| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच।।
एवं शासति धर्मेण महीं तस्मिन्महासुरे॥ बभूवुर्दुःखिनो देवा भ्रातृभावान्मुनीश्वर ॥ १॥
एवम् शासति धर्मेण महीम् तस्मिन् महा-असुरे॥ बभूवुः दुःखिनः देवाः भ्रातृ-भावात् मुनि-ईश्वर ॥ १॥
evam śāsati dharmeṇa mahīm tasmin mahā-asure.. babhūvuḥ duḥkhinaḥ devāḥ bhrātṛ-bhāvāt muni-īśvara .. 1..
दुःखितास्ते सुरास्सर्वे शिवं शरणमाययुः ॥ मनसा शंकरं देवदेवं सर्वप्रभुंप्रभुम्॥ २॥
दुःखिताः ते सुराः सर्वे शिवम् शरणम् आययुः ॥ मनसा शंकरम् देवदेवम् सर्व-प्रभुम् प्रभुम्॥ २॥
duḥkhitāḥ te surāḥ sarve śivam śaraṇam āyayuḥ .. manasā śaṃkaram devadevam sarva-prabhum prabhum.. 2..
तुष्टुवुर्वाग्भिरिष्टाभिर्भगवंतं महेश्वरम् ॥ निवृत्तये स्वदुःखस्य सर्वदं भक्तवत्सलम् ॥ ३ ॥
तुष्टुवुः वाग्भिः इष्टाभिः भगवंतम् महेश्वरम् ॥ निवृत्तये स्व-दुःखस्य सर्व-दम् भक्त-वत्सलम् ॥ ३ ॥
tuṣṭuvuḥ vāgbhiḥ iṣṭābhiḥ bhagavaṃtam maheśvaram .. nivṛttaye sva-duḥkhasya sarva-dam bhakta-vatsalam .. 3 ..
आहूय स महादेवो भक्तानां सर्वकामदः॥ ॥ नारदं प्रेरयामास देवकार्यचिकीर्षया ॥ ४ ॥
आहूय स महादेवः भक्तानाम् सर्व-काम-दः॥ ॥ नारदम् प्रेरयामास देव-कार्य-चिकीर्षया ॥ ४ ॥
āhūya sa mahādevaḥ bhaktānām sarva-kāma-daḥ.. .. nāradam prerayāmāsa deva-kārya-cikīrṣayā .. 4 ..
अथ देवमुनिर्ज्ञानी शंभुभक्तस्सतां गतिः ॥ शिवाज्ञया ययौ दैत्यपुरे देवान्स नारदः ॥ ५ ॥
अथ देवमुनिः ज्ञानी शंभु-भक्तः सताम् गतिः ॥ शिव-आज्ञया ययौ दैत्य-पुरे देवान् स नारदः ॥ ५ ॥
atha devamuniḥ jñānī śaṃbhu-bhaktaḥ satām gatiḥ .. śiva-ājñayā yayau daitya-pure devān sa nāradaḥ .. 5 ..
व्याकुलास्ते सुरास्सर्वे वासवाद्या द्रुतं मुनिम् ॥ आगच्छंतं समालोक्य समुत्तस्थुर्हि नारदम् ॥ ६ ॥
व्याकुलाः ते सुराः सर्वे वासव-आद्याः द्रुतम् मुनिम् ॥ आगच्छन्तम् समालोक्य समुत्तस्थुः हि नारदम् ॥ ६ ॥
vyākulāḥ te surāḥ sarve vāsava-ādyāḥ drutam munim .. āgacchantam samālokya samuttasthuḥ hi nāradam .. 6 ..
ददुस्त आसनं नत्त्वा मुनये प्रीतिपूर्वकम् ॥ नारदाय सुराश्शक्रमुखा उत्कंठिताननाः ॥ ७॥
ददुः ते आसनम् नत्त्वा मुनये प्रीति-पूर्वकम् ॥ नारदाय सुराः शक्र-मुखाः उत्कंठित-आननाः ॥ ७॥
daduḥ te āsanam nattvā munaye prīti-pūrvakam .. nāradāya surāḥ śakra-mukhāḥ utkaṃṭhita-ānanāḥ .. 7..
सुखासीनं मुनिवरमासने सुप्रणम्य तम् ॥ पुनः प्रोचुस्सुरा दीना वासवाद्या मुनीश्वरम् ॥ ८॥
सुख-आसीनम् मुनि-वरम् आसने सु प्रणम्य तम् ॥ पुनर् प्रोचुः सुराः दीनाः वासव-आद्याः मुनि-ईश्वरम् ॥ ८॥
sukha-āsīnam muni-varam āsane su praṇamya tam .. punar procuḥ surāḥ dīnāḥ vāsava-ādyāḥ muni-īśvaram .. 8..
देवा ऊचुः ।।
भोभो मुनिवरश्रेष्ठ दुःखं शृणु कृपाकर ॥ श्रुत्वा तन्नाशय क्षिप्रं प्रभुस्त्वं शंकरप्रियः ॥ ९॥
भो भो मुनि-वर-श्रेष्ठ दुःखम् शृणु कृपा-कर ॥ श्रुत्वा तत् नाशय क्षिप्रम् प्रभुः त्वम् शंकर-प्रियः ॥ ९॥
bho bho muni-vara-śreṣṭha duḥkham śṛṇu kṛpā-kara .. śrutvā tat nāśaya kṣipram prabhuḥ tvam śaṃkara-priyaḥ .. 9..
जलंधरेण दैत्येन सुरा विद्राविता भृशम्॥ स्वस्थानाद्भर्तृभावाच्च दुःखिता वयमाकुलाः ॥ 2.5.18.१०॥
जलंधरेण दैत्येन सुराः विद्राविताः भृशम्॥ स्व-स्थानात् भर्तृ-भावात् च दुःखिताः वयम् आकुलाः ॥ २।५।१८।१०॥
jalaṃdhareṇa daityena surāḥ vidrāvitāḥ bhṛśam.. sva-sthānāt bhartṛ-bhāvāt ca duḥkhitāḥ vayam ākulāḥ .. 2.5.18.10..
स्वस्थानादुष्णरश्मिश्च चन्द्रो निस्सारितस्तथा ॥ वह्निश्च धर्मराजश्च लोकपालास्तथेतरे ॥ ११ ॥
स्व-स्थानात् उष्णरश्मिः च चन्द्रः निस्सारितः तथा ॥ वह्निः च धर्मराजः च लोकपालाः तथा इतरे ॥ ११ ॥
sva-sthānāt uṣṇaraśmiḥ ca candraḥ nissāritaḥ tathā .. vahniḥ ca dharmarājaḥ ca lokapālāḥ tathā itare .. 11 ..
सुबलिष्ठेन वै तेन सर्वे देवाः प्रपीडिताः ॥ दुःखं प्राप्ता वयं चातिशरणं त्वां समागताः ॥ १२॥
सु बलिष्ठेन वै तेन सर्वे देवाः प्रपीडिताः ॥ दुःखम् प्राप्ताः वयम् च अति शरणम् त्वाम् समागताः ॥ १२॥
su baliṣṭhena vai tena sarve devāḥ prapīḍitāḥ .. duḥkham prāptāḥ vayam ca ati śaraṇam tvām samāgatāḥ .. 12..
संग्रामे स हृषीकेशं स्ववशं कृतवान् बली ॥ जलंधरो महादैत्यः सर्वामरविमर्दकः ॥ १३ ॥
संग्रामे स हृषीकेशम् स्व-वशम् कृतवान् बली ॥ जलंधरः महा-दैत्यः सर्व-अमर-विमर्दकः ॥ १३ ॥
saṃgrāme sa hṛṣīkeśam sva-vaśam kṛtavān balī .. jalaṃdharaḥ mahā-daityaḥ sarva-amara-vimardakaḥ .. 13 ..
तस्य वश्यो वराधीनोऽवात्सीत्तत्सदने हरिः ॥ सलक्ष्म्या सहितो विष्णुर्यो नस्सर्वार्थसाधकः ॥ १४ ॥
तस्य वश्यः वर-अधीनः अवात्सीत् तद्-सदने हरिः ॥ स लक्ष्म्या सहितः विष्णुः यः नः सर्व-अर्थ-साधकः ॥ १४ ॥
tasya vaśyaḥ vara-adhīnaḥ avātsīt tad-sadane hariḥ .. sa lakṣmyā sahitaḥ viṣṇuḥ yaḥ naḥ sarva-artha-sādhakaḥ .. 14 ..
जलंधरविनाशाय यत्नं कुरु महामते ॥ त्वं नो दैववशात्प्राप्तस्सदा सर्वार्थसाधकः ॥ १५ ॥
जलंधर-विनाशाय यत्नम् कुरु महामते ॥ त्वम् नः दैव-वशात् प्राप्तः सदा सर्व-अर्थ-साधकः ॥ १५ ॥
jalaṃdhara-vināśāya yatnam kuru mahāmate .. tvam naḥ daiva-vaśāt prāptaḥ sadā sarva-artha-sādhakaḥ .. 15 ..
सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तेषाममराणां स नारदः ॥ आश्वास्य मुनिशार्दूलस्तानुवाच कृपाकरः ॥ १६ ॥
इति आकर्ण्य वचः तेषाम् अमराणाम् स नारदः ॥ आश्वास्य मुनि-शार्दूलः तान् उवाच कृपा-करः ॥ १६ ॥
iti ākarṇya vacaḥ teṣām amarāṇām sa nāradaḥ .. āśvāsya muni-śārdūlaḥ tān uvāca kṛpā-karaḥ .. 16 ..
नारद उवाच ।।
जानेऽहं वै सुरा यूयं दैत्यराजपराजिताः॥ दुःख प्राप्ताः पीडिताश्च स्थानान्निस्सारिताः खलुः ॥ १७ ॥
जाने अहम् वै सुराः यूयम् दैत्य-राज-पराजिताः॥ दुःख-प्राप्ताः पीडिताः च स्थानात् निस्सारिताः खलुः ॥ १७ ॥
jāne aham vai surāḥ yūyam daitya-rāja-parājitāḥ.. duḥkha-prāptāḥ pīḍitāḥ ca sthānāt nissāritāḥ khaluḥ .. 17 ..
स्वशक्त्या भवतां स्वार्थं करिष्ये नात्र संशयः॥ अनुकूलोऽहमिव वो दुःखं प्राप्ता यतो ऽमराः ॥ १८॥
स्व-शक्त्या भवताम् स्व-अर्थम् करिष्ये न अत्र संशयः॥ अनुकूलः अहम् इव वः दुःखम् प्राप्ताः यतस् अमराः ॥ १८॥
sva-śaktyā bhavatām sva-artham kariṣye na atra saṃśayaḥ.. anukūlaḥ aham iva vaḥ duḥkham prāptāḥ yatas amarāḥ .. 18..
सनत्कुमार उवाच ।।
एवमुक्त्वा मुनिश्रेष्ठ द्रष्टुं दानववल्लभम् ॥ आश्वास्य सकलान्देवाञ्जलंधरसभां ययौ ॥ १९॥
एवम् उक्त्वा मुनि-श्रेष्ठ द्रष्टुम् दानव-वल्लभम् ॥ आश्वास्य सकलान् देवान् जलंधर-सभाम् ययौ ॥ १९॥
evam uktvā muni-śreṣṭha draṣṭum dānava-vallabham .. āśvāsya sakalān devān jalaṃdhara-sabhām yayau .. 19..
अथागतं मुनिश्रेष्ठं दृष्ट्वा देवो जलंधरः ॥ उत्थाय परया भक्त्या ददौ श्रेष्ठासनं वरम् ॥ 2.5.18.२० ॥
अथ आगतम् मुनि-श्रेष्ठम् दृष्ट्वा देवः जलंधरः ॥ उत्थाय परया भक्त्या ददौ श्रेष्ठ-आसनम् वरम् ॥ २।५।१८।२० ॥
atha āgatam muni-śreṣṭham dṛṣṭvā devaḥ jalaṃdharaḥ .. utthāya parayā bhaktyā dadau śreṣṭha-āsanam varam .. 2.5.18.20 ..
स तं संपूज्य विधिवद्दानवेन्द्रोऽति विस्मितः ॥ सुप्रहस्य तदा वाक्यं जगाद मुनिसत्तमम् ॥ २१॥
स तम् संपूज्य विधिवत् दानव-इन्द्रः अति विस्मितः ॥ सु प्रहस्य तदा वाक्यम् जगाद मुनि-सत्तमम् ॥ २१॥
sa tam saṃpūjya vidhivat dānava-indraḥ ati vismitaḥ .. su prahasya tadā vākyam jagāda muni-sattamam .. 21..
जलंधर उवाच ।।
कुत आगम्यते ब्रह्मन्किं च दृष्टं त्वया क्वचित्॥ यदर्थमिह आयातस्तदाज्ञापय मां मुने ॥ २२ ॥
कुतस् आगम्यते ब्रह्मन् किम् च दृष्टम् त्वया क्वचिद्॥ यद्-अर्थम् इह आयातः तत् आज्ञापय माम् मुने ॥ २२ ॥
kutas āgamyate brahman kim ca dṛṣṭam tvayā kvacid.. yad-artham iha āyātaḥ tat ājñāpaya mām mune .. 22 ..
सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तस्य दैत्येन्द्रस्य महामुनिः ॥ प्रत्युवाच प्रसन्नात्मा नारदो हि जलंधरम् ॥ २३ ॥
इति आकर्ण्य वचः तस्य दैत्य-इन्द्रस्य महा-मुनिः ॥ प्रत्युवाच प्रसन्न-आत्मा नारदः हि जलंधरम् ॥ २३ ॥
iti ākarṇya vacaḥ tasya daitya-indrasya mahā-muniḥ .. pratyuvāca prasanna-ātmā nāradaḥ hi jalaṃdharam .. 23 ..
नारद उवाच ।।
सर्वदानवदैत्येन्द्र जलंधर महामते ॥ धन्यस्त्वं सर्वलोकेश रत्नभोक्ता त्वमेव हि ॥ २४॥
सर्व-दानव-दैत्य-इन्द्र जलंधर महामते ॥ धन्यः त्वम् सर्व-लोक-ईश रत्न-भोक्ता त्वम् एव हि ॥ २४॥
sarva-dānava-daitya-indra jalaṃdhara mahāmate .. dhanyaḥ tvam sarva-loka-īśa ratna-bhoktā tvam eva hi .. 24..
मदागमनहेतुं वै शृणु दैत्येन्द्रसत्तम ॥ यदर्थमिह चायातस्त्वहं वक्ष्येखिलं हि तत् ॥ २५॥
मद्-आगमन-हेतुम् वै शृणु दैत्य-इन्द्र-सत्तम ॥ यद्-अर्थम् इह च आयातः तु अहम् वक्ष्ये इखिलम् हि तत् ॥ २५॥
mad-āgamana-hetum vai śṛṇu daitya-indra-sattama .. yad-artham iha ca āyātaḥ tu aham vakṣye ikhilam hi tat .. 25..
गतः कैलासशिखरं दैत्येन्द्राहं यदृच्छया ॥ योजनायुतविस्तीर्णं कल्पद्रुममहावनम् ॥ २६ ॥
गतः कैलास-शिखरम् दैत्य-इन्द्र अहम् यदृच्छया ॥ योजन-अयुत-विस्तीर्णम् कल्पद्रुम-महा-वनम् ॥ २६ ॥
gataḥ kailāsa-śikharam daitya-indra aham yadṛcchayā .. yojana-ayuta-vistīrṇam kalpadruma-mahā-vanam .. 26 ..
कामधेनुशताकीर्णं चिंतामणिसुदीपितम् ॥ सर्वरुक्ममयं दिव्यं सर्वत्राद्भुतशोभितम् ॥ २७ ॥
कामधेनु-शत-आकीर्णम् चिंतामणि-सु दीपितम् ॥ सर्व-रुक्म-मयम् दिव्यम् सर्वत्र अद्भुत-शोभितम् ॥ २७ ॥
kāmadhenu-śata-ākīrṇam ciṃtāmaṇi-su dīpitam .. sarva-rukma-mayam divyam sarvatra adbhuta-śobhitam .. 27 ..
तत्रोमया सहासीनं दृष्टवानस्मि शंकरम् ॥ सर्वाङ्गसुन्दरं गौरं त्रिनेत्रं चन्द्रशेखरम् ॥ २८॥
तत्र उमया सह आसीनम् दृष्टवान् अस्मि शंकरम् ॥ सर्व-अङ्ग-सुन्दरम् गौरम् त्रिनेत्रम् चन्द्रशेखरम् ॥ २८॥
tatra umayā saha āsīnam dṛṣṭavān asmi śaṃkaram .. sarva-aṅga-sundaram gauram trinetram candraśekharam .. 28..
तं दृष्ट्वा महदाश्चर्यं वितर्को मेऽभवत्तदा॥ क्वापीदृशी भवेद्वृद्धिस्त्रैलोक्ये वा न वेति च॥ २९॥
तम् दृष्ट्वा महत् आश्चर्यम् वितर्कः मे अभवत् तदा॥ क्वापि ईदृशी भवेत् वृद्धिः त्रैलोक्ये वा न वा इति च॥ २९॥
tam dṛṣṭvā mahat āścaryam vitarkaḥ me abhavat tadā.. kvāpi īdṛśī bhavet vṛddhiḥ trailokye vā na vā iti ca.. 29..
तावत्तवापि दैत्येन्द्र समृद्धिस्संस्मृता मया॥ तद्विलोकनकामोऽहं त्वत्सांनिध्यमिहा गतः ॥ 2.5.18.३०॥
तावत् तव अपि दैत्य-इन्द्र समृद्धिः संस्मृता मया॥ तद्-विलोकन-कामः अहम् त्वद्-सांनिध्यम् इह आ गतः ॥ २।५।१८।३०॥
tāvat tava api daitya-indra samṛddhiḥ saṃsmṛtā mayā.. tad-vilokana-kāmaḥ aham tvad-sāṃnidhyam iha ā gataḥ .. 2.5.18.30..
सनत्कुमार उवाच ।।
इति नारदतः श्रुत्वा स दैत्येन्द्रो जलंधरः ॥ स्वसमृद्धिं समग्रां वै दर्शयामास सादरम् ॥ ३१॥
इति नारदतः श्रुत्वा स दैत्य-इन्द्रः जलंधरः ॥ स्व-समृद्धिम् समग्राम् वै दर्शयामास सादरम् ॥ ३१॥
iti nāradataḥ śrutvā sa daitya-indraḥ jalaṃdharaḥ .. sva-samṛddhim samagrām vai darśayāmāsa sādaram .. 31..
दृष्ट्वा स नारदो ज्ञानी देवकार्यसुसाधकः ॥ प्रभुप्रेरणया प्राह दैत्येन्द्रं तं जलंधरम् ॥ ३२॥
दृष्ट्वा स नारदः ज्ञानी देव-कार्य-सु साधकः ॥ प्रभु-प्रेरणया प्राह दैत्य-इन्द्रम् तम् जलंधरम् ॥ ३२॥
dṛṣṭvā sa nāradaḥ jñānī deva-kārya-su sādhakaḥ .. prabhu-preraṇayā prāha daitya-indram tam jalaṃdharam .. 32..
नारद् उवाच ।।
तवास्ति सुसमृद्धिर्हि वरवीर खिलाधुना ॥ त्रैलोक्यस्य पतिस्त्वं हि चित्रं किं चात्र संभवम् ॥ ३३ ॥
तव अस्ति सु समृद्धिः हि वर-वीर खिल-अधुना ॥ त्रैलोक्यस्य पतिः त्वम् हि चित्रम् किम् च अत्र संभवम् ॥ ३३ ॥
tava asti su samṛddhiḥ hi vara-vīra khila-adhunā .. trailokyasya patiḥ tvam hi citram kim ca atra saṃbhavam .. 33 ..
मणयो रत्नपुंजाश्च गजाद्याश्च समृद्धयः ॥ ते गृहेऽद्य विभांतीह यानि रत्नानि तान्यपि ॥ ३४॥
मणयः रत्न-पुंजाः च गज-आद्याः च समृद्धयः ॥ ते गृहे अद्य विभान्ति इह यानि रत्नानि तानि अपि ॥ ३४॥
maṇayaḥ ratna-puṃjāḥ ca gaja-ādyāḥ ca samṛddhayaḥ .. te gṛhe adya vibhānti iha yāni ratnāni tāni api .. 34..
गजरत्नं त्वयानीतं शक्रस्यैरावतस्तथा ॥ अश्वरत्नं महावीर सूर्यस्योच्चैःश्रवा हयः ॥ ३५॥
गज-रत्नम् त्वया आनीतम् शक्रस्य ऐरावतः तथा ॥ अश्व-रत्नम् महावीर सूर्यस्य उच्चैःश्रवाः हयः ॥ ३५॥
gaja-ratnam tvayā ānītam śakrasya airāvataḥ tathā .. aśva-ratnam mahāvīra sūryasya uccaiḥśravāḥ hayaḥ .. 35..
कल्पवृक्षस्त्वयानीतो निधयो धनदस्य च ॥ हंसयुक्तविमानं च त्वयानीतं हि वेधसः ॥ ३६ ॥
कल्पवृक्षः त्वया आनीतः निधयः धनदस्य च ॥ हंस-युक्त-विमानम् च त्वया आनीतम् हि वेधसः ॥ ३६ ॥
kalpavṛkṣaḥ tvayā ānītaḥ nidhayaḥ dhanadasya ca .. haṃsa-yukta-vimānam ca tvayā ānītam hi vedhasaḥ .. 36 ..
इत्येवं वररत्नानि दिवि पृथ्व्यां रसातले ॥ यानि दैत्येन्द्र ते भांति गृहे तानि समस्ततः ॥ ३७ ॥
इति एवम् वर-रत्नानि दिवि पृथ्व्याम् रसातले ॥ यानि दैत्य-इन्द्र ते भान्ति गृहे तानि समस्ततस् ॥ ३७ ॥
iti evam vara-ratnāni divi pṛthvyām rasātale .. yāni daitya-indra te bhānti gṛhe tāni samastatas .. 37 ..
त्वत्समृद्धिमिमां पश्यन्सम्पूर्णां विविधामहम् ॥ प्रसन्नोऽस्मि महावीर गजाश्वादिसुशोभिताम् ॥ ३८ ॥
त्वद्-समृद्धिम् इमाम् पश्यन् सम्पूर्णाम् विविधाम् अहम् ॥ प्रसन्नः अस्मि महा-वीर गज-अश्व-आदि-सु शोभिताम् ॥ ३८ ॥
tvad-samṛddhim imām paśyan sampūrṇām vividhām aham .. prasannaḥ asmi mahā-vīra gaja-aśva-ādi-su śobhitām .. 38 ..
जायारत्नं महाश्रेष्ठं जलंधर न ते गृहे ॥ तदानेतुं विशेषेण स्त्रीरत्नं वै त्वमर्हसि ॥ ३९॥
जाया-रत्नम् महा-श्रेष्ठम् जलंधर न ते गृहे ॥ तत् आनेतुम् विशेषेण स्त्री-रत्नम् वै त्वम् अर्हसि ॥ ३९॥
jāyā-ratnam mahā-śreṣṭham jalaṃdhara na te gṛhe .. tat ānetum viśeṣeṇa strī-ratnam vai tvam arhasi .. 39..
यस्य गेहे सुरत्नानि सर्वाणि हि जलंधर ॥ जायारत्नं न चेत्तानि न शोभंते वृथा ध्रुवम् ॥ 2.5.18.४० ॥
यस्य गेहे सु रत्नानि सर्वाणि हि जलंधर ॥ जाया-रत्नम् न चेद् तानि न शोभंते वृथा ध्रुवम् ॥ २।५।१८।४० ॥
yasya gehe su ratnāni sarvāṇi hi jalaṃdhara .. jāyā-ratnam na ced tāni na śobhaṃte vṛthā dhruvam .. 2.5.18.40 ..
सनत्कुमार उवाच ।।
इत्येवं वचनं श्रुत्वा नारदस्य महात्मनः ॥ उवाच दैत्यराजो हि मदनाकुलमानसः ॥ ४१॥
इति एवम् वचनम् श्रुत्वा नारदस्य महात्मनः ॥ उवाच दैत्य-राजः हि मदन-आकुल-मानसः ॥ ४१॥
iti evam vacanam śrutvā nāradasya mahātmanaḥ .. uvāca daitya-rājaḥ hi madana-ākula-mānasaḥ .. 41..
जलंधर उवाच ।।
भो भो नारद देवर्षे नमस्तेस्तु महाप्रभो ॥ जायारत्नवरं कुत्र वर्तते तद्वदाधुना ॥ ४२॥
भो भो नारद देव-ऋषे नमः ते तु महा-प्रभो ॥ जाया-रत्न-वरम् कुत्र वर्तते तत् वद अधुना ॥ ४२॥
bho bho nārada deva-ṛṣe namaḥ te tu mahā-prabho .. jāyā-ratna-varam kutra vartate tat vada adhunā .. 42..
ब्रह्मांडे यत्र कुत्रापि तद्रत्नं यदि वर्त्तते ॥ तदानेष्ये ततो ब्रह्मन्सत्यं सत्यं न संशयः ॥ ४३॥
ब्रह्मांडे यत्र कुत्र अपि तत् रत्नम् यदि वर्त्तते ॥ तदा आनेष्ये ततस् ब्रह्मन् सत्यम् सत्यम् न संशयः ॥ ४३॥
brahmāṃḍe yatra kutra api tat ratnam yadi varttate .. tadā āneṣye tatas brahman satyam satyam na saṃśayaḥ .. 43..
नारद उवाच।।
कैलासे ह्यतिरम्ये च वर्वद्धिं सुसमाकुले ॥ योगिरूपधरश्शंभुरस्ति तत्र दिगम्बरः॥ ४४॥
कैलासे हि अति रम्ये च सु समाकुले ॥ योगि-रूप-धरः शंभुः अस्ति तत्र दिगम्बरः॥ ४४॥
kailāse hi ati ramye ca su samākule .. yogi-rūpa-dharaḥ śaṃbhuḥ asti tatra digambaraḥ.. 44..
तस्य भार्या सुरम्या हि सर्वलक्षणलक्षिता॥ सर्वांगसुन्दरी नाम्ना पार्वतीति मनोहरा॥ ४५॥
तस्य भार्या सु रम्या हि सर्व-लक्षण-लक्षिता॥ सर्वांगसुन्दरी नाम्ना पार्वती इति मनोहरा॥ ४५॥
tasya bhāryā su ramyā hi sarva-lakṣaṇa-lakṣitā.. sarvāṃgasundarī nāmnā pārvatī iti manoharā.. 45..
तदीदृशं रूपमनन्यसंगतं दृष्टं न कुत्रापि कुतूहलाढ्यम् ॥ अत्यद्भुतं मोहनकृत्सुयोगिनां सुदर्शनीयं परमर्द्धिकारि ॥ ४६॥
तत् ईदृशम् रूपम् अनन्य-संगतम् दृष्टम् न कुत्र अपि कुतूहल-आढ्यम् ॥ अति अद्भुतम् मोहन-कृत् सु योगिनाम् सु दर्शनीयम् परम-ऋद्धि-कारि ॥ ४६॥
tat īdṛśam rūpam ananya-saṃgatam dṛṣṭam na kutra api kutūhala-āḍhyam .. ati adbhutam mohana-kṛt su yoginām su darśanīyam parama-ṛddhi-kāri .. 46..
स्वचित्ते कल्पयाम्यद्य शिवादन्यस्समृद्धिवान् ॥ जायारत्नान्विताद्वीर त्रिलोक्या न जलंधर ॥ ४७॥
स्व-चित्ते कल्पयामि अद्य शिवात् अन्यः समृद्धिवान् ॥ जाया-रत्न-अन्वितात् वीर त्रिलोक्याः न जलंधर ॥ ४७॥
sva-citte kalpayāmi adya śivāt anyaḥ samṛddhivān .. jāyā-ratna-anvitāt vīra trilokyāḥ na jalaṃdhara .. 47..
यस्या लावण्यजलधौ निमग्नश्चतुराननः ॥ स्वधैर्य्यं मुमुचे पूर्वं तया कान्योपमीयते ॥ ४८ ॥
यस्याः लावण्य-जलधौ निमग्नः चतुराननः ॥ स्व-धैर्यम् मुमुचे पूर्वम् तया का अन्या उपमीयते ॥ ४८ ॥
yasyāḥ lāvaṇya-jaladhau nimagnaḥ caturānanaḥ .. sva-dhairyam mumuce pūrvam tayā kā anyā upamīyate .. 48 ..
गतरागोऽपि हि यया मदनारिस्स्वलीलया ॥ निजतंत्रोऽपि यतस्स स्वात्म वशगः कृतः ॥ ४९ ॥
गत-रागः अपि हि यया मदनारिः स्व-लीलया ॥ निज-तंत्रः अपि यतस् स स्व-आत्म वशगः कृतः ॥ ४९ ॥
gata-rāgaḥ api hi yayā madanāriḥ sva-līlayā .. nija-taṃtraḥ api yatas sa sva-ātma vaśagaḥ kṛtaḥ .. 49 ..
यथा स्त्रीरत्नसंभोक्तुस्समृद्धिस्तस्य साभवत् ॥ तथा न तव दैत्येन्द्र सर्वरत्नाधिपस्य च ॥ 2.5.18.५० ॥
यथा स्त्री-रत्न-संभोक्तुः समृद्धिः तस्य सा भवत् ॥ तथा न तव दैत्य-इन्द्र सर्व-रत्न-अधिपस्य च ॥ २।५।१८।५० ॥
yathā strī-ratna-saṃbhoktuḥ samṛddhiḥ tasya sā bhavat .. tathā na tava daitya-indra sarva-ratna-adhipasya ca .. 2.5.18.50 ..
सनत्कुमार उवाच ।।
इत्युक्त्वा स तु देवर्षिर्नारदो लोकविश्रुतः॥ ययौ विहायसा देवोपकारकरणोद्यतः ॥ ५१॥
इति उक्त्वा स तु देव-ऋषिः नारदः लोक-विश्रुतः॥ ययौ विहायसा देव-उपकार-करण-उद्यतः ॥ ५१॥
iti uktvā sa tu deva-ṛṣiḥ nāradaḥ loka-viśrutaḥ.. yayau vihāyasā deva-upakāra-karaṇa-udyataḥ .. 51..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवधोपाख्याने देवर्षिजलंधरसंवादो नामाष्टदशोऽध्यायः ॥ १८॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्र-संहितायाम् पञ्चमे युद्ध-खण्डे जलंधर-वध-उपाख्याने देवर्षिजलंधरसंवादः नाम अष्टदशः अध्यायः ॥ १८॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudra-saṃhitāyām pañcame yuddha-khaṇḍe jalaṃdhara-vadha-upākhyāne devarṣijalaṃdharasaṃvādaḥ nāma aṣṭadaśaḥ adhyāyaḥ .. 18..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In