| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
अथ दैत्या महावीर्याश्शूलैः परशुपट्टिशैः ॥ निजघ्नुस्सर्वदेवांश्च भयव्याकुलमानसान् ॥ १ ॥
अथ दैत्याः महा-वीर्याः शूलैः परशु-पट्टिशैः ॥ निजघ्नुः सर्व-देवान् च भय-व्याकुल-मानसान् ॥ १ ॥
atha daityāḥ mahā-vīryāḥ śūlaiḥ paraśu-paṭṭiśaiḥ .. nijaghnuḥ sarva-devān ca bhaya-vyākula-mānasān .. 1 ..
दैत्यायुधैः समाविद्धदेहा देवास्सवासवाः ॥ रणाद्विदुद्रुवुस्सर्वे भयव्याकुलमानसाः ॥ २ ॥
दैत्य-आयुधैः समाविद्ध-देहाः देवाः स वासवाः ॥ रणात् विदुद्रुवुः सर्वे भय-व्याकुल-मानसाः ॥ २ ॥
daitya-āyudhaiḥ samāviddha-dehāḥ devāḥ sa vāsavāḥ .. raṇāt vidudruvuḥ sarve bhaya-vyākula-mānasāḥ .. 2 ..
पलायनपरान्दृष्ट्वा हृषीकेशस्सुरानथ ॥ विष्णुर्वै गरुडारूढो योद्धुमभ्याययौ द्रुतम् ॥ ३
पलायन-परान् दृष्ट्वा हृषीकेशः सुरान् अथ ॥ विष्णुः वै गरुड-आरूढः योद्धुम् अभ्याययौ द्रुतम् ॥ ३
palāyana-parān dṛṣṭvā hṛṣīkeśaḥ surān atha .. viṣṇuḥ vai garuḍa-ārūḍhaḥ yoddhum abhyāyayau drutam .. 3
सुदर्शनेन चक्रेण सर्वतः प्रस्फुरन्रुचा ॥ सुशोभितकराब्जश्च रेजे भक्ताभयंकरः ॥ ८॥ ।
सुदर्शनेन चक्रेण सर्वतस् प्रस्फुरन् रुचा ॥ सु शोभित-कर-अब्जः च रेजे भक्त-अभयंकरः ॥ ८॥ ।
sudarśanena cakreṇa sarvatas prasphuran rucā .. su śobhita-kara-abjaḥ ca reje bhakta-abhayaṃkaraḥ .. 8.. .
शंखखड्गगदाशार्ङ्गधारी क्रोधसमन्वितः ॥ कठोरास्त्रो महावीरस्सर्वयुद्धविशारदः ॥ ५॥
शंख-खड्ग-गदा-शार्ङ्ग-धारी क्रोध-समन्वितः ॥ कठोर-अस्त्रः महा-वीरः सर्व-युद्ध-विशारदः ॥ ५॥
śaṃkha-khaḍga-gadā-śārṅga-dhārī krodha-samanvitaḥ .. kaṭhora-astraḥ mahā-vīraḥ sarva-yuddha-viśāradaḥ .. 5..
धनुषं शार्ङ्गनामानं विस्फूर्य्य विननाद ह॥ तस्य नादेन त्रैलोक्यं पूरितं महता मुने ॥ ६॥
शार्ङ्ग-नामानम् विस्फूर्य्य विननाद ह॥ तस्य नादेन त्रैलोक्यम् पूरितम् महता मुने ॥ ६॥
śārṅga-nāmānam visphūryya vinanāda ha.. tasya nādena trailokyam pūritam mahatā mune .. 6..
शार्ङ्गनिस्सृतबाणैश्च दितिजानां शिरांसि वै॥ चकर्त्त भगवान् विष्णुः कोटिशो रुट् समाकुलः ॥ ७॥
शार्ङ्ग-निस्सृत-बाणैः च दितिजानाम् शिरांसि वै॥ चकर्त्त भगवान् विष्णुः कोटिशस् रुष् समाकुलः ॥ ७॥
śārṅga-nissṛta-bāṇaiḥ ca ditijānām śirāṃsi vai.. cakartta bhagavān viṣṇuḥ koṭiśas ruṣ samākulaḥ .. 7..
अथारुणानुजजवपक्षवातप्रपीडिताः ॥ वात्याधिवर्त्तिता दैत्या बभ्रमुः खे यथा घनाः ॥ ८ ॥
अथ अरुणानुज-जव-पक्ष-वात-प्रपीडिताः ॥ वात्या-अधिवर्त्तिताः दैत्याः बभ्रमुः खे यथा घनाः ॥ ८ ॥
atha aruṇānuja-java-pakṣa-vāta-prapīḍitāḥ .. vātyā-adhivarttitāḥ daityāḥ babhramuḥ khe yathā ghanāḥ .. 8 ..
ततो जलंधरो दृष्ट्वा दैत्यान्वात्याप्रपीडितान् ॥ चुक्रोधाति महादैत्यो देववृन्दभयंकरः ॥ ९ ॥
ततस् जलंधरः दृष्ट्वा दैत्यान् वात्या-प्रपीडितान् ॥ चुक्रोध अति महा-दैत्यः देव-वृन्द-भयंकरः ॥ ९ ॥
tatas jalaṃdharaḥ dṛṣṭvā daityān vātyā-prapīḍitān .. cukrodha ati mahā-daityaḥ deva-vṛnda-bhayaṃkaraḥ .. 9 ..
मर्द्दयंतं च तं दृष्ट्वा दैत्यान् प्रस्फुरिताधरः ॥ योद्धुमभ्याययौ वीरो वेगेन हरिणा सह ॥ 2.5.17.१० ॥
मर्द्दयंतम् च तम् दृष्ट्वा दैत्यान् प्रस्फुरित-अधरः ॥ योद्धुम् अभ्याययौ वीरः वेगेन हरिणा सह ॥ २।५।१७।१० ॥
marddayaṃtam ca tam dṛṣṭvā daityān prasphurita-adharaḥ .. yoddhum abhyāyayau vīraḥ vegena hariṇā saha .. 2.5.17.10 ..
स चकार महानादं देवासुरभयंकरम् ॥ दैत्यानामधिपः कर्णा विदीर्णाः श्रवणात्ततः ॥ ११ ॥
स चकार महा-नादम् देव-असुर-भयंकरम् ॥ दैत्यानाम् अधिपः कर्णाः विदीर्णाः श्रवणात् ततस् ॥ ११ ॥
sa cakāra mahā-nādam deva-asura-bhayaṃkaram .. daityānām adhipaḥ karṇāḥ vidīrṇāḥ śravaṇāt tatas .. 11 ..
भयंङ्करेण दैत्यस्य नादेन पूरितं तदा ॥ जलंधरस्य महता चकम्पे सकलं जगत् ॥ १२ ॥
भयंङ्करेण दैत्यस्य नादेन पूरितम् तदा ॥ जलंधरस्य महता चकम्पे सकलम् जगत् ॥ १२ ॥
bhayaṃṅkareṇa daityasya nādena pūritam tadā .. jalaṃdharasya mahatā cakampe sakalam jagat .. 12 ..
ततस्समभवद्युद्धं विष्णुदैत्येन्द्रयोर्महत् ॥ आकाशं कुर्वतोर्बाणैस्तदा निरवकाशवत् ॥ १३ ॥
ततस् समभवत् युद्धम् विष्णु-दैत्य-इन्द्रयोः महत् ॥ आकाशम् कुर्वतोः बाणैः तदा निरवकाश-वत् ॥ १३ ॥
tatas samabhavat yuddham viṣṇu-daitya-indrayoḥ mahat .. ākāśam kurvatoḥ bāṇaiḥ tadā niravakāśa-vat .. 13 ..
तयोश्च तेन युद्धेन परस्परमभून्मुने ॥ देवासुरर्षिसिद्धानां भीकरेणातिविस्मयः ॥ १४ ॥
तयोः च तेन युद्धेन परस्परम् अभूत् मुने ॥ देव-असुर-ऋषि-सिद्धानाम् भीकरेण अति विस्मयः ॥ १४ ॥
tayoḥ ca tena yuddhena parasparam abhūt mune .. deva-asura-ṛṣi-siddhānām bhīkareṇa ati vismayaḥ .. 14 ..
विष्णुर्दैत्यस्य बाणौघैर्ध्वजं छत्रं धनुश्शरान् ॥ चिच्छेद तं च हृदये बाणेनैकेन ताडयन् ॥ १५ ॥
विष्णुः दैत्यस्य बाण-ओघैः ध्वजम् छत्रम् धनुः शरान् ॥ चिच्छेद तम् च हृदये बाणेन एकेन ताडयन् ॥ १५ ॥
viṣṇuḥ daityasya bāṇa-oghaiḥ dhvajam chatram dhanuḥ śarān .. ciccheda tam ca hṛdaye bāṇena ekena tāḍayan .. 15 ..
ततो दैत्यस्समुत्पत्य गदापाणिस्त्वरान्वितः ॥ आहत्य गरुडं मूर्ध्नि पातयामास भूतले ॥ १६ ॥
ततस् दैत्यः समुत्पत्य गदा-पाणिः त्वरा-अन्वितः ॥ आहत्य गरुडम् मूर्ध्नि पातयामास भू-तले ॥ १६ ॥
tatas daityaḥ samutpatya gadā-pāṇiḥ tvarā-anvitaḥ .. āhatya garuḍam mūrdhni pātayāmāsa bhū-tale .. 16 ..
विष्णुं जघान शूलेन तीक्ष्णेन प्रस्फुरद्रुचा ॥ हृदये क्रोधसंयुक्तो दैत्यः प्रस्फुरिताधरः ॥ १७ ॥
विष्णुम् जघान शूलेन तीक्ष्णेन प्रस्फुरत्-रुचा ॥ हृदये क्रोध-संयुक्तः दैत्यः प्रस्फुरित-अधरः ॥ १७ ॥
viṣṇum jaghāna śūlena tīkṣṇena prasphurat-rucā .. hṛdaye krodha-saṃyuktaḥ daityaḥ prasphurita-adharaḥ .. 17 ..
विष्णुर्गदां च खड्गेन चिच्छेद प्रहसन्निव ॥ तं विव्याध शरैस्तीक्ष्णैश्शार्ङ्गं विस्फूर्य दैत्यहा ॥ १८॥
विष्णुः गदाम् च खड्गेन चिच्छेद प्रहसन् इव ॥ तम् विव्याध शरैः तीक्ष्णैः शार्ङ्गम् विस्फूर्य दैत्य-हा ॥ १८॥
viṣṇuḥ gadām ca khaḍgena ciccheda prahasan iva .. tam vivyādha śaraiḥ tīkṣṇaiḥ śārṅgam visphūrya daitya-hā .. 18..
विष्णुर्जलंधरं दैत्यं भयदेन शरेण ह ॥ क्रोधाविष्टोऽतितीक्ष्णेन जघानाशु सुरारिहा ॥ १९ ॥
विष्णुः जलंधरम् दैत्यम् भय-देन शरेण ह ॥ क्रोध-आविष्टः अति तीक्ष्णेन जघान आशु सुरारि-हा ॥ १९ ॥
viṣṇuḥ jalaṃdharam daityam bhaya-dena śareṇa ha .. krodha-āviṣṭaḥ ati tīkṣṇena jaghāna āśu surāri-hā .. 19 ..
आगतं तस्य तं बाणं दृष्ट्वा दैत्यो महाबलः ॥ छित्त्वा बाणेन विष्णुं च जघान हृदये द्रुतम् ॥ 2.5.17.२० ॥
आगतम् तस्य तम् बाणम् दृष्ट्वा दैत्यः महा-बलः ॥ छित्त्वा बाणेन विष्णुम् च जघान हृदये द्रुतम् ॥ २।५।१७।२० ॥
āgatam tasya tam bāṇam dṛṣṭvā daityaḥ mahā-balaḥ .. chittvā bāṇena viṣṇum ca jaghāna hṛdaye drutam .. 2.5.17.20 ..
केशवोऽपि महाबाहुं विक्षिप्तमसुरेण तम्॥ शरं तिलप्रमाणेन च्छित्त्वा वीरो ननाद ह ॥ २१ ॥
केशवः अपि महा-बाहुम् विक्षिप्तम् असुरेण तम्॥ शरम् तिल-प्रमाणेन छित्त्वा वीरः ननाद ह ॥ २१ ॥
keśavaḥ api mahā-bāhum vikṣiptam asureṇa tam.. śaram tila-pramāṇena chittvā vīraḥ nanāda ha .. 21 ..
पुनर्बाण समाधत्त धनुषि क्रोधवेपितः ॥ महाबलोऽथ बाणेन चिच्छेद स शिलीमुखम् ॥ २२ ॥
पुनर् बाण समाधत्त धनुषि क्रोध-वेपितः ॥ महा-बलः अथ बाणेन चिच्छेद स शिलीमुखम् ॥ २२ ॥
punar bāṇa samādhatta dhanuṣi krodha-vepitaḥ .. mahā-balaḥ atha bāṇena ciccheda sa śilīmukham .. 22 ..
वासुदेवः पुनर्बाणं नाशाय विबुधद्विषः॥ क्रोधेनाधत्त धनुषि सिंहवद्विननाद ह ॥ २३॥
वासुदेवः पुनर् बाणम् नाशाय विबुध-द्विषः॥ क्रोधेन अधत्त धनुषि सिंह-वत् विननाद ह ॥ २३॥
vāsudevaḥ punar bāṇam nāśāya vibudha-dviṣaḥ.. krodhena adhatta dhanuṣi siṃha-vat vinanāda ha .. 23..
जलंधरोऽथ दैत्येन्द्रः कोपच्छिन्नाधरो बली ॥ शरेण श्वेन शार्ङ्गाख्यं धनुश्चिच्छेद वैष्णवम् ॥ २४॥
जलंधरः अथ दैत्य-इन्द्रः कोप-छिन्न-अधरः बली ॥ शरेण श्वेन शार्ङ्ग-आख्यम् धनुः चिच्छेद वैष्णवम् ॥ २४॥
jalaṃdharaḥ atha daitya-indraḥ kopa-chinna-adharaḥ balī .. śareṇa śvena śārṅga-ākhyam dhanuḥ ciccheda vaiṣṇavam .. 24..
पुनर्बाणैस्सुतीक्ष्णैश्च जघान मधुसूदनम् ॥ उग्रवीर्यो महावीरो देवानां भयकारकः ॥ २५॥
पुनर् बाणैः सु तीक्ष्णैः च जघान मधुसूदनम् ॥ उग्र-वीर्यः महा-वीरः देवानाम् भय-कारकः ॥ २५॥
punar bāṇaiḥ su tīkṣṇaiḥ ca jaghāna madhusūdanam .. ugra-vīryaḥ mahā-vīraḥ devānām bhaya-kārakaḥ .. 25..
स च्छिन्नधन्वा भगवान्केशवो लोकरक्ष कः ॥ जलंधरस्य नाशाय चिक्षेप स्वगदां पराम्॥ २६॥
स छिन्न-धन्वा भगवान् केशवः लोक-रक्ष कः ॥ जलंधरस्य नाशाय चिक्षेप स्व-गदाम् पराम्॥ २६॥
sa chinna-dhanvā bhagavān keśavaḥ loka-rakṣa kaḥ .. jalaṃdharasya nāśāya cikṣepa sva-gadām parām.. 26..
सा गदा हरिणा क्षिप्ता ज्वलज्ज्वलनसन्निभा॥ अमोघगतिका शीघ्रं तस्य देहे ललाग ह॥ २७॥
सा गदा हरिणा क्षिप्ता ज्वलत्-ज्वलन-सन्निभा॥ अमोघगतिका शीघ्रम् तस्य देहे ललाग ह॥ २७॥
sā gadā hariṇā kṣiptā jvalat-jvalana-sannibhā.. amoghagatikā śīghram tasya dehe lalāga ha.. 27..
तया हतो महादैत्यो न चचालापि किंचन॥ जलंधरो मदोन्मत्तः पुष्पमालाहतो यथा॥ २८॥
तया हतः महा-दैत्यः न चचाल अपि किंचन॥ जलंधरः मद-उन्मत्तः पुष्प-माला-हतः यथा॥ २८॥
tayā hataḥ mahā-daityaḥ na cacāla api kiṃcana.. jalaṃdharaḥ mada-unmattaḥ puṣpa-mālā-hataḥ yathā.. 28..
ततो जलंधरः क्रोधी देवत्रासकरोऽक्षिपत् ॥ त्रिशूलमनलाकारं हरये रणदुर्म्मदः॥ २९॥
ततस् जलंधरः क्रोधी देव-त्रास-करः अक्षिपत् ॥ त्रिशूलम् अनल-आकारम् हरये रण-दुर्म्मदः॥ २९॥
tatas jalaṃdharaḥ krodhī deva-trāsa-karaḥ akṣipat .. triśūlam anala-ākāram haraye raṇa-durmmadaḥ.. 29..
अथ विष्णुस्तत्त्रिशूलं चिच्छेद तरसा द्रुतम्॥ नंदकाख्येन खड्गेन स्मृत्वा शिवपदाम्बुजम् ॥ 2.5.17.३०॥
अथ विष्णुः तत् त्रिशूलम् चिच्छेद तरसा द्रुतम्॥ नंदक-आख्येन खड्गेन स्मृत्वा शिव-पद-अम्बुजम् ॥ २।५।१७।३०॥
atha viṣṇuḥ tat triśūlam ciccheda tarasā drutam.. naṃdaka-ākhyena khaḍgena smṛtvā śiva-pada-ambujam .. 2.5.17.30..
छिन्ने त्रिशूले दैत्येन्द्र उत्प्लुत्य सहसा द्रुतम् ॥ आगत्य हृदये विष्णुं जघान दृढमुष्टिना॥ ३१॥
छिन्ने त्रिशूले दैत्य-इन्द्रः उत्प्लुत्य सहसा द्रुतम् ॥ आगत्य हृदये विष्णुम् जघान दृढ-मुष्टिना॥ ३१॥
chinne triśūle daitya-indraḥ utplutya sahasā drutam .. āgatya hṛdaye viṣṇum jaghāna dṛḍha-muṣṭinā.. 31..
सोपि विष्णुर्महावीरोऽविगणय्य च तद्व्यथाम॥ जलंधरं च हृदये जघान दृढमुष्टिना॥ ३२॥
सः अपि विष्णुः महा-वीरः अ विगणय्य च तत् व्यथाम॥ जलंधरम् च हृदये जघान दृढ-मुष्टिना॥ ३२॥
saḥ api viṣṇuḥ mahā-vīraḥ a vigaṇayya ca tat vyathāma.. jalaṃdharam ca hṛdaye jaghāna dṛḍha-muṣṭinā.. 32..
ततस्तौ बाहुयुद्धेन युयुधाते महाबलौ॥ बाहुभिर्मुष्टिभिश्चैव जानुभिर्नादयन्महीम्॥ ३३॥
ततस् तौ बाहु-युद्धेन युयुधाते महा-बलौ॥ बाहुभिः मुष्टिभिः च एव जानुभिः नादयन् महीम्॥ ३३॥
tatas tau bāhu-yuddhena yuyudhāte mahā-balau.. bāhubhiḥ muṣṭibhiḥ ca eva jānubhiḥ nādayan mahīm.. 33..
एवं हि सुचिरं युद्धं कृत्वा तेनासुरेण वै॥ विस्मितोऽभून्मुनिश्रेष्ठ हृदि ग्लानिमवाप ह ॥ ३४॥
एवम् हि सु चिरम् युद्धम् कृत्वा तेन असुरेण वै॥ विस्मितः अभूत् मुनि-श्रेष्ठ हृदि ग्लानिम् अवाप ह ॥ ३४॥
evam hi su ciram yuddham kṛtvā tena asureṇa vai.. vismitaḥ abhūt muni-śreṣṭha hṛdi glānim avāpa ha .. 34..
अथ प्रसन्नो भगवान्मायी मायाविदां वरः ॥ उवाच दैत्यराजानं मेघगंभीरया गिरा ॥ ३५॥
अथ प्रसन्नः भगवान् मायी माया-विदाम् वरः ॥ उवाच दैत्य-राजानम् मेघ-गंभीरया गिरा ॥ ३५॥
atha prasannaḥ bhagavān māyī māyā-vidām varaḥ .. uvāca daitya-rājānam megha-gaṃbhīrayā girā .. 35..
विष्णुरुवाच ।।
भोभो दैत्यवरश्रेष्ठ धन्यस्त्वं रणदुर्मदः ॥ महायुधवरैर्यत्त्वं न भीतो हि महाप्रभुः ॥ ३६॥
भो भो दैत्य-वर-श्रेष्ठ धन्यः त्वम् रण-दुर्मदः ॥ महा-आयुध-वरैः यत् त्वम् न भीतः हि महा-प्रभुः ॥ ३६॥
bho bho daitya-vara-śreṣṭha dhanyaḥ tvam raṇa-durmadaḥ .. mahā-āyudha-varaiḥ yat tvam na bhītaḥ hi mahā-prabhuḥ .. 36..
एभिरेवायुधैरुग्रैर्दैत्या हि बहवो हताः ॥ महाजौ दुर्मदा वीराश्छिन्नदेहा मृतिं गताः ॥ ३७ ॥
एभिः एव आयुधैः उग्रैः दैत्याः हि बहवः हताः ॥ महा-आजौ दुर्मदाः वीराः छिन्न-देहाः मृतिम् गताः ॥ ३७ ॥
ebhiḥ eva āyudhaiḥ ugraiḥ daityāḥ hi bahavaḥ hatāḥ .. mahā-ājau durmadāḥ vīrāḥ chinna-dehāḥ mṛtim gatāḥ .. 37 ..
युद्धेन ते महादैत्य प्रसन्नोऽस्मि महान्भवान् ॥ न दृष्टस्त्वत्समो वीरस्त्रैलोक्ये सचराचरे ॥ ३८ ॥
युद्धेन ते महा-दैत्य प्रसन्नः अस्मि महान् भवान् ॥ न दृष्टः त्वद्-समः वीरः त्रैलोक्ये स चराचरे ॥ ३८ ॥
yuddhena te mahā-daitya prasannaḥ asmi mahān bhavān .. na dṛṣṭaḥ tvad-samaḥ vīraḥ trailokye sa carācare .. 38 ..
वरं वरय दैत्येन्द्र प्रीतोऽस्मि तव विक्रमात् ॥ अदेयमपि ते दद्मि यत्ते मनसि वर्तते ॥ ३९ ॥
वरम् वरय दैत्य-इन्द्र प्रीतः अस्मि तव विक्रमात् ॥ अदेयम् अपि ते दद्मि यत् ते मनसि वर्तते ॥ ३९ ॥
varam varaya daitya-indra prītaḥ asmi tava vikramāt .. adeyam api te dadmi yat te manasi vartate .. 39 ..
सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तस्य विष्णोर्मायाविनो हरेः ॥ प्रत्युवाच महाबुद्धिर्दैत्यराजो जलंधरः ॥ 2.5.17.४०॥
इति आकर्ण्य वचः तस्य विष्णोः मायाविनः हरेः ॥ प्रत्युवाच महा-बुद्धिः दैत्य-राजः जलंधरः ॥ २।५।१७।४०॥
iti ākarṇya vacaḥ tasya viṣṇoḥ māyāvinaḥ hareḥ .. pratyuvāca mahā-buddhiḥ daitya-rājaḥ jalaṃdharaḥ .. 2.5.17.40..
जलंधर उवाच ।।
यदि भावुक तुष्टोऽसि वरमे तन्ददस्व मे ॥ मद्भगिन्या मया सार्धं मद्गेहे सगणो वस ॥ ४१ ॥
यदि भावुक तुष्टः असि तत् ददस्व मे ॥ मद्-भगिन्या मया सार्धम् मद्-गेहे स गणः वस ॥ ४१ ॥
yadi bhāvuka tuṣṭaḥ asi tat dadasva me .. mad-bhaginyā mayā sārdham mad-gehe sa gaṇaḥ vasa .. 41 ..
सनत्कुमार उवाच ।।
तदाकर्ण्य वचस्तस्य महादैत्यस्य खिन्नधीः॥ तथास्त्विति च देवेशो जगाद भगवान् हरिः ॥ ४२॥
तत् आकर्ण्य वचः तस्य महा-दैत्यस्य खिन्न-धीः॥ तथा अस्तु इति च देवेशः जगाद भगवान् हरिः ॥ ४२॥
tat ākarṇya vacaḥ tasya mahā-daityasya khinna-dhīḥ.. tathā astu iti ca deveśaḥ jagāda bhagavān hariḥ .. 42..
उवास स ततो विष्णुस्सर्वदेवगणैस्सह॥ जलंधरं नाम पुरमागत्य रमया सह ॥ ४३ ॥
उवास स ततस् विष्णुः सर्व-देव-गणैः सह॥ जलंधरम् नाम पुरम् आगत्य रमया सह ॥ ४३ ॥
uvāsa sa tatas viṣṇuḥ sarva-deva-gaṇaiḥ saha.. jalaṃdharam nāma puram āgatya ramayā saha .. 43 ..
अथो जलंधरो दैत्यस्स्वभगिन्या च विष्णुना ॥ उवास स्वालयं प्राप्तो हर्षाकुलितमानसः ॥ ४४ ॥
अथो जलंधरः दैत्यः स्व-भगिन्या च विष्णुना ॥ उवास स्व-आलयम् प्राप्तः हर्ष-आकुलित-मानसः ॥ ४४ ॥
atho jalaṃdharaḥ daityaḥ sva-bhaginyā ca viṣṇunā .. uvāsa sva-ālayam prāptaḥ harṣa-ākulita-mānasaḥ .. 44 ..
जलंधरोऽथ देवानामधिकारेषु दानवान् ॥ स्थापयित्वा सहर्षस्सन्पुनरागान्महीतलम् ॥ ४५॥
जलंधरः अथ देवानाम् अधिकारेषु दानवान् ॥ स्थापयित्वा स हर्षः सन् पुनर् आगात् मही-तलम् ॥ ४५॥
jalaṃdharaḥ atha devānām adhikāreṣu dānavān .. sthāpayitvā sa harṣaḥ san punar āgāt mahī-talam .. 45..
देवगंधर्वसिद्धेषु यत्किंचिद्रत्नसंचि तम् ॥ तदात्मवशगं कृत्वाऽतिष्ठत्सागरनंदनः ॥ ४६ ॥
देव-गंधर्व-सिद्धेषु यत् किंचिद् रत्न-संचि ॥ तत् आत्म-वशगम् कृत्वा अतिष्ठत् सागरनंदनः ॥ ४६ ॥
deva-gaṃdharva-siddheṣu yat kiṃcid ratna-saṃci .. tat ātma-vaśagam kṛtvā atiṣṭhat sāgaranaṃdanaḥ .. 46 ..
पातालभवने दैत्यं निशुंभं सुमहाबलम् ॥ स्थापयित्वा स शेषादीनानय द्भूतलं बली ॥ ४७ ॥
पाताल-भवने दैत्यम् निशुंभम् सु महा-बलम् ॥ स्थापयित्वा स शेष-आदीन् आनय द्भू-तलम् बली ॥ ४७ ॥
pātāla-bhavane daityam niśuṃbham su mahā-balam .. sthāpayitvā sa śeṣa-ādīn ānaya dbhū-talam balī .. 47 ..
देवगंधर्वसिद्धौघान् सर्पराक्षसमानुषान् ॥ स्वपुरे नागरान्कृत्वा शशास भुवनत्रयम्॥ ४८ ॥
देव-गंधर्व-सिद्ध-ओघान् सर्प-राक्षस-मानुषान् ॥ स्व-पुरे नागरान् कृत्वा शशास भुवनत्रयम्॥ ४८ ॥
deva-gaṃdharva-siddha-oghān sarpa-rākṣasa-mānuṣān .. sva-pure nāgarān kṛtvā śaśāsa bhuvanatrayam.. 48 ..
एवं जलंधरः कृत्वा देवान्स्ववशवर्तिनः ॥ धर्मेण पालयामास प्रजाः पुत्रानिवौरसान् ॥ ४९ ॥
एवम् जलंधरः कृत्वा देवान् स्व-वश-वर्तिनः ॥ धर्मेण पालयामास प्रजाः पुत्रान् इव औरसान् ॥ ४९ ॥
evam jalaṃdharaḥ kṛtvā devān sva-vaśa-vartinaḥ .. dharmeṇa pālayāmāsa prajāḥ putrān iva aurasān .. 49 ..
न कश्चिद्व्याधितो नैव दुःखितो न कृशस्तथा॥ न दीनो दृश्यते तस्मिन्धर्माद्राज्यं प्रशासति ॥ 2.5.17.५० ॥
न कश्चिद् व्याधितः ना एव दुःखितः न कृशः तथा॥ न दीनः दृश्यते तस्मिन् धर्मात् राज्यम् प्रशासति ॥ २।५।१७।५० ॥
na kaścid vyādhitaḥ nā eva duḥkhitaḥ na kṛśaḥ tathā.. na dīnaḥ dṛśyate tasmin dharmāt rājyam praśāsati .. 2.5.17.50 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरोपाख्याने विष्णुजलंधरयुद्धवर्णनं नाम सप्तदशोऽध्यायः॥ १७॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खण्डे जलंधर-उपाख्याने विष्णुजलंधरयुद्धवर्णनम् नाम सप्तदशः अध्यायः॥ १७॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṇḍe jalaṃdhara-upākhyāne viṣṇujalaṃdharayuddhavarṇanam nāma saptadaśaḥ adhyāyaḥ.. 17..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In