोध क्रोध-रक्त-अक्षः स्व-पितुः मंथनम् तदा ॥ १९॥
tat ākarṇya mahā-vīra-umbudhi-bālaḥ pratāpavān .. cukrodha krodha-rakta-akṣaḥ sva-pituḥ maṃthanam tadā .. 19..
अथ दूतं समाहूय घस्मराभिधमुत्तमम् ॥ सर्वं शशंस चरितं यदाह गुरुरात्मवान् ॥ 2.5.15.२० ॥
अथ दूतम् समाहूय घस्मर-अभिधम् उत्तमम् ॥ सर्वम् शशंस चरितम् यत् आह गुरुः आत्मवान् ॥ २।५।१५।२० ॥
atha dūtam samāhūya ghasmara-abhidham uttamam .. sarvam śaśaṃsa caritam yat āha guruḥ ātmavān .. 2.5.15.20 ..
अथ तं प्रेषयामास स्वदूतं शक्रसन्निधौ॥ संमान्य बहुशः प्रीत्याऽभयं दत्त्वा विशारदम् ॥ २१॥
अथ तम् प्रेषयामास स्व-दूतम् शक्र-सन्निधौ॥ संमान्य बहुशस् प्रीत्या अभयम् दत्त्वा विशारदम् ॥ २१॥
atha tam preṣayāmāsa sva-dūtam śakra-sannidhau.. saṃmānya bahuśas prītyā abhayam dattvā viśāradam .. 21..
दूतस्त्रिविष्टपं तस्य जगामारमलं सुधीः ॥ घस्मरोंऽबुधिबालस्य सर्वदेवसमन्वितम् ॥ २२॥
दूतः त्रिविष्टपम् तस्य जगाम आरमलम् सुधीः ॥ सर्व-देव-समन्वितम् ॥ २२॥
dūtaḥ triviṣṭapam tasya jagāma āramalam sudhīḥ .. sarva-deva-samanvitam .. 22..
तत्र गत्वा स दूतस्तु सुधर्मां प्राप्य सत्वरम् ॥ गर्वादखर्वमौलिर्हि देवेन्द्रं वाक्यमब्रवीत् ॥ २३ ॥
तत्र गत्वा स दूतः तु सुधर्माम् प्राप्य स त्वरम् ॥ गर्वात् अखर्व-मौलिः हि देव-इन्द्रम् वाक्यम् अब्रवीत् ॥ २३ ॥
tatra gatvā sa dūtaḥ tu sudharmām prāpya sa tvaram .. garvāt akharva-mauliḥ hi deva-indram vākyam abravīt .. 23 ..
घस्मर उवाच ।।
जलंधरोऽब्धि तनयस्सर्वदैत्यजनेश्वरः ॥ सुप्रतापी महावीरस्स्वयं कविसहायवान् ॥ २४ ॥
जलंधरः अब्धि तनयः सर्व-दैत्य-जनेश्वरः ॥ सु प्रतापी महा-वीरः स्वयम् कवि-सहायवान् ॥ २४ ॥
jalaṃdharaḥ abdhi tanayaḥ sarva-daitya-janeśvaraḥ .. su pratāpī mahā-vīraḥ svayam kavi-sahāyavān .. 24 ..
दूतोऽहं तस्य वीरस्य घस्मराख्यो न घस्मरः ॥ प्रेषितस्तेन वीरेण त्वत्सकाशमिहागतः ॥ २५॥
दूतः अहम् तस्य वीरस्य घस्मर-आख्यः न घस्मरः ॥ प्रेषितः तेन वीरेण त्वद्-सकाशम् इह आगतः ॥ २५॥
dūtaḥ aham tasya vīrasya ghasmara-ākhyaḥ na ghasmaraḥ .. preṣitaḥ tena vīreṇa tvad-sakāśam iha āgataḥ .. 25..
अव्याहताज्ञस्वर्वत्र जलंधर उदग्रधीः ॥ निर्जिताखिलदैत्यारिस्स यदाह शृणुष्व तत् ॥ २६ ॥
अव्याहत-आज्ञ-स्वर् वत्र जलंधरः उदग्र-धीः ॥ निर्जित-अखिल-दैत्य-अरिः स यत् आह शृणुष्व तत् ॥ २६ ॥
avyāhata-ājña-svar vatra jalaṃdharaḥ udagra-dhīḥ .. nirjita-akhila-daitya-ariḥ sa yat āha śṛṇuṣva tat .. 26 ..
जलंधर उवाच ।।
कस्मात्त्वया मम पिता मथितस्सागरोऽद्रिणा ॥ नीतानि सर्वरत्नानि पितुर्मे देवताधम ॥ २७ ॥
कस्मात् त्वया मम पिता मथितः सागरः अद्रिणा ॥ नीतानि सर्व-रत्नानि पितुः मे देवता-अधम ॥ २७ ॥
kasmāt tvayā mama pitā mathitaḥ sāgaraḥ adriṇā .. nītāni sarva-ratnāni pituḥ me devatā-adhama .. 27 ..
उचितं न कृतं तेऽद्य तानि शीघ्रं प्रयच्छ मे ॥ ममायाहि विचार्येत्थं शरणं दैवतैस्सह ॥ २८ ॥
उचितम् न कृतम् ते अद्य तानि शीघ्रम् प्रयच्छ मे ॥ मम आयाहि विचार्य इत्थम् शरणम् दैवतैः सह ॥ २८ ॥
ucitam na kṛtam te adya tāni śīghram prayaccha me .. mama āyāhi vicārya ittham śaraṇam daivataiḥ saha .. 28 ..
अन्यथा ते भयं भूरि भविष्यति सुराधम ॥ राज्यविध्वंसनं चैव सत्यमेतद्ब्रवीम्यहम् ॥ २९॥
अन्यथा ते भयम् भूरि भविष्यति सुरा-अधम ॥ राज्य-विध्वंसनम् च एव सत्यम् एतत् ब्रवीमि अहम् ॥ २९॥
anyathā te bhayam bhūri bhaviṣyati surā-adhama .. rājya-vidhvaṃsanam ca eva satyam etat bravīmi aham .. 29..
सनत्कुमार उवाच ।।
इति दूतवचः श्रुत्वा विस्मितस्त्रिदशाधिपः ॥ उवाच तं स्मरन्निन्द्रो भयरोषसमन्वितः ॥ 2.5.15.३० ॥
इति दूत-वचः श्रुत्वा विस्मितः त्रिदशाधिपः ॥ उवाच तम् स्मरन् इन्द्रः भय-रोष-समन्वितः ॥ २।५।१५।३० ॥
iti dūta-vacaḥ śrutvā vismitaḥ tridaśādhipaḥ .. uvāca tam smaran indraḥ bhaya-roṣa-samanvitaḥ .. 2.5.15.30 ..
अद्रयो मद्भयात्त्रस्तास्स्वकुक्षिस्था यतः कृताः ॥ अन्येऽपि मद्द्विषस्तेन रक्षिता दितिजाः पुरा ॥ ३१॥
अद्रयः मद्-भयात् त्रस्ताः स्व-कुक्षि-स्थाः यतस् कृताः ॥ अन्ये अपि मद्-द्विषः तेन रक्षिताः दितिजाः पुरा ॥ ३१॥
adrayaḥ mad-bhayāt trastāḥ sva-kukṣi-sthāḥ yatas kṛtāḥ .. anye api mad-dviṣaḥ tena rakṣitāḥ ditijāḥ purā .. 31..
तस्मात्तद्रत्नजातं तु मया सर्वं हृतं किल ॥ न तिष्ठति मम द्रोही सुखं सत्यं ब्रवीम्यहम् ॥ ३२॥
तस्मात् तत् रत्न-जातम् तु मया सर्वम् हृतम् किल ॥ न तिष्ठति मम द्रोही सुखम् सत्यम् ब्रवीमि अहम् ॥ ३२॥
tasmāt tat ratna-jātam tu mayā sarvam hṛtam kila .. na tiṣṭhati mama drohī sukham satyam bravīmi aham .. 32..
शंखोप्येव पुरा दैत्यो मां द्विषन्सागरात्मजः ॥ अभवन्मूढचित्तस्तु साधुसंगात्समुज्झित॥ ३३॥
शंखः उप्य एव पुरा दैत्यः माम् द्विषन् सागरात्मजः ॥ अभवत् मूढ-चित्तः तु साधु-संगात् समुज्झित॥ ३३॥
śaṃkhaḥ upya eva purā daityaḥ mām dviṣan sāgarātmajaḥ .. abhavat mūḍha-cittaḥ tu sādhu-saṃgāt samujjhita.. 33..
ममानुजेन हरिणा निहतस्य हि पापधीः ॥ हिंसकस्साधुसंधस्य पापिष्ठस्सागरोदरे ॥ ३४॥
मम अनुजेन हरिणा निहतस्य हि पाप-धीः ॥ हिंसकः साधु-संधस्य पापिष्ठः सागर-उदरे ॥ ३४॥
mama anujena hariṇā nihatasya hi pāpa-dhīḥ .. hiṃsakaḥ sādhu-saṃdhasya pāpiṣṭhaḥ sāgara-udare .. 34..
तद्गच्छ दूत शीघ्रं त्वं कथयस्वास्य तत्त्वतः ॥ अब्धिपुत्रस्य सर्वं हि सिंधोर्मंथनकारणम् ॥ ३५॥
तत् गच्छ दूत शीघ्रम् त्वम् कथयस्व अस्य तत्त्वतः ॥ अब्धिपुत्रस्य सर्वम् हि सिंधोः मंथन-कारणम् ॥ ३५॥
tat gaccha dūta śīghram tvam kathayasva asya tattvataḥ .. abdhiputrasya sarvam hi siṃdhoḥ maṃthana-kāraṇam .. 35..
सनत्कुमार उवाच ।।
इत्थं विसर्जितो दूतो घस्मराख्यस्सुबुद्धिमान् ॥ तदेन्द्रेणागमत्तूर्ण्णं यत्र वीरो जलंधरः ॥ ३६॥
इत्थम् विसर्जितः दूतः घस्मर-आख्यः सु बुद्धिमान् ॥ तदा इन्द्रेण अगमत् तूर्ण्णम् यत्र वीरः जलंधरः ॥ ३६॥
ittham visarjitaḥ dūtaḥ ghasmara-ākhyaḥ su buddhimān .. tadā indreṇa agamat tūrṇṇam yatra vīraḥ jalaṃdharaḥ .. 36..
तदिदं वचनं दैत्यराजो हि तेन धीमता ॥ कथितो निखिलं शक्रप्रोक्तं दूतेन वै तदा ॥ ३७॥
तत् इदम् वचनम् दैत्य-राजः हि तेन धीमता ॥ कथितः निखिलम् शक्र-प्रोक्तम् दूतेन वै तदा ॥ ३७॥
tat idam vacanam daitya-rājaḥ hi tena dhīmatā .. kathitaḥ nikhilam śakra-proktam dūtena vai tadā .. 37..
तन्निशम्य ततो दैत्यो रोषात्प्रस्फुरिताधरः ॥ उद्योगमकरोत्तूर्णं सर्वदेवजिगीषया ॥ ३८॥
तत् निशम्य ततस् दैत्यः रोषात् प्रस्फुरित-अधरः ॥ उद्योगम् अकरोत् तूर्णम् सर्व-देव-जिगीषया ॥ ३८॥
tat niśamya tatas daityaḥ roṣāt prasphurita-adharaḥ .. udyogam akarot tūrṇam sarva-deva-jigīṣayā .. 38..
तदोद्योगेऽसुरेन्द्रस्य दिग्भ्यः पातालतस्तथा ॥ दितिजाः प्रत्यपद्यंत कोटिशःकोटिशस्तथा ॥ ३९॥
तदा उद्योगे असुर-इन्द्रस्य दिग्भ्यः पातालतः तथा ॥ दितिजाः प्रत्यपद्यन्त कोटिशस् कोटिशस् तथा ॥ ३९॥
tadā udyoge asura-indrasya digbhyaḥ pātālataḥ tathā .. ditijāḥ pratyapadyanta koṭiśas koṭiśas tathā .. 39..
अथ शुंभनिशुंभाद्यै बलाधिपतिकोटिभिः ॥ निर्जगाम महावीरः सिन्धुपुत्रः प्रतापवान् ॥ 2.5.15.४०॥
अथ शुंभ-निशुंभ-आद्यैः बल-अधिपति-कोटिभिः ॥ निर्जगाम महा-वीरः सिन्धु-पुत्रः प्रतापवान् ॥ २।५।१५।४०॥
atha śuṃbha-niśuṃbha-ādyaiḥ bala-adhipati-koṭibhiḥ .. nirjagāma mahā-vīraḥ sindhu-putraḥ pratāpavān .. 2.5.15.40..
प्राप त्रिविष्टपं सद्यः सर्वसैन्यसमावृतः ॥ दध्मौ शंखं जलधिजो नेदुर्वीराश्च सर्वतः ॥ ४१॥
प्राप त्रिविष्टपम् सद्यस् सर्व-सैन्य-समावृतः ॥ दध्मौ शंखम् जलधिजः नेदुः वीराः च सर्वतस् ॥ ४१॥
prāpa triviṣṭapam sadyas sarva-sainya-samāvṛtaḥ .. dadhmau śaṃkham jaladhijaḥ neduḥ vīrāḥ ca sarvatas .. 41..
गत्वा त्रिविष्टपं दैत्यो नन्दनाधिष्ठितोऽभवत् ॥ सर्व सैन्यं समावृत्य कुर्वाणः सिंहवद्रवम् ॥ ४२॥
गत्वा त्रिविष्टपम् दैत्यः नन्दन-अधिष्ठितः अभवत् ॥ सर्व-सैन्यम् समावृत्य कुर्वाणः सिंह-वत् रवम् ॥ ४२॥
gatvā triviṣṭapam daityaḥ nandana-adhiṣṭhitaḥ abhavat .. sarva-sainyam samāvṛtya kurvāṇaḥ siṃha-vat ravam .. 42..
पुरमावृत्य तिष्ठत्तद्दृष्ट्वा सैन्यबलं महत्॥ निर्ययुस्त्वमरावत्या देवा युद्धाय दंशिताः ॥ ॥ ४३॥
पुरम् आवृत्य तिष्ठत् तत् दृष्ट्वा सैन्य-बलम् महत्॥ निर्ययुः तु अमरावत्याः देवाः युद्धाय दंशिताः ॥ ॥ ४३॥
puram āvṛtya tiṣṭhat tat dṛṣṭvā sainya-balam mahat.. niryayuḥ tu amarāvatyāḥ devāḥ yuddhāya daṃśitāḥ .. .. 43..
ततस्समभवद्युद्धं देवदानवसेनयोः ॥ मुसलैः परिघैर्बाणैर्गदापरशुशक्तिभिः ॥ ४४॥
ततस् समभवत् युद्धम् देव-दानव-सेनयोः ॥ मुसलैः परिघैः बाणैः गदा-परशु-शक्तिभिः ॥ ४४॥
tatas samabhavat yuddham deva-dānava-senayoḥ .. musalaiḥ parighaiḥ bāṇaiḥ gadā-paraśu-śaktibhiḥ .. 44..
तेऽन्योन्यं समधावेतां जघ्नतुश्च परस्परम् ॥ क्षणेनाभवतां सेने रुधिरौघपरिप्लुते ॥ ४५ ॥
ते अन्योन्यम् समधावेताम् जघ्नतुः च परस्परम् ॥ क्षणेन अभवताम् सेने रुधिर-ओघ-परिप्लुते ॥ ४५ ॥
te anyonyam samadhāvetām jaghnatuḥ ca parasparam .. kṣaṇena abhavatām sene rudhira-ogha-pariplute .. 45 ..
पतितैः पात्यमानैश्च गजाश्वरथपत्तिभिः ॥ व्यराजत रणे भूमिस्संध्याभ्रपटलैरिव ॥ ४६ ॥
पतितैः पात्यमानैः च गज-अश्व-रथ-पत्तिभिः ॥ व्यराजत रणे भूमिः संध्या-अभ्र-पटलैः इव ॥ ४६ ॥
patitaiḥ pātyamānaiḥ ca gaja-aśva-ratha-pattibhiḥ .. vyarājata raṇe bhūmiḥ saṃdhyā-abhra-paṭalaiḥ iva .. 46 ..
तत्र युद्धे मृतान्दैत्यान्भार्गवस्तानजीवयत् ॥ विद्ययामृतजीविन्या मंत्रितैस्तोयबिन्दुभिः ॥ ४७ ॥
तत्र युद्धे मृतान् दैत्यान् भार्गवः तान् अजीवयत् ॥ विद्यया अमृत-जीविन्या मंत्रितैः तोय-बिन्दुभिः ॥ ४७ ॥
tatra yuddhe mṛtān daityān bhārgavaḥ tān ajīvayat .. vidyayā amṛta-jīvinyā maṃtritaiḥ toya-bindubhiḥ .. 47 ..
देवानपि तथा युद्धे तत्राजीवयदंगिराः ॥ दिव्यौषधैस्समानीय द्रोणाद्रेस्स पुनःपुनः ॥ ४८ ॥
देवान् अपि तथा युद्धे तत्र अजीवयत् अंगिराः ॥ दिव्यौषधैः समानीय द्रोण-अद्रेः स पुनर् पुनर् ॥ ४८ ॥
devān api tathā yuddhe tatra ajīvayat aṃgirāḥ .. divyauṣadhaiḥ samānīya droṇa-adreḥ sa punar punar .. 48 ..
दृष्टवान्स तथा युद्धे पुनरेव समुत्थितान् ॥ जलंधरः क्रोधवशो भार्गवं वाक्यमब्रवीत् ॥ ४९॥
दृष्टवान् स तथा युद्धे पुनर् एव समुत्थितान् ॥ जलंधरः क्रोध-वशः भार्गवम् वाक्यम् अब्रवीत् ॥ ४९॥
dṛṣṭavān sa tathā yuddhe punar eva samutthitān .. jalaṃdharaḥ krodha-vaśaḥ bhārgavam vākyam abravīt .. 49..
जलंधर उवाच ।।
मया देवा हता युद्धे उत्तिष्ठंति कथं पुनः ॥ ततः संजीविनी विद्या नैवान्यत्रेति वै श्रुता ॥ 2.5.15.५० ॥
मया देवाः हताः युद्धे उत्तिष्ठंति कथम् पुनर् ॥ ततस् संजीविनी विद्या न एव अन्यत्र इति वै श्रुता ॥ २।५।१५।५० ॥
mayā devāḥ hatāḥ yuddhe uttiṣṭhaṃti katham punar .. tatas saṃjīvinī vidyā na eva anyatra iti vai śrutā .. 2.5.15.50 ..
सनत्कुमार उवाच।।
इत्याकर्ण्य वचस्तस्य सिन्धुपुत्रस्य भार्गवः ॥ प्रत्युवाच प्रसन्नात्मा गुरुश्शुक्रो जलंधरम् ॥ ५१ ॥
इति आकर्ण्य वचः तस्य सिन्धुपुत्रस्य भार्गवः ॥ प्रत्युवाच प्रसन्न-आत्मा गुरुः शुक्रः जलंधरम् ॥ ५१ ॥
iti ākarṇya vacaḥ tasya sindhuputrasya bhārgavaḥ .. pratyuvāca prasanna-ātmā guruḥ śukraḥ jalaṃdharam .. 51 ..
शुक्र उवाच ।।
दिव्यौषधीस्समानीय द्रोणाद्रेरंगिरास्सुरान् ॥ जीवयत्येष वै तात सत्यं जानीहि मे वचः ॥ ५२ ॥
दिव्य-ओषधीः समानीय द्रोण-अद्रेः अंगिराः सुरान् ॥ जीवयति एष वै तात सत्यम् जानीहि मे वचः ॥ ५२ ॥
divya-oṣadhīḥ samānīya droṇa-adreḥ aṃgirāḥ surān .. jīvayati eṣa vai tāta satyam jānīhi me vacaḥ .. 52 ..
जयमिच्छसि चेत्तात शृणु मे वचनं शुभम् ॥ ततः सोऽरं भुजाभ्यां त्वं द्रोणमब्धावुपाहर ॥ ५३ ॥
जयम् इच्छसि चेद् तात शृणु मे वचनम् शुभम् ॥ ततस् सः अरम् भुजाभ्याम् त्वम् द्रोणम् अब्धौ उपाहर ॥ ५३ ॥
jayam icchasi ced tāta śṛṇu me vacanam śubham .. tatas saḥ aram bhujābhyām tvam droṇam abdhau upāhara .. 53 ..
।।सनत्कुमार उवाच ।।
इत्युक्तस्स तु दैत्येन्द्रो गुरुणा भार्गवेण ह ॥ द्रुतं जगाम यत्रासावास्ते चैवाद्रिराट् च सः ॥ ५४॥
इति उक्तः स तु दैत्य-इन्द्रः गुरुणा भार्गवेण ह ॥ द्रुतम् जगाम यत्र असौ आस्ते च एव अद्रिराज् च सः ॥ ५४॥
iti uktaḥ sa tu daitya-indraḥ guruṇā bhārgaveṇa ha .. drutam jagāma yatra asau āste ca eva adrirāj ca saḥ .. 54..
भुजाभ्यां तरसा दैत्यो नीत्वा द्रोणं च तं तदा॥ प्राक्षिपत्सागरे तूर्णं चित्रं न हरतेजसि ॥ ५५॥
भुजाभ्याम् तरसा दैत्यः नीत्वा द्रोणम् च तम् तदा॥ प्राक्षिपत् सागरे तूर्णम् चित्रम् न हर-तेजसि ॥ ५५॥
bhujābhyām tarasā daityaḥ nītvā droṇam ca tam tadā.. prākṣipat sāgare tūrṇam citram na hara-tejasi .. 55..
पुनरायान्महावीरस्सिन्धुपुत्रो महाहवम्॥ जघानास्त्रैश्च विविधैस्सुरान्कृत्वा बलं महत् ॥ ५६ ॥
पुनर् आयात् महा-वीरः सिन्धुपुत्रः महा-आहवम्॥ जघान अस्त्रैः च विविधैः सुरान् कृत्वा बलम् महत् ॥ ५६ ॥
punar āyāt mahā-vīraḥ sindhuputraḥ mahā-āhavam.. jaghāna astraiḥ ca vividhaiḥ surān kṛtvā balam mahat .. 56 ..
अथ देवान्हतान्दृष्ट्वा द्रोणाद्रिमगमद्गुरुः ॥ तावत्तत्र गिरीद्रं तं न ददर्श सुरार्चितः ॥ ५७ ॥
अथ देवान् हतान् दृष्ट्वा द्रोण-अद्रिम् अगमत् गुरुः ॥ तावत् तत्र गिरीद्रम् तम् न ददर्श सुर-अर्चितः ॥ ५७ ॥
atha devān hatān dṛṣṭvā droṇa-adrim agamat guruḥ .. tāvat tatra girīdram tam na dadarśa sura-arcitaḥ .. 57 ..
ज्ञात्वा दैत्यहृतं द्रोणं धिषणो भयविह्वलः ॥ आगत्य देवान्प्रोवाच जीवो व्याकुलमानसः ॥ ५८॥
ज्ञात्वा दैत्य-हृतम् द्रोणम् धिषणः भय-विह्वलः ॥ आगत्य देवान् प्रोवाच जीवः व्याकुल-मानसः ॥ ५८॥
jñātvā daitya-hṛtam droṇam dhiṣaṇaḥ bhaya-vihvalaḥ .. āgatya devān provāca jīvaḥ vyākula-mānasaḥ .. 58..
गुरुरुवाच ।।
पलायध्वं सुरास्सर्वे द्रोणो नास्ति गिरिर्महान् ॥ ध्रुवं ध्वस्तश्च दैत्येन पाथोधितनयेन हि॥ ५९॥
पलायध्वम् सुराः सर्वे द्रोणः न अस्ति गिरिः महान् ॥ ध्रुवम् ध्वस्तः च दैत्येन पाथोधि-तनयेन हि॥ ५९॥
palāyadhvam surāḥ sarve droṇaḥ na asti giriḥ mahān .. dhruvam dhvastaḥ ca daityena pāthodhi-tanayena hi.. 59..
जलंधरो महादैत्यो नायं जेतुं क्षमो यतः ॥ रुद्रांशसंभवो ह्येष सर्वामरविमर्दनः ॥ 2.5.15.६० ॥
जलंधरः महा-दैत्यः न अयम् जेतुम् क्षमः यतस् ॥ रुद्र-अंश-संभवः हि एष सर्व-अमर-विमर्दनः ॥ २।५।१५।६० ॥
jalaṃdharaḥ mahā-daityaḥ na ayam jetum kṣamaḥ yatas .. rudra-aṃśa-saṃbhavaḥ hi eṣa sarva-amara-vimardanaḥ .. 2.5.15.60 ..
मया ज्ञातः प्रभावोऽस्य यथोत्पन्नः स्वयं सुराः ॥ शिवापमानकृच्छक्रचेष्टितं स्मरताखिलम् ॥ ६१॥
मया ज्ञातः प्रभावः अस्य यथा उत्पन्नः स्वयम् सुराः ॥ शिव-अपमान-कृत् शक्र-चेष्टितम् स्मरता अखिलम् ॥ ६१॥
mayā jñātaḥ prabhāvaḥ asya yathā utpannaḥ svayam surāḥ .. śiva-apamāna-kṛt śakra-ceṣṭitam smaratā akhilam .. 61..
सनत्कुमार उवाच ।।
श्रुत्वा तद्वचनं देवास्सुराचार्यप्रकीर्तितम्॥ जयाशां त्यक्तवंतस्ते भयविह्वलितास्तथा ॥ ६२॥
श्रुत्वा तद्-वचनम् देवाः सुर-आचार्य-प्रकीर्तितम्॥ जय-आशाम् त्यक्तवंतः ते भय-विह्वलिताः तथा ॥ ६२॥
śrutvā tad-vacanam devāḥ sura-ācārya-prakīrtitam.. jaya-āśām tyaktavaṃtaḥ te bhaya-vihvalitāḥ tathā .. 62..
दैत्यराजेन तेनातिहन्यमानास्समंततः ॥ धैर्यं त्यक्त्वा पलायंत दिशो दश सवासवाः ॥ ६३ ॥
दैत्य-राजेन तेन अतिहन्यमानाः समंततः ॥ धैर्यम् त्यक्त्वा पलायंत दिशः दश स वासवाः ॥ ६३ ॥
daitya-rājena tena atihanyamānāḥ samaṃtataḥ .. dhairyam tyaktvā palāyaṃta diśaḥ daśa sa vāsavāḥ .. 63 ..
देवान्विद्रावितान्दृष्ट्वा दैत्यस्सागरनंदनः ॥ शंखभेरी जयरवैः प्रविवेशामरावतीम्॥ ६४॥
देवान् विद्रावितान् दृष्ट्वा दैत्यः सागर-नन्दनः ॥ शंख-भेरी जय-रवैः प्रविवेश अमरावतीम्॥ ६४॥
devān vidrāvitān dṛṣṭvā daityaḥ sāgara-nandanaḥ .. śaṃkha-bherī jaya-ravaiḥ praviveśa amarāvatīm.. 64..
प्रविष्टे नगरीं दैत्ये देवाः शक्रपुरोगमाः ॥ सुवर्णाद्रिगुहां प्राप्ता न्यवसन्दैत्यतापिताः॥ ६५॥
प्रविष्टे नगरीम् दैत्ये देवाः शक्र-पुरोगमाः ॥ सुवर्ण-अद्रि-गुहाम् प्राप्ताः न्यवसन् दैत्य-तापिताः॥ ६५॥
praviṣṭe nagarīm daitye devāḥ śakra-purogamāḥ .. suvarṇa-adri-guhām prāptāḥ nyavasan daitya-tāpitāḥ.. 65..
तदैव सर्वेष्वसुरोऽधिकारेष्विन्द्रादिकानां विनिवेश्य सम्यक्॥ शुंभादिकान्दैत्यवरान् पृथक्पृथक्स्वयं सुवर्णादिगुहां व्यगान्मुने॥ ६६॥
तदा एव सर्वेषु असुरः अधिकारेषु इन्द्र-आदिकानाम् विनिवेश्य सम्यक्॥ शुंभ-आदिकान् दैत्य-वरान् पृथक् पृथक् स्वयम् सुवर्ण-आदि-गुहाम् व्यगात् मुने॥ ६६॥
tadā eva sarveṣu asuraḥ adhikāreṣu indra-ādikānām viniveśya samyak.. śuṃbha-ādikān daitya-varān pṛthak pṛthak svayam suvarṇa-ādi-guhām vyagāt mune.. 66..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवधोपाख्याने देवजलंधरयुद्धवर्णनं नाम पंचदशोऽध्यायः॥ १५॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खण्डे जलंधरवधोपाख्याने देवजलंधरयुद्धवर्णनम् नाम पंचदशः अध्यायः॥ १५॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṇḍe jalaṃdharavadhopākhyāne devajalaṃdharayuddhavarṇanam nāma paṃcadaśaḥ adhyāyaḥ.. 15..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In