| |
|

This overlay will guide you through the buttons:

।। सनत्कुमार उवाच ।।
पुनर्दैत्यं समायांतं दृष्ट्वा देवास्सवासवाः ॥ भयात्प्रकंपितास्सर्वे सहैवादुद्रुवुर्द्रुतम् ॥ १॥
पुनर् दैत्यम् समायान्तम् दृष्ट्वा देवाः स वासवाः ॥ भयात् प्रकंपिताः सर्वे सह एव आदुद्रुवुः द्रुतम् ॥ १॥
punar daityam samāyāntam dṛṣṭvā devāḥ sa vāsavāḥ .. bhayāt prakaṃpitāḥ sarve saha eva ādudruvuḥ drutam .. 1..
वैकुंठं प्रययुस्सर्वे पुरस्कृत्य प्रजापतिम् ॥ तुष्टुवुस्ते सुरा नत्वा सप्रजापतयोऽखिलाः ॥ २॥
वैकुंठम् प्रययुः सर्वे पुरस्कृत्य प्रजापतिम् ॥ तुष्टुवुः ते सुराः नत्वा स प्रजापतयः अखिलाः ॥ २॥
vaikuṃṭham prayayuḥ sarve puraskṛtya prajāpatim .. tuṣṭuvuḥ te surāḥ natvā sa prajāpatayaḥ akhilāḥ .. 2..
देवा ऊचुः ।।
हृषीकेश महाबाहो भगवन् मधुसूदन ॥ नमस्ते देवदेवेश सर्वदैत्यविनाशक॥ ३॥
हृषीकेश महा-बाहो भगवत् मधुसूदन ॥ नमः ते देवदेवेश सर्व-दैत्य-विनाशक॥ ३॥
hṛṣīkeśa mahā-bāho bhagavat madhusūdana .. namaḥ te devadeveśa sarva-daitya-vināśaka.. 3..
मत्स्यरूपाय ते विष्णो वेदान्नीतवते नमः ॥ सत्यव्रतेन सद्राज्ञा प्रलयाब्धिविहारिणे॥ ४॥
मत्स्य-रूपाय ते विष्णो वेदान् नीतवते नमः ॥ सत्यव्रतेन सत्-राज्ञा प्रलय-अब्धि-विहारिणे॥ ४॥
matsya-rūpāya te viṣṇo vedān nītavate namaḥ .. satyavratena sat-rājñā pralaya-abdhi-vihāriṇe.. 4..
कुर्वाणानां सुराणां च मथनायोद्यमं भृशम्॥ बिभ्रते मंदरगिरिं कूर्मरूपाय ते नमः॥ ५॥
कुर्वाणानाम् सुराणाम् च मथनाय उद्यमम् भृशम्॥ बिभ्रते मंदर-गिरिम् कूर्म-रूपाय ते नमः॥ ५॥
kurvāṇānām surāṇām ca mathanāya udyamam bhṛśam.. bibhrate maṃdara-girim kūrma-rūpāya te namaḥ.. 5..
नमस्ते भगवन्नाथ क्रतवे सूकरात्मने॥ वसुंधरां जनाधारां मूद्धतो बिभ्रते नमः ॥ ६॥
नमः ते भगवन् नाथ क्रतवे सूकर-आत्मने॥ वसुंधराम् जन-आधाराम् मूद्धतः बिभ्रते नमः ॥ ६॥
namaḥ te bhagavan nātha kratave sūkara-ātmane.. vasuṃdharām jana-ādhārām mūddhataḥ bibhrate namaḥ .. 6..
वामनाय नमस्तुभ्यमुप्रेन्द्राख्याय विष्णवे ॥ विप्ररूपेण दैत्येन्द्रं बलिं छलयते विभो ॥ ७॥
वामनाय नमः तुभ्यम् उप्र-इन्द्र-आख्याय विष्णवे ॥ विप्र-रूपेण दैत्य-इन्द्रम् बलिम् छलयते विभो ॥ ७॥
vāmanāya namaḥ tubhyam upra-indra-ākhyāya viṣṇave .. vipra-rūpeṇa daitya-indram balim chalayate vibho .. 7..
नमः परशुरामाय क्षत्रनिःक्षत्रकारिणे ॥ मातुर्हितकृते तुभ्यं कुपितायासतां द्रुहे॥ ८॥
नमः परशुरामाय क्षत्र-निःक्षत्र-कारिणे ॥ मातुः हित-कृते तुभ्यम् कुपिताय असताम् द्रुहे॥ ८॥
namaḥ paraśurāmāya kṣatra-niḥkṣatra-kāriṇe .. mātuḥ hita-kṛte tubhyam kupitāya asatām druhe.. 8..
रामाय लोकरामाय मर्यादापुरुषाय ते॥ रावणांतकरायाशु सीतायाः पतये नमः ॥ ९॥
रामाय लोक-रामाय मर्यादापुरुषाय ते॥ रावण-अंत-कराय आशु सीतायाः पतये नमः ॥ ९॥
rāmāya loka-rāmāya maryādāpuruṣāya te.. rāvaṇa-aṃta-karāya āśu sītāyāḥ pataye namaḥ .. 9..
नमस्ते ज्ञानगूढाय कृष्णाय परमात्मन ॥ राधाविहारशीलाय नानालीलाकराय च ॥ 2.5.16.१०॥
नमः ते ज्ञान-गूढाय कृष्णाय परमात्मन ॥ राधा-विहार-शीलाय नाना लीला-कराय च ॥ २।५।१६।१०॥
namaḥ te jñāna-gūḍhāya kṛṣṇāya paramātmana .. rādhā-vihāra-śīlāya nānā līlā-karāya ca .. 2.5.16.10..
नमस्ते गूढदेहाय वेदनिंदाकराय च ॥ योगाचार्याय जैनाय वौद्धरूपाय मापते॥ ११॥
नमः ते गूढ-देहाय वेद-निंदा-कराय च ॥ योग-आचार्याय जैनाय वौद्ध-रूपाय मापते॥ ११॥
namaḥ te gūḍha-dehāya veda-niṃdā-karāya ca .. yoga-ācāryāya jaināya vauddha-rūpāya māpate.. 11..
नमस्ते कल्किरूपाय म्लेच्छानामंतकारिणे॥ अनन्तशक्तिरूपाय सद्धर्मस्थापनाय च ॥ १२
नमः ते कल्कि-रूपाय म्लेच्छानाम् अंत-कारिणे॥ अनन्त-शक्ति-रूपाय सद्धर्म-स्थापनाय च ॥ १२
namaḥ te kalki-rūpāya mlecchānām aṃta-kāriṇe.. ananta-śakti-rūpāya saddharma-sthāpanāya ca .. 12
नमस्ते कपिलरूपाय देवहूत्यै महात्मने ॥ वदते सांख्ययोगं च सांख्याचार्याय वै प्रभो ॥ १३॥
नमः ते कपिल-रूपाय देवहूत्यै महात्मने ॥ वदते सांख्य-योगम् च सांख्य-आचार्याय वै प्रभो ॥ १३॥
namaḥ te kapila-rūpāya devahūtyai mahātmane .. vadate sāṃkhya-yogam ca sāṃkhya-ācāryāya vai prabho .. 13..
नमः परमहंसाय ज्ञानं संवदते परम् ॥ विधात्रे ज्ञानरूपाय येनात्मा संप्रसीदति ॥ १४ ॥
नमः परमहंसाय ज्ञानम् संवदते परम् ॥ विधात्रे ज्ञान-रूपाय येन आत्मा संप्रसीदति ॥ १४ ॥
namaḥ paramahaṃsāya jñānam saṃvadate param .. vidhātre jñāna-rūpāya yena ātmā saṃprasīdati .. 14 ..
वेदव्यासाय वेदानां विभागं कुर्वते नमः ॥ हिताय सर्वलोकानां पुराणरचनाय च ॥ १५ ॥
वेदव्यासाय वेदानाम् विभागम् कुर्वते नमः ॥ हिताय सर्व-लोकानाम् पुराण-रचनाय च ॥ १५ ॥
vedavyāsāya vedānām vibhāgam kurvate namaḥ .. hitāya sarva-lokānām purāṇa-racanāya ca .. 15 ..
एवं मत्स्यादितनुभिर्भक्तकार्योद्यताय ते ॥ सर्गस्थितिध्वंसकर्त्रे नमस्ते ब्रह्मणे प्रभो ॥ १६॥
एवम् मत्स्य-आदि-तनुभिः भक्त-कार्य-उद्यताय ते ॥ सर्ग-स्थिति-ध्वंस-कर्त्रे नमः ते ब्रह्मणे प्रभो ॥ १६॥
evam matsya-ādi-tanubhiḥ bhakta-kārya-udyatāya te .. sarga-sthiti-dhvaṃsa-kartre namaḥ te brahmaṇe prabho .. 16..
आर्तिहंत्रे स्वदासानां सुखदाय शुभाय च ॥ पीताम्बराय हरये तार्क्ष्ययानाय ते नमः॥ सर्वक्रियायैककर्त्रे शरण्याय नमोनमः ॥ १७॥
आर्ति-हंत्रे स्व-दासानाम् सुख-दाय शुभाय च ॥ पीताम्बराय हरये तार्क्ष्य-यानाय ते नमः॥ सर्व-क्रियाय एक-कर्त्रे शरण्याय नमः नमः ॥ १७॥
ārti-haṃtre sva-dāsānām sukha-dāya śubhāya ca .. pītāmbarāya haraye tārkṣya-yānāya te namaḥ.. sarva-kriyāya eka-kartre śaraṇyāya namaḥ namaḥ .. 17..
दैत्यसंतापितामर्त्य दुःखादिध्वंसवज्रक ॥ शेषतल्पशयायार्कचन्द्रनेत्राय ते नमः ॥ १८॥
॥ शेष-तल्प-शयाय अर्क-चन्द्र-नेत्राय ते नमः ॥ १८॥
.. śeṣa-talpa-śayāya arka-candra-netrāya te namaḥ .. 18..
कृपासिन्धो रमानाथ पाहि नश्शरणागतान् ॥ जलंधरेण देवाश्च स्वर्गात्सर्वे निराकृताः ॥ १९॥
कृपा-सिन्धो रमानाथ पाहि नः शरण-आगतान् ॥ जलंधरेण देवाः च स्वर्गात् सर्वे निराकृताः ॥ १९॥
kṛpā-sindho ramānātha pāhi naḥ śaraṇa-āgatān .. jalaṃdhareṇa devāḥ ca svargāt sarve nirākṛtāḥ .. 19..
सूर्यो निस्सारितः स्थानाच्चन्द्रो वह्निस्तथैव च ॥ पातालान्नागराजश्च धर्मराजो निराकृतः ॥ 2.5.16.२० ॥
सूर्यः निस्सारितः स्थानात् चन्द्रः वह्निः तथा एव च ॥ पातालात् नाग-राजः च धर्मराजः निराकृतः ॥ २।५।१६।२० ॥
sūryaḥ nissāritaḥ sthānāt candraḥ vahniḥ tathā eva ca .. pātālāt nāga-rājaḥ ca dharmarājaḥ nirākṛtaḥ .. 2.5.16.20 ..
विचरंति यथा मर्त्याश्शोभंते नैव ते सुराः ॥ शरणं ते वयं प्राप्ता वधस्तस्य विचिंत्यताम् ॥ २१॥
विचरन्ति यथा मर्त्याः शोभंते न एव ते सुराः ॥ शरणम् ते वयम् प्राप्ताः वधः तस्य विचिंत्यताम् ॥ २१॥
vicaranti yathā martyāḥ śobhaṃte na eva te surāḥ .. śaraṇam te vayam prāptāḥ vadhaḥ tasya viciṃtyatām .. 21..
।। सनत्कुमार उवाच ।।
इति दीनवचश्श्रुत्वा देवानां मधुसूदनः ॥ जगाद करुणासिन्धुर्मे घनिर्ह्रादया गिरा ॥ २२॥
इति दीन-वचः श्रुत्वा देवानाम् मधुसूदनः ॥ जगाद करुणा-सिन्धुः मे घनिर्ह्रादया गिरा ॥ २२॥
iti dīna-vacaḥ śrutvā devānām madhusūdanaḥ .. jagāda karuṇā-sindhuḥ me ghanirhrādayā girā .. 22..
।। विष्णुरुवाच ।।
भयं त्यजत हे देवा गमिष्याम्यहमाहवम्॥ जलंधरेण दैत्येन करिष्यामि पराक्रमम् ॥ २३॥
भयम् त्यजत हे देवाः गमिष्यामि अहम् आहवम्॥ जलंधरेण दैत्येन करिष्यामि पराक्रमम् ॥ २३॥
bhayam tyajata he devāḥ gamiṣyāmi aham āhavam.. jalaṃdhareṇa daityena kariṣyāmi parākramam .. 23..
इत्युक्त्वा सहसोत्थाय दैत्यारिः खिन्नमानसः ॥ आरोहद्गरुडं वेगात्कृपया भक्तवत्सलः ॥ २४ ॥
इति उक्त्वा सहसा उत्थाय दैत्य-अरिः खिन्न-मानसः ॥ आरोहत् गरुडम् वेगात् कृपया भक्त-वत्सलः ॥ २४ ॥
iti uktvā sahasā utthāya daitya-ariḥ khinna-mānasaḥ .. ārohat garuḍam vegāt kṛpayā bhakta-vatsalaḥ .. 24 ..
गच्छन्तं वल्लभं दृष्ट्वा देवैस्सार्द्धं समुद्रजा ॥ सांजलिर्बाष्पनयना लक्ष्मीर्वचनमब्रवीत् ॥ २५॥
गच्छन्तम् वल्लभम् दृष्ट्वा देवैः सार्द्धम् समुद्रजा ॥ स अंजलिः बाष्प-नयना लक्ष्मीः वचनम् अब्रवीत् ॥ २५॥
gacchantam vallabham dṛṣṭvā devaiḥ sārddham samudrajā .. sa aṃjaliḥ bāṣpa-nayanā lakṣmīḥ vacanam abravīt .. 25..
लक्ष्म्युवाच।।
अहं ते वल्लभा नाथ भक्ता यदि च सर्वदा॥ तत्कथं ते मम भ्राता युद्धे वध्यः कृपानिधे ॥ २६॥
अहम् ते वल्लभा नाथ भक्ता यदि च सर्वदा॥ तत् कथम् ते मम भ्राता युद्धे वध्यः कृपा-निधे ॥ २६॥
aham te vallabhā nātha bhaktā yadi ca sarvadā.. tat katham te mama bhrātā yuddhe vadhyaḥ kṛpā-nidhe .. 26..
विष्णुरुवाच ।।
जलंधरेण दैत्येन करिष्यामि पराक्रमम्॥ तैस्संस्तुतो गमिष्यामि युद्धाय त्वरितान्वितः ॥ २७॥
जलंधरेण दैत्येन करिष्यामि पराक्रमम्॥ तैः संस्तुतः गमिष्यामि युद्धाय त्वरित-अन्वितः ॥ २७॥
jalaṃdhareṇa daityena kariṣyāmi parākramam.. taiḥ saṃstutaḥ gamiṣyāmi yuddhāya tvarita-anvitaḥ .. 27..
रुद्रांशसंभवत्वाच्च ब्रह्मणो वचनादपि ॥ प्रीत्या च तव नैवायं मम वध्यो जलंधरः॥ २८॥
रुद्र-अंश-संभव-त्वात् च ब्रह्मणः वचनात् अपि ॥ प्रीत्या च तव ना एव अयम् मम वध्यः जलंधरः॥ २८॥
rudra-aṃśa-saṃbhava-tvāt ca brahmaṇaḥ vacanāt api .. prītyā ca tava nā eva ayam mama vadhyaḥ jalaṃdharaḥ.. 28..
सनत्कुमार उवाच ।।
इत्युक्त्वा गरुडारूढश्शंखचक्रगदासिभृत्॥ विष्णुर्वेगाद्ययौ योद्धुं देवैश्शक्रादिभिस्सह॥ २९॥
इति उक्त्वा गरुड-आरूढः शंख-चक्र-गदा-असि-भृत्॥ विष्णुः वेगात् ययौ योद्धुम् देवैः शक्र-आदिभिः सह॥ २९॥
iti uktvā garuḍa-ārūḍhaḥ śaṃkha-cakra-gadā-asi-bhṛt.. viṣṇuḥ vegāt yayau yoddhum devaiḥ śakra-ādibhiḥ saha.. 29..
द्रुतं स प्राप तत्रैव यत्र दैत्यो जलंधरः॥ कुर्वन् सिंहरवं देवैर्ज्वलद्भिर्विष्णुतेजसा॥ 2.5.16.३०॥
द्रुतम् स प्राप तत्र एव यत्र दैत्यः जलंधरः॥ कुर्वन् सिंह-रवम् देवैः ज्वलद्भिः विष्णु-तेजसा॥ २।५।१६।३०॥
drutam sa prāpa tatra eva yatra daityaḥ jalaṃdharaḥ.. kurvan siṃha-ravam devaiḥ jvaladbhiḥ viṣṇu-tejasā.. 2.5.16.30..
अथारुणानुजजवपक्षवातप्रपीडिताः ॥ वात्याविवर्तिता दैत्या बभ्रमुः खे यथा घनाः ॥ ३१॥
अथ अरुणानुज-जव-पक्ष-वात-प्रपीडिताः ॥ वात्या-विवर्तिताः दैत्याः बभ्रमुः खे यथा घनाः ॥ ३१॥
atha aruṇānuja-java-pakṣa-vāta-prapīḍitāḥ .. vātyā-vivartitāḥ daityāḥ babhramuḥ khe yathā ghanāḥ .. 31..
ततो जलंधरो दृष्ट्वा दैत्यान् वात्याप्रपीडितान्॥ उद्धृत्य वचनं क्रोधाद्द्रुतं विष्णुं समभ्यगात्॥ ३२॥
ततस् जलंधरः दृष्ट्वा दैत्यान् वात्या-प्रपीडितान्॥ उद्धृत्य वचनम् क्रोधात् द्रुतम् विष्णुम् समभ्यगात्॥ ३२॥
tatas jalaṃdharaḥ dṛṣṭvā daityān vātyā-prapīḍitān.. uddhṛtya vacanam krodhāt drutam viṣṇum samabhyagāt.. 32..
एतस्मिन्नंतरे देवाश्चक्रुर्युद्धं प्रहर्षिताः ॥ तेजसा च हरेः पुष्टा महाबलसमन्विताः ॥ ३३॥
एतस्मिन् अन्तरे देवाः चक्रुः युद्धम् प्रहर्षिताः ॥ तेजसा च हरेः पुष्टाः महा-बल-समन्विताः ॥ ३३॥
etasmin antare devāḥ cakruḥ yuddham praharṣitāḥ .. tejasā ca hareḥ puṣṭāḥ mahā-bala-samanvitāḥ .. 33..
युद्धोद्यतं समालोक्य देवसैन्यमुपस्थितम्॥ दैत्यानाज्ञापयामास समरे चातिदुर्मदान् ॥ ३४॥
युद्ध-उद्यतम् समालोक्य देव-सैन्यम् उपस्थितम्॥ दैत्यान् आज्ञापयामास समरे च अति दुर्मदान् ॥ ३४॥
yuddha-udyatam samālokya deva-sainyam upasthitam.. daityān ājñāpayāmāsa samare ca ati durmadān .. 34..
जलंधर उवाच ।।
भोभो दैत्यवरा यूयं युद्धं कुरुत दुस्तरम्॥ शक्राद्यैरमरैरद्य प्रबलैः कातरैस्सदा॥ ३५॥
भो भो दैत्य-वराः यूयम् युद्धम् कुरुत दुस्तरम्॥ शक्र-आद्यैः अमरैः अद्य प्रबलैः कातरैः सदा॥ ३५॥
bho bho daitya-varāḥ yūyam yuddham kuruta dustaram.. śakra-ādyaiḥ amaraiḥ adya prabalaiḥ kātaraiḥ sadā.. 35..
मौर्यास्तु लक्षसंख्याता धौम्रा हि शतसंख्यकाः॥ असुराः कोटिसंख्याताः कालकेयास्तथैव च॥ ३६॥
मौर्याः तु लक्ष-संख्याताः धौम्राः हि शत-संख्यकाः॥ असुराः कोटि-संख्याताः कालकेयाः तथा एव च॥ ३६॥
mauryāḥ tu lakṣa-saṃkhyātāḥ dhaumrāḥ hi śata-saṃkhyakāḥ.. asurāḥ koṭi-saṃkhyātāḥ kālakeyāḥ tathā eva ca.. 36..
कालकानां दौर्हृदानां कंकानां लक्षसंख्यया ॥ अन्येऽपि स्वबलैर्युक्ता विनिर्यांतु ममाज्ञया॥ ३७॥
कालकानाम् दौर्हृदानाम् कंकानाम् लक्ष-संख्यया ॥ अन्ये अपि स्व-बलैः युक्ताः विनिर्यांतु मम आज्ञया॥ ३७॥
kālakānām daurhṛdānām kaṃkānām lakṣa-saṃkhyayā .. anye api sva-balaiḥ yuktāḥ viniryāṃtu mama ājñayā.. 37..
सर्वे सज्जा विनिर्यात बहुसेनाभिसंयुताः ॥ नानाशस्त्रास्त्रसंयुक्ता निर्भयाः गतसंशयाः ॥ ३८ ॥
सर्वे सज्जाः विनिर्यात बहु-सेना-अभिसंयुताः ॥ नाना शस्त्र-अस्त्र-संयुक्ताः निर्भयाः गत-संशयाः ॥ ३८ ॥
sarve sajjāḥ viniryāta bahu-senā-abhisaṃyutāḥ .. nānā śastra-astra-saṃyuktāḥ nirbhayāḥ gata-saṃśayāḥ .. 38 ..
भोभो शुंभनिशुंभौ च देवान्समरकातरान् ॥ क्षणेन सुमहावीर्यौ तुच्छान्नाशयतं युवाम् ॥ ३९ ॥
भो भो शुंभ-निशुंभौ च देवान् समर-कातरान् ॥ क्षणेन सु महा-वीर्यौ तुच्छान् नाशयतम् युवाम् ॥ ३९ ॥
bho bho śuṃbha-niśuṃbhau ca devān samara-kātarān .. kṣaṇena su mahā-vīryau tucchān nāśayatam yuvām .. 39 ..
सनत्कुमार उवाच ।।
दैत्या जलंधराज्ञप्ता इत्थं युद्धविशारदाः॥ युयुधुस्ते सुरास्सर्वे चतुरंगबलान्विताः॥ 2.5.16.४०॥
दैत्याः जलंधर-आज्ञप्ताः इत्थम् युद्ध-विशारदाः॥ युयुधुः ते सुराः सर्वे चतुरंग-बल-अन्विताः॥ २।५।१६।४०॥
daityāḥ jalaṃdhara-ājñaptāḥ ittham yuddha-viśāradāḥ.. yuyudhuḥ te surāḥ sarve caturaṃga-bala-anvitāḥ.. 2.5.16.40..
गदाभिस्तीक्ष्णबाणैश्च शूलपट्टिशतोमरैः ॥ केचित्परशुशूलैश्च निजघ्नुस्ते परस्परम् ॥ ४१ ॥
गदाभिः तीक्ष्ण-बाणैः च शूल-पट्टिश-तोमरैः ॥ केचिद् परशु-शूलैः च निजघ्नुः ते परस्परम् ॥ ४१ ॥
gadābhiḥ tīkṣṇa-bāṇaiḥ ca śūla-paṭṭiśa-tomaraiḥ .. kecid paraśu-śūlaiḥ ca nijaghnuḥ te parasparam .. 41 ..
नानायुधैश्च परैस्तत्र निजघ्नुस्ते बलान्विता ॥ देवास्तथा महावीरा हृषीकेशबलान्विताः ॥ युयुधुस्तीक्ष्णबाणाश्च क्षिपंतस्सिंहवद्रवाः ॥ ४२ ॥
नाना आयुधैः च परैः तत्र निजघ्नुः ते बल-अन्विता ॥ देवाः तथा महा-वीराः हृषीकेश-बल-अन्विताः ॥ युयुधुः तीक्ष्ण-बाणाः च क्षिपंतः सिंह-वत् रवाः ॥ ४२ ॥
nānā āyudhaiḥ ca paraiḥ tatra nijaghnuḥ te bala-anvitā .. devāḥ tathā mahā-vīrāḥ hṛṣīkeśa-bala-anvitāḥ .. yuyudhuḥ tīkṣṇa-bāṇāḥ ca kṣipaṃtaḥ siṃha-vat ravāḥ .. 42 ..
केचिद्बाणैस्तु तीक्ष्णैश्च केचिन्मुसलतोमरैः ॥ केचित्परशुशूलैश्च निजघ्नुस्ते परस्परम् ॥ ४३॥
केचिद् बाणैः तु तीक्ष्णैः च केचिद् मुसल-तोमरैः ॥ केचिद् परशु-शूलैः च निजघ्नुः ते परस्परम् ॥ ४३॥
kecid bāṇaiḥ tu tīkṣṇaiḥ ca kecid musala-tomaraiḥ .. kecid paraśu-śūlaiḥ ca nijaghnuḥ te parasparam .. 43..
इत्थं सुराणां दैत्यानां संग्रामस्समभून्महान्॥ अत्युल्बणो मुनीनां हि सिद्धानां भय कारकः ॥ ४४ ॥
इत्थम् सुराणाम् दैत्यानाम् संग्रामः समभूत् महान्॥ अति उल्बणः मुनीनाम् हि सिद्धानाम् भय-कारकः ॥ ४४ ॥
ittham surāṇām daityānām saṃgrāmaḥ samabhūt mahān.. ati ulbaṇaḥ munīnām hi siddhānām bhaya-kārakaḥ .. 44 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे देवयुद्धवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खंडे देवयुद्धवर्णनम् नाम षोडशः अध्यायः ॥ १६ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṃḍe devayuddhavarṇanam nāma ṣoḍaśaḥ adhyāyaḥ .. 16 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In